भाषा

ENहिગુ
ग्रंथ पाठ

संकल्पकल्पद्रुम · अध्याय 6

6.1

[4]
अथ फलनिष्पत्तिः
घोषे स्व-प्रेम-कोषे पितृ-मुख-सुखद-स्वीय-वृन्देन दीव्यन्
कंसेन प्रेषितेभ्यस् तम् अतिभयमयं वीक्ष्य निघ्नन् मुहुस् तान् ।
हन्ति1 तेषाम् अपश्यन्न् अधि मधु-पुरि तं हन्तुम् अञ्चन् स-वृन्दम्
हत्वा तम् घोषम् आगात् तद्-अतुल-सुख-कृद् यः सदा तम् भजामि

6.2

राधाद्याः कृष्ण-कान्ताः स्वयम् अवतरणं कृष्णवत् प्राप्य लीला-
शक्त्या विस्मृत्य नित्यां स्थितिम् अपरतया ज्ञात-कृष्णास् तथापि ।
रागाद् अस्पष्ट-कृष्ण-श्रयण-सुख-रता प्रान्ततः कृष्णम् एव
स्पष्टं जग्मुः स्व-कान्तं तम् अति-सुख-सुधा-सिन्धु-मग्नान्तराः स्मः

6.3

हंहो सौख्यं मुर-द्विट् कटु-कटक-घटा2-प्रेष्ठ-कंसादि-दुष्टान्
हत्वा तत्-क्लिष्ट-चित्तां पितृ-मुख-जनतां निर्वृतां सुष्ठु चक्रे ।
किं चान्यः स्व-प्रियाणां पतिर् इति बहिर् अख्याति3-दुःखानि हृत्वा
तत्-तद्-विश्लेष-पीडाच्छिद् अयम् अतिजगद-दृष्टि-गोष्ठे विभाति

6.4

प्रातर् मातुः स-हस्ताद् अशन-सुख-कृती लब्ध-ताताद्य्-अनुज्ञः
श्री-रामादि-प्रसक्तः सुरभि-गण-शतं पालयन् मोद-युक्तः ।
सन्ध्यायां गोप-गोपी-सुखद-गृह-गतिः सानुरागं क्षपायाम्
तत्-तद्-दीव्यद्-विहारः स्फुरतु तव मनः सर्वदा कृष्ण-चन्द्रः

6.5

जन्माद्यं स्वीय-वृत्तं कवि-भरत-कला-चित्र-योगेन दृश्य-
प्रायं तन्वन् सभायां रहसि तु दयिता पूर्व-रागाद्य्-उदन्तम् ।
वर्गं तत्-तन्-निसर्गं निजम् अनु विजयी सर्व-सात्-पर्व कुर्वन्
दीव्य-दीव्य-श्रियाभिर् विहरण-कुतुकी नन्दतान् नन्द-सूनुः

6.6

यः श्री-पर्यन्त-याच्यान्वितिर् इह पशुप-श्रेणि-बन्धुर् यशोदानन्द-
स्वीयाङ्ग-जातः सुबल-मुख-सखः किं च राधादि-कान्तः ।
स श्री-गोपाल-नामा सुरभि-कुल-महः पालयन् दिव्य-केलिर्
नक्तं रासादि-लीला-ललिततम-गतिः सर्वदा स्याद् गतिर् नः

6.7

श्रीमद्-वृन्दावनेन्दो मधुप-खग-मृगाः श्रेणि-लोका द्विजाता
दासा लाल्याः सुरभ्यः सहचर-हलभृत्-तात-मात्र्-आदि-वर्गाः ।
प्रेयस्यस् तासु राधा-प्रमुख-वर-दृशाश् चेति वृन्दं यथोर्ध्वं
तद्-रूपालोक-तृष्णक् प्रमदम् अनुदिनं हन्त पश्याम कर्हि

6.8

1. (अ) मर्गिन्: वन्तिं, हानीम्; (ब्) हन्तुम्; 2. (ब्) ओघटओ; 3. (अ) आख्याति
शश्वद् ध्यायति दूरग-स्थिति मिथः सूक्ष्म-प्रथं चायति
प्राज्यान्तर्गतम् आत्त-नर्मस् तु सखी-मध्य-स्थितं पश्यति ।
राधा-माधव-नाम-धेय-मिथुनं विघ्नान् अतीत्यामितान्
दाम्पत्ये स्थितम् अत्र वा यदि रहः प्राप्तं तदा किं पुनः?

6.9

राधा-कृष्ण-युगं मुहुर् विघटनाम् उत्तीर्य दाम्पत्य-भाक्
प्रत्येकान्तम् उदस्रम् एकतरग-स्वापान्तर् अन्तर् मिथः ।
वक्त्रं पश्यति मार्ष्टि लोचन-पुटं नासाग्रम् उद्दण्डयन्
निंस्ते गण्ड-युगं हृदा हृदि मिलल् लेलीयते शर्मणि1

6.10

गौर-श्याम-रुचोज्ज्वलाभिर्2 अमलैर् अक्ष्णोर् विलासोत्सवैर्
नृत्यन्तीभिर् अशेष-मादनकला वैदग्ध्य-दिग्धात्मभिः ।
अन्योन्य-प्रियता सुधा-परिमल-स्तोमोन्मदाभिः सदा
राधा-माधव-माधुरीभिर् अमितश्3 चित्तं समाक्राम्यताम्

6.4

इति फल-निष्पत्तिः

मूल पाठ: Saṃkalpakalpadruma · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc