भाषा

ENहिગુ
ग्रंथ पाठ

संकल्पकल्पद्रुम · अध्याय 7

7.1

1. (अ) शर्माणि; 2. ओरुचो ज्वलाभिर्; 3. (ब्) अभितश्
[5]
पूर्णाः पुलिन्द्य इति1 या स्तुता व्रज-रमादिभिः2 ।
न वयं साध्वि साम्रेति3 श्रेणिभिर् द्वारिका-श्रियाम्

7.2

अनयाराराधितो नूनम्4 इत्थं पूर्वाभिर् एव च ।
पुराणे क्वापि वैशिष्ट्य-सामान्यं नेयम् ऊह्यते

7.3

रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ।5 इति.
तस्याः कान्तः सदा कान्तः स स्याद् एकान्त-भाग् वशः

7.4

याव् अमू मम चित्तान्तर्भूरुह-स्नेहम् ऊहतु6 ।
सद्-भक्तेष्व् अतुलं पितृव्य-7युगलं कृत्वा मदीयां गतिम्

7.6

स्वं दास्यं दिशद् अस्ति यत् प्रभु-युगं तन् मे सदास्तां गतिः ॥
गङ्गायां ककुचङ्गमुक् श्रुति-मदाज् जाग्रद्-गतं मां प्रति
श्री-वृन्दा-विपिने त्रयीम् अपि परां स्वप्नाद् अवस्थं पुनः ।
यः श्रीमान् मधुमर्दनः सुभगता सद्-रूपता विश्रुतः
संज्ञावान् लघु-वंश-शंसकतया वन्दे च वन्दे च तम्

7.7

श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक ।
गोपाल रघुनाथाप्त-व्रज-वल्लभ पाहि माम्

7.8

इति श्री-सङ्कल्प-द्रुम-नाम काव्यमामक-स्पृहा
धाम श्री-राधा-कृष्ण-रूप-पूरम् अपि पूरयन्तम् ।
श्री-राधा-कृष्ण-चरणार्पितम् एव मम सर्वम्
इति तद् इदम् अपि तथा भवेद् एवम्

मूल पाठ: Saṃkalpakalpadruma · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc