संकल्पकल्पद्रुम · अध्याय 5
श्रीगोपालाय नमः,1
सा च जन्मादिका सा च नित्यलीला श्रुतिरिता ।
मिथः पूर्वा परा च स्याद् बीजवृक्षप्रवाहवत् ॥ओ ॥
[3]
अथ नित्यान्तर्वर्तिसर्वर्तुलीला
अथ हृदि कुरु वल्लवीसुतस्य स्तवम् अनु-गौतम-तन्त्र-लब्धम् अस्य ।
बहु-विध-समयागमाद् विचित्रं शुभ-चरितम् रचित-स्व-भक्त-भक्ति
जनुषि मधु-ऋतोः कुमार-भावे तरुणिमनि प्रवयस्तया च योगे ।
दयित-दयितयोर् वसन्त-राग-प्रभृति-कला लसति स्म शाम्यति स्म
तद् इदम् ऋतुषु षट्सु रुच्यभेदात् पृथग् अनुवर्णनम् इष्यते तथा हि ।
हरिर् इह विहृतिप्रचारचर्यां विदधद् अवर्णयद् एष तर्हि तर्हि
प्रथमम् इह शृणुष्व चित्त वाक्यं
क्वच निशि यत् प्रभुम् आह हारि राधा ।
अथ कलय हरेर् वचश् च तस्याम्
अमृतवद् अन्तरशन्तमस्य दातृ
"अहह वनवनं निदाघदग्धस्थलम् अटसि स्ववपुः प्रपीद्य रुक्षः2 ।
मुरहर तव चिन्तनेन जीर्णान् कथम् अवितासि जनान् इदं न जाने ॥"5॥
इदम् अभिहितम् आकलय्य कृष्णः स्मितवदनः स्वयम् आह यत् तु राधाम् ।
तद् अवकलय चित्त वित्तम् एतत् तव बहुवृत्तिपदं भविस्यद् अस्ति
"अहह सुमुखि नेदम् अन्यद् ऊह्यं तपऋतुम् अन्व् अपि तत्र चित्रतास्ति ।
क्वच स हि मधुवत् क्वचापि वर्षावद् अनुभवं ददते स्वयं क्वचापि
वनम् इह यद् अनूपम् अस्ति तस्मिन् मधुर् इव भाति निदाघकाल एषः ।
निरुदकतरुणि स्वयं निदाघः क्षितिधरनिर्झरभाजिवार्षिकश्रीः
मम समम् अमरीभिर् अत्र वृन्दा निखिलवनं परितः परिष्करोति ।
यद् अहरहर् अहं भवत्या सह सहचारिभिर् अप्य् अलं भजामि
सुमधुरनवनारिकेलनीरं तदुपमतालफलाम्बु चास्य3 मज्ज ।
उपहृतम् इह वृन्दया सतृष्णे सखिसहिते मयि तृप्तिम् आदधीत
स पनससहकारगोस्तनीनां
रसवसनं रचयाम्य् अहं समित्रः ।
त्वदधरमधु मां तु तत्र चित्रं
स्मरयति सान्द्रतया स्वम् एव सुभ्रु
अथ वयम् अपि तां विहारभूमिं तव कलयाम यदि त्वदीयम् इष्टम् ।"
1. (ब्) नोत् fओउन्द्; थे fओल्लोwइन्ग् वेर्से इस् प्लचेद् अfतेर् अथ एत्च्.; 2. (अ) रुक्षः; 3.. (अ) मर्गिन्: चाल्प;इति वृषरविजादिभिः प्रदिष्टस् त्वरितम् अमूभिर् अमूं हरिः प्रतस्थे
प्रथमम् अभिययौ वसन्तवन्तं विपिनविशेषम् अथ प्रदेशम् अन्यम् ।
अनुभवतुलयानुभावयंश् च प्रवदति स स्म सनर्मसुष्ठु वाचम्
अहनि वयम् अमूं निरीक्ष्य सुभ्रु वरसरितं पुरतः समं सजन्तः ।
निजनिजधवलास् तु पाययित्वा विहरणम् अत्र सुहृद्भिर् आचराम
शशिमुखि शुचिमासि मध्यमध्यं दिनम् अनु मन्दिरतुल्यशैलगर्भे ।
झरनिकरपरीतपार्श्वदेशे सह भवतीकम् अहं मुदा शयिष्ये
सवितृदुहितृतुङ्गतीरगर्भे शशिमणिधामनि कुञ्जपुञ्जराजि ।
अनुरहसम् अहर् व्रजान्तरन्तः सह भवतीकम् अहं मुदाश्रयिष्ये
वयम् इह सरिति द्रवेण गत्वा विहरणं नर्मसशर्मतां नयाम ।
इति वृषरविजां विधृत्य बाहाव् अपरसखीसहितां च चलन्न् उवाच
निकटनिकटतां चलंस् तटिन्या
निरुदकमात्रपदं क्रमात् त्यजंश् च ।
"तपमधुनृपराष्ट्रयुग्ममध्यं
गतम् इव चन्द्रमुखि स्वम् अत्र पश्य
इह कमलवनानि तापशीर्णान्य् अपि कमलानि कियन्ति धारयन्ति ।
तत इह सरिति प्रविश्य यूयं वयम् अपि तानि विचित्य चारु चिन्मः
मुहुर् इह परितः समाव्रजन्तः सरिति रसप्रसरं गवेषयन्तः ।
नवनवतनयाय पद्मिनीनां स्तनम् इव वारिरुहं दुहन्ति भृङ्गाः ॥"20॥
इति वनवलितं छलं विधाय व्रजसुमुखीः सरितं प्रवेश्यमाना. ।
कमलचयनलक्ष्यतः स्ववाञ्छालसितवशाः1 स चकार तत्र तत्र
"कमलम् इदम् अहो मया तु लब्धं कनकरुचिप्रथितं त्वया तु नीलम् ।"
इति विविधमिषं परस्परं ताः समम् अजितेन विहारसारम् ईयुः
हृदि किम् उ कमलं ललाग किं वा हरिकर इत्य् अमुका विशङ्कमानाः ।
व्रजजनिसुदृशस् तदा नवीनाः सपुलकशीत्कृतिकारिताम् अवापुः
अथ विहसति तत्र जिह्मनेत्रा मुरजिति चिक्षिपुर् आयुधाभम् अम्भः ।
स च तद् अकृत तासु किन्तु तासां तदपगमः क्रियते स्म तस्य तेन
हरिर् असुरसहस्रलक्षजेता स्वयम् अबलाभिर् अयं विजेतुम् इष्टः ।
यद् इह जयम् अवाप तन् न चित्रं यद् अथ जितस् तद् अतीव चित्रम् अत्र
यदपि च जलसेचनेन कीर्णस् तदपि पराभवम् अपि नाघशत्रुः ।
इति भ्रुकुटिम् अधात् तु वार्षभानव्य् अथ स तु तत्र बभूव चित्रकल्पः
हरिम् अथ सकलाबलाविलासाल् लघु जगृहुर् जितकाशितां दधानाः ।
पुनर् अपि हसितानुनापभङ्ग्या बहिर् अवधानम् अधापयन् मृगाक्ष्यः
अवहितवति जीवनाधिनाथे वृषरविजा द्रुतम् अस्य कर्षणाय ।
तटम् अटितवतीह2 कृष्णनामाप्य् अनुगततां समवाप रागबद्धः
1. (अ) ओवषाः; 2. (अ) अटितवतीति
द्रुतम् अथ परिचारिका मुरारिं वृषरविजां सवयस्ततीर् अमूश् च ।
मृदु मृदु वसनेन मार्जिताङ्गान् अकृषत वस्त्रवरान् अधारयंश् च
स्वयम् अथ वृषभानुजा स्वकान्तं मृगमदकुङ्कुमचूर्णमर्जिताङ्गम् ।
सुलघु विदधती जहार जाड्यं बहिर् अबहिः पुनर् आजहार जाड्यम्
अथ घुसृणविशेषकांशुयुक्तं लघुतरवेशविशेषशोभिमुक्तम् ।
अकुरुत वृषभानुजा स्वकान्तं स च रुचिताम् अकरोद् अमूं नितान्तम्
क्रमुकसितकराञ्चिपर्णवीटीर् अदित सखी हरिराधयोर् मुखान्तः ।
युगलम् अपि तयोः सखीजनानाम् अधित सुखप्रथनाय वक्त्रमध्ये
अथ कमलकराः सकान्तकान्ताः सविलसितं सदनाय गन्तुकामाः ।
विजितकमलपत्रचारुनेत्रा विरुरुचिरे निखिलेन खेलितेन
क्वचिद् अपि हरिणा समं व्यधुस् ताः पुरु कमलाकमलि प्रहासयुक्तम् ।
इदम् इह न विदुस् तु तेन शश्वज् जितम् अखिलं भुवनेषु केवलेन
इति बहुविधखेलमालयान्तं जगृहुर् अमूर् अमुना समं समस्ताः ।
तदनु च वरनिष्कुटस्थधिष्ण्यं प्रविविशुर् आविविशुश् च तस्य भासि
मणिसदनम् इदं वृतीर्1 अतीतं वरसरसीसरसीरुहालिमध्यम् ।
सुकुसुमसुकुमारगर्भतूलीमिलदुपधानशुभंयुमञ्जुशय्यम्2
सरुचिनिहिततालवृन्तभृङ्गारकमुखशर्मदवस्तुसंस्तुताङ्गम् ।
द्रुततरम् अविशद् विशंश् च शय्याम् अधिवसति स्म हरिः स्मितांशुशोभि
[युग्मकम्]
तम् अथ कुसुमचामरं दधाना वृषरविजा स्वयम् एव सेवते स्म ।
अनृजुदृशम् अमुं बलं छलं च प्रणयि स तु प्रणयन् निनाय शय्याम्
इयम् अपि तत एव खेददम्भाद् अलसनिभस्थितितां बभाज तस्याम् ।
तदनु सवयसः सचन्द्रताम्बूलकम् अनु शर्म दधुस् तयोर् द्वयोश् च
तदनु तद् अनुमाय तेन तस्या रहसि मिथः स्थितिवाञ्छितं वयस्याः ।
समिषम् अपगताः क्षणं तु काचिन् मृदुमर्दनम् एतयोर् व्यधत्त
इयम् अपि विगता द्वयस्य निद्रां छलरचितां छलम् आरचय्य यत् तु ।
नयनयुगलमीलनं विहाय प्रणयमयीम् उदमीमिलन् निजेहाम्
इति बहुविधाकेलिभिर् निदाघे विगतवति प्रविवेश वार्षिकश्रीः ।
जलदवलयविद्युतालिलक्ष्म्या हरिहरिदारतनूर् विलासम् आप
रुचिम् इह कलयन् व्रजेशसूनुर् निशि निशि वर्णयितुं रुचिं जगाम ।
इदम् अवदधती च वार्षभानव्य् अपि सवयस्ततिर् उद्यद् उल्ललास
इति घनसमयस्फुटप्रभाते निजजननीहितं पयः कृतान्नम् ।
मरिचवलितम् उष्णम् ईषद् अश्नन्न् अहम् अनुराममुखं सुखं भजामि
मम जनितिथिर् एष्यतीह भाद्रे व्रजजनशर्म च तेन सार्धम् अङ्ग ।
द्वयम् अपि यद् इदं जगन्ति धिन्वन् पुरतरपर्व तनिष्यति प्रहृष्य
1. (ब्) ओवृतेर्; 2. (ब्) ओशय्याम्
गृहशिखरशिखाम् अथाधिरूढाः कलयत निश्य् अपि गोष्ठवन्यधाम ।
प्रतिलवतडिदालिदीप्तिभूम्ना दिन इव सर्वम् इदं मुहुर् विभाति
नभसि जलदविद्युदालिलक्ष्मीर् भुवि हरितः स्फुरद् इन्द्रगोपकान्तिः ।
मदनुगभवतीव काननश्रीततिम् अनुपषकतां सखि प्रयाति
स्थलकुलम् इह कूर्मपृष्ठतुल्यं नयनगतिप्रदरत्नवेशमध्यम् ।
विततम् अभिनवप्ररूढतार्णं परि धवलागणपालनं करोमि
गिरिवरशिरसि व्युदस्तपार्श्वावृतिमणिसद्मनि लब्धधेनुदृष्टिः ।
बहुविधशतरञ्जमुख्यखेला विदधद् अहं सखिभिः सुखं प्रयामि
स्रवति सलिलम् अम्बुदे तरूणां कुहरगृहे रसयन् फलं सकन्दम् ।
उपसलिलशिलासनः सदन्नं दधिसहितं सखिभिर् विभक्तम् अश्नन्
क्वचिद् अपि गिरिमूर्ध्नि धेनुहूतिं विदधद् अमूश् च मुदा निविश्य पश्यन् ।
अधि वडभिगताभिर् ईक्षणीयः सततम् अहं भवतीभिर् अत्र तत्र
[युग्मकम्]
इह वहति कदम्बनीपयूथीशवलितकेतकगन्धसन्धवातः ।
अनुभवसविविक्ततं च यद्वत् तव मम चानुभवन्ति गन्धम् अल्पम्1
यदि पुलककुलाकुलासि कृष्णं कनकपटं पटु मां निरीक्ष्य भद्रे ।
घनतडिदुदयाद् विवर्धमानाङ्कुरधरनीतुलनां तदा प्रयासि
घनसमयम् अनुध्वनिं प्लवाद्या विदधति ते च घना मुहुस् तम् अत्र ।
निशमयितुम् अमुं परस्परं ये स्फुटम् अनिशं रचयन्ति सुष्ठु पुष्टम्
जलदम् अनु कनिष्ठमध्यमुख्याः प्लवशिखिचातकनामकाः प्रपन्नाः ।
तरतमविधिना तदेकनन्दि द्वयम् अपरस् तु तदेकजीविजीवः
अहम् अपि तद् इदं विलोकमानः किल विमृशामि निजान् अनन्यभक्तान् ।
यदनु च भवदीयवृन्दम् एतत् परमतया मम चित्तम् आविवेश ॥"56॥
इति वदति हरौ पपात वृष्टिर् विसृमरशीकरभाक् ततश् च मुख्यः ।
पटकुटम् अदधुर् द्वयस्य खट्टाम् अनु परितः सदनं पटावृतं च
बहिर् अनु घनगर्जितं सवर्षं गृहम् अनु तल्पवरेण्यम् अल्पशीतम् ।
तदनु वसितशस्तवस्त्रम् एतन्मिथुनम् अनुस्मर चित्त गौरकृष्णम्
इति बहुविधसुखखेलया प्रयाते घनसमये शरदा जगाम तां च ।
स्फुटम् अवकलयन् पुरावद् आख्यद् वृषरविजां मुरजिन् निशि क्रमेण
अहरहर् उदये शरत् शरत्प्रवेशे निजजननीनिहितं पयः कृतान्नम् ।
सहसुहृद् उपभुज्य2 धेनुसङ्गाद् वनकलितं भवतीं विविच्य वच्मि
वहद् अनुनवम् अभ्रम् अच्छभावं प्रणिदधती क्षितिर् आत्मनानुचक्रे ।
तदुचितम् उपजीवनीयभावे मयि भवती भवतीदृग् एव सुभ्रू
तडिदनुवलने गते पयोदाद् बत इति मानम् इते तथा पयोदे ।
त्वदपगमदशां निजां पुराणीं मुहुर् अहम् अस्य तुलाम् अनुस्मरामि
1. (अ) अल्पः; 2. (अ) उपयुज्यअथ यदि कलयामि तीरनीरव्रजम् अनु खञ्जनहंसकञ्जकान्तिम् ।
वरतनु भवदागतिं वितर्क्य भ्रमदशया बत विभ्रमं प्रयामि
अभिलषति मदीयकेलिशिक्षागुरुम् इयम् अच्युतवल्लभाक्षिलक्ष्मीम् ।
इति किल कमलावलीं विधूताम् उरु शफरीनिकरश् चरीकरीति
जलम् अनुपरमाच्छतां निरीक्ष्य क्षणम् अनुसन्दधद् अन्तरं यदास्मि1 ।
प्रतिफलितम् इह स्वम् ईक्षमाणस् तव मनसा तुलनाम् अनुस्मरामि
नवनवपुलिनं निरीक्ष्य तत् तत् पददलनां विनिषिध्य तत्र चाहम् ।
मनसि विनिदधे स्म हेतुम् अन्यं वचसि तद् अन्यम् इदं त्वम् एव वेत्सि
पथि पथि कुसुमं विचित्य शश्वत् कुसुममयं धनुरादिकं विधाय ।
पुलिनकुलम् अदः प्रपद्य तस्मिन् कुसुमशराय वयं बलिं ददाम
कुमुदमुकुलम् अल्पम् अल्पनालं शरतुलितं विरचय्य शिल्पशालि ।
धनुर् अपि नवकेतकस्य पर्णान् त्रिचतुरयोगदृढान् दृढं सृजामः
इति हरिर् अचलत् प्रियासहायः कुसुमचितिं विदधद् विचित्रकेलि ।
पृथुतनुविषमच्छदांस् तनीयस् तनुलतिकाभिर् इतस्मितान् जहास
अथ पुलिनम् असाव् अपश्यद् इन्दोः प्रतितनुवत् पुलिनस्य तद्वदिन्दुम् ।
कुतुकरसवशाद् विशंश् च तस्मिन् स्वम् अमृतसिक्तनिभं विदन् ननन्द
अवदद् अथ सखीततिर् मुकुन्दं "कुसुमशरः क्व नु यं प्रपूजयामः" ।
हरिर् अवदद् "अहं स एव साक्षाद् इति मम पूजनम् एव तस्य विद्धि
यदि कुसुमशरस्य शक्तिम् अस्मिन् मयि मनुषे नतरां तदालिवर्गः ।
मम कुसुमशरान् सहस्व साक्षाद्" इति कलयन् स तु कम्पते स्म वर्गः
अथ वृषरविजावदन् "मुरारे शत्रुम् इह भौमयुधि त्वम् एक एव ।
परबलबहुकोटिशस्त्रम् अस्यन् जयम् अभजतस् तद् इदं निचाययस्व2
उपपरिसरम् अस्य तर्हि सर्वाः कुसुमशरान् किरन्न् अमूर् असङ्ख्यान् ।
अभिनद् अयम् अमून् शरान् अमूषां कुसुमशरैर् उत कञ्चुकान्य् अविध्यत्
हरिम् अथ जितकाशिनं बभाषे हरिरमणीविततिः स्मितं दधाना ।
"वयम् इह युवतीजनास् तद् अस्मत्परिचितम् एव विहारम् आदिशस्व ॥"75॥
हरिर् अथ विहसन् जगाद "यूयं भरतमतं प्रति राजथातिविज्ञाः ।
तद् अनुसरत गीतवाद्यनृत्यं मम भवतीभिर् उदेतु तारतम्यम् ॥"76॥
द्रव इव हरिगानतः शिलाद्यं हरिरमणीजनसीमकं बभूव ।
हरिर् अजनि कथञ्चनापि धीरः स च न तथाजनि गानतस् तु तासाम्
अथ मिलिततया चकार लास्यं
निजवनिताभिर् अयं न चाप साम्यम् ।
तम् अभिदधुर् अमूर् वयं न सन्दीपनिम्
अभजाम गुरुं कथं नु विद्मः
1. (अ) मर्गिन्: यदास्ति; 2. (अ) निचाययां स्म
हरिर् अकुरुत तण्डुना प्रणीतं नटनम् अनेन जहार चित्तम् आसाम् ।
इह जगदुर् अमूर् वयं न पद्मातुलिततमा यद् इहापि शिक्षिताः स्मः
व्यतिमिलिततयाथ रासनृत्यं व्यधिषत ता दयितेन तेन सार्धम् ।
विलसितवरमाधुरीभिर् एषां सुरवनिता मुमुहुर् मुहुर् मुहुश् च
अथ हरिर् अकरोद् इहापि चित्रं जवमहसा स तथानशे समस्तम् ।
यद् अखिलमहिलाः स्वपार्श्वलग्नं तम् अनुलवं बत मेनिरे निरीक्ष्य
विलसितम् इदम् इत्थम् आचरन्तः श्रमम् उपलभ्य चिराद् अमी निविष्टाः ।
व्यजनसलिलपानकाङ्गरागक्रमुकपुटादिभिर् आश्रिताभिर् इष्टाः
अथ भृशम् उपलभ्य शान्तिम् एता हरिहरिणीनयना निशावसाने ।
वनम् अनुविहृतिं मुदा दधानाः स्वम् उपवनीमणिमन्दिरं ससर्जुः
अथ मुररिपुराधिकाख्ययुग्मं मृदुशयनं प्रतिलभ्य वल्गुशर्म ।
अतनुत शयनं तथा यथा तत् तनुम् अपि भेदम् अधात् तनुद्वयं न
अथ गिरिवरपर्वणि स्वसृणां
गृहगतं पर्वणि कार्तिके मासि ।
बहुविधमहसा1 सशर्मपूर्णे
तदनु मुखं मुखरं सुखं करोति
अथ शरदनुजा यदा ऋतुश्रीर्2 मृदुमृदुशीतमयी समाजगाम ।
अशनवसनकाननाद्रिखेलाशयनसुखादि हरिः प्रियाम् उवाच
"सुरभिनवकशालितण्डुलीभिः पुरुसितवष्कयनीपयस्कृतान्नम् ।
सुपरिमलहरिः प्लुतं समन्ताद् विकलितवल्कलबीजनागरङ्गम् ।87॥
बहुघृतपरिपक्वपिष्टभेदं प्रविततमण्डकरोटिकाभिर् इष्टम् ।
परिकृतदलितार्द्रकं स्वमात्रार्पितम् उषसि स्वदते वरोरु मह्यम्
[युग्मकम्]
तदनु च जननी ददाति वेषं मृगमदकुङ्कुमचूर्णपूर्णवस्त्रम् ।
तम् अहम् अहरहः सजन् सरामः सहसखिवीथिर् अतीव शर्म यामि
यदपि विविधतेमनादिमध्यं दिनम् उपलब्धम् इहास्ति पङ्कजाक्षि ।
तदपि भवति सार्द्रकं घृतान्तःकृतपचशर्षपशाकम् आदराय
अहरहर् अनुधेनुकञ्चुकादिच्छविसवितृच्छविमित्रताच्छभासः ।
सखिभिर् अखिलकेलिशालिहारीतकरुतकर्मणि नर्मशर्म यामः
परिणततरजम्भनागरङ्गक्रमुकमुखद्युतिशोणकाननान्तम् ।
स्मितलसितकटिञ्जरादिपुष्पप्रमुदितसर्वम् अहर्दिवं भ्रमामः
चलसखि तद् इदं वनं निरीक्षेमहि हिमलेशिनि3 मार्गशीर्षमासि ।
परपरदिवसे तु शीतशीते नहि विहृतिर्4 बहिर् औचितीं भजेत
इति हरिवचनाद् अनेन सार्धं वनम् अनुगम्य विरम्य रम्य-रूपम् ।
समुचितफलपुष्पसङ्ग्रहेण प्रमदभृतः प्रमदागृहं समीयुः
1. (अ) ओप(र्व)तया; 2. (अ) ऋतुश्रीं; 3. (ब्) हिमने निशि; 4. (अ) विकृतिर्
इति मृदुतरतुलिकानुकूलीकृतशयनं नयनाभिरामयुग्मम् ।
मधुरिपुवृषभानुजासमाख्यं न वपुषिभेदम् अवाप नापि चित्ते
अथ धनुर् अपरांशमीनराजावधि रविभोगगताहसङ्घभागे ।
मुररिपुर् अवदत् पुरावद् एतां वृषरविजां स निजां विलासलक्ष्मीम्
घृतदधिकृसरार्द्रकादिजुष्टाः कटुवटका विविधानि सन्धितानि ।
अहरहर् उदये मदीयमात्रा मयि निहितानि भृशं सुखं वहन्ति
बहुविधम् अथ दुग्धबाष्पपक्वं मृदु मृदु पिष्टकम् इष्टपूर्णम् ।
अधि दिनदिनमध्यमात्ममात्रा प्रहितम् अहं रमयन् मुदं भजामि ।98॥
घुसृणरुचिर् अतूलसूक्ष्मवस्त्रद्विदलजकञ्चुकयुक्पिधानवक्षः1 ।
पवनरहितघर्मशर्मदातृस्थलम् अनु धेन्ववनेन शर्म यामि
शिशिरम् अनु समस्तसत्त्वजाते रुतिरहिते किखिषु प्रगल्भवाक्षु ।
समवदद् इह को ऽपि नेति नूनं सखि हसितं दयया सहायति स्म
शिशिरजनुषि दुर्दिने ऽपि जाते मितिरहिता धवलाः सुखं चरन्ति ।
शृणु सखि तदुपायम् अन्त्यम् एकं मम मुरलीजनि यत् तु वायुसूक्तम्
शिशिरम् अकुसुमान्तरं निरीक्ष्य स्रजम् इह कुन्दकृतां बिभर्मि चित्राम् ।
विपदि यद् उपजीवनं तद् एव प्रतिपदम् आदरभाजनं विभाति
इह द्रुतम् इतम् अहःसमूहम् ऊहा-
विषयतया दधतः परे निनिन्दुः ।
भवदुपसृतिवर्धिरात्रिवृद्धेर्
अलम् अहम् अस्य तु वश्मि2 दीर्घम् आयुः
अथ मधु ऋतुर् एष्यति प्रफुल्लं वननिकरं विदधद् यद् आततः प्राक् ।
हरिहरिवनिताकुलं प्रफुल्लं स्वयम् अभवद् बत पश्य तस्य वीर्यम्
प्रथमसमम् अथात्र भोजनाद्यं समुचितम् आप्रविधाय कृष्णचन्द्रः ।
निशि निशमयति स्म वन्यवृत्तं दिनदिनम् अप्य् अतुलं वृषार्कपुत्रीम्
निशमय कुतुकं वने ऽद्य दृष्टं वितरितरि प्रसभं बिभर्ति भिक्षुः ।
अमधुजनुषि पुण्ड्रके द्विरेफा मुहुर् अपि झङ्कृतितर्जनां वहन्ति
किम् इयम् अहह माधवीति नाम्ना
जनविदितेति मदात् प्रफुल्लति स्म ।
शिव शिव न वयं मधोः किम् इत्थं
कुसुमम् अधुः किल सप्तलादयश् च
स बकुलसहकारकेतकीनां सकरुणकिंशुकनागकेशराणाम् ।
ततिर् अतिशुशुभे विलोक्य यान्तु भ्रमरपिकप्रवरा महः सजन्ति
मलयजमरुद् एष इत्य् अभिख्यः पवनगणः प्रतिपद्य मत्कवन्याम् ।
मनयुजजयिसुरभातिशस्तां प्रसतिक्रीण इवात्र मन्दमन्दम्
इति मधुऋतुवर्णनं वितन्वन् मधुरिपुर् अन्यनिजप्रियाजनानाम् ।
चरितविवृतिम् अन्यनायिकानां3 चरितमिषात् कलयन्न् अमूं स्तुते स्म
1. (अ) ओवृक्षः; 2. (अ) रश्मि; 3. (अ) मर्गिन्: नायिकाताम्
कुसुमकुलम् इदं दधाति तावद् भ्रमरपिकादिगणस् तथा स्वरूपम् ।
प्रियसहचरता यदा प्रियाणां परसमये शरतां च वज्रतां च
अयि विधुमुखि सङ्गतप्रियाङ्गि प्रियविरहाद् अपरा धृतावसादाः ।
उत कुसुमपिकादितुद्यमाना ध्रुवम् अधुना प्रियतावशा भ्रमन्ति
स्फुरदसहनता मिथः सपत्न्यः पथि रहसि प्रियम् आत्मनाभिसृत्य ।
दिशि च विदिशि च स्फुरन्तम् आरान् नहि निरनैषुर् अमूः क्व वा लभेरन्
नियमितचरणान् निकुञ्जधाम्नि
क्वचन च वासकसज्जिकायमानाः ।
प्रियतमम् अनवाप्य मानम् आञ्चन्
मुखम् इव मानधना हि धन्यनार्यः
अपि च तदपरास् तु वाससज्जा
मुहुर् अपि चिन्तनलब्धकल्पतन्त्राः ।
प्रियतमम् उपलभ्य चात्र जाग्रद्
वलितवद् आप सुखं न चात्र भेदम्
अपि दयिततमेन खण्डिताशा नहि कलहान्तरिता बभूव कापि ।
उचितम् अपि तद् एतद् एव यस्माद् दयिततमः कथम् अन्यथा घटते
व्यवहितपदवीं ममास्ति नेतुं नहि भवतीम् अपि किञ्चनापि वस्तु ।
न पुरुषम् इह जागराद्यवस्थात्रयम् अपि चेतनया वियोक्तुम् ईष्टे
निशि सुमुखि तद् अद्य कुञ्जपुञ्जं सहसवयस्तति सद्रवं व्रजावः ।
इह हि कुमुदमुद्गरादिपुष्पं सितरुचिरोचिषि रोचमानम् अस्ति
विधुर् अथ दयितान्वितः सखीभिः सह सहखेलम् इयाय पुष्पदेशम् ।
स्फुटम् इह तु विधुः परः सवृन्दस् तदुपरि वन्दनमालिकायते स्म
अधि कुसुमवनं विरजमानं हरिम् अथ कान्तिमती वृषार्कपुत्री ।
सुखकरललिताविशाखिकादिप्रियसवयस्ततिभिः समं समय्य
सुकुसुमनिकरानुपददानं स्वम् अपि तद् अप्य् अनु तन्वि योजयन्ती1 ।
द्वयम् अपि तदनुव्रतक्रियाभिर् द्रवततिभिश् च मुदाञ्चि कुर्वतीभिः
अलम् उपरिगपुष्पवृन्दम् इच्छुं2 स्वयम् अपि तत्तदुपग्रहं दिशन्ती ।
द्रुतम् इव न किम् अस्मदीय राज्ञ्या वहसि निदेशम् इति स्मिताञ्चिगीर्भिः
प्रसभम् इव रमाम् अमूं भुजाभ्यां
हृदि दधतं3 मुहुर् ऊर्ध्वपुष्पहेतोः ।
सरुद् इव तदभीष्टम् आपयन्ती
सकलकलं हसितं वितन्वतीभिः
सुकुसुमचयकूटम् ईक्षयन्तं स्वयम् अपि तं तुलितं निचाययन्ती ।
विविधमततया प्रहासभेदाच् छलम् अपि सत्यम् अपि प्रजल्पिनीभिः4
कुसुम-विरचना-मयं कलापं विदधतम् आशु च तं पृथक् सृजन्ती ।
नुतिम् अनुतिम् अपि द्वये पि तस्मिन् समिष-वचः प्रचयेन तन्वतीभिः
1. (ब्) तन् नियोजयन्ती; 2. (अ) इच्छं; 3. (अ) दधातं; 4. (अ) प्रजल्पितीभिः
स्व-रचित-तद्-अलङ्क्रियां स्तुवानं स्व-रचित-तत्-तद्-दलङ्कृतिं स्तुवाना ।
निज-कृति-जनिता-महत्त्व-बुद्धिः प्रकृतिर् इहेति विहस्य वादिनीभिः
वशम् अकृत गुण-क्रियाङ्ग-भाव-प्रभृतिभिर् अत्र च पश्य चित्त चित्रम् ।
वहति पतिर् अधीन-भर्तृकाज्ञां रचयति कर्म विनापि तां स तस्याः
[अष्टभिः कूलकम्]
हरिर् इह जनयन् वसन्त-रागं हरि-वनिता-निकरश् च सुष्ठु पुष्टम् ।
अभिनय-मय-नृत्य-ताल-जुष्टं व्यतिवशितः स्व-वशीचकार विश्वम्
इति बहु-विध-खेलया रजन्याः प्रशमम् इव प्रतिपद्य नागरेन्द्रः ।
सुरभि-कुसुम-वृक्ष-वाटि-कान्तः क्षण-शयन-क्षणम् आप कान्तया सः
मणिमयवरचत्वरस्य शय्याम् अनु कुसुमानिललीलया सुसेवः ।
परमतमसखीभिर् अस्यमानभ्रमरततिः ससुखः सुखञ्चकार
इति सर्वर्तु-लीला
मूल पाठ: Saṃkalpakalpadruma · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0