भाषा

ENहिગુ
ग्रंथ पाठ

समाधिराजसूत्र · अध्याय 37

37.1

इति श्रीसमाधिराजे शीलस्कन्धनिर्देशपरिवर्तः षट्त्रिंशतितमः ॥ 36 ॥
(वैद्य 264)
37 यशःप्रभपरिवर्तः ।
तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेनेमांश्चापरिमाणानाश्चर्याद्भुतान् बोधिसत्त्वधर्मानाकाङ्क्षता क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेनायं सर्वधर्मस्वभावसमताविपञ्चितः समाधिः श्रोतव्य उद्ग्रहीतव्यः पर्यवाप्तव्यो धारयितव्यो वाचयितव्यः प्रवर्तयितव्यः उद्देष्टव्यः स्वाध्यातव्यो ऽरणाभावनया भावयितव्यो बहुलीकर्तव्यः परेभ्यश्च विस्तरेण संप्रकाशयितव्यः । क्षान्तिबलं चानेन भावयितव्यम् । क्षान्तिरासेवयितव्या भावयितव्या बहुलीकर्तव्या । धर्मार्थिकेन च भवितव्यं धर्मकामेन धर्मप्रतिग्राहकेन धर्मानुधर्मप्रतिपन्नेन । बुद्धपूजाभियुक्तेन भवितव्यम् । तेन त्रिषु स्थानेष्वभियोगः करणीयः । कतमेषु त्रिषु? यदुत क्लेशक्षयाय पुण्यबलाधिपतये बुद्धज्ञानमाकाङ्क्षता कुशलमूलान्यवरोपयितव्यानि नो तु खलु लोकसुखस्पर्शाभिकाङ्क्षिणा । एषु त्रिषु स्थानेष्वभियोगः करणीयः ॥
अथ खलु भगवांस्तस्यां वेलायां चन्द्रप्रभस्य कुमारभूतस्य तमेवार्थमुद्योतयमान इममेव पूर्वयोगकथानिर्देशं गाथाभिगीतेन संप्रकाशयति स्म -
हन्त शृणोथ ममेतु कुमारा कल्पसहस्र यथा चरिता मे ।
पूजित बुद्धसहस्रशतानि एषतु एति समाधि प्रणीतम्

37.2

कल्प अचिन्तिय एवमतीताः क्षेत्रशतेषु ये वालिक अस्ति ।
एष निदर्शनु कीर्तितु भोती यं जिनु आसि गणेश्वरनामा

37.3

षष्टिरनूनक कोटिसहस्राण्यासि गणोत्तमु तस्य जिनस्थ ।
सर्वि अनास्रवि क्षीणकिलेशा अष्टविमोक्षप्रतिष्ठित ध्यायी

37.4

तत्र च कालि इयमपि सर्वा क्षेम सुभिक्ष अनाकुल आसीत् ।
सौख्यसमर्पित सर्वमनुष्याः प्रीणित मानुषकेभि सुखेभिः

37.5

(वैद्य 265)
पुण्यबलेन च सर्व उपेता दर्शनियास्तथ प्रेमणियाश्च ।
आढ्य महाधन सर्व समृद्धा दिव्यसुखेन समर्पितगात्राः

37.6

सूरतु सुव्रत मन्दकिलेशाः क्षान्तिबलाभिरता अभिरूपाः ।
देवपुरेषु यथा मरुपुत्राः शीलगुणोपगता मतिमन्तः

37.7

तत्र च कालि महीपतिरासीद् राजसुतो वरपुष्पसुनामा ।
तस्य च पुत्र अनूनकमासन् पञ्चशता स्मृतिमन्मतिमन्तः

37.8

तेन च राजसुतेन जिनस्यो षष्टि उद्यानसहस्रशतानि ।
पुष्पफलप्रतिमण्डित सर्वे तस्य निर्यातित कारुणिकस्य

37.9

विचित्र उद्यान सहस्रशता चंक्रमशय्यनिषद्यसहस्रैः ।
चीवरकोटिसहस्रशतेभिः संस्तृत चंक्रमणाश्च निषद्याः

37.10

एवमनेकप्रकारसहस्रा यात्तक श्रामणकाः परिभोगाः ।
राजसुतेन प्रसन्नमनेना तस्य उपस्थापिताः सुगतस्य

37.11

सो दशसु शुभकर्मपथेषु राज प्रतिष्ठित साधूजनेना ।
प्राणसहस्रशतानयुतेभिर्गच्छि पुरस्कृतु नायकु द्रष्टम्

37.12

पुष्पविलेपनधूप गृहीत्वा छत्रपताकध्वजांस्तथ वाद्यान् ।
(वैद्य 266)
पूज करित्व स तस्य जिनस्य प्राञ्जलिकः पुरत स्थित आसीत्

37.13

तुष्ट अभूत्तद भिक्षुसहस्रा देवमनुष्यथ यक्षसुराश्च ।
व्याकरु किं नु जिनो इमु पूजां साधु किं वक्ष्यति धर्मु नरेन्द्रः

37.14

तस्य च आशय ज्ञात्व स्वयंभू राजसुतस्य निरुत्तरु चित्तम् ।
पारगतो अभिमुक्तिपदेषु तस्यिम देशयि शान्त समाधिम्

37.15

याव प्रमुक्त गिरा सुगतेना कम्पित मेदिनि सवनषण्डा ।
पुष्प प्रवर्षि तदा गगनातः पद्मशतापि च उद्गत भूमौ

37.16

व्याकरि नायकु आशयु ज्ञात्वा अर्थपदेषु सुशिक्षित शास्ता ।
देशयि शान्त समाधि नरेन्द्रस्तत्रिमि अर्थपदानि शृणोथ

37.17

सर्वि भवा अभवाः परिकल्पास्तुच्छ मरीचिसमा यथ मायाः ।
विद्यतमेघसमाश्चल शून्याः सर्वि निरात्म निसत्त्व निजीवाः

37.18

आदितु शून्य अनागत धर्मा नागत अस्थित स्थानविमुक्ताः ।
नित्यमसारक मायस्वभावाः शुद्ध विशुद्ध नभोपम सर्वे

37.19

नैव च नील न पित न श्वेता नामतु रिक्तकु घोषस्वभावाः ।
चित्तविविक्त अचित्तस्वभावाः सर्वरूतापगताः क्षणिकत्वात्

37.20

भाषतु अक्षरु संक्रमु नास्ति नो पि अभाषतु संकरु भोति ।
(वैद्य 267)
नापि च अक्षर देश व्रजन्ती नो पुनरक्षरु क्रान्ति कुतश्चित्

37.21

अक्षर अक्षय क्षीण निरुद्धा भाषततो व अभाषततो वा ।
नित्यमिमक्षर अक्षय उक्ता यः परिजानति सो ऽक्षयु भोति

37.22

बुद्धसहस्रशता य अतीता धर्मसहस्रशतानि भणित्वा ।
नैव च धर्मु न चाक्षर क्षीणा । नास्ति समुत्पत्ति तेन अक्षीणा

37.23

येन प्रजानति अक्षयधर्मान् नित्यु प्रजानति अक्षयधर्मान् ।
सुत्रसहस्रशतानि भणित्वा सर्वि अनक्षर जानति धर्मान्

37.24

यं च प्रभाषति धर्म जिनस्यो तं च न मन्यति सो ऽक्षयताये ।
आदि निरात्मनि ये त्विमि धर्मा तांश्च प्रभाषति नो च क्षपेति

37.25

सर्वगिरः स प्रभाषति विज्ञो नो च गिराय हरीयति चित्तम् ।
सर्वगिरो गिरिघोषनिकाशो तेन न सज्जति जातु गिराये

37.26

याय गिराय स कीर्तितु धर्मः सा गिर तत्क्षणि सर्व निरुद्धा ।
यादृशु लक्षणु तस्य गिराये सर्विमि धर्म तल्लक्षणप्राप्ताः

37.27

सर्विमि धर्म अलक्ष विलक्षा सर्वि अलक्षण लक्षणशुद्धाः ।
नित्य विविक्त विशुद्ध नभो वा संख्य समासतु ते न उपेन्ति

37.28

संस्कृतासंस्कृत सर्वि विविक्ता नास्ति विकल्पन तेषमृषीणाम् ।
(वैद्य 268)
सर्वगतीषु असंस्कृत प्राप्ता दृष्टिगतेहि सदैव विविक्ताः

37.29

नित्यमरक्त अदुष्ट अमूढास्तस्य स्वभाव समाहितचित्ताः ।
एष समाधिबली बलवन्तो यो इमु जानति ईदृश धर्मान्

37.30

शैलगुहागिरिदुर्गनदीषु यद्व प्रतिश्रुत्क जायि प्रतीत्य ।
एविमु संस्कृति सर्वि विजाने मायमरीचिसमं जगु सर्वम्

37.31

प्रज्ञबलं गुण धर्मगतानां ज्ञानबलेन अभिज्ञ ऋषीणाम् ।
वाच उपायकुशल्य निरुक्ता यत्र प्रकाशितु शान्त समाधिः

37.32

कल्पितु वुच्चति कल्पनमात्रं अन्तु न लभ्यति संसरमाणे ।
कोटि अलक्षण या पुरि आसीदपि अनागति प्रत्ययताये

37.33

कर्म क्रियाय च वर्तति एवं हीन उत्कृष्टतया समुदेन्ति ।
विविक्त धर्म सदा प्रकृतीये शून्य निरात्म विजानथ सर्वान्

37.34

संवृति भाषितु धर्म जिनेनासंस्कृतसंस्कृत पश्यथ एवम् ।
नास्तिह भूततु आत्म नरो वा एतकु लक्षण सर्वजगस्य

37.35

कृष्णाशुभ च न नश्यति कर्म आत्मन कृत्व च वेदयितव्यम् ।
नो पुन संक्रम कर्मफलस्य नो च अहेतुक प्रत्यनुभोन्ति

37.36

(वैद्य 269)
सर्वि भवा अलिका वशिकाश्चो रिक्तकु तुच्छ फेनसमाश्च ।
मायमरीचिसमाः सद शुन्या देशितु शब्दितु ते च विविक्ताः

37.37

एवं विजानतु मन्यन नास्ती शीलवु भोती अनिश्रितचित्तः ।
क्षान्तिबलेन न कल्पयि किंचि एव चरन्तु समाहितु भोति

37.38

यात्तक धर्म विजानि स राजा तात्तक देशित तेन जिनेन ।
श्रुत्व नृपो इमु धर्म जिनस्यो सपरिवारु समाददि शिक्षाम्

37.39

राजसुतो इमु श्रुत्व समाधिं आत्तमना मुदितो भणि वाचम् ।
सुष्ठु सुभाषितु एष समाधी एष तवा चरणेषु पतामि

37.40

तत्र च प्राणिसहस्र अशीतिः श्रुत्विमु धर्मस्वभाव प्रणीतम् ।
भूतु अयं परमार्थ निर्देशो ते अनुत्पत्तिक क्षान्ति लभिंसु

37.41

नास्ति उपादु निरोधु नरस्यो एविमि धर्म सदा विविक्ताः ।
एव प्रजानतु नो परिहाणि राज लभी अनुत्पत्तिक क्षान्तिम्

37.42

राज तदा विजहित्वन राज्यं प्रव्रजि शासनि तस्य जिनस्य ।
ते ऽप्यनु प्रव्रजिताः सुत राज्ञः पञ्चशतानि अनूनक सर्वे

37.43

प्रव्रजितो यद राज सपुत्रो अन्य तदा बहुप्राणिसहस्राः ।
प्रव्रजिताः सुगतस्य समीपे धर्म गवेषियु तस्य जिनस्य

37.44

(वैद्य 270)
विंशतिवर्षशतान् परिपूर्णान् धर्म प्रकाशितु तेन जिनेना ।
राज सपुत्रकु तेन जनेना विंशतिवर्षशता चरि धर्मम्

37.45

अथ अपरेण पुनः समयेन सो ऽपि जिनः परिनिर्वृतु आसीत् ।
ये जिनश्रावक ते ऽपि अतीताः सो ऽपि च धर्मु परित्तकु आसीत्

37.46

तस्य च राजिन पुत्र अभूषी पुण्यमती सद श्राद्धु प्रसन्नः ।
तस्य च भिक्षु कुलोपगु आसीत् । सो इमु देशयि शान्त समाधिम्

37.47

सो अखिलो मधुरो च अभूषी सत्कृतु प्राणिसहस्रशतेभिः ।
देवत कोटिशतान्यनुबद्धा वर्ण भणन्ति कुलान् प्रविशित्वा

37.48

स स्मृतिमान् मतिमान् गतिमांश्चो सुव्रतु सूरतु शीलरतश्च ।
सुस्वरु अपरुष सो मधुरश्चो धातुषु ज्ञानवशी वरप्राप्तः

37.49

चीवरकोटिशतान च लाभी आसि स भिक्षु यशःप्रभु नाम्ना ।
तस्य च पुण्यबलं असहन्ता भिक्षुसहस्र तदा जनि ईर्षाम्

37.50

पुण्यबलेन च रूपबलेन ज्ञानबलेन च ऋद्धिबलेन ।
शीलबलेन समाधिबलेनो धर्मबलेन समुद्गत भिक्षुः

37.51

हृष्टमनश्च प्रियश्च जनस्यो भिक्षु उपासकभिक्षुणिकानाम् ।
(वैद्य 271)
ये जिनशासनि सत्त्व प्रसन्नास्तेषमभीप्सित पूजनियाश्च

37.52

यश्च स राजिनु पुत्रु अभूषी पुण्यमती सद श्राद्धु प्रसन्नः ।
ज्ञात्व प्रदुष्टमनान् बहुभिक्षूं रक्ष स कारयि आचरियस्य

37.53

पञ्चहि प्राणिसहस्रशतेही वर्मित खड्गगदायुधकेहि ।
तेहि सदा परिवारित भिक्षु भाषति भूतचरीमपर्यन्ताम्

37.54

सो परिषाय प्रभाषति धर्मं शून्य निरात्म निर्जीविमि धर्माः ।
ये उपलम्भिक आत्मनिविष्टास्तेष न रोचति यं भणि भिक्षुः

37.55

उत्थितु भिक्षव शस्त्र गृहीत्वा येष न रोचति शून्यत शान्ता ।
एष अधर्म प्रभाषति भिक्षुः एतु हनित्व भविष्यति पुण्यम्

37.56

दृष्ट्व च शस्त्र न भायति भिक्षुः शून्यक धर्ममनुस्मरमाणः ।
नास्तिह सत्त्व नरो वापहत्यै कुड्यसमा इमि रिक्तक धर्माः

37.57

भिक्षु करोति स अञ्जलि मूर्ध्ना भाषति वाच नमो ऽस्तु जिनानाम् ।
येन सत्येनिमि शून्यक धर्मा भोन्तिमि शस्त्र मान्दारवपुष्पाः

37.58

शीलव्रतोपगतस्य मुनिस्यो भाषितमात्र अनन्यथवाक्ये ।
कम्पित मेदिनि सवनषण्डा शस्त्र ते जात मान्दारवपुष्पाः

37.59

(वैद्य 272)
भिक्षु अभूत्तद मंकुशरीरा ये उपलम्भिक शस्त्रगृहीताः ।
भूयु य शक्युपसंक्रमणाये त्रस्य अभूत् सुमहाद्भुतजाताः

37.60

ये पुन श्राद्ध प्रसन्न मुनीन्द्रे येषिह रोचति शुन्यत शान्ता ।
तेहि हुंकारसहस्र करित्वा दूष्यशतैरभिछादित भिक्षुः

37.61

भिक्षु जनित्वन मैत्र स तेषु सर्वजनस्य पुरस्त भणाति ।
ये मयि सत्त्व प्रदोष करोन्ती तेष कृते न हु बोधि चरामि

37.62

तेन च वर्ष अशीतिरनूना भाषित शून्यत कोषु जिनानाम् ।
भिक्षुसहस्र प्रत्यर्थिक आसन् ये च निवारित राजसुतेन

37.63

सो ऽपि तदा परिभूत् अभूषी तस्य च भिक्षु परीत्तकु आसन् ।
वाचमनिष्ट तदा श्रुणमानः क्षान्तिबला च्युत नो च कदाचित्

37.64

सो ऽपरेण च पुनः समयेन प्राणिशतान करी महदर्थम् ।
शीलमखिलमनुस्मरमाणः पुण्यमतिस्य तदा भणि वाचम्

37.65

तत्र स गौरवु कृत्व उदारं पुण्यमती अवची तद भिक्षुम् ।
मा मम किनचिदाचरियस्यो चेतसि किंचि कृतं अमनापम्

37.66

सो अवची शृणु राजकुमारा क्षान्तिबलेन समुद्गत बुद्धाः ।
(वैद्य 273)
येन मि भाषित वाचमनिष्टास्तस्यिमि अन्तिकि मैत्र उदारा

37.67

येन स कल्पसहस्रशतानि क्षान्ति निषेवित पूर्वभवेषु ।
सो अहु भिक्षु यशःप्रभु आसं शाक्यमुनिर्भगवान् भणि वाचम्

37.68

येन यशःप्रभु रक्षितु भिक्षुः पुण्यमती तद राजिनु पुत्रः ।
जातिसहस्र ममासि सहायः सो मय व्याकृतु मैत्रकु बुद्धः

37.69

येन गणेश्वर पूजितु शास्ता येन तु कारित श्रेष्ठ विहाराः ।
पूर्वमसौ वरपुष्पसुनामा सो पदुमोत्तुरु आसि मुनीन्द्रः

37.70

एव मया बहुकल्प अनन्ता धारयितामिमु धर्म जिनानाम् ।
क्षान्तिबलं समुदानित पूर्वे श्रत्व कुमार ममा अनुशिक्षाः

37.71

निर्वृतिमप्यथ भेष्यति एवं पश्चिमि कालि सद्धर्मविलोपे ।
भिक्षु व तीर्थमतेष्वभियुक्ता ते मम धर्म प्रतिक्षिपि शान्तम्

37.72

उन्नत उद्धत दुष्ट प्रगल्भा पापसहायक भोजनलुब्धाः ।
चीवरपात्ररताः पटलुब्धाः लाभसंनिश्रित ते क्षिपि धर्मम्

37.73

दुष्तप्रदुष्टमना अकृतज्ञा हीनकुलेषु दरिद्रकुलेषु ।
प्रव्रजिता इह शासनि मह्यं ते ऽपि प्रतिक्षिपि शान्तमु धर्मम्

37.74

(वैद्य 274)
मारमतेन च मोहित सत्त्वा रागवशानुगताभिनिविष्टाः ।
मोहवशेन तु मोहित बाला येष न रोचति शून्यत शान्ता

37.75

भिक्षु च भिक्षुणिका गृहिणश्चो ग्राहित मोहित पापमतीभिः ।
तेष वशानुगता सद भूत्वा पश्चिमि कालि प्रतिक्षिपि बोधिम्

37.76

श्रुत्व कुमार इमा मम वाचं भिक्षु अरण्यकुले वसि नित्यम् ।
येषिय रोचति शून्यत शान्ता तैरयु धारितु धर्मु जिनानाम्

37.77

प्रव्रजि ते मम शासनि चरित्व भिक्षु उपसंपदपोषधकर्मम् ।
भुञ्जिमु पिण्डमसक्ता अदुष्टा ये इमु धारयिष्यन्ति समाधिम्

37.78

जीवित काय अपेक्षि प्रहाया शून्यत भावयथा सुप्रशान्ताम् ।
युक्तप्रयुक्तमना च भवित्वा सेव अरण्य सदा मृगभूताः

37.79

नित्य करोथ च पूज जिनानां छत्रध्वजर्द्धियमाल्यविहारैः ।
चेतिय पूजयथा प्रतिमानां क्षिप्र लभिष्यथ एतु समाधिम्

37.80

स्तूप करापयथा सुगतानां हेमविभूषित रूपियलिप्तान् ।
प्रतिम सुनिष्ठित रत्नविचित्रा बोधिनिधानु जनित्वन चित्तम्

37.81

यावति पूज जगेस्मि प्रणीता दिव्यथ मानुषिका रमणीया ।
(वैद्य 275)
सर्व गवेषिय बुद्ध महेथा बोधिनिधानु करित्व प्रतिज्ञाम्

37.82

धर्मत पश्यथ सर्वि नरेन्द्रान् यावत सन्ति दश दिशि लोके ।
दृश्यति निर्वृति सर्वजिनानां धर्मतया स्थित संमुख बुद्धाः

37.83

भोथ च सर्विषु त्यागाधिमुक्ताः शीलविशुद्धगता स्थिरचित्ताः ।
क्षान्तिरताः सद मैत्ररताश्चो सर्वि प्रजानथ शून्यक धर्मान्

37.84

वीर्यु जनेथ अलीन अदीनाः ध्यानरताः प्रविवेकरताश्च ।
प्रज्ञ प्रजानथ प्रज्ञविशुद्धिं भेष्यथ कारुणिका नचिरेण

37.85

रागु शमेथ सदा अशुभा ये दोषु निगृह्णथ क्षान्तिबलेन ।
मोहु निगृह्णथ प्रज्ञबलेना प्राप्स्यथ बोधि जिनानु प्रशस्ताम्

37.86

कायु विभावयथा यथा फेनं दुःखमसारकु पूतिदुर्गन्धम् ।
स्कन्ध प्रजानथ रिक्तक सर्वांल्लप्स्यथ ज्ञानमनुत्तरु क्षिप्रम्

37.87

दृष्टि म गृह्णथ पापिक जातु आत्म अयं पुरुषो अथ जीवः ।
सर्वि प्रजानथ शून्यक धर्मान् क्षिप्र स्पृशिष्यथ उत्तमबोधिम्

37.88

लाभ म कुर्वथ गृद्धो कदाचित् मा परितप्यथ पिण्डलमब्ध्वा ।
निन्दित शंसित मा खु चलेथा मेरुसमाश्च अकम्पिय भोथा

37.89

(वैद्य 276)
धर्म गवेषथ गौरवजाताः श्रत्व तदापि च तत्पर भोथ ।
तिष्ठत गोचरि सर्वजिनानां यास्यथ क्षिप्र सुखावतिक्षेत्रम्

37.90

सर्वजगे समचित्त भवित्वा अप्रिय मा प्रिय चित्त करोथ ।
मा न गवेषथ लाभु यशो वा क्षिप्र भविष्यथ बुद्ध मुनीन्द्राः

37.91

बुद्धगुणांश्च प्रभाषथ नित्यं भूतगुणेहि निरुक्तिपदेहि ।
यान् गुण श्रुत्विह सत्त्व प्रसन्नाः बुद्धगुणेषु स्पृहां जनयेयुः

37.92

नित्य सगौरव चाचरियेषु मातु पितुस्तथ सर्वजगस्मिन् ।
मा पुन मानवशानुग भोथा लप्स्यथ लक्षण त्रिंश दुवे च

37.93

संगणिकां विजहित्व अशेषां नित्यु विवेकरतापि च भोथ ।
सूरत नित्युपशोभन शान्ता आत्महिताः परसत्त्वहिताश्च

37.94

मैत्रि निषेवि तथा करुणां चो मुदितपेक्षरताः सद भोथ ।
शास्तुः प्रशासनु पश्यथ नित्यं भेष्यथ क्षिप्र हितंकरु लोके

37.95

पापक मित्र म जातु भजेथ सेवथ मित्र ये भोन्ति उदाराः ।
येषिह रोचति शून्यत शान्ता ये अभिप्रस्थिता उत्तमबोधिम्

37.96

श्रावकभूमि म शिक्षथ जातु मा च स्पृहेष्यथ तत्र चरीये ।
(वैद्य 277)
चित्तु म रिञ्चथ बुद्धगुणेषु क्षिप्र भविष्यथ बुद्ध जिनेन्द्राः

37.97

सत्य गिरं सद भाषथ शुद्धां मा मृष भाषथ मा परुषां च ।
नित्य प्रियं मधुरं च भणेथा लप्स्यथ वाच लोकाचरियाणाम्

37.98

कायि अनर्थिक जीवित भोथा मात्म उत्कर्षक मा परपंसी ।
आत्मगुणान् समुदानयमानाः परचरियासु उपेक्षक भोथ

37.99

शून्यविमोक्षरताः सद भोथा मा प्रणिधान करोथ गतीषु ।
सर्वनिमित्त विवर्ज्य अशेषां भोथ सदा अनिमित्तविहारी

37.100

अन्त विवर्जयथा सदकालं शाश्वतुच्छेदस्थिता म भवाथ ।
प्रत्ययता सद बुध्यत सर्वं एव भविष्यथ यादृश शास्ता

37.101

कामरतीषु रतिं विजहित्वा दोषखिलांश्च मलान् विजहित्वा ।
मोहतमो विजहित्वसे सर्वं शान्तरता नरसिंह भवाथ

37.102

नित्यमनित्य च पश्यथ नित्यं सर्वभवा सुखदुःख विमुच्य ।
अशुभमनात्मत आत्मशुभेषु भावयमानु भवेय नरेद्रः

37.103

लोकप्रदीपकरेभि जिनेभिर्येषिह योनिशो धर्म सुनीत ।
तैरिह मारबलानि हनित्वा प्राप्तमनुत्तरबोधिरुदारा

37.104

(वैद्य 278)
यात्तक भाषित एति गुणा मे ये च प्रकाशित दोषशता मे ।
दोष विवर्जिय शिक्ष गुणेषु भेष्यसि बुद्धु तदेह कुमार

मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc