भाषा

ENहिગુ
ग्रंथ पाठ

समाधिराजसूत्र · अध्याय 36

36.1

इति श्रीसमाधिराजे सुपुष्पचन्द्रपरिवर्तः पञ्चत्रिंशतितः ॥ 35 ॥
(वैद्य 254)
36 शीलस्कन्धनिर्देशपरिवर्तः ।
तस्मात्तर्हि कुमार य आकाङ्क्षेद्बोधिसत्त्वो महासत्त्वः किमित्यहं सुखमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयमिति, तेन कुमार बोधिसत्त्वेन महासत्त्वेन शीलस्कन्धे सुप्रतिष्ठितेन भवितव्यम्, सर्वबोधिसत्त्वेषु च शास्तृप्रेमसंज्ञा उपस्थापयितव्या ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
यः शीलस्कन्धे प्रतिष्ठितु बोधिसत्त्वो हितैषिचित्तो विचरति चारिकायाम् ।
क्षिप्रं स गत्वा अभिरतिबुद्धक्षेत्रं क्षान्तिंं लभित्वा भविष्यति धर्मराजः

36.2

तस्मात् समग्रा भवथ अदुष्टचित्ताः सर्वे च भोगा सतत मनापकारी ।
दृष्ट्वा च बुद्धान् शिरिघन अप्रमेयान् बोधिं स्पृशित्वा भविष्यथ धर्मस्वामी

36.3

तस्माच्छ्रुणित्वा इम वर आनुशंसान् दृष्टा च भिक्षून् परम सुशीलवन्ता ।
निःशाठियेनो विदु सद सेवितव्याः समाधिप्ताप्ता भविष्यथ नोचिरेण

36.4

सचेन्निधानापरिमिताप्रमाण पूर्णा भवेयु मणिरतनेभि सप्तैः ।
तथैव भूयो रतनवराण पूर्णाः क्षेत्रा भवेयुर्वालिकगङ्गतुल्याः

36.5

दानाधिमुक्तो भविय स बोधिसत्त्व एकैक रात्रिंदिवमिह दानु दद्यात् ।
एवं ददन् सो बहुविध कल्पकोटीः नो विष्ठितः स्याद् वालिक गङ्गतुल्याः

36.6

यश्चो समाधिं इमुमिह बोधिसत्त्वो श्रुत्वान धारेत सुगतवराण गञ्जम् ।
यः पुण्यस्कन्धो भवति गृहीतु तेनो तत् सर्वदानं कलमपि नानुभोति

36.7

(वैद्य 255)
एषो वरो अनुपम पुण्यस्कन्धो ज्ञानस्य कोश अपरिमिताकरोपम ।
श्राद्धो नरो यो इमु आनुलोमिकं धारेय्य अग्रं इमु विरजं समाधिम्

36.8

धारेय्य एत विरज समाधि शान्त महाधनो भवति स बोधिसत्त्वः ।
महासमुद्रो बहुविधरतनस्य आकरो न तस्य पुण्यस्य प्रमाणमस्ति

36.9

वरेहि धर्मेहि अचिन्तियेहि संबृहितो वुच्चति बोधिसत्त्वः ।
न तस्य बोधाय कदाचि संशयो य उद्दिशेयाति इमः समाधिम्

36.10

संस्थाप्य लोकाचरियं विनायकं बुद्धं महाकारुणिकं स्वयंभुवम् ।
यः पुण्यस्कन्धेन वरेणुपेतो अचिन्तियो यस्य प्रमाणु नास्ति

36.11

न उत्तरो तस्य च सत्त्व कश्चित् महासहस्राय कदाचि विद्यते ।
यः पुण्यस्कन्धेन समो भवेत ज्ञानेन वासादृशाचिन्तियेन

36.12

अन्यत्र यः श्रुत्व समाधिमेतं धारेय्य वाचेय्य पर्यापुणेय्या ।
पर्येषमाणो ऽतुल बुधबोधिं न तस्य ज्ञानेन समो भवेत

36.13

सचेत् कुमारा सिय अयु धर्मरूप यः पुण्यस्कन्धो उपचितु तेन भोति ।
धारतु वाचेतु इमं समाधिं न सो विचेय्या इह पृथुलोकधातुषु

36.14

तस्मात् कुमारेह य बोधिसत्त्वो आकाङ्क्षते पूजितु सर्वबुद्धान् ।
(वैद्य 256)
असङ्गनिर्देशपदार्थकोविदो अतीत उत्पन्न तथागतांश्च धारेतु वाचेतु इमं समाधिम्

36.15

एषा हि सा बोधि तथागतानां श्रद्धेहि मह्यं वचनं कुमाराः ।
न भाषते वाचमृषां तथागतो न हीदृशाः सत्त्व मृषां वदन्ति

36.16

यस्मिन् मया शोधितु आत्मग्राहो इतः पुरे कल्पशतानचिन्तियान् ।
श्रेष्ठा चरन्तेन पि बोधिचारिकां पर्येषमाणेन इमां समाधिम्

36.17

तस्मादिमं श्रुत्व अथ धर्मगञ्जं यः सूत्रकोटीनयुतान आगमः ।
यः पुण्यस्कन्धो विपुलो अचिन्तियो येनो लघुं बुध्यति बुद्धज्ञानम्

36.18

सर्वेष सूत्राणिदमग्रसूत्रमचिन्तियस्यो कुशलस्य आकरम् ।
पर्यन्तु धर्माण न तेष लभ्यते यां सो सदा निर्दिशते विशारदः

36.19

छिन्दित्व भिन्दित्व महासहस्रं शक्यं गणेतुं परमाणुसंचयः ।
न त्वेव ते सूत्रशता अचिन्तियान् प्रमातु यं भाषति सो अविष्ठितः

36.20

आश्वास प्रश्वास गणेतु शक्यं सर्वेष सत्त्वानिह बुद्धक्षेत्रे ।
पर्यन्तु सूत्राण न तेष शक्यं यान् भाषते सो ऽत्र समाधिये स्थितः

36.21

बुद्धान क्षेत्रा यथ गङ्गवालिका ये तेष सत्त्वा गति तेषूपपन्नाः ।
गणेतु ते शक्यमथापि चिन्तितुं न तेष सूत्राण य नित्यु भाषते

36.22

(वैद्य 257)
गणेतु शक्यमित कल्पकोटिभिः महासमुद्रेष्विह यात्ति वालिकाः ।
नदीषु कुण्डेषु ह्रदेषु तद्वद् अनन्त सूत्रान्त स यत् प्रभाषते

36.23

शक्यं गणेतुं बहुकल्पकोटिषु य आपस्कन्धः सद तत्र तिष्ठति ।
शताय भिन्नाय वालाग्रकोटियो स्वराङ्ग तेषां न तु शक्यु सर्वशः

36.24

शक्यं गणेतुं बहुकल्पकोटिभिर्ये सत्त्व आसन् पुरिमेण तत्र ।
य आत्मभावे विनिबद्धसारा न तेष सूत्रान्तनिर्हार जानितुम्

36.25

गणेतु शक्यं रुत सर्वप्राणिनां ये सन्ति सत्त्वा दशसु दिशासु ।
न शक्यु सूत्रान्त गणेतु तस्य यद् भाषते ऽसौ सततमविष्ठितः

36.26

सर्वेष धर्माण निदेशु जानति निरुक्तिनिर्देशपदार्थकोविदः ।
विनिश्चये भूतनयेषु शिक्षितो विशालबुद्धिः सद हर्षप्रज्ञः

36.27

अभिन्नबुद्धिर्विपुलार्थचिन्ती अचिन्त्य चिन्तेति सदा प्रजानति ।
घोषस्वभावं पृथु सर्व जानती शब्दांश्च तान् निर्दिशतो न सज्जति

36.28

असक्त सो वुच्चति धर्मभाणको न सज्जते सर्वजगस्य भाषतः ।
प्रश्नान निर्देशपदेहि कोविदः तथाहि तेनो परमार्थु ज्ञातः

36.29

एकस्य सूत्रस्युपदेशकोटियो अचिन्तियां निओर्दिशतो न सज्जति ।
(वैद्य 258)
असङ्गनिर्देशपदार्थकोविदो भाषन्तु सो पर्षगतो न सज्जते

36.30

यः सुस्थितो भोति इहो समाधिये स बोधिसत्त्वो भवती अकम्पियः ।
धर्मे बलाधानविशेषप्राप्तः करोति सो ऽर्थं बहुप्राणकोटिनाम्

36.31

यथैव मेरुरचलो अकम्पियः सर्वेहि वातेहि न शक्य कम्पितुम् ।
तथैव भिक्षुर्विदु धर्मभाणकं कम्पेतु शक्यं न परप्रवादिभिः

36.32

महासहस्रेष्विह लोकधातुषु ये पर्वता उक्त अकम्पनीयाः ।
ते शक्य वातेन प्रकम्पनाय न त्वेव धर्मे स्थितु शून्यि भिक्षुः

36.33

य शून्यतायां सततं प्रयुक्तो बुद्धान एषो नियतं विहारः ।
प्रजानती निश्चितु धर्म शून्यां स सर्ववादीभि न शक्यु क्षोभितुम्

36.34

अकम्पियो भोति परप्रवादिभिः सवप्रवादेहि अनाभिभूतः ।
अनाभिभूतश्च अनिन्दितश्च इमुमुद्दिशित्वान समाधि शान्तम्

36.35

गतिं गतो भोति स शुन्यतायां सर्वेषु धर्मेषु न काङ्क्षते ऽसौ ।
अनन्तज्ञाने सद सुप्रतिष्ठितो इमुमुद्दिशित्वान समाधि शान्तम्

36.36

बलानि बोध्यङ्ग न तस्य दुर्लभा प्रतिसंविदो ऋद्धिविधी अचिन्तिया ।
अभिज्ञ नो तस्य भवन्ति दुर्लभा धारेत्व वाचेत्व इम समाधिम्

36.37

(वैद्य 259)
भवाभिवृत्तस्य न तस्य दुर्लभं अनन्तज्ञानेन जिनान दर्शनम् ।
संबुद्ध कोटीनयुतानचिन्तियान् सो द्रक्ष्यते एतु समाधि धारयन्

36.38

सर्वेष चो तेष जिनान अन्तिके स श्रोष्यते एतु समाधि शान्तम् ।
वरेण ज्ञानेन उपेतु भेष्यती प्रतिसंविदासु वश पारमिं गतः

36.39

सचेद् भवेन्मणिरतनान पूर्णा महासहस्रा इय लोकधातुः ।
ये दिव्य श्रेष्ठा मणिरतनाः प्रधाना हेष्टं उपादाय भवाग्रु यावत्

36.40

यावन्त क्षेत्रा बहुविध ते अनन्ता जाम्बूनदासंस्तृत पूर्ण सर्वे ।
दानं ददे जिनवरेषु सर्वं भूमीतलादुपरि भवाग्र यावत्

36.41

यावन्ति सन्ति बहु विविधा हि सत्त्वा दानं ददेयुर्विविधमनन्तकल्पान् ।
बुद्धान दद्युः सततमविष्ठिहन्तो बोध्यर्थिको चो ददितु दानस्कन्धम्

36.42

यश्चैव भिक्षुरभिरतु शून्यतायां बुद्धान्नमस्ये दशनखप्राञ्जलीयो ।
न स दानस्कन्धः पुरिमकु याति संख्यां यः शून्यतायामभिरतु बोधिसत्त्वः

36.43

तं चो लभित्वा स हि नरु पुण्यवन्तो दानं ददेति विपुलु जनेत्व श्रद्धाम् ।
पर्येषमाणो अतुलिय बुद्धबोधिं औपम्यमेतं कृतु पुरुषोत्तमेन

36.44

यश्चो समाधिमिमु वरु श्रेष्ठ गृह्णेच्चतुष्पदां गाथ स तुष्टचित्तः ।
यः पुण्यस्कन्धो उपचितु तेन भोति तत् सर्वदानं शतिमकला नु भोति

36.45

(वैद्य 260)
न ताव शीघ्रं प्रतिलभि बुद्धज्ञानं दानं ददेत् सो हितकरु बोधिसत्त्वः ।
अश्रुत्व एतं विरजु समाधि शान्तं यथ श्रुत्व शीघ्रं लभति स बुद्धज्ञानम्

36.46

यश्चो लभित्वा इमु वर शान्तभूमिं श्रुतस्य गोत्रं इमु विरजं समाधिम् ।
पुर्यापुणेय्या प्रमुदितु बोधिसत्त्वः स शीघ्रमेतं प्रतिलभि बुद्धज्ञानम्

36.47

यो ऽपी निधानं प्रतिलभि एवरूपं क्षेत्राननन्तान् यथरिव गङ्गवालिकाः ।
ते चो भवेयुर्मणिरतनान पूर्णा दिव्यान चो तथपि च मानुषाणाम्

36.48

दुर्धर्षु सो भोति प्रेभूतकोशो महाधनो धनरतनेनुपेतः ।
यो बोधिसत्त्वो लभति इमं समाधिं पर्यापुणन्तः सततमतृप्तु भोति

36.49

राज्यं लभित्वा परमसमृद्ध स्फीतं न तेन तुष्टो भवति कदाचि विज्ञः ।
यथा लभित्वा इमु विरजं समाधिं तुष्टो उदग्रो भवति स बोधिसत्त्वः

36.50

ते ते धर्मधरा भवन्ति सततं बुद्धान सर्वज्ञिनां
धारेन्ती वरधर्मनेत्रि विपुलां क्षीणान्तकाले तथा ।
धर्मकोशधरा महामतिधराः सर्वज्ञगञ्जंधराः
ते ते सत्त्व सहस्रकोटिनियुतांस्तोषन्ति धर्मस्वरैः

36.51

ते ते शीलधनेनुपेत मतिमान् शिक्षाधनाढ्या नराः
ते ते शीलव्रते स्थिता अभिरता धर्मद्रुमस्याङ्कुराः ।
ते ते रक्तकषायचीवरधरा नैष्क्रम्यतुष्टाः सदा
ते ते सत्त्वहिताय अप्रतिसमाः सर्वज्ञतां प्रस्थिताः

36.52

ते ते दान्त सुदान्त सत्त्वदमका दमथेनुपेताः सदा
ते ते शान्त सुशान्ततामनुगताः शान्तप्रशान्तेन्द्रियाः ।
ते ते सुप्त प्रसुप्त सत्त्व सततं धर्मस्वनैर्बोधयी
बोधित्वा वरश्रेष्ठ धर्मरतनैः सत्त्वान् प्रतिष्ठापयी

36.53

(वैद्य 261)
ते ते दानपती भवन्ति सततं सद मुक्तत्यागी विदु
ते ते मत्सरियैर्न संवसि महात्यागे रमन्ते सदा ।
ते ते सत्त्व दरिद्र दृष्ट्व दुखितान् भोगेहि संतर्पयी
ते ते सत्त्वहिते सुखाय सततं सर्वज्ञतां प्रस्थिताः

36.54

ते ते आहनि धर्मभेरि विपुलां ज्ञाने सदा शिक्षिताः
छिन्दन्ती जन सर्व संशयलतां ज्ञाने सदा प्रस्थिताः ।
ते ते सुश्रुत धर्मधारि विरजा सूत्रान्तकोटीशतान्
पर्षायां स्थित आसने मतिधराः प्रव्याहरी पण्डिताः

36.55

ते ते भोन्ति बहुश्रुताः श्रुतिधराः संबुद्धधर्मंधराः
कोशान् धर्ममयान् धरन्ति मुनिनां धर्मान्निधाने रताः ।
ते ते भोन्ति विशालप्रज्ञ विपुलां प्रीइतिं जनेन्ति सदा
देशेन्ता वरधर्म शान्त निपुणं नैर्याणिकं दुर्दृशम्

36.56

ते ते धर्ममधर्मज्ञेय मतिमान् धर्मे स्थिताः सूरताः
धर्मराज्यि प्रशासि अप्रतिसमा वरधर्मचारी सदा ।
ते ते भोन्ति विशिष्टधर्मगुरुका गुरुगौरवे च स्थिताः
धर्मे नगवरे स्थिता मतिधरा धर्मध्वजोच्छ्रायिकाः

36.57

ते ते मत्त प्रमत्त सत्त्व सततं दृष्ट्वा प्रमादे स्थितान्
दृष्ट्वा चैव प्रनष्ट उत्पथगतान् संसारमार्गे स्थितान् ।
तेषू मैत्र जनित्वुदार करुणा मुदिताप्युपेक्षा स्थिता
तेषां मार्गवरं प्रदर्शयि शिवमष्टाङ्गिकं दुर्दृशम्

36.58

ते तु नाव करित्व धर्म सुदृढां धारेन्ति सत्त्वान् बहून्
उद्यन्तान् महार्णवेषु पतितान् संसारस्रोतोगतान् ।
बोध्यङ्गा बल इन्द्रियैः कवचिताः सद्धर्मनावारुहाः
तीरे पारमि क्षेम नित्यमभये स्थापेन्ति सत्त्वान् सदा

36.59

ते ते वैद्यवरा व्रतेषु चरिता वैद्योत्तमा वेदका
विद्याज्ञानविमुक्तिपारगमिता सद्धर्मभैषज्यदाः ।
दृष्ट्वा सत्त्व गिलान नेकविविधै रोगैः समभ्याहतान्
तेषां धर्मविरेचनं ददति तद्धर्मैश्चिकित्सन्ति तान्

36.60

ते ते वादि अपवादिमथना लोकेन्द्र वागीश्वराः
सर्वज्ञेयप्रभंकरा मतिधरा वरज्ञानभूमिस्थिताः ।
शूर ज्ञानबला बलप्रमथनाः संवर्णिता ज्ञानिभिः
ज्ञानेनो बहुसत्त्वकोटिनियुतांस्तोष्यन्ति धर्मे स्थिताः

36.61

(वैद्य 262)
ते ते ऽधिपति सार्थवाह विपदः सत्त्वान त्राणार्थिकाः
दृष्ट्वा सत्त्व प्रमूढ मार्गरतने सद मारपाशे स्थिताः ।
तेषां मार्गवरं प्रकाशयि शिवं क्षेमं सदा निर्वृती
येन ज्ञानपथेन नेन्ति कुशलान् बहुसत्त्वकोटीशतान्

36.62

ते ते लेनु भवन्ति त्राणु शरणं चक्षुः प्रदीपंकराः
भीतानामभयप्रदाश्च सततं त्रस्तान चाश्वासकाः ।
ते ऽतिदुःखित सत्त्व ज्ञात्व परमान् जात्यन्धभूतानिमान्
धर्मालोकु करोन्ति धर्मरतने भूतनये शिक्षिताः

36.63

ये ये शिल्पवरा जगे बहुकराः सत्त्वान अर्थावहा
येभिः सत्त्व सदा भवन्ति सुखिताः शिल्पेषु संशिक्षिताः ।
शिक्षापारमितां गताः सुकुशला आश्चर्यप्राप्ताद्भुता
ये बोधीनभिप्रस्थिता मतिधरा लोकस्य चक्षुर्ददाः

36.64

नो ते तृप्त कदाचिदप्रतिसमा वरबुद्धधर्मश्रुताः
शीलक्षान्तिसमाधिपारगमिता गम्भीरधर्मश्रुताः ।
नो तृप्ताश्च परेषु धर्मरतनं ते देशयन्तः शिवं
मोक्षोपायु प्रवर्षमाणु वर्षं धर्मैर्नरांस्तर्पयी

36.65

यावन्तो बहु सत्त्व तेषुपगता धर्मार्थिकाः पण्डिताः
श्रोष्यामो वरधर्मश्रेष्ठरतनं मार्गं ऋजुं अञ्जसम् ।
तेषां छिन्दिषु संशयान् मतिअधरा धर्मेण संतोषयी
शीलक्षान्तिसमाधिपारमिगता जानन्त सत्त्वशयान्

36.66

ज्ञानी ज्ञानवराग्र पारमिगताः सत्त्वाशये कोविदाः
जानन्तः परसत्त्वचित्तचरितं येषां कथा यादृशी ।
ये ये ज्ञानकथाय सत्त्वनयुता वरधर्मचक्षुर्लभाः
ते ते ज्ञानविशेषपारमिगता मार्गोपदेशंकराः

36.67

मारा कोटिसहस्र तेष विदुषां चित्तं पि नो जानिषु
आकाशे यथ पक्षिणां पदगतिं ज्ञातुं न शक्या क्वचित् ।
शान्ता दान्त प्रशान्त ज्ञानवशिनो आर्यस्मि ज्ञाने स्थिताः
सर्वान् मार निहत्य शूर वृषभा बुध्यन्ति बोधिं शिवाम्

36.68

ऋद्धिपारमिप्राप्त भोन्ति सततं गच्छन्ति क्षेत्रान् शतान्
पश्यन्ति बहुबुद्धकोटिनियुतान् गङ्गा यथा वालिकाः ।
(वैद्य 263)
चक्षुस्तेष न सज्जते दशदिशे पश्यन्ति रूपान् बहु
ये चो सत्त्व दशद्दिशे भवस्थिताः सर्वेष ते नायकाः

36.69

ते तस्यो भणि आनुशंस सकलां कल्पान कोटीशतान्
नो चो पूर्वचरीय वर्ण क्षपये प्रतिभानतो भाषतो ।
बुद्धानां धनमक्षयं सुविपुलं ज्ञानस्य चो सागरं
यो एतं विरजं समाधिमतुलं धारेय कश्चिन्नरः

मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc