भाषा

ENहिગુ
ग्रंथ पाठ

समाधिराजसूत्र · अध्याय 26

26.1

इति श्रीसमाधिराजे अनुमोदनापरिवर्तो नाम पञ्चविंशतितमः ॥
(वैद्य 158)
26 दानानुशंसापरिवर्तः ।
तस्मात्तर्हि कुमार अप्रमत्तो भविष्यामीत्येवं त्वया कुमार शिक्षितव्यम्, अप्रमत्तस्य हि कुमार बोधिसत्त्वस्य महासत्त्वस्य न दुर्लभा भवत्यनुत्तरा सम्यक्संबोधिः, किमङ्ग पुनरयं समाधिः । कथं च कुमार बोधिसत्त्वो महासत्त्वः अप्रमत्तो भवति? इह कुमार बोधिसत्त्वो महासत्त्वः परिशुद्धशीलो भवति । इह कुमार परिशुद्धशीलो बोधिसत्त्वः अप्रमत्तो भवति । इह कुमार बोधिसत्त्वो महासत्त्वः परिशुद्धशीलो भवति । इह कुमार परिशुद्धशीलो बोधिसत्त्वो महासत्त्वः अविरहितो भवति सर्वज्ञताचित्तेन षट्सु पारमितासु । तस्येमे आनुशंसा भवन्ति । तान् शृणु, साधु च सुष्ठु च मनसिकुरु । भाषिष्ये ऽहं ते । देशेमे कुमार अनुशंसा दानाधिमुक्तस्य बोधिसत्त्वस्य महासत्त्वस्य । कतमे दश? यदुत मात्सर्यक्लेशो ऽस्य निगृहीतो भवति । त्यागानुबृंहितं चास्य चित्तं सदा भवति । बहुजनसाधारणेभ्यश्च भोगेभ्यः सारमाददाति । महाभोगेषु च कुलेषूपपद्यते । जातमात्रस्य चास्य त्यागचित्तमामुखीभवति । प्रियश्च भवति चतसृणां पर्षदामू । विशारदश्चासंकुचितः पर्षदमवगाहते । दिग्विदिक्षु चास्योदारो वर्णकीर्तिशब्दश्लोको लोके ऽभ्युद्गच्छति । मृदुतरुणहस्तपादश्च भवति समचरणतलप्रतिष्ठितः । अविरहितश्च भवति कल्याणमित्रैर्यावद्बोधिमण्डनिषदनात् । इमे कुमार दशानुशंसा दानाधिमुक्तस्य बोधिसत्त्वस्य महासत्त्वस्य ॥
तत्रेदमुच्यते -
निगृहीतं सि मात्सर्यं त्यागचित्तं च बृंहितम् ।
आदत्तसारो भवति समृद्धे जायते कुले

26.2

जातमात्रस्य चित्तं सि त्याग एव प्रवर्तते ।
प्रियो भवति सत्त्वानां गृहप्रव्रजितान च

26.3

विशारदश्च पर्षत्सु अम रूप संक्रमेत् ।
भवत्युदारशब्दो ऽस्य ग्रामेषु नगरेषु च

26.4

मृदू हस्तौ च पादौ च भविष्यन्ति न दुर्लभाः ।
कल्याणमित्रांल्लभते बुद्धांश्च श्रावकानपि

26.5

मात्सर्यचित्तं सि न जातु भोति त्यागेषु चित्त रमते ऽस्य नित्यम् ।
प्रियश्च भोति बहुसत्त्वकोटिनां अमत्सरिस्या इमि आनुशंसाः

26.6

(वैद्य 159)
महाधने चापि कुले स जायते जातस्य त्यागे रमते मनो ऽस्य ।
आदत्तसारश्च करोति कालममत्सरिस्या इमि आनुशंसाः

26.7

विशारदश्चो परिषां विगाहते उदारशब्दो ऽस्य दिशासु याति ।
मृदु हस्तपादो ऽस्य सदैव जायते अमत्सरिस्या इमि आनुशंसाः

26.8

कल्याणमित्रास्य न भोन्ति दुर्लभा बुद्धांश्च यो पश्यति श्रावकांश्च ।
दृष्ट्वा च तान् पूजयते प्रसन्नो अमत्सरिस्या इमि आनुशंसाः

मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc