समाधिराजसूत्र · अध्याय 17
इति श्रीसमाधिराजे पूर्वयोगपरिवर्तो नाम षोडशः ॥ 16 ॥
(वैद्य 103)
17 बहुबुद्धनिर्हारसमाधिमुखपरिवर्तः ।
अथ खलु भगवांस्तां महतीं सागरोपमां पर्षदं धर्मकथया संदर्श्य समुत्तेज्य संप्रहर्ष्य समादाप्य उत्थायासनात् प्राक्रामत् । येन च गृध्रकूटपर्वतराजस्तेनैव उपसमक्रामत् । उपसंक्रम्य च प्रज्ञप्त एवासने न्यषीदत् । भिक्षुसंघपरिवृतो देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यनमस्कृतः सागरोपमायां पर्षदि धम संदेशयति स्म । अथ खलु चन्द्रप्रभः कुमारभूतो भगवन्तं निर्गतं विदित्वा अशीत्या प्राणिकोटीशतैः सार्धं सर्वैर्देवभूतैरन्यलोकधात्वागतैश्च संबहुलैर्बोधिसत्त्वमहासत्त्वनियुतैः सार्धं पुष्पधूपगन्धमाल्यविलेपनं गृहीत्वा तूर्यशतैर्वाद्यमानैश्छत्रध्वजघण्टापताकाभिरत्युच्छ्रिताभिः महामाल्याभिनिर्हारमादाय भगवतः पूजाकर्मणे येन गृध्रकूटपर्वतो येन च भगवांस्तेनोपजगाम । उपेत्य च भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्षिणीकृत्य तैः पुष्पधूपगन्धमाल्यविलेपनैस्तूर्यतालावचरैः प्रवाद्यमानैर्महतीं पूजां कृत्वा एकान्ते न्यषीदत् सगौरवः सप्रतीशो धर्मपरिपृच्छायै ॥
अथ खलु चन्द्रप्रभः कुमारभूतो भगवन्तमेतदवोचत् - पृच्छेयमहं भगवन्तं तथागतमर्हन्तं सम्यक्संबुद्धं कंचिदेव प्रदेशं सचेन्मे भगवानवकाशं कुर्यात् पृष्टप्रश्नव्याकरणाय । एवमुक्ते भगवांश्चन्द्रप्रभं कुमारभूतमेतदवोचत् - पृच्छ त्वं कुमार तथागतमर्हतं सम्यक्संबुद्धं यद् यदेवाकाङ्क्षसि । नित्यकृतस्ते कुमार तथागतेनावकाशः । एवमुक्ते चन्द्रप्रभः कुमारभूतो भगवन्तमेतदवोचत् - कतिभिर्भगवन् धर्मैः समन्वागतो बोधिसत्त्वः इमं सर्वधर्मस्वभावसमताविपञ्चितं समाधिं प्रतिलभते? एवमुक्ते भगवांश्चन्द्रप्रभं कुमारभूतमेतदवोचत् - चतुर्भिः कुमार धर्मैः समन्वागतो बोधिसत्त्वः इमं सर्वधर्मस्वभावसमताविपञ्चितं समाधिं प्रतिलभते । कतमैश्चतुर्भिः? इह कुमार बोधिसत्त्वो महासत्त्वः सूरतो भवति सुविसंवासो दान्तो दान्तभूमिमनुप्राप्तः । स परैराक्रुष्टो वा परिभाषितो वा दुरुक्तानां दुर्भाषितानां वचनपथानां क्षमो भवत्यधिवासनजातीयः कर्मदर्शी निहतमानो धर्मकामः । अनेन कुमार प्रथमेन धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्वः इमः समाधिं प्रतिलभते । पुनरपरं कुमार बोधिसत्त्वो महासत्त्वः शीलवान् भवति । परिशुद्धशीलः (वैद्य 104) अखण्डशीलः अच्छिद्रशीलः अशबलशीलः अकल्मषशीलः अच्युतशीलः अनाविलशीलः अगर्हितशीलः अभ्युद्गतशीलः अनिश्रितशीलः अपरामृष्टशीलः अनुपलम्भशीलः आर्यप्रशस्तशीलो विज्ञप्रशस्तशीलः । अनेन कुमार द्वितीयेन धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्वः इम समाधिं प्रतिलभते । पुनरपरं कुमार बोधिसत्त्वो महासत्त्वस्त्रैधातुके उत्त्रस्तचित्तो भवति संत्रस्तचित्तो निर्विण्णचित्तो निःसरणचित्तः । अनर्थिकः अनभिरतः अनध्यवसितः अनभिषक्तः । सर्वत्रैधातुके उद्विग्नमानसः । अन्यत्र त्रैधातुकात् सत्त्वानि मोचयिष्यामीति व्यायमते । समुदागच्छत्यनुत्तरायां सम्यक्संबोधौ । अनेन कुमार तृतीयेन धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्व इमं समाधिं प्रतिलभते । पुनरपरं कुमार बोधिसत्त्वो महासत्त्वः श्राद्धो भवति । अतृप्तो भवति धर्मपर्येष्ट्याम् । बहुश्रुतो भवति । विशारदो भवति । धर्मकामश्च धर्मगुरुकः । न लाभसत्कारश्लोकगुरुको
न ज्ञानगुरुकः । यथाश्रुतांश्च धर्मान् यथापर्यवाप्तान् परेभ्यश्च विस्तरेण देशयति संप्रकाशयति हितवस्तुपूर्वगमेन चित्तेन न ज्ञात्रलाभकामनया । अपि तु खलु पुनः किमितीमे सत्त्वा इमान् धर्मान् श्रुत्वा अविनिवर्तनीया भवेयुरनुत्तरायाः सम्यक्संबोधेरिति । अनेन कुमार चतुर्थेन धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्वः इमं समाधिं प्रतिलभते ॥
एभिः कुमार चतुर्भिर्धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्व इमं सर्वधर्मस्वभावसमताविपञ्चितं समाधिं प्रतिलभते क्षिप्रं चानुत्तरां सम्यक्संबोधिभभिसंबुध्यते । तदनेनापि ते कुमार पर्यायेणैवं वेदितव्यं यथायं समाधिर्बहुबुद्धदेशितो बहुबुद्धवर्णितो बहुबुद्धसंप्रकाशितो बहुबुद्धप्रविचितः । बहूनां च बुद्धानां भगवतामन्तिकान्मया प्रव्रजित्वा अयं कुमार सर्वधर्मस्वभावसमताविपञ्चितः समाधिर्विस्तरेण श्रुत उद्गृहीतः पृष्टो धारितो वाचितः प्रवर्तितो ऽरणभावनया भावितो बहुलीकृतः परेभ्यश्च विस्तरेण संप्रकाशितः । अथ खलु भगवानिममेव बहुबुद्धनिर्हारसमाधिमुखं पूर्वयोगकथानिर्देशं भूयस्या मात्रया तस्यां वेलायां चन्द्रप्रभस्य कुमारभूतस्य विस्तरेण गाथाभिगीतेन संप्रकाशयति स्म -
स्मरामि कल्पे ऽतुलियाप्रमेये यदा जिनो आसि स्वराङ्गघोषः ।
स्वराङ्गघोषस्य तथागतस्य वर्षं शता षष्टि अभूषि आयुः
तस्यानु बुद्धो परिमेण आसीत् ज्ञानेश्वरो नाम नराणमुत्तमः ।
ज्ञानेश्वरस्य द्विपदोत्तमस्य वर्षं सहस्रा दश द्वौ च आयुः
ज्ञानेश्वरस्यापि परेण बुद्धो तेजेश्वरो नाम जिनो अभूषि ।
(वैद्य 105)
तेजेश्वरस्य द्विपदोत्तमस्य षट्सप्तती वर्षसहस्र आयुः
तेजेश्वरस्योपरतेन बुद्धो मतीश्वरो नाम जिनो अभूषि ।
मतीश्वरस्य द्विपदोत्तमस्य वर्षाण कोटी परिपूर्ण आयुः
मतीश्वरस्योपरतेन बुद्धो ब्रह्मेश्वरो नाम जिनो अभूषि ।
ब्रह्मेश्वरस्य द्विपदोत्तमस्य चतुर्दशो वर्षसहस्र आयुः
ब्रह्मेश्वरस्योपरतेन बुद्धो अग्नीश्वरो नाम जिनो अभूषि ।
अग्नीश्वरस्य द्विपदोत्तमस्य षष्टिस्तदा वर्षसहस्र आयुः
अग्नीश्वरस्योपरतेन बुद्धो ब्रह्माननो नाम जिनो अभूषि ।
ब्रह्माननस्य द्विपदोत्तमस्य रात्रिंदिवा सप्त अभूषि आयुः
ब्रह्माननस्योपरतेन बुद्धो गणेश्वरो नाम जिनो अभूषि ।
गणेश्वरस्य द्विपदोत्तमस्य षड्वर्षकोट्यः परिपूर्ण आयुः
गणेश्वरस्योपरतेन बुद्धो घोषेश्वरो नाम जिनो अभूषि ।
घोषेश्वरस्य द्विपदोत्तमस्य नववर्षकोट्यः परिपूर्ण आयुः
घोषेश्वरस्योपरतेन बुद्धो घोषाननो नाम जिनो अभूषि ।
घोषाननस्य द्विपदोत्तमस्य दशवर्षकोट्यः परिपूर्ण आयुः
(वैद्य 106)
घोषाननस्योपरतेन बुद्धश्चन्द्राननो नाम जिनो अभूषि ।
चन्द्राननस्य द्विपदोत्तमस्य रात्रिंदिवा एक अभूषि आयुः
चन्द्राननस्योपरतेन बुद्धः सूर्याननो नाम जिनो अभूषि ।
सूर्याननस्य द्विपदोत्तमस्य अष्टादशो वर्षसहस्र आयुः
सूर्याननस्योपरतेन बुद्धो ब्रह्माननो नाम जिनो अभूषि ।
ब्रह्माननस्य द्विपदोत्तमस्य त्रिविंशति वर्षसहस्र आयुः
ब्रह्माननस्योपरतेन बुद्धो ब्रह्मश्रवो नाम जिनो अभूषि ।
ब्रह्मश्रवस्य द्विपदोत्तमस्य अष्टादशो वर्षसहस्र आयुः
एकस्मि कल्पस्मि इमे उपन्ना दुवे शते लोकविनायकानाम् ।
श्रुणोहि नामानिह कीर्तयिष्ये अनाभिभूतान् तथागतानाम्
अनन्तघोषश्च विघुष्टघोषो विघुष्टतेजश्च विघुःटशब्दः ।
स्वराविघुष्टश्च स्वरार्चितश्च स्वराङ्गशूरश्च स्वराङ्गशब्दः
ज्ञानाबलो ज्ञानविशेषगश्च ज्ञानाभिभूर्ज्ञानसमुद्गतश्च ।
ज्ञानार्चिमान् ज्ञानअभ्युद्गतश्च विघुष्टज्ञानस्तथ ज्ञानशूरः
ब्रह्माबलो ब्रह्मवसुः सुब्रह्म ब्रह्मा च देवस्तथ ब्रह्मघोषः ।
(वैद्य 107)
ब्रह्मेश्वरो ब्रह्मनरेन्द्रनेत्रे ब्रह्मस्वराङ्गः स्वरब्रह्मदत्तः
तेजोबलस्तेजवतिः सुतेजाः तेजेश्वरस्तेजसमुद्रतश्च ।
तेजोविभुस्तेजविनिश्चितश्च । तेजस्वरेन्द्रः सुविघुष्टतेजाः
भीष्मो बलो भीष्ममतिः सुभीष्मो भीष्माननो भीष्मसमुद्रतश्च ।
भीष्मार्चि र्भीष्मोत्तरु र्भीष्मघोषा एते जिना लोकविनायका ऽभूत्
गम्भीरघोषः शिरिधारणश्च विशुद्धघोषेश्वरु शुद्धघोषः ।
अनन्तघोषः सुविमुक्तघोषो मारो बलो मारवित्रासनश्च
सुनेत्र शुद्धाननु नेत्रशुद्धो विशुद्धनेत्रश्च अनन्तनेत्रः ।
समन्तनेत्रश्च विघुष्टनेत्रो नेत्राभिभूर्नेत्र अनिन्दितश्च
दान्तोत्तरो दान्त सुदान्तचित्तः सुदान्त शान्तेद्रिय शान्तमानसः ।
शान्तोत्तरः शान्तशिरी प्रशान्तः शान्तीय पारंगतु शान्तिशूरः
स्थितोत्तरः शान्त सुदान्तचित्तः सुदान्तशान्तेन्द्रियु शान्तमानसः ।
शान्तोत्तरः शान्तश्रिया ज्वलन्तः शान्तप्रशान्तेश्वरु शान्तिशूरः
गणेन्द्र गणमुख्यु गणेश्वरश्च गणाभिभूर्गणिवर शुद्धज्ञानी ।
महागणेन्द्रश्च गणेन्द्रशूरो अन्यो पुनो गणिवर प्रमोचकः
धर्मध्वजश्चो तथ धर्मकेतुः धर्मोत्तरो धर्मस्वभाव उद्गतः ।
(वैद्य 108)
धर्मबलश्चैव सुधर्मशूरः स्वभावधर्मोत्तरनिश्चितश्च
स्वभावधर्मोत्तरनिश्चितस्य अशीतिकोट्यः सहनामधेयाः ।
द्वितीयकल्पस्मि उत्पन्न नायका एते मया पूजित बोधिकारणात्
स्वभावधर्मोत्तरनिश्चितस्य यो नामधेयं शृणुते जिनस्य ।
श्रुत्वा च धारेति विघुष्ट नाम स क्षिप्रमेतं लभते समाधिम्
एतेष बुद्धान् परेण अन्यो अचिन्तिये अपरिमितस्मि कल्पे ।
अभूषि बुद्धो नरदेवपूजितः स नामधेयेन नरेन्द्रघोषः
नरेन्द्रघोषस्य तथागतस्य षट्सप्तती वर्षसहस्रमायुः ।
त्रयश्च कोटीशत श्रावकाणां यः सन्निपातः प्रथमो अभूषि
षडभिज्ञ त्रैविद्य जितेन्द्रियाणां महानुभावान महर्द्धिकानाम् ।
क्षीणास्रवाणान्तिमदेहधारिणां संघस्तदा आसि प्रभाकरस्य
अशीति कोटीनियुता सहस्रा यो बोधिसत्त्वान गणो अभूषि ।
गम्भीरबुद्धीन विशारदानां महानुभावान महर्द्धिकानाम्
अभिज्ञप्राप्ताः प्रतिभानवन्तो गतिगताः सर्वित शुन्यतायाः ।
ऋद्धीय गच्छन्ति ते क्षेत्रकोटियो ततोत्तरे यात्तिक गङ्गवालुकाः
(वैद्य 109)
पृच्छित्व प्रश्नं द्विपदाननुत्तमान् पुनेन्ति तस्यैव जिनस्य अन्तिके ।
सूत्रान्तनिर्हारनिरुक्तिकोविदा आलोकभूता विचरन्ति मेदिनीम्
सत्त्वानमर्थाय चरन्ति चारिकां महानुभावाः सुगतस्य पुत्राः ।
न कामहेतोः प्रकरोन्ति पापं देवा पि तेषां स्पृह संजनेन्ति
अनर्थिका भवगतिषु न निश्रिताः समाहिता ध्यानविहारगोचराः ।
विनिश्चितार्थाश्च विशारदाश्च निरामगन्धाः सद ब्रह्मचारिणः
अच्छेद्यवाक्याः प्रतिभानवन्तो निरुक्तिनिर्देशपदार्थकोविदाः ।
सर्वत्रसंदर्शक बुद्धपुत्राः परिगृहीताः कुशलेन कर्मणा
अनन्तकल्पाश्चरियाय उद्गताः स्तुताः प्रशस्ताः सद नायकेहि ।
विमोक्षतत्त्वार्थपदान देशकाः असंकिलिष्टाः सुविशुद्धशीलाः
अनोपलिप्ताः पदुमेन वारिणा विमुक्त त्रैधातुकतो ऽप्रमत्ताः ।
अनोपलिप्ताष्टहि लोकधर्मैर्विशुद्धकायाः परिशुद्धकर्माः
अल्पेच्छ संतुष्ट महानुभावा अगृद्ध ते बुद्धगुणाः प्रतिष्ठिताः ।
सर्वेष सत्त्वान गतिः परायणा न घोषमात्रप्रतिपत्तिसाराः
यत्र स्थितास्तं च परेषु देशयु सर्वेहि बुद्धेहि परिगृहीताः ।
(वैद्य 110)
वैश्वासिकाः कोशधरा जिनानां ते सर्वि त्रैधातुकि त्रस्तमानसाः
प्रशान्तचित्ताः सद रण्यगोचरा अधिष्ठिता लोकविनायकेभिः ।
भाषन्ति सुत्रान्तसहस्रकोटियो यं चैव भाषन्ति त बुद्धवर्णितम्
विवर्जिताः सर्वपदेभि लौकिकाः शून्याधिमुक्ताः परमार्थदेशकाः ।
अनन्तवर्णा गुणसागरोपमाः बहुश्रुताः पण्डित विज्ञवन्तः
सचेत् कुमारो बहुकल्पकोटिय अधिष्ठिहन्तः प्रवदेय वर्णम् ।
स अल्पकं तत् परिकीर्तितं भवेद् यथा समुद्रादुदबिन्दुरेकः
तस्मिंश्च काले स नरेन्द्रघोषो देशेतिमं शान्त समाधि दुर्दृशम् ।
महात्रिसाहस्रिय लोकधातु देवेहि नागेहि स्फुटो अभूषि
तस्यो इमं शान्त समाधि भाषतः प्रकम्पिता मेदिनि षड्विकारम् ।
देवा मनुष्या यथ गङ्गवालिका अविवर्तिकाये स्थित बुद्धज्ञाने
तत्रासि राजा मनुजान ईश्वरः शिरीबलो नाम महानुभावः ।
पुत्राण तस्यो शत पञ्च आसन्नभिरूप प्रासादिक दर्शनीयाः
अशीति कोटीशत इस्त्रियाणामन्तःपुरं तस्य अभूषि राज्ञः ।
चतुर्दशो कोटिसहस्र पूर्णा दुहितरो तस्य अभूषि राज्ञः
स कार्तिकायां तद पूर्णमास्यामष्टाङ्गिकं पोषधमाददित्वा ।
(वैद्य 111)
अशीतिकोटीनियुतेहि सार्धमुपागमल्लोकगुरुस्य अन्तिकम्
वन्दित्व पादौ द्विपदोत्तमस्य न्यषीदि राजा पुरतो जिनस्य ।
अध्याशयं तस्य विदित्व राज्ञो इमं समाधिं द्विपदेन्द्र देशयि
स पार्थिवः श्रत्व समाधिमेतमुत्सृज्य राज्यं यथ खेटपिण्डम् ।
परित्यजित्वा प्रिय ज्ञातिबान्धवान् स प्रव्रजी तस्य जिनस्य शासने
पुत्राण पञ्चाशत प्रव्रजिंसु अन्तःपुरं चैव तथैव धीतरो ।
अन्ये च तत्र पुत्रज्ञातिबान्धवाः षट्सप्ततिर्नयुत त्रयश्च कोट्यः
स प्रव्रजित्वेह सपुत्रदारं स्थपेत्व आहारनिर्हारभूमिम् ।
अधिष्ठितश्चंक्रमि अष्टवर्षं स चंक्रमे वस्थितु काल कार्षीत्
स कालु कृत्वा तद राजकुञ्जरो समाधिचित्तो सुसमाहितः सदा ।
तत्रैव सो राजकुले उपन्नो उपपादुको गर्भमलैरलिप्तः
दृढबलो नाम पितास्य भूषि महामती नाम जनेत्रि आसीत् ।
स जातमात्रो अवची कुमारो कच्चिन्नु सो तिष्ठति लोकनाथः
जानाति मे आशयु लोकनाथो येनो ममा शान्त समाधि देशितः ।
(वैद्य 112)
अप्रत्यया अपगतप्रत्यया च यो एक निर्देशु भवे गतीनाम्
या सर्वधर्माण स्वभावमुद्रा यः सूत्रकोटीनियुतान आगमः ।
यो बोधिसत्त्वान धनं निरूत्तरं कच्चिज्जिनो भाषति तं समाधिम्
कायस्य शुद्धी तथ वाच शुद्धी चित्तस्य शुद्धिस्तथ दृष्टिशुद्धिः ।
आरम्बणानां समतिक्रमो यः कच्चिज्जिनो भाषति तं समाधिम्
अविप्रणाशः फलधर्मदर्शनं अष्टाङ्गिका मार्गवरस्य भावना ।
तथागतैः संगमु तीक्ष्णप्रज्ञता सत्यप्रवेशः सद धर्मज्ञानम्
स्कन्धपरिज्ञा समता च धातुनामपकर्षणं चायतनान सर्वशः ।
अनुत्पाद साक्षात्क्रिययावतारः कच्चिज्जिनो भाषति तं समाधिम्
प्रतिसंविदा शान्त्यवतारज्ञानं सर्वाक्षराणां च प्रभेदज्ञानम् ।
वस्तुनिवेशसमतिक्रमो यः कच्चिज्जिनो भाषति तं समाधिम्
घोषः परिज्ञाथ प्रामोद्यलाभः प्रीतिश्च भोती सुगतान वर्णम् ।
आर्या गतिर्मार्दवता च उज्जुका कच्चिज्जिनो भाषति तं समाधिम्
ना जातु कुर्याद्भुकुटिं स सूरतः साखिल्य माधुर्य स्मितं मुखं च ।
दृष्ट्वा च सत्त्वान् प्रथमालपेति कच्चिज्जिनो भाषति तं समाधिम्
(वैद्य 113)
अनालस्यता गौरवता गुरूणां शुश्रूषणा वन्दन प्रेमदर्शना ।
उपपत्ति संतुष्टित शुक्लता च कच्चिज्जिनो भाषति तं समाधिम्
आजीवशुद्धिस्तथ रण्यवासो धूते स्थितानुस्मृतेरप्रमोषः ।
स्कन्धेषु कौशल्यमथापि धातुषु कच्चिज्जिनो भाषति तं समाधिम्
आयतनकौशल्यमभिज्ञज्ञानं किलेशअपकर्षण दान्तभूमि ।
पृथुसर्वमन्त्राणमसावुच्छेदः कच्चिज्जिनो भाषति तं समाधिम्
समतिक्रमः सर्वभवग्गतीनां जातिस्मृति धर्मनिष्काङ्क्षता च ।
धर्मे च चित्तं श्रुत एषणा च कच्चिज्जिनो भाषति तं समाधिम्
विशेषगामी सद भावनारति आपत्ति कौशल्यत निःसृतौ स्थितः ।
यत्र स्थितो ऽनुशयितां जहाति कच्चिज्जिनो भाषति तं समाधिम्
तीक्ष्णस्य ज्ञानस्य वरागमो यतो अचालियो शैलसमो अकम्पितः ।
अविवर्तितालक्षण धारणीमुखं कच्चिज्जिनो भाषति तं समाधिम्
शुक्लान धर्माण सदा गवेषणा पापान धर्माण सदा विवर्जना ।
संक्लेशपक्षस्य सदा प्रचारु यो कच्चिज्जिनो भाषति तं समाधिम्
सर्वासु शिक्षासु गतिंगतो विदुः समाध्यवस्थानगतिंगतश्च ।
(वैद्य 114)
सत्त्वान चो आशयु ज्ञात्व चोदको देशेति धर्मं वरबुद्धबोधौ
विशेषज्ञानं उपपत्तिज्ञानं अनन्तज्ञानं सुसमाप्तज्ञानम् ।
सर्वग्गतीनां प्रतिसंधिज्ञानं कच्चिज्जिनो भाषति तं समाधिम्
गृहान् समुत्सृज्य प्रव्रज्यचित्तं त्रैधातुके अनभिरती ननुग्रहः ।
चित्तस्य संप्रग्रहणं सहर्षणा देशेति धर्मं द्विपदानमुत्तमः
धर्मेषु चो नाभिनिवेश तायि परिग्रहो धर्मवरे सदा च ।
कर्मविपाके च दृढाधिमुक्तिं देशेति धर्म द्विपदानमुत्तमः
विनयस्मि कौशल्य विपाकज्ञानं कलहं विवादान तथोपशान्तिः ।
अविग्रहं वाप्यविवादभूमिं देशेति धर्म द्विपदानमुत्तमः
क्षान्तीसमादानमक्रोधस्थानं विनिश्चये धर्मि सदा च कौशलम् ।
पदप्रभेदेषु च ज्ञानदर्शनं देशेति धर्मं करुणां जनेत्वा
पूर्वान्तज्ञानमपरान्तज्ञानं त्रियध्वसमता सुगतान शासने ।
परिच्छेद उक्तः स त्रिमण्डलस्य एवं जिनो देशयि धर्मस्वामी
चित्तव्यवस्थान एकाग्रता च कायव्यवस्थान यथार्यभूमिः ।
ईर्यापथस्थो सद कालि रक्षणा देशेति धर्मं पुरुषर्षभो मुनिः
(वैद्य 115)
हिरिश्च ओत्राप्यु प्रासादिकं च युक्तां गिरं भाषति लोकज्ञानम् ।
प्रवृत्तिधर्मं प्रकृतिं च प्राणिनां देशेति धर्मं वरबोधिउमग्र्याम्
अनुग्रहं चो हिरिमोत्राप्यं च चित्तस्य चाकुशलता जुगुप्सना ।
धूतस्यानुत्सर्गत पिण्डचर्यां देशेति धर्मं द्विपदानमुत्तमः
हिरिश्च ओत्राप्यु सदाचरेता गुरूणाभिवादन प्रत्युत्थानम् ।
मानस्य चो निग्रह आदितैव एवं जिनो देशयि धर्मस्वामी
चित्तसमुत्थानत चित्तकल्यता ज्ञानप्रतीवेधु तथानुबोधम् ।
अज्ञानपक्षस्य सदा विवर्जना देशेति धर्मान् वरबुद्धबोधिम्
चित्तप्रवेशं च रूतस्य ज्ञानं निरुक्त्यवस्थान विनिश्चितार्थम् ।
सर्वेष्वनर्थान सदा विवर्जनम् एवं जिनो देशयि धर्मस्वामी
ससङ्गता सत्पुरुषेहि नित्यं विवर्जना कापुरुषान चैव ।
जिने प्रसादं सद प्रेमतां च एवं जिनो देशयि धर्म श्रेष्ठम्
संकेतप्रज्ञप्तिव्याहारतां च संसारदुःखानि सदा विवर्जना ।
अलाभि लाभे च असक्तभावमेवं जिनो देशयि धर्ममुत्तमम्
सत्कारु लब्ध्वा च न विस्मयेय्या असत्कृतश्चापि भवेदुपेक्षकः ।
भूते ऽपि वर्णं न कदाचि मोदिये इय देशना लोकहितस्य ईदृशी
(वैद्य 116)
आक्रोशनां पंसन सर्वशो सहेदसंस्तवः सर्वगृहीहि सार्धम् ।
संसर्गतां प्रव्रजितेन कुर्यादेवं जिनो देशयि धर्मस्वामी
बुद्धान चो गोचरि सुप्रतिष्ठितो अगोचरं सर्व विवर्जयित्वा ।
आचारसंपन्न सुदान्तचित्तो इय धर्मनेत्री सुगतेन देशिता
ये बालधर्माः सद तान् विवर्जयेत् कुलदूषणं सर्व विवर्जयेच्च ।
आरक्षितव्यं सद बुद्धशासनं एवं जिनो देशयि धर्मस्वामी
अल्पं च भाष्ये मधुरं सुयुक्तं कल्याणतां मृदुवचनं परेषाम् ।
प्रत्यर्थिकानां सहधर्मनिग्रहो इयं जिने ईदृश आनुशासनी
प्रतिक्रमेत् कालि न चो अकाले न विश्वसेत् सर्वपृथग्जनेषु ।
दुःखेन स्पृष्टो न भवेत दुर्मना इयं जिने ईदृश आनुशासनी
दरिद्र दृष्ट्वा सधनं करेय्या दुःशील दृष्ट्वा अनुकम्पितव्या ।
हितवस्तुतायां सद ओवदेय्य इयं जिने ईदृश आनुशासनी
धर्मेण सत्त्वा अनुगृह्णितव्या लोकामिषत्यागु सदा च कार्यो ।
न संचयं नो निचयं च कुर्यादियं जिने ईदृश आनुशासनी
शीलप्रशंसा च कुशीलकुत्सना अशाठ्यता शीलवतां निषेवणम् ।
सर्वस्वकात्यागि धने ऽप्यनिश्रितो इयं जिने ईदृश आनुशासनी
(वैद्य 117)
अध्याशयेनो गुरुणा निमन्त्रणा यथा च भाषे तथ सर्व कुर्याम् ।
अभीक्ष्ण सेवेय्य च धर्मभाणकं इयं जिने ईदृश आनुशासनी
सगौरवः प्रीतमनाः सदा भवेत् सोम्याय दृष्टीय सदा स्थितो भवेत् ।
पूर्वासु चर्यासु सुनिश्चितः सदा इयं जिने ईदृश आनुशासनी
पूर्वंगमः कुशलचरीषु नित्यमुपायकौशल्य निमित्तवजने ।
संज्ञाविवर्ते तथ वस्तुलक्षणे इयं जिने ईदृश आनुशासनी
सूत्रान्तनिर्हारपदेषु कौशलं सत्यान निर्देशपदेषु निश्चयः ।
विमुक्तिज्ञानस्य च साक्षिकारिता इयं जिने ईदृश आनुशासनी
शून्याश्च धर्माः सद सेवितव्या विशारदाः शीलबले प्रतिष्ठिताः ।
समाधिस्थानेन समोत्तरेय्या इयं जिने ईदृश आनुशासनी
न ज्ञात्रलाभं पि कदाचि देशयेच्चित्तस्य चापी कुहनां न कुर्यात् ।
दृष्टीकृतां सर्व विवर्जयेच्च इयं जिने ईदृश आनुशासनी
प्रतिभानु श्रेष्ठं वर धारणीये ज्ञानस्य चोभासु अनन्तपारो ।
अधिष्ठानमन्त्र प्रतिभानयुक्तिरियं जिने ईदृश आनुशासनी
(वैद्य 118)
शीलस्य द्वारमिम मार्गभावना प्रतिपत्ति - ओवादनयश्च भद्रको ।
अनुशासनी अत्र चरित्व शासनी इयं जिने ईदृश आनुशासनी
अनुलोमिकी क्षान्ति य बुद्धवर्णिता क्षान्तिस्थितो दोष विवर्जयेत ।
अज्ञान वर्जेय्य स्थिहित्व ज्ञाने इयं जिने ईदृश आनुशासनी
ज्ञानप्रतिष्ठा तथ योगभूमी योगेश्वरी बोधयि प्रस्थितानाम् ।
निषेवणा सत्पुरुषाण नित्यं इयं जिने ईदृश आनुशासनी
अयुक्तयोगीन सदा विवर्जना तथागतैर्भाषित बुद्धभूमि ।
अनुमोदिता सर्विहि पण्डितेहि इयं जिने ईदृश आनुशासनी
बालैः प्रतिक्षिप्त अज्ञातकेहि अभूभिरत्र पृथुश्रावकाणाम् ।
परिगृहीताः सद बोधिसत्त्वैः इयं जिने ईदृश आनुशासनी
तथागतेहि अनुबुद्धमेतं देवेहि चो सत्कृतु पूजितं च ।
अनुमोदितं ब्रह्मसहस्रकोटिभिः कच्चिज्जिनो भाषति तं समाधिम्
नागसहस्रेहि सदा सुसत्कृतं सुपर्णयक्षेहि च किन्नरेहि ।
या भाषिता बोधिवरा जिनेभिः कच्चिज्जिनो भाषति तं समाधिम्
पर्याप्त या नित्यु सुपण्डितेहि धनं च श्रिष्ठं प्रवरं सुलब्धम् ।
(वैद्य 119)
निरामिषं ज्ञान चिकित्स उत्तमा कच्चिज्जिनो भाषति तं समाधिम्
ज्ञानस्य कोषः प्रतिभानमक्षयं सूत्रान्तकोटीन प्रवेश एषः ।
परिज्ञ त्रैधातुकि भूतज्ञानं कच्चिज्जिनो भाषति तं समाधिम्
नौका इयं देशित पारगामिनां नावा पि चो ओघगतान एषा ।
कीर्तिर्यशो वर्धति वर्णमाला येषामयं शान्त समाधि देशितः
प्रशंस एषा च तथागतानां स्तवश्च एषो पुरुषर्षभाणाम् ।
स्तव बोधिसत्त्वान नयश्च अक्षयो येही अयं शान्त समाधि देशितः
मैत्री इयं दोषशमे प्रकाशिता उपेक्षियं कारुणिकान भूमिम् ।
आश्वासयन्तेष महाशयानां येषां कृतेनैष समाधि भाषितः
प्रतिपत्तियं देशित सिंहनादिनामितु बुद्धज्ञानस्य वरस्य आगमः ।
सर्वेष धर्माण स्वभावमुद्राः समाध्ययं देशितु नायकेहि
सर्वज्ञज्ञानस्य च आहरित्रिमा चर्या इयं बोधयि प्रस्थितानाम् ।
वित्रासनं मारचमूय चापि समाध्ययं शान्त जिनेन देशितः
विद्या इयं धर्मस्थितान तायिनां अमित्रमध्ये परमा च रक्षा ।
प्रत्यर्थिंकानां सहधर्मनिग्रहाः समाध्ययं शान्त जिनेन देशितः
(वैद्य 120)
प्रतिभानभूमी इय संप्रकाशिता बला विमोक्षा तथ इन्द्रियाणि ।
विशिष्ट अष्टादश बुद्धधर्माः समाधि शान्तेष निषेवमाणाः
दशान पर्येष्टि बलान भूता पूर्वनिमित्तं पि च बुद्धज्ञाने ।
ये बुद्धधर्माः पुरुषोत्तमेन प्रकाशिता लोकहितानुकम्पिना
बुद्धान पुत्रेभिरयं प्रतीहितो विमोक्षकामानयु मार्गु देशितः ।
प्रीतिश्च तस्मिन् सुगतात्मजानां श्रुणित्विमं शान्त समाधि दुर्दृशम्
या बुद्धज्ञानस्य च पारिपूरिता याभेषते पण्डितु बोधिसत्त्वः ।
विशुद्धचित्तश्च शुचिर्निरङ्गणो इमं निषेवेत समाधि शान्तम्
परिशुद्ध कायो ऽस्य यथा जिनान विमोक्षज्ञानं च विमुक्तिदर्शनम् ।
असंकिलिष्टः सद रागबन्धनैः इमं निषेवेत समाधि भद्रकम्
अभूमि दोषे विगमश्च मोहे ज्ञानस्य चो आगमु मुक्तिमिच्छतः ।
विद्याय उत्पादु अविद्यनाशकम् इमं निषेवेत समाधि शान्तम्
विमुक्तिसाराणिय तृप्ति भाषिता ध्यायीनयं शान्त समाधि देशितः ।
चक्षुश्च बुद्धानमनिन्दितानामिमं निषेवेत समाधि शान्तम्
अभिज्ञ एषा बहुक्षेत्रे दर्शिता ऋद्धिश्च बुद्धान अनन्त दर्शिता ।
या धारणी सापि ततो न दुर्लभा निषेवमाणस्य समाधिमेतम्
(वैद्य 121)
शान्तेन्द्रियस्यो इह स्थानु बोधये इदमधिष्ठानमनन्तदर्शितम् ।
सूक्ष्मं च ज्ञानं विपुलं विशुद्धं निषेवमाणस्य इमं समाधिम्
सु बुध्यते नैष अयुक्तयोगैर्विवर्तनं सर्वसु अक्षराणाम् ।
न शक्यु घोषेण विजाननाय येनो अयं शान्त समाधि न श्रुतः
ज्ञातं तु विज्ञैरयु बोधिसत्त्वैर्यथा व यं देशितु धर्मस्वामिना ।
प्रतिबुद्धु शान्तेहि अनिन्दितेहि इमं समाधिं प्रतिषेवमाणैः
आरब्धवीर्येहि समुद्गृहीतमुपस्थितं च सापि सदा सुधारितम् ।
दुःखक्षयो जातिनिरोधज्ञानमिमं समाधिं प्रतिषेवमाणैः
सर्वेष धर्माणमजाति भाषिता एवं च सर्वासु भवग्गतीषु ।
ज्ञानाग्रु बुद्धान महाशयानां कच्चिज्जिनो भाषति तं समाधिम्
तस्यो कुमारस्यिमि गाथ भाषतो अष्टाशीतिनियुतसहस्र पूर्णाः ।
घोषानुगा क्षान्ति लभिंसु तत्र अविवर्तिकाये स्थितु बुद्धज्ञाने
दृढबलस्तमवदी कुमारमद्यापि सो तिष्ठति लोकनाथः ।
पृच्छामि त्वं दारक एतमर्थं कुतस्त्वया एष श्रुतः समाधिः
कुमारु राजन् अवदी शृणोहि दृष्टस्मि कोटीनियुतं जिनानाम् ।
(वैद्य 122)
एकस्मि कल्पस्मि ते सर्वि सत्कृता अयं च मे शान्त समाधि पृच्छितः
चत्वारि कल्पा नवतिं च अन्ये कल्पान कोटीनियुता सहस्राः ।
जातिस्मरो भोम्यहु तत्र तत्र न चापि गर्भे उपपद्यि जातु
ततो मया एषा समाधि भावितः शुद्धं श्रुतस्तेष जिनान भाषताम् ।
श्रुत्वा च उद्दिष्टु जनेत्व छन्दं निष्काङ्क्षआप्तेन स्पृशिष्यि बोधिम्
ये भिक्षु मह्यं परिपृच्छदेन्ति पर्यापुणन्तस्य इमं समाधिम् ।
उपस्थपेमी अहु तत्र गौरवं यथैव लोकार्थकराण अन्तिके
येषां मया अन्तिक एक गाथा उद्दिष्ट चर्यां चरतानुलोमिकीम् ।
मान्यामि तानप्यहु शान्तु एते उपस्थपेमी अहु बुद्धगौरवम्
यश्चापि मां पृच्छितु कश्चिदेति पर्यापुणन्तं इमु सत्समाधिम् ।
स्वप्नान्तरे ऽपीह न मे ऽस्ति काङ्क्षा नाहं भविष्ये जिनु लोकनायकः
वृद्धेषु मध्येषु नवेषु भिक्षुषु सगौरवो भोम्यहु सुप्रतीतः ।
सगारवस्यो मम वर्धते यशः पुण्यं च कीर्तिश्च गुणास्तथैव
कलीविवादेषु न भोमि उत्सुको अल्पोत्सुको भोम्यहु तत्र काले ।
अन्या गतिर्भोति करित्व पापकं अन्या गतिर्भोति करित्व भद्रकम्
अयुक्तयोगान असंयतानाममनोज्ञ तेषां वचनं श्रुणित्वा ।
(वैद्य 123)
कर्मस्वको भोम्यहु तस्मि काले कृतस्य कर्मस्य न विप्रणाशः
न ह्यत्र क्रोधो भवती परायणं क्षान्तीबलं गृह्णयहु बुद्धवर्णितम् ।
क्षान्तिः सदा वर्णित नायकेहि क्षान्तिं निषेवित्व न बोधि दुर्लभा
अहं च भोमी सद शीलवन्तो अन्यांश्च शीलस्मि प्रतिष्ठपेमि ।
शीलस्य वर्णु सदहं भणामि वर्णं च भोति मम तत्र भाषितम्
अरण्यवर्णं च सदा पि भाषे शीलस्मि चो भोमि सदा प्रतिष्ठितः ।
समादपेमि अहु अन्य पोषधे तांश्चैव बोधाय समादपेमि
तान् ब्रह्मचर्ये ऽपि समादपेमि अर्थस्मि धर्मस्मि प्रतिष्ठपेमि ।
तेषां च बोधिम्यहु बोधिमार्गं यस्मिन्निमे भोन्ति अनन्त सङ्गाः
स्मराम्यहं कल्पमतीतमध्वनि यदा जिनो आसि स्वराङ्गघोषः ।
प्रतिज्ञ तस्यो पुरतः कृता मे क्षान्तीबलो भोम्यहु नित्यकालम्
तत्र प्रतिज्ञाय प्रतिष्ठिहित्वा वर्षाण कोटी चतुरो अशीतिम् ।
मारेणहं कुत्सित पंसितश्च न चैव चित्तं मम जातु क्षुब्धम्
जिज्ञासनां तत्र करित्व मारो ज्ञात्वान मह्यं दृढ क्षान्तिमैत्रीम् ।
प्रसन्नचित्तश्चरणानि वन्द्य मे पञ्चशता बोधिवराय प्रस्थिताः
(वैद्य 124)
अमत्सरी भोम्यहु नित्यकालं त्यागस्य चो वर्ण सदा प्रभाषे ।
आढ्यश्च भोमी धनवान् महात्मा दुर्भिक्षकाले बहु भोमि दायकः
ये भिक्षु धारेन्ति इमं समाधिं ये चापि वाचेन्ति य उद्दिशन्ति ।
करोमि तेषां अहु पारिचर्यां सर्वे च भेष्यन्ति नराणमुत्तमाः
कर्मणा तेनाहमनुत्तरेण पश्यामि बुद्धान् बहु लोकनाथान् ।
लभित्व प्रव्रज्य जिनानुशासने भवामि नित्यं विदु धर्मभाणकः
धूताभियुक्तो अहु भोमि नित्यं कान्तारमारण्य सदा निषेवी ।
नाहारहेतोः कुहनां करोमि संतुष्टु भोमी इतरेतरेण
अनीर्षुको भोम्यहु नित्यकालं कुलेषु चाहं न भवामि निश्रितः ।
कुलेषु सक्तस्य हि ईर्ष्य वर्धते अनीर्ष्युकस्तुष्टि वनेषु विन्दमि
मैत्रीविहारी अहु भोमि नित्यमाक्रुष्टु सन्ता न जनेमि क्रोधम् ।
मैत्रीविहारिष्यमि सूरतस्य चतुर्दिशं वर्धति वर्णमाला
अल्पेच्छु संतुष्टु भवामि नित्यमारण्यकश्चैव धुताभियुक्तः ।
न चोत्सृजामी अहु पिण्डपातं दृढं समाधान धुतेषु विन्दमि
श्राद्धश्च भोमी मनसः प्रसादो बहुप्रसादः सद बुद्धशासने ।
(वैद्य 125)
प्रसाद बहु लप्स्यमि आनुशंसा प्रासादिको भोमि अहीन इन्द्रियः
यश्चैव भाषाम्यहु तत्र तिष्ठे प्रतिपत्तिसारो अहु नित्यु भोमि ।
प्रतिपत्तिसारस्यिमि देवनागाः कुर्वन्त्युस्थानु प्रसन्नचित्ताः
गुणा इमे कीर्तित यावता मे एते च अन्ये च बहू अनेके ।
ये शिक्षितव्याः सद पण्डितेन यो इच्छती बुध्यितु बुद्धबोधिम्
स्मराम्यतो बहुतरु दुष्कराणि ये पूर्वकल्पे चरितान्यनेके ।
बहुं पि दानीं भणितु न शक्यं गच्छामि तावत् सुगतस्य अन्तिकम्
सुतीक्ष्णप्रज्ञो विदु बोधिसत्त्वो तस्मिन् क्षणे स्पर्शयि पञ्चभिज्ञा ।
ऋद्धीय सो गच्छि जिनस्य अन्तिके स प्राणिकोटीभिरशीतिभिः सह
दृढबलो परमु उदग्र आसीत् सार्धं तदा कोटिशतेहि षष्टिभिः ।
उपसंक्रमी मूलु तथागतस्य वन्दित्व पादौ पुरतो न्यषीदत्
अध्याशयं तस्य विदित्व राज्ञो इमं समाधिं द्विपदेन्द्र देशयि ।
श्रुत्वा च सो पार्थिविमं समाधिं उज्झित्व राज्यं निरपेक्षु प्रव्रजी
स प्रव्रजित्वान इमं समाधिं भावेति वाचेति प्रकाशयेति ।
स षष्टिभिः कल्पसहस्रु पश्चात् पद्मोत्तरो नाम जिनो अभूषि
षष्टिस्तदा कोटिशत अनूनका ये राज्ञ सार्धं उपसंक्रमी जिनान् ।
(वैद्य 126)
ते चापि श्रुत्वैव समाधिमेतं तुष्टा उदग्रास्तद प्रव्रजिंसु
ते प्रव्रजित्वान इमं समाधिं धारेंसु वाचेंसु प्रकाशयिंसु ।
षष्टीन कल्पानि नयुतान अत्यया स्पृशिंषु बोधिं वरमेककल्पे
अनन्तज्ञानोत्तरनामधेया अभूषि बुद्धा नरदेवपूजिताः ।
तदेकमेके द्विपदानमुत्तमो मोचेन्ति सत्त्वान्यथ गङ्गवालिकाः
शीरीबलो राजु अहं अभूषि इमां चरन्तो वरबोधिचारिकाम् ।
ये मम पुत्राः शत पञ्च आसन् इममेव एते अनुधर्मपापाः
एवं मया कल्पसहस्रकोटयो आरब्धवीर्येण अतन्द्रितेन ।
समाधि पर्येष्ट अयं विशुद्धः समुदानयन्नेति तमग्रबोधिम्
कुमार तस्माद्धि ये बोधिसत्त्वा आकाङ्क्षते एतु समाधिमेषितुम् ।
आरब्धवीर्यो निरपेक्षु जीविते ममा कुमारा अनुशिक्षते सदा
मूल पाठ: Samādhirājasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0