साधनदीपिका · अध्याय 8
वदने चैव कण्ठे च बाह्वोर् उरसि चोदरे ।
पादयोश् च क्रमेणार्णान् न्यसेन् मन्त्रोद्भवान् पृथक् ॥
क्लीं श्रीं राधिकायै स्वाहा । अस्य श्री-राधिका-मन्त्रस्यागस्त्य-ऋषिर् जगती
छन्दः । श्री-राधिका परमेश्वरी देवता क्लीं बीजं स्वाहा शक्तिः क्लीं श्रीं
कीलकं श्री-कृष्णवश्यर्थ-जपे विनियोगः । अगस्त्य-ऋषये नमः (शिरसि) । जगती-
छन्दसे नमः (मुखे) । राधिका-देवतायै नमः (हृदये) । क्लीं बीजाय नमः
(गुह्ये) । श्रीं स्वाहा-शक्तये नमः (पादयोः) । क्लीं श्रीं कीलकाय नमः
(सर्वाङ्गेभ्यः) । क्लीं अङ्गुष्ठाभ्यां नमः । क्लीं तर्जनीभ्यां नमः । क्लीं
मध्यमाभ्यां नमः । क्लीं अनामिकाभ्यां नमः । क्लीं कनिष्ठाभ्यां
नमः । क्लीं श्री-राधिकायै स्वाहा कर-तल-पृष्ठाभ्यां नमः । क्लीं हृदयाय
नमः । श्रीं शिरसे स्वाहा । राधिकायै स्वाहा शिखायै वषट् । क्लीं कवचाय हूं
। श्रीं राधिकायै स्वाहा अस्त्राय फट् ।
ध्यात्वा जपेत् । लक्ष-मात्रं पुरश्चरणम् । कलौ चतुर्-लक्षं जप्त्वा च
कुशलीभवेत् ।
श्रीं राधिकायै विद्महे क्लीं वृषभानुजायै धीमहि तन् नो गोपी प्रचोदयात् ।
प्रिया गायत्र्या ब्रह्मा ऋषिर् गायत्री छन्दः श्री-राधिका देवता श्री-कृष्ण-प्रीतये
जपे विनियोगः । श्री-श्री-राधिकायै विद्महे अङ्गुष्ठाभ्यां नमः । क्लीं
वृषभानुजायै धीमहि तर्जनीभ्यां स्वाहा । तन् नो गोपी प्रचोदयात्
मध्यमाभ्यां वषट् । श्रीं राधिकायै विद्महे अनामिकाभ्यां हुं । क्लीं
वृषभानुजायै धीमहि कनिष्ठाभ्यां वषट् । तन् नो गोपी प्रचोदयात् कर-तल-
कर-पृष्ठाभ्यां फट् । एवं हृदयादिष्व् अपि ।
अथ ध्यानम् ।
सूर्य-मण्डल-मध्यस्थां ल्केहनी-पुस्तिकान्विताम् ।
श्री-कृष्ण-सहितां ध्यायेत् त्रि-सन्ध्यं राधिकेश्वरीम् ॥
अथाष्टादशाक्षर-महाराज-मन्त्र-प्रयोगः । ओं अस्य श्री-अष्टादशाक्षर-श्री-
राधिका-मन्त्रस्य संमोहन-ऋषिर् अनुष्टुप्-छन्दः श्री-राधा देवता स्वाहा
शक्तिः क्लीं कीलकं श्री-कृष्ण-प्रीत्य्-अर्थे जपे विनियोगः । संमोहन-ऋषये नमः
(शिरसि) । अनुष्टुप्-छन्दसे नमः (मुखे) । श्री-राधा देवतायै नमः
(हृदये) । रां राधिके कवचाय हुं । कृष्ण-वल्लभे शिखायै वषट् । गायत्री
सर्वाङ्गे । श्री-राधिकायै विद्महे कृष्ण-वल्लभायै धीमहि तन् नो गोपी
प्रचोदयात् ।
अथ अङ्ग-न्यासः । श्रीं अङ्गुष्ठाभ्यां नमः । राधिकायै तर्जनीभ्यां नमः
। विद्महे मध्यमाभ्यां नमः । कृष्ण-वल्लभायै अनामिकाभ्यां नमः ।
धीमहि कनिष्ठाभ्यां नमः । तन् नो गोपी प्रचोदयात् कर-तल-कर-
पृष्ठिकाभ्यां नमः । श्रीं हृदयाय नमः । राधिकायै शिरसे स्वाहा । विद्महे
कवचाय हूं । कृष्ण-वल्लभायै धीमहि नेत्र-त्रयाय वौषट् । तन् नो गोपी
प्रचोदयात् अस्त्राय फट् ।
अथ ध्यानम्-
तप्त-हेम-प्रभां नील-कुञ्चिताबद्ध-मौलिकाम् ।
शरच्-चन्द्र-मुखीं नृत्यच् चकोरी-चारु-लोचनाम् ॥
सर्वावयव-सौन्दर्यां सर्वाभरण-भूषिताम् ।
नीलाम्बर-धरां कृष्ण-प्रियां किशोरीम् आश्रये ॥
ह्रीं श्रीं क्लीं रां राधिकायै कृष्ण-वल्लभायै गोप्यै स्वाहा । जप-नियमं
लक्ष-मात्रम् । पुरश्चरणं कलौ चतुर्गुणम् । साक्षात्काराय भवेद् इत्य् अर्थः
। माया-बीजम् अन्तरङ्गा-बहिरङ्गा-चिच्-छक्ति-स्वरूपम् । लक्ष्मी-बीजं पर-
ब्रह्मानन्द-सर्व-लक्ष्मी-सर्व-शक्ति-स्वरूपम् । काम-बीजं साक्षान्-मन्मथ-
मन्मथ-लीला-विलास-श्री-कृष्ण-स्वरूपम् । र-कारः शुक्ल-भास्कर-रूपः । आ-
कारः समस्तैश्वर्य-रूपः । बिन्दुः समस्त-माधुर्य-रूपः । कला समस्त-
संयोग-रूपः । तत्र-
कलाया नित्य-संयोगो बिन्दुर् माधुर्यम् इष्यते ।
नारायणोन् निजैश्वर्यं र-कारः शुक्ल-भास्करः ॥
किं च, प्राणायम-विधिः-एकेनापूरयेद् वामे चतुर्भिः । कुम्भयेद् अथ । ईडादि-
क्रमतो मन्त्री ततो द्वाभ्यां विरेचयेत् ।
अथ श्री-राधिकायाः प्रियतम-श्री-पञ्चाक्षरी-मन्त्र-विधानं पूर्ववत् ।
अथ श्री-गोपेश्वरी-साधनम्
अथास्याः साधनं वक्ष्ये गोपेश्वर्या विशेषतः ।
राकायां पूर्ण-चन्द्रे तु सायम् आरभ्य यत्नतः
नित्य-कृत्यं निर्वर्त्य जप-होमादिकं तथा ।
ततो मध्य-दिवं गते शीत-भानौ सुमण्डले
अधः संरोपयेत् पात्रं विशालं राजतादिकम् ।
तन्-मध्ये पूरयेत् तोयं यामुनं गाङ्गम् एव वा
द्विर्-आवृत्त्या मातृकया आरोहाद् अवरोहतः ।
अथवा पुष्करादौ च विमले तीर्थ-वारिणि
प्रपश्येत् सुमना भूत्वा सम्पूर्णं चन्द्र-मण्डलम् ।
बिम्बितं सुस्थिरीभूतं पीठ-बुद्ध्या विभावयेत्
दिग्-बन्धं विधिना कृत्वा विघ्नान् उत्सारयेत् सुधीः ।
पीठ-न्यासं ततः कुर्यात् सम्पूर्णे चन्द्र-मण्डले
[*एन्द्नोते #11]
प्रकृतिं चैव कूर्मं च सुधा-सिन्धु-महोहरम् ।
मणि-दीपं तथा दिव्यं चिन्ता-मणि-गृहं तथा
पारिजातं तस्य मूले रत्न-वेदी सुविस्तराम् ।
रत्न-पीठं चतुर्दिक्षु गोप-कन्याः स्व्-अलङ्कृताः
कुरङ्ग-शावकांश् चापि रत्न-दण्डान् मनोहरान् ।
धर्मं ज्ञानं च वैराग्यम् ऐश्वर्यं चांसकोरुषु
अधर्मादीन् न्यसेद् वक्त्रे वाम-पार्श्वे च नाभितः ।
दक्ष-पार्श्वे तथा दिव्य-गोपी-र्”पान् विचिन्त्य च
आनन्द-मय-कन्दं च नालं चैतन्य-रूपकम् ।
सर्वात्मकं तथा पाद्मं पर्णान् प्रकृति-रूपिणः
केशरांश् च विचाराख्यान् कर्णिकां मातृका-मयीम् ।
वह्न्य्-अर्क-चन्द्र-बिम्बानि उपर्य् उपरि विन्यसेत्
सत्त्वं रजस् तमश् चैव नैर्गुण्याञ्चापि विन्यसेत् ।
आत्मानम् अन्तरात्मानं परमात्मानम् एव च
लक्ष्मी-रति-सरस्वत्यः प्रीतिः कीर्तिश् च शान्तिका ।
तुष्टिः पुष्टिस् तथा चैता विन्यसेत् पीठ-मध्यतः
मध्ये च विन्यसेच् छ्रीमद् वृषभानु-पुरालयम् ।
तत्र सङ्केत-कुञ्जान्तर् दिव्याशोक-लता वने
भावयेन् नील-वसनां सर्वावयव-शोभिताम् ।
सर्वाभरण-शोभाढ्यां सहितां नन्द-सूनुना
सामान्यार्धं ततः कृत्वा शुद्धेन तीर्थ-वारिणा ।
पाद्यार्घ्याचमनीयं च मधुपर्कातिषेचने
मूल-मन्त्रेण संस्थाप्य विक्षेपार्घ्यं विधापयेत् ।
सीतोपल-जलेनापि पक्वेन पयसाथवा
तन्-मध्ये निक्षिपेज् जाती-लवङ्ग-घुसृणादिकम् ।
एला-बीजानि कर्पूरं मूलेनैवाभिमन्त्रयेत्
आधारे भोजने क्षीरे वह्न्य्-अर्क-शशि-मण्डलम् ।
पूजयित्वा चन्दनाद्यैस् तत आवाहयेत् प्रियाम्
तुलसी-पुष्प-संयुक्त-पुष्पाञ्जलिम् उपाददत् ।
वहन् नासापुटां तेजो-रूपां श्री-वृषभानुजाम्
आनीय पूजा-पीठान्तः पूजयेद् उपचारकैः ।
पाद्यादिं तु ततस् तत्-तन्-मुद्रयाप्य् आययेत्तराम्
विशेषार्घ्य-स्थ-सुधया मूल-मन्त्रेण सप्तधा ।
गन्ध-पुष्पं तथा धूपं दीपं नविएद्य-भाजनम्
कल्पयेत् परया भक्त्या तथा श्री-नन्द-सूनवे ।
अष्टादशार्ण-मन्त्रेण उपचारान् पृथक् पृथक्
कीर्तिं च वृष्भानुं च यशोदां नन्दम् एव च ।
अन्याश् च मातृका गोपीस् तयोः पृष्ठे प्रपूजयेत्
सङ्केतं पूजयेद् भक्त्या वृषभानुपुरं तथा ।
वरसानुं प्रपूज्याथ नन्दी-शैलं प्रपूजयेत्
नन्द-ग्रामं च सम्पूज्य अशोक-वन-वल्लरीम् ।
पीयूष-वापिकां पूज्य पूजेत् मान-सरोवरम्
ततो भानुसर इष्ट्वा पूजयेत् पुष्प-वाटिकाम् ।
राधायाः परितः पश्चात् पूजयेद् अष्ट ताः सखीः
राधा कृष्णा च ललिता विशाखा चञ्चला तथा ।
चित्रा मित्रा च मुदिता इत्य् एताः पूजयेत् क्रमात्
तद्-बाह्ये पूजयेद् गोपीं विशालां सुभगां तथा ।
रङ्गविद्यां रङ्गदेवीं गान्धर्वीं गायिकां तथा
सुन्दरीं सुभगां शोभां पौर्णमासीं च चन्द्रिकाम् ।
वीरां वृन्दां च विदितां वन्दितां नन्दितां तथा
तद्-बाह्ये पूजयेद् यत्नाद् गोपिकाः सर्व-सौख्यदाः ।
चन्द्रा चन्द्रप्रभा काम्या माधुरी मधुरा प्रिया
प्रेयसी प्रेषिता प्रेष्या मोदिनी श्यामलामला ।
श्यामा कामा रमा रामा रमणी रत्न-मञ्जरी
शृङ्गार-मञ्जरी शीला रत्नशाला रसा रुषाः ।
रङ्गिणी मानिनी मन्या धीरा धन्या धरा धृतिः
भामा सुवर्ण-वल्ली च इत्य् एताः क्रमशो यजेत् ।
तद्-बाह्ये चम्पकलता-मालती-मल्लि-कारुणाः
अशोक-ललिता लोला मीनाक्षी मदनामतिः ।
सुमतिः सुप्रतीका च सुखदा कलिका कला
कादम्बिनी किशोरी च युग्मिका युगला युगा ।
वल्लभा वल्लिका वेला वेल्लिनी रत्न-वल्लरी
कमला कोमला कुल्या कल्याणी वलयावला ।
धर्मा सुधर्मा सानन्दा सुनन्दा-सुमुखा-मुखाः
सुश्रीः सुरूपा कुमुदा कौमुदी-सुस्मितामिताः ।
कोकिला कोकिलालापा भावनी सुप्रभा प्रभा
मदनेशी मालिल्का च कनका कनकावती ।
नीला ललामा ललना माधवी मधु-विभ्रमा
वासन्तिका च सुनसा प्रेमा प्रेमवती परा ।
शृङ्गारिणी शृङ्गनी च सुकचा मण्डनावली
चतुःषष्ठि रमाः पूज्या विशेषार्घ्य-सुधा-युतैः ।
गन्धैः पुष्पैस् तथा धूपैर् दीपैर् नैवेद्यकैः पृथक्
तद्-बाह्ये पूजयेद् भूरि श्रीमद्-वृन्दावनं महत् ।
गोवर्धनं रत्न-शैलं हेम-शैलं सुधाचलम्
इन्द्रादीन् पूजयेत् पश्चाद् उत्तरोत्तरतः सुधीः ।
एवं पूजा-विधिं कृत्वा कुर्याद् आरात्रिकं महत्
आत्मार्पणं ततः कृत्वा संहार-मुद्रया मुहुः ।
राधिकां नन्द-सूनुं च निजे हृदि विसर्जयेत्
मूल पाठ: Sādhanadīpikā · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0