भाषा

ENहिગુ
ग्रंथ पाठ

साधनदीपिका · अध्याय 16

16.1

(9)
नवम-कक्षा
अथ मुख्यं तत्त्वं निरूप्यते । श्री-भागवते (1.2.11)-
वदन्ति तत् तत्त्व-विदस् तत्त्वं यज् ज्ञानम् अद्वयम् ।
ब्रह्मेति परमात्मेति भगवान् इति शब्द्यते ॥
अत्र तत्-तत्त्व-त्रयेषु भगवान् एव मुख्यः । भगवान् स्वयं भगवान् । स तु
श्री-कृष्णो व्रजेन्द्र-नन्दनो गोविन्द एव । तत्र प्रमाणम्-
ईश्वरः परमः कृष्णः सच्चिदानन्द-विग्रहः ।
अनादिर् आदिर् गोविन्दः सर्व-कारण-कारणम्

16.40

यत् तु ब्रह्म, तद् अस्यैव प्रभा-रूपम्, यथा-
यस्य प्रभा प्रभवतो जगद्-अण्ड-कोटि-
कोटिष्व् अशेष-वसुधादि विभूति-भिन्नम् ।
तद् ब्रह्म निष्कलम् अनन्तम् अशेष-भूतं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि

16.38

तत्र भगवद्-गीता ब्रह्मणो हि प्रतिष्ठाहम् इत्य् आदि ।
यश् च परमात्मा स तु अस्य भगवतोऽंशांश-रूपः, यथा द्वितीये (2.2.8)-
केचित् स्व-देहान्तर्-हृदयावकाशे
प्रादेश-मात्रं पुरुषं वसन्तम् ।
चतुर्-भुजं कञ्ज-रथाङ्ग-शङ्ख-
गदा-धरं धारणया स्मरन्ति ॥
कृष्ण-ब्रह्मणोर् ऐक्यम् (ब्र्स् 2.3.218) किरणारोकोपमाजुषोः इत्य् आदेः । अतस् तत्-
तत्त्व-त्रयेषु परम-तत्त्व-रूपस्य स्वयं-भगवतो मुख्यत्वं दृश्यते । तस्माद्
योग-त्रयेषु भक्ति-योग एव मुख्यः । स तु अन्याभिलाषिता-शून्यम् इत्य् आदुअ
उत्तमत्वेन गृहीतः । यथा श्री-भागवते (11.11.48)-
प्रायेण भक्ति-योगेन सत्-सङ्गेन विनोद्धव ।
नोपायो विद्यते सम्यक् प्रायणं हि सताम् अहम् ॥ इत्य् आदेः ।
[भक्ति-रसामृत-सिन्धौ 1.2.1,5]-
सा भक्तिः साधनं भावः प्रेमा चेति त्रिधोदिता ।
वैधी रागानुगा चेति सा द्विधा साधनाभिधा ॥
तत्र रागानुगाया मुख्यत्वम्, यथा (ब्र्स् 1.2.281)-
राग-बन्धेन केनापि तं भजन्तो व्रजन्त्य् अमी ।
अङ्घ्रि-पद्म-सुधाः प्रेम-रूपास् तस्य प्रिया जनाः ॥
वैशिष्ट्यं पात्र-वैशिष्ट्याद् रतिर् एषोपगच्छति । इति (ब्र्स् 2.5.1)
यथाविध-स्वरूपानुगत्य-लक्षणं श्रीमत्-प्रभु-चरणैः (ब्र्स् 1.2.270)-
विराजन्तीम् अभिव्यक्तां व्रज-वासी जनादिषु ।
रागात्मिकाम् अनुसृता या सा रागानुगोच्यते ॥
इति पूर्वं विचारितम् अस्ति । श्रीभागवते च (10.14.32)-
अहो भाग्यम् अहो भाग्यं नन्द-गोप-व्रजौकसाम् ।
यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥
अथ रागानुगा सा द्विधा सम्बन्धानुगा कामानुगा च । तत्र कामानुगा
मुख्या । सा द्विधा सम्भोगेच्छामयी तत्-तद्-भावेच्छामयी च ।
केलि-तात्पर्यवत्य् एव सम्भोगेच्छा-मयी भवेत् ।
तद्-भावेच्छात्मिका तासाम् भाव-माधुर्य-कामिता ॥ (ब्र्स् 1.2.299)
तत्राधिकारी-
श्री-मूर्तेर् माधुरीं प्रेक्ष्य तत्-तल्-लीलां निशम्य वा ।
तद्-भावाकाण्क्षिणो ये स्युस् तेषु साधनतानयोः । (ब्र्स् 1.2.3)
मत्तोऽस्य सुखं भ् आद् इति सम्भोगेच्छामयी । मत्तोऽनयोः सुखं भूयाद् इति तत्-
तद्-भावेच्छामयीति द्वयोर् भेदः । यथा श्री-भागवते (10.44.14)
गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपं
लावण्य-सारम् असमोर्ध्वम् अनन्य-सिद्धम् ।
दृग्भिः पिबन्त्य् अनुसवाभिनवं दुरापम्
एकान्त-धाम यशसः श्रिय ऐश्वरस्य ॥
त्रैलोक्ये पृथिवी धन्या यत्र वृन्दावनं पुरी ।
तत्रापि गोपिकाः पार्थ तत्र राधाभिधा मम ॥
श्री-भक्ति-रसामृत-सिन्धौ (2.5.38) च-यथोत्तरम् असौ इत्य् आदि, इत्य् उद्धवादयोऽप्य्
एतं वाञ्छति भगवत्-प्रियाः । (1.2.286) इति । तद् यथा (भ्प् 10.47.61)-
आसाम् अहो चरण-रेणु-जुषाम् अहं स्यां
वृन्दावने किम् अपि गुल्म-लतौषधीनाम् ।
या दुस्त्यजं स्व-जनम् आर्य-पथं च हित्वा
भेजुर् मुकुन्द-पदवीं श्रुतिभिर् विमृग्याम् ॥
ब्रह्म-स्तुतिः (10.14.34)-
तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अटव्यां
यद् गोकुलेऽपि कतमाङ्घ्रि-रजोऽभिषेकम् । इत्य् आदि ।
अतो व्रज-वासि-जनादिषु विराजमानाया रागात्मिकाया मुख्यत्वेन रागानुगाया
मुख्यत्वम् । तद्-अनुसारत्वात् । अस्याम् एव रागानुगायां गृहस्थोदासीन-
भेदेनाधिकारिणो द्विविधा दृश्यन्ते । तत्र उदासीना मुख्याः । तद् यथा श्री-
नारद-वाक्ये (भ्प् 1.5.5)-
तत् साधु मन्येऽसुर-वर्य देहिनां
सदा समुद्विग्न-धियाम् असद्-ग्रहात् ।
हित्वात्म-पातं गृहम् अन्ध-कूपं
वनं गतो यद् धरिम् आश्रयेत ॥ इत्य् आदि ।
किं वासनं ते गरुडासनाय
किं भूषणं कौस्तुभ-भूषणाय ।
लक्ष्मी-कलत्राय किम् अस्ति देयं
वागीश किं ते वचनीयम् आस्ते ॥ इत्य् आदेः ।
ऐश्वर्य-माधुर्यानुभवि-भक्तानां दिविव्धत्वेऽपि पुनश् चतुर्विधा भक्ताः
श्री-लघु-भागवतामृते (2.5.39)-
यस्य वासः पुराणादौ ख्यातः स्थान-चतुष्टये ।
व्रजे मधुपुरे द्वार-वत्यां गोलोक एव च ॥
तत्रैव (1.5.488-9)-
व्रजेशादेर् अंश-भूता ये द्रोणाद्या अवातरन् ।
कृष्णस् तान् एव वैकुण्ठे प्राहिणोद् इति साम्प्रतम् ॥
प्रेष्ठेभ्योऽपि प्रिअयतमैर् जनैर् गोकुल-वासिभिः ।
वृन्दारण्ये सदैवासौ विहारं कुरुते हरिः ॥
बृहद्-गणोद्देश-दीपिकायाम् (125)-सर्वा एवाखिलं कर्म जानन्ते इत्य् आदेः । तथा
हि लघु-भागवतामृते (1.5.498)-यत् तु गोलोक-नाम स्यात् तच् च गोकुल-वैभवम्
इति । तथापि स्तव-मालायां (नन्दापहरणम्) च-वैकुण्ठं यः सुष्ठु
सन्दर्श्य इत्य् आदि ।
श्री-कृष्ण-सन्दर्भे (116) श्री-वृन्दावने श्री-गोलोक-दर्शनं तु
तस्यैवापरिच्छिन्नस्य गोलोकाख्य-वृन्दावनाप्रकट-प्रकाश-विशेषः
पर्यवस्यतीति माहात्म्यावलम्बनेन भजतां स्फुरतीति ज्ञेयम् । तत् तु न
केवलम् उपासना-स्थानम् एवेदं प्राप्ति-स्थानम् इदम् एव ।
तत्रोपासकाश् चतुर्विधाः-केवलैश्वर्यानुभविनः, माधुर्य-
मिश्रैश्वर्यानुभविनः, ऐश्वर्य-मिश्र-माधुर्यानुभविनः, केवल-
माधुर्यानुभविनश् च । तत्र केवलैश्वर्यानुभविनां स्थानं वैकुण्ठं
माधुर्य-मिश्रैश्वर्यानुभविनां महा-वैकुण्ठ-पर-व्योम-गोलोकम् ।
ऐश्वर्य-मिश्र-माधुर्यानुभविनां पुर-द्वयम् । केवल-माधुर्यानुभविनां
तु श्री-वृन्दावनम् (ब्र्स् 1.2.303)-
रिरंसां सुष्ठु कुर्वन् यो विधि-मार्गेण सेवते ।
केवलेनैव स तदा महिषीत्वम् इयात् पुरे ॥
किं च स्वकीया-परकीययोर् मध्ये परकीयायाम् एव मुख्यो रसो जायते इति
पूर्वं विचारितोऽस्ति । अतो रतिस् त्रिधा-साधारणी समञ्जसा समर्था च । तत्र
साधारणी सम्भोगेच्छा-निदाना कुब्जादिषु । समञ्जसा तु पत्नीभावाभिमान-
मयी क्वचिद् भेदित-सम्भोगेच्छा-सान्द्रा रुकिम्ण्य्-आदिषु । समर्था खलु स्व-
स्वरूप-जाता श्री-कृष्ण-सुख-स्वरूपा सान्द्रतमा श्री-राधिकादिषु । यथा (उन्
14.53)-
स्व-स्वरूपात् तदीयाद् वा जाता यत्-किंचिद्-अन्वयात् ।
समर्था सर्व-विस्मारि-गन्धा सान्द्रतमा मता ॥
किं च मन्त्र-मयी स्वारसिक्योर् मध्ये स्वारसिकी श्रेष्ठा । स्वारसिकी चात्र श्री-
राधा-प्राण-बन्धोर् इत्य् अत्र मासयाम् अपि सेवायां सद्-भावात् । अतएव गीतायां
(12.10)-
अभ्यासेऽप्य् असमर्थोऽसि मत्कर्मपरमो भव ।
मदर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि ॥
अभ्यासो नाम मनो-योगो मत्-कर्म श्रवण-कीर्तनादि ।
श्री-हरि-भक्ति-विलासे (20.382)-
एवम् एकान्तिनां प्रायः कीर्तनं स्मरणं प्रभोः ।
कुर्वतां परम-प्रीत्या इत्य् आदि ।
एवं भक्ति-सन्दर्भे[*एन्द्नोते #12]--
सद्-धर्म-शासको नित्यं सदाचार-नियोजकः ।
सम्प्रदायी कृपा-पूर्णो विरागी गुरुर् उच्यते ॥
टीका-विरागी विशिष्ट-रागवान् । तस्माद् दोष-दृष्ट्या विषय-परित्यागः सुतरां
लभ्यते ।
तथा हि-
विषयाविष्ट-चित्तानां विष्ण्व्-आवेशः सुदूरतः ।
वारुणी-दिग्-गतं वस्तु व्रजन्न् ऐन्द्रीं किम् आप्नुयात् ॥[*एन्द्नोते #13]
गृहारम्भो हि दुःखाय न सुखाय कदाचन । इति च ।
श्री-प्रह्लाद-वाक्ये (7.5.5) च-
तत् साधु मन्येऽसुर-वर्य देहिनां
सदा समुद्विग्न-ध्याम् असद्-ग्रहात् ।
हित्वात्म-पातं गृहम् अन्ध-कूपं
वनं गतो यद् धरिम् आश्रयेत ॥

श्री-भागवते भगवद्-उक्तौ (11.7.6)-
त्वं तु सर्वं परित्यज्य स्नेहं स्व-जन-बन्धुषु ।
मय्य् आवेश्य मनः सम्यक् सम-दृग् विचरस्व गाम् ॥
त्यक्त्वा स्व-धर्मं चरणाम्बुजं हरेर्
भजन्न् अपक्वोऽथ पतेत् ततो यदि ।
यत्र क्व वाभद्रम् अभूद् अमुष्य किं
को वार्थ आप्तोऽभजतां स्व-धर्मतः ॥ इति ।
(गीता 18.65)-
सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज ।
(गीता 9.30)-
अपि चेत् सुदुराचारो भजते माम् अनन्य-भाक् ।
साधुर् एव स मन्तव्यः सम्यग् व्यवसितो हि सः ॥
(गीता 9.22)-
अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योग-क्षेमं वहाम्य् अहम् ॥
इत्य् आदेः बहुशः ।
विशेषतो रागानुगाधिकारि-लक्षणं दर्शयति (ब्र्स् 1.4.7)-
न पतिं कामयेत् कञ्चिद् ब्रह्मचर्य-स्थिता सदा ।
तम्-एव मूर्तिं ध्यायन्ती चन्द्रकन्तिर्-वरानना ॥
स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्य-भाषणम् ।
सङ्कल्पोऽध्यवसायश् च क्रिया-निर्वृतिर् एव च ॥
एतन्-मैथुनम् अष्टाङ्गं प्रवदन्ति मनीषिणः ।
विपरीतं ब्रह्मचर्यम् एतद् एवाष्ट-लक्षणम् ॥ इत्य् आदि ।
ये तु भगवत्-परिकराणां विषया दृश्यन्ते । ते तु सिद्धानां तेषां भव-
बन्धनाय न भवन्ति । नित्य-सिद्धा मुकुन्दवत् इत्य् आदेः । किं च श्री-स्वामि-
चरणैः गृह-स्थितस्य पुनर् आसक्ति-सम्भवात् इत्य् आदेः ।
प्रसङ्गात् शिष्य-लक्षणम् (ह्ब्व् 1.59-62, मन्त्र-मुक्तावल्याम्)-
शिष्यः शुद्धान्वयः श्रीमान् विनीतः प्रिय-दर्शनः ।
सत्य-वाक् पुण्य-चरितोऽदभ्र-धीर् दम्भ-वर्जितः ॥
काम-क्रोध-परित्यागी भक्तश् च गुरु-पादयोः ।
देवता-प्रवणः काय-मनो-वाग्भिर् दिवा-निशम् ॥
नीरुजो निर्जिताशेष-पातकः श्रद्ध्यान्वितः ।
द्विज-देव-पितॄणां च नित्यम् अर्चा-परायणः ॥
युवा विनियताशेष-करणः करुणालयः ।
इत्य् आदि-लक्षणैर् युक्तः शिष्यो दीक्षाधिकारवान् ॥ इत्य् आदि ।
नन्व् अनुकार्य-ज्ञानं विना कथम् अनुसरण-ज्ञानम् । इत्य् अत आह-
रागानुगा-विवेकार्थम् आदौ रागात्मिकोच्यते ॥ (ब्र्स् 1.2.271)
टीका-अथ स्वरूप-लक्षण-तटस्थ-लक्षणाभ्यां ताम् एवोपपादयति ।
इष्टे स्वारसिकी रागः परमाविष्टता भवेत् ।
तन्-मयी या भवेद् भक्तिः सात्र रागात्मिकोदिता ॥ (ब्र्स् 1.2.272)
टीका-इष्टे स्वाभीप्सित-प्रेम-विषये श्री-नन्द-नन्दने इति यावत् । स्वारसिकी
स्वाभाविकी परमाविष्टता कायिकी वाचिकी मानसी चेष्टा । सा रागो भवेत् । तन्-
मयी तन्-मात्र-प्रेरिता या भक्तिः सा रागातिम्कोदितेति योजना । इष्टे प्रेममय-
गाढ-तृष्णेति स्वरूप-लक्षणम् । इष्टे स्वारसिकी परमाविष्टतेति तटस्थ-
लक्षणम् ।
अथ तस्या विभागम् आह (ब्र्स् 1.2.273)-
सा कामरूपा सम्बन्ध-रूपा चेति भवेद् द्विधा ॥
यद्यपि काम-रूपायाम् अपि सम्बन्ध-विशेषोऽस्त्य् एव, तथापि पृथग्-उपादानं
वैशिष्ट्यापेक्षया ।
तत्र काम-रूपम् आह (ब्र्स् 1.2.283)-
सा कामरूपा सम्भोग-तृष्णां या नयति स्वताम् ।
यद् अस्यां कृष्ण-सौख्यार्थम् एव केवलम् उद्यमः ॥
अथ सम्बन्ध-रूपा (ब्र्स् 1.2.288)-
सम्बन्ध-रूपा गोविन्दे पितृत्वाद्य्-आभिमानिता ।
अत्रोपलक्षणतया वृष्णीनां वल्लवा मताः ॥
अत्र शुद्ध-सम्बन्ध-रूपायां सम्बन्धाद् वृष्णयः (7.1.20) इत्य् अत्र वृष्णीनाम्
उपलक्षणतया ये वल्लवाः प्राप्तास् त एवात्र मताः । न तु महिम-ज्ञान-युक्ता
द्वारकादि-नित्य-सिद्ध-भक्ता इत्य् अर्थः । तद् वेत्तुम् एवोपपादयति (1.2.288)-
यदैश्य-ज्ञान-शून्यत्वाद् एषां रागे प्रधानता ॥
अथ पूर्वोक्त-रागानुगा-भक्तेर् विभागम् आह (1.2.290)-
रागात्मिकाया द्वैविध्याद् द्विधा रागानुगा च सा ।
कामानुगा च सम्बन्धानुगा चेति निगद्यते ॥
तत्र अधिकारि-लक्षणम् (1.2.291)-
रागात्मिकाइक-निष्ठा ये व्रज-वासि-जनादयः ।
तेषां भावाप्तये लुब्धो भवेद् अत्राधिकारवान् ॥
ननु रागानुगायां लुब्धश् चेद् अधिकारवान् तर्हि लोभ-ज्ञानं विना कथं
प्रवृत्तिर् इत्य् अत आह लोभ-स्वरूपम् (ब्र्स् 1.2.292)-
तत्-तद्-भावादि-माधुर्ये श्रुते धीर् यद् अपेक्षते ।
नात्र शास्त्रं न युक्तिं च तल्-लोभोत्पत्ति-लक्षणं ॥
टीका-तत्-तद्-भावादि-माधुर्ये श्रुते श्री-कृष्ण-भक्त-मुखात् श्री-
भागवतादिषु श्रवण-द्वारा यत् किञ्चिद् अनुभूते सति धीर् यन्-माधुर्यादिकम्
अपेक्षते कदा मम तद्-भाव-माधुर्य-चेष्टा माधुर्यं च भवेत् इति तद् एव
लोभोत्पत्तेर् लक्षणं स्वरूपम् । अत आश्रयिष्यमाणे गुरौ तद्-भाव-माधुर्यम्
आयातम् । यतः (भ्प् 11.2.21) तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् इत्य्
एकादश-स्कन्ध-पद्य-टीकायां श्री-श्रीधर-स्वामिभिर् अप्य् उक्तम् । अन्यथा
न्यायतो बोध-संचाराभावात् ।
विक्रीडितं व्रज-वधूभिर् इदं च विष्णोः
श्रद्धान्वितो यः शृणुयाद् अथ वर्णयेद् वा ।
भक्तिं परां भगवति परिलभ्य कामं
हृद्-रोगम् आश्व् अपहिनोत्य् अचिरेण धीरः ॥ (भ्प् 10.33.39)
टीका--हृद्-रोगं कामादिकम् अपि शीघ्रम् एव त्यजति । अत्र सामान्यतोऽपि
परमत्व-सिद्धेस् तत्रापि परम-श्रेष्ठ-श्री-राधा-संवलित-लीला-मय-तद्-
भजनं तु परमतमम् एवेति स्वतः सिध्यति । किन्तु रहस्य-लीला तु पौरुष-
विकारवद् इन्द्रियैः पितृ-पुत्र-दास-भावैश् च नोपास्या स्वीय-भाव-विरोधात् ।
रहस्यत्वं च तस्याः क्वचिद् अल्पांशेन क्वचित् तु सर्वांशेनेति ज्ञेयम् । (भक्ति-
सन्दर्भे 338)
तत्रत्य-भक्ति-मार्गा दर्शिताः । तथा हि-स्व-पुंस्त्व-भावनायां तु नैव
रागानुगां गता श्री-दशमे श्रुत्य्-अध्याये स्त्रिय उरगेन्द्र-भोग-भुज-दण्ड-
विषक्त-धियो [भ्प् 10.87.23] इत्य् आदिः । श्रुत-मात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते
मनः (भ्प् 10.90.26) । न पतिं कामयेत् कञ्चिद् ब्रह्मचर्य-स्थिता सदा (ब्र्स्
1.4.7) । एवं वेद-स्तुतौ (!0.87.21)-
दुरवगमात्म-तत्त्व-निगमाय तवात्त-तनोश्
चरित-महामृताब्धि-परिवर्त-परिश्रमणाः ।
न परिलषन्ति केचिद् अपवर्गम् अपीश्वर ते
चरण-सरोज-हंस-कुल-सङ्ग-विसृष्ट-गृहाः ॥ (10.87.21)
टीका-यानि कुलानि शिष्योपशिष्यतया तेषां सङ्गेन विसृष्ट-गृहाः ।
अथ रागानुगाङ्गान्य् आह (ब्र्स् 1.2.294-5, 309, 300-2, 307)-
कृष्णं स्मरन् जनं चास्य प्रेष्ठं निज-समीहितम् ।
तत्-तत्-कथा-रतश् चासौ कुर्याद् वासं व्रजे सदा ॥
सेवा साधक-रूपेण सिद्ध-रूपेण चात्र हि ।
तद्-भाव-लिप्सुना कार्या व्रज-लोकानुसारतः ॥
कृष्ण-तद्-भक्त-कारुण्य-मात्र-लाभैक-हेतुका ।
पुष्टि-मार्गतया कैश्चिद् इयं रागानुगोच्यते ॥
पुराणे श्रुयते पाद्मे पुंसम् अपि भवेद् इयम् ॥
पुरा महर्षयः सर्वे दण्डकारण्य-वासिनः ।
दृष्ट्वा रामं हरिं तत्र भोक्तुम् ऐच्छन् सुविग्रहम् ॥
ते सर्वे स्त्रीत्वम् आपन्नाः समुद्भूताश् च गोकुले ।
हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥
तथापि श्रुयते शास्त्रे कश्चित् कुरुपुरी-स्थितः ।
नन्द-सूनोर् अधिष्ठानं तत्र पुत्रतया भजन् ।
नारदस्योपदेशेन सिद्धोऽभूद् वृद्ध-वर्धकिः ॥
टीका-सिद्धिऽभूद् इति बालवत्स-हरण-लीलायां तत्-पितॄणाम् एव सिद्धिर् ज्ञेया । एवं

च सति श्रुइत्-कन्या-चन्द्रकान्ति-प्रभृतीनां नित्य-सिद्ध-पर्करानुगत्याभावात्
श्री-नन्द-नन्दनस्य प्रकाश-रूपस्यैव प्राप्तिर् न तु तादृश-स्वरूपस्य । अतएव
प्रामाणिकैर् अप्य् उक्तम् धाम्नोऽभेदेऽपि परिकर-भेदे प्रकाशः । यथा तासां
मध्ये द्वयोर् द्वयोः (10.77.7) इति । नित्य-सिद्धानुगतानां तु श्री-नन्द-
नन्दनस्य तादृश-स्वरूपस्यैव प्राप्तिर् इत्य् आनुगत्यापेक्षावश्यकीति भूयान्
विशेषोऽस्तीति विभावनीयम् ।
अथ चन्द्रकान्ति-प्रभृतिषु रागानुगीय-गुरु-चरणावलम्बनस्यादृष्टत्वाद्
रागानुगायाम् एतस्य कारणता न सम्भवति चेन् न । सामान्यतस् तादृश-गुरु-
चरणावलम्बनस्य कारणतायाः साक्षात् परम्परया स्वीकारात् । यत्र
साक्षात्कारणता न सम्भवति तत्र जन्मान्तरीण-कारण-कल्पनम् फल-बलात् ।
अतएवालङ्कारिकैर् बालक्सय कवितायां तथैव कल्प्यते । अतः स्वयम् एव वक्ष्यते
(ब्र्स् 1.3.57)-
साधनेक्षां विना यस्मिन्न् अकस्माद् भाव ईक्ष्यते ।
विघ्न-स्थगितम् अत्रोह्यं प्राग्-भवीयं सुसाधनं ॥
अतएव गोपालोपासकाः पूर्वम् अप्राप्ताभीष्ट-सिद्धयः इत्य् आदिकं च ।
अथ भावः (ब्र्स् 1.3.1)-
शुद्ध-सत्त्व-विशेषात्मा प्रेम-सूर्यांशु-साम्य-भाक् ।
रुचिभिश् चित्त-मासृण्य-कृद् असौ भाव उच्यते ॥
यथा तन्त्रे --
प्रेम्णस् तु प्रथमावस्था भाव इत्य् अभिधीयते ।
सात्त्विकाः स्वल्प-मात्राः स्युर् अत्राश्रु-पुलकादयः ॥
अथ प्रेमा (ब्र्स् 1.4.1)-
सम्यङ्-मसृणित-स्वान्तो ममत्वातिशयाङ्कितः ।
भावः स एव सान्द्रात्मा बुधैः प्रेमा निगद्यते ॥
यथा पञ्चरात्रे-
अनन्य-ममता विष्णौ ममता प्रेम-सङ्गता ।
भक्तिर् इत्य् उच्यते भीष्म-प्रह्लादोद्धव-नारदैः ॥
(ब्र्स् 1.4.15-16)-
आदौ श्रद्धा ततः साधु-सङ्गोऽथ भजन-क्रिया ।
ततोऽनर्थ-निवृत्तिः स्यात् ततो निष्ठा रुचिस् ततः ॥
अथासक्तिस् ततो भावस् ततः प्रेमाभ्युदञ्चति ।
साधकानाम् अयं प्रेम्नः प्रादुर्भावे भवेत् क्रमः ॥
(ब्र्स् 2.1.4-6, 10)
अथास्याः केशव-रतेर् लक्षिताया निगद्यते ।
सामग्री-परिपोषेन परमा रस-रूपता ॥
विभावैर् अनुभावैश् च सात्त्विकैर् व्यभिचारिभिः ।
स्वाद्यत्वं हृदि भक्तानाम् आनीता श्रवणादिभिः ।
एषा कृष्ण-रतिः स्थायी भावो भक्ति-रसो भवेत् ॥
प्राक्तन्य् आधुनिकी चास्ति यस्य सद्-भक्ति-वासना ।
एष भक्ति-रसास्वादस् तस्यैव हृदि जायते ॥
कृष्णादिभिर् विभावाद्यैर् गतैर् अनुभवाध्वनि ।
प्रौढानन्द-चमत्कार-काष्ठाम् आपद्यते पराम् ॥
तथा हि श्रुतिः-रसो वै सः । रसं ह्य् एवायं लब्ध्वानन्दी भवति इति ।
उपपतौ परकीयायाम् एव रसोत्कर्षः । अतएव उज्ज्वल-नीलमणौ (1.19)
अत्रैव परमोत्कर्षः शृङ्गारस्य प्रतिष्ठितः ॥
टीका-अत्रैव उपपतौ । तथा च भरतेन (उन् 1.20-21)-
बहु वार्यते खलु यत्र प्रच्छन्न-कामुकत्वं च ।
या च मिथो दुर्लभता सा मन्मथस्य परमा रतिः ॥
लघुत्वम् अत्र यत् प्रोक्तं तत् तु प्राकृत-नायके ।
न कृष्णे रस-निर्यास-स्वादार्थम् अवतारिनि ॥
पुनस् तत्रैव (उन् 3.19)-
कन्यकाश् च परोढाश् च परकीया द्विधा मताः ।
व्रजेश-व्रजवासिन्य एताः प्रायेण विश्रुताः ।
तथा हि रुद्रः (उन् 3.20)-
वामता दुर्लभत्वं च स्त्रीणां या च निवारणा ।
तद् एव पञ्च-बाणस्य मन्ये परमम् आयुधम् ॥
विष्णु-गुप्त-संहितायां च (उन् 3.21)-
यत्र निषेध-विशेषः सुदुर्लभत्वं च यन् मृगाक्षीणाम् ।
तत्रैव नागराणां निर्भरम् आसज्जते हृदयम् ॥
(उन् 3.22)-
आः किं वान्यद् यतस् तस्याम् इदम् एव महामुनिः
जगौ पारमहंस्यां च संहितायां स्वयं शुकः ॥
यथा श्री-दशमे (10.33.19)-
कृत्वा तावन्तम् आत्मानं यावतीर् गोपयोषितः ।
रेमे स भगवांस् ताभिर् आत्मारामोऽपि लीलया ॥
टीका-गोपीनां योषित इति तासां स्पष्टम् एव परकीयत्वम् ।
ता वार्यमाणाः पतिभिः पितृभिर् भातृ-बन्धुभिः । (भ्प् 10.33.19)
यत् पत्यपत्यसुहृदाम् अनुवृत्तिर् अङ्ग
स्त्रीणां स्वधर्म इति धर्मविदा त्वयोक्तम् । (भ्प् 10.29.32)
तद् यात मा चिरं गोष्ठं शुश्रूषध्वं पतीन् सतीः ।
क्रन्दन्ति वत्सा बालाश् च तान् पाययत दुह्यत ॥ (10.29.22)
भर्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्य् अमायया । (10.29.24)
अस्वर्ग्यम् अयशस्यं च कृच्छ्रं भयावहम् ।
जुगुप्सितं च सर्वत्र औपपत्यं कुल-स्त्रियाः ॥ (10.29.26)
तत्रैव-
स कथं धर्म-सेतूनां वक्ता कर्ताभिरक्षिता ।
प्रतीपम् आचरद् ब्रह्मन् पर-दाराभिमर्शनम् ॥ (10.33.27)
तथा श्री-एकादशे (11.12.13)-
मत्-कामा रमणं जारम् अस्वरूप-विदोऽबलाः ॥
पद्म-पुराणे च-
गोप-नारीभिर् अनिशं यत्र क्रीडति कंसहा ॥
क्रम-दीपिकायां च-
गो-गोप-गोप-वनिता-निकरैः परितम् इति ।
बृहद्-गौतमीय-तन्त्रे च-
अत्र या गोप-पत्न्यश् च निवसन्ति ममालये ।
श्री-गोपाल-स्तवे-
विचित्राम्बर-भूषाभिर् गोप-नारीभिर् आवृतम् ॥ इति ।
बृहद्-वामने च-
जार-धर्मेण सुस्नेहं सर्वतोऽधिकम् उत्तमम् ।
मयि सम्प्राप्य सर्वोऽपि कृतकृत्यो भविष्यति ॥ इति ।
अथ श्री-रास-पञ्चाध्यायी-श्री-बृहद्-वैष्णव-तोषण्यां श्री-सनातन-गोस्वामि-
चरणैर् उक्तम् (10.22.21)-
याताबला व्रजं सिद्धा मयेमा रंस्यथ क्षपाः ।
यद् उद्दिश्य व्रतम् इदं चेरुर् आर्यार्चनं सतीः ॥
टीका-भर्जिताः क्वथिता धानाः प्रायो बीजाय फलान्तरोत्पादनाय नेशते । किन्तु
स्वयं भोग्यतापत्त्या सद्य एव परम-सुखाय समर्था भवन्तीत्य् अर्थः । इत्य्
एवं पतित्वेन प्रेम-विशेषासिद्धेर् उपपतित्वेनैव तत् संसिद्धेर् इति भावः । तद्
एवाह यातेति । हे अबला इत्य् आतिबाल्यं सूचयति । अतोऽधुना रत्य्-अयोग्या इति भावः ।
यद् वा पूर्वोक्त-न्यायेन सर्वतोऽधिक-शक्तिमत्य इत्य् अर्थः । प्रकार-विशेषेण
मद्-वशीकार-विशेषात् । यतः सिद्धाः सम्पन्न-कामित्वात् तद्-अतीत-फला इत्य्
अर्थः । इमा निकट एवैष्यच् छरत्कालीना इति तासां विदूरवर्तित्वेऽपि इमा इति
सन्निहिततया उक्तिः सान्त्वनार्था । अन्यत् समानम् ।
यद् वा, हेमन्तस्योत्तर-मास-सम्बन्धिनीर् आगमिनीः क्षपाः मया सह रमणं
प्राप्स्यथ इति ।
ननु अस्मत्-सङ्कल्पितं त्वयोद्वहन-सुखं सिध्यतु, तेन रास-क्रीडादिषु सुखं
च सम्पद्यताम् । तत्राह यद् इति । यद् उद्दिश्य आर्यायाश् चिच्-छक्तेः कात्यायन्या
अर्चनं व्रतं चेरुर् भवत्यः, तद् इदं मयोक्तम् औपपत्येन रास-क्रीडादि-
सुखम् एवेत्य् अर्थः । विवाहेन पतित्वे रास-क्रीडादि-सुख-विशेषो न सम्पद्यत
इति भावः । सतीः हे सत्य इति औपपत्येऽपि यूयं सर्वथा साध्व्य एव । मद्-एक-
मात्र-निष्ठत्वाद् इति भावः । तत्त्वतोऽनौपपयात् विवाहिताभ्योऽप्य् अधिक-प्रियत्वात्
।
यद् वा सतीर् इति क्षपा-विशेषणम् । उत्तमा रासानन्दाविर्भाविकाः शारदाः
शीतोष्णादि-रहिता ज्योत्स्नाश् चेत्य् अर्थः ।
यद् वा तत् क्रीडा-माहात्म्यम् एवाह यद् यस्मात् सत्यो लक्ष्मी-धरणादयः । इदं
रास-क्रीडादि-सुखम् उद्दिश्य आर्यार्चन-व्रतं चेरुर् एव, न तु तत् सुखं प्रापुर्
इत्य् अर्थः । यद् रमणम् इदं व्रतम् । अन्यत् समानम् ।

श्रीमज्-जीव-गोस्वामि-चरणैः-अथ व्रजे प्रकटायां च श्री-कृष्णस्यौपपत्यं
नित्यम् । श्री-राधिकादीनां च परकीयात्वं नित्यम् । तयोः स्वरूपेण द्वैविध्यं
नास्ति । किन्तु अप्राकृत-द्वापरे प्राकृत-द्वापरस्य मिलने स्वयं-रूपे श्री-नन्द-
नन्दने वसुदेव-नन्दनादिषु प्रकाशेषु मिलितेषु सत्सु लीलायाः प्राकट्यं
भवति । यथोक्तम् आकरे (ल्भाग् 1.5.438)-
प्रपञ्च-गोचरत्वेन सा लीला प्रकटा स्मृता ।
अन्यास् त्व् अप्रकटा भान्ति तादृश्यस् तद्-अगोचराः ॥
किं च श्री-कृष्णस्यौपपत्याभावे रसोत्कर्षाभावः स्यात् । यथाकरे (उन् 1.19,21)-
अत्रैव परमोत्कर्षः शृङ्गारस्य प्रतिष्ठितः ॥
लघुत्वम् अत्र यत् प्रोक्तं तत् तु प्राकृत-नायके ।
न कृष्णे रस-निर्यास-स्वादार्थम् अवतारिनि ॥
अतएव एकादशे (11.12.13)-
मत्-कामा रमणं जारम् अस्वरूप-विदो ऽबलाः ।
ब्रह्म मां परमं प्रापुः सङ्गाच् छत-सहस्रशः ॥
अस्य व्याख्या स्व-दश-श्लोकी-भाष्ये कृतैव । तत्रेदं बीजम् । यत्रौपपत्ये लोक-
विरुद्धं धर्म-विरुद्धं च । तत्रैव लघुत्वम् । यत्र तु तद्-उभयाभावस्
तत्र बहु-निवारणादि-हेतुभिः शृङ्गारस्य परमोत्कर्षता । तत्र लौकिकौपपत्ये-
परदारान् न गच्छेच् च मनसापि कदाचन इति शास्त्र-विरुद्धत्वेन पाप-
सम्भवात् । धर्म-विरुद्धम् अत एव निन्दासम्भवात् लज्जाकरत्वेन लोक-
विरुद्धत्वं च । अतः स्वयं श्री-कृष्णेनापि (भ्प् 10.29.26) ।
अस्वर्ग्यम् अयशस्यं च कृच्छ्रं भयावहम् ।
जुगुप्सितं च सर्वत्र औपपत्यं कुल-स्त्रियाः ॥
इत्य् अनेन तस्यैवास्वर्ग्यादिकम् उक्तम् । श्री-व्रज-देवीभिर् अपि निःस्वं त्यजन्ति
गणिका जारा भुक्त्वा रतां स्त्रियम् (10.47.7) इति तस्यैवोल्लेखः कृतः । श्री-कृष्णे तु
शास्त्र-विरोधाभावेन पापासम्भवान् न धर्म-विरुद्धत्वम् ।
अतएवानिन्द्यत्वेन लज्जाद्य्-असम्भवान् न लोक-विरुद्धं च । प्रत्युत लोके
सुष्ठूपादेयत्वम् एवेति बहु-निवारणादि-हेतुभिः शृङ्गारस्य परमोत्कर्षतेति
तासां परम-दुःसह-लोक-लज्जानादरेण तद्-एक-प्रीत्या प्रवृत्तेर् अवगमात् । तत्-
प्रीतेश् च सर्व-शास्त्र-फल-रूपत्वात् । तत्र (10.33.29)-
धर्म-व्यतिक्रमो दृष्ट ईश्वराणां च साहसम् ।
तेजीयसां न दोषाय वह्नेः सर्व-भुजो यथा ॥
इत्य् आदि । वचन-प्रामाण्यात् न धर्म-विरुद्धम् अपि, यथा-
गो-चारणायानुचरैश् चरद् वने
यद् गोपिकानां कुच-कुङ्कुमाङ्कितम्
इत्य् अत्र यद् अक्रूरेण श्री-कृष्णस्यौपपत्यस्योल्लेखः कृतः । तत् खलु पितृव्यत्वेन
दासत्वेन चेत्य् उभयथा न युज्यते । किन्तु उपादेयत्वेनैव । न च प्रीति-
विशेषोल्लेख एव कृत इति वक्तव्यम् । तद्-वाचक-शब्दयानुपादानात् । यत् खलु श्री-
भागवतादि-पुराणेषु नाना-जातीय-मुनि-राज-सभादिषु तद्-औपपत्य-
प्रतिपादिका रास-लीला गीयते तत् तु सुष्ठूपादेयत्वेनैव, नान्यथा । तासां तद्-
एक-सुखार्थ-प्रवृत्तिस् तु यत् ते सुजात इत्य् आदि-श्री-भागवतोक्तेः । तत्-प्रीतेः सर्व-
शास्त्र-फल-रूपत्वं यथा तत्रैव कुर्वन्ति हि त्वयि रतिं कुशलाः इति । कुशलाः
शास्त्र-निपुणाः इति टीका च ।
परकीयात्वं चोदाहरति चाकरे (उन् 3.18)-
रागोल्लास-विलङ्घितार्य-पदवी-विश्रान्तयोऽप्य् उद्धुर-
श्रद्धा-रज्यद्-अरुन्धती-मुख-सती-वृन्देन वन्द्येहिताः ।
आरण्या अपि माधुरी-परिमल-व्याक्षिप्त-लक्ष्मी-श्रियस्
तास् त्रैलोक्य-विलक्षणा ददतु वः कृष्णस्य सख्यः सुखम् ॥ इति ।
कास् ता इत्य् अपेक्षायाम् आह (उन् 3.19)-
कन्यकाश् च परोढाश् च परकीया द्विधा मताः ।
परमोत्कर्षम् आह (उन् 3.19)-
प्रच्छन्न-कामता ह्य् अत्र गोकुएन्द्रस्य सौख्यता ॥
अत्र परकीयात्व-विशेषे इति । तस्मात् श्री-कृष्ण-तद्-धाम-समय-परिकर-
लीलादीनां सर्व-लौकिकातीतत्वेऽपि यथा लोकवल् लीलायां सच्-चिद्-आनन्द-मय-श्री-
विग्रहे मुत्र-पुरीषोत्सर्गादिकं स्वीक्रियते तथा तल्-लीला-परिकर-रूपाभिर्
मन्वादिभिः पाणि-ग्रहणे को दोषः । सङ्गमे तु दोष एव, स च नास्ति । यथा
(उन् 3.32)--
न जातु व्रज-देवीनां पतिभिः सह सङ्गमः ॥
अतएव (भ्प् 10.33.27)-
मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः ॥
इति पार्श्वस्थान् न तु सङ्गमोचित-शय्या-स्थानानि । तथापि योगमायया विवाहोचितं
लौकिक-वैदिकं कर्म कारयित्वा पाणि-ग्रहणं प्रत्यायितम् ।
किं च गोकुलस्य प्रकटाप्रकट-रूपेण प्रकाश-द्वैविध्य-स्वीकारे सति लीलाया
द्वैविध्यं स्यात् । तयोः स्वरूपेण द्वैविध्यस्याभावः । अतः श्री-राधिकादिभिः
सार्धं प्रकट-विहारेऽपि श्री-कृष्णस्याधोक्षजत्वात् तत् परिवार-समय-
लीलादीनां तत्-स्वरूप-शक्तिविलासत्वेन तत्-समान-धर्मत्वाच् च तस्य तेषां च
प्रपञ्चेन्द्रियाविषयत्वम् अप्राकट्यम् । ततः स्वयं प्रकाशत्व-शक्त्या स्वेच्छा-
प्रकाशया सोऽभिव्यक्त्यो भवेन् नेत्रे न नेत्र-विषयस् त्व् अतः इति निर्धारणात् तस्य
तेषां च प्रपञ्चेन्द्रिय-विषयत्वं प्राकट्यम् । अतएव श्री-लघु-भागवतामृते
(1.5.391-2)-
यद् अद्यापि दिदृक्षेरन् उत्कण्ठार्ता निज-प्रियाः ।
तां तां लीलां ततः कृष्णो दर्शयेत् तान् कृपा-निधिः ॥
कैर् अपि प्रेम-वैवश्य-भाग्भिर् भागवतोत्तमैः ।
अद्यापि दृश्यते कृष्णः क्रीडन् वृन्दावनान्तरे ॥
इत्य् अत्रैव वृन्दावने लीलायाः प्रपञ्चागोचरायाः साक्षाद्-दर्शनम् । अप्रकट-
वृन्दावन-सत्ता-पक्षे तु ब्र्हम-ह्रद-नीताः इतिवद् अत्र तस्य साक्षाद्-
दर्शनानुपपत्तिः ।
किं चाप्रकट-वृन्दावनस्य सत्त्वे (उत्कलिका-वल्लरी 66)-
प्रपद्य भवदीयतां कलित-निर्मल-प्रेमभिर्
महद्भिर् अपि काम्यते किम् अपि यत्र तार्णं जनुः ।
कृतात्र कुजनेर् अपि व्रज-वने स्थितिर् मे यया
कृपां कृपण-गामिनीं सदसि नौमि ताम् एव वाम् ॥
तथा श्री-गान्धर्व-सम्प्रार्थनाष्टके (1) वृन्दावने विहरतोर् इह केलि-कुञ्जे इत्य्
आद्य्-अनुपपत्तिः । एवं च सति कल्प-वृक्षादि-रूपाणां निम्बादि-रूपेण यत् प्रतीतिः
। तत् तु (नैषधीय-चरिते 3.94) पित्तेन दूने रसने सितापि तिक्तायते इतिवत् । नयन-
दोषात् शङ्खं पीतम् इव पश्यतीतिवत् । प्रकाशैक-रूपायाः सूर्य-कान्तेर् उलूकेषु
तमोऽभिव्यञ्जकता इतिवच् च सापराधेष्व् अयोग्येषु तेषु तस्य स्वरूपाप्रकाश-
प्रायिकत्वाच् च । अनेन श्री-कृष्णस्यौपपत्ये श्री-राधिकादीनां परकीयात्वे केचित्
पुनर् एवम् आहुः-यः खलूपपत्याद्य्-उत्कर्षो वर्णितः श्रीमद्भिर् ग्रन्थ-
कृद्भिः स तु परेच्छयैव न तु स्वाभिमतः । तन् न तेषां प्रार्थना-विरोधात्
। यथा ह्य् उत्कलिका-वल्लर्यां (45)-
आलीभिः समम् अभुपेत्य शनकैर् गान्धर्विकायां मुदा
गोष्ठाधीश-कुमार हन्त कुसुम-श्रेणीं हरन्त्यां तव ।
प्रेक्षिष्ये पुरतः प्रविश्य सहसा गूढ-स्मितास्यं बलाद्
आच्छिन्दानम् इहोत्तरीयम् उरसस् त्वां भानुमत्याः कदा ॥
इत्य् अत्र हि स्वकीयत्वेन तया तया तस्य पुष्प-हरणम् । तेन च तत्-तत्-सख्या ।
उत्तरीयाकर्षणं न सम्भवतीति । तथा कार्पण्य-पञ्जिकायां (35) च-
गवेषयन्ताव् अन्योऽन्यं कदा वृन्दावनान्तरे ।

सङ्गमय्य युवां लप्स्ये हारिणं पारितोषिकम् ॥
तथा (34)-
गुर्वायत्ततया क्वापि दुर्लभान्योन्य-वीक्षणौ ।
मिथः सन्देश-सीधुभ्यां नन्दयिस्यामि वां कदा ॥
अत्रापि परस्परान्वेषणं दुल्रभान्योऽन्य-वीक्षणं च परकीयायाम् एव
सम्भवतीति । एवं श्रीमन्-महाप्रभोः परमान्तरङ्ग-भक्त-श्री-रघुनाथ-
दास-गोस्वामि-पादैर् यथा विलाप-कुसुमाञ्जल्याम् (88)-
भ्रात्रा गोयुतम् अत्र मञ्जु-वदने स्नेहेन दत्त्वालयं
श्रीदाम्ना कृपणां प्रतोष्य जटिलां रक्षाख्य-राका-क्षणे ।
नीतायाः सुख-शोक-रोदन-भरैस् ते संद्रवन्त्याः परं
वात्सल्याज् जनकौ विधास्यत इतः किं लालनां मेऽग्रतः ॥
इत्य् आदि बहुशः ।
किं च व्रजे श्री-कृष्णस्य नव-यौवने समृद्धिमान् शृङ्गारो ज्ञेयः । स च
महाभाव-स्वभावेन चिर-प्रवासं विना निकट-प्रवासेऽपि तत्-स्फूर्त्या
सम्भवति । त्रुटिर् युगायते त्वाम् अपश्यताम् इत्य् आदि न्यायेन ब्रह्म-रात्र-ततिवद्
विरहेऽभूत् इत्य् आदि न्यायेन शरज्-ज्योत्स्ना-रासे विधि-रजनि-रूपापि निमिषादि-न्यायेन
च । अतएव श्रीमद्-उज्ज्वज-नीलमणौ (15.203) सम्पन्नस्योदाहरणे श्री-
हंसदूतस्य पद्यं दत्तम् । अतो विदग्ध-माधवे (1.36) पौगण्डत्वेन
भासमानत्वं दर्शितम् । यथा दुद्ध-मुहस्स वच्छस्स दाणिं को क्खु
उव्वाहा-ओसरो । इत्य् आदौ ।
नव-यौवनस्यैव सदास्थायित्वेन ध्येयत्वम् । यथा स्तव-मालायां (उत्कलिका-
वल्लरी 17) श्यामयोर् नव-वयः-सुषमाभ्याम् इत्य् आदौ । अतः श्री-कृष्ण-दुग्ध-
मुखत्वस्य सदा स्फूर्त्या श्री-व्रजेश्वर्यादिभिस् तस्य परिणयोद्यमः क्वापि न
कृतः । किम् उत महा-भाव-प्रभेदाधिरूढ-विशेष-मादन-भाव-स्वभावे ।
स च तं विना सम्भवतीति वक्तव्यम् । यथा श्री-आर्ष-वचनम्-
वन्दे श्री-राधिकादीनां भाव-काष्ठाम् अहं परम् ।
विना वियोगं सम्भोगं या तुर्यम् उदपादयत् ॥
अत्र भाव-काष्ठां मादन-रूपाम् । मादनस्य लक्षणम् (उन् 14.219, 226, 229)-
सर्व-भावोद्गमोल्लासी मादनोऽयं परात् परः ।
राजते ह्लादिनी-सारो राधायाम् एव यः सदा ॥
न निर्वक्तुं भवेच् छक्या तेनासौ मुनिनाप्य् अलम् ॥।
स्फुरन्ति व्रज-देवीषु परा भाव-भिदाश् च याः ।
तास् तर्काय्गोचरत्या न सम्यग् इह वर्णिताः ॥
इत्य् आदेश् च चिर-निकट-प्रवासे चिर प्रवास स्फूर्त्या समृद्धिमान् सम्भोगो
भवतीति किम् आश्चर्यम् ।
ननु तर्हि कथं श्री-गोस्वामि-पादैः समृद्धिमान् सम्भोगो नव-वृन्दावने
उदाहृतः ? तत् तु स्पष्ट-लीलायां नन्दनन्दन-वसुदेव-नन्दनयोर्
एक्तवाभिमानात् । तद् यथा (11.12.13) मत् कामा रमणं जारम् अस्वरूप-
विदोऽबलाः । तथा (10.46.3) गच्छोद्धव व्रजं सौम्य पित्रोर् नः प्रीतिम् आवहन्
इत्य् आदि । अतएव श्रीमद्-उज्ज्वल-नीलमणौ (15.185-6)
हरेर् लीला-विशेषस्य प्रकटस्यानुसारतः ।
वर्णिता विरहावस्था गोष्ठ-वाम-भ्रुवाम् असौ ॥
वृन्दारण्ये विहरता सदा रासादि-विभ्रमैः ।
हरिणा व्रज-देवीनां विरहोऽस्ति न कर्हिचित् ॥
अतएव श्री-रसामृत-सिन्धौ (2.5.128) श्री-भागवतादि-गूढार्थः श्री-गोस्वामि-
पादैर् दर्शितः । यथा-
प्रोक्तेयं विरहावस्था स्पष्ट-लीलानुसारतः ।
कृष्णेन विप्रयोगः स्यान् न जातु व्रज-वासिनाम् ॥
यथा हि यामल-वचनं-
कृष्णोऽन्यो यदु-सम्भूतो यः पूर्णः सोऽस्त्य् अतः परम् ।
वृन्दावनं परित्यज्य स क्वचित् नैव गच्छति ॥ इति ।
स्पष्ट-ल्कीला श्री-नन्दनन्दन-वसुदेव-नन्दनयोर् एकात्म-व्यञ्जिकाः । अस्पष्ट-
लीला गूढ-लीला तयोर् भेद-व्यञ्जिका । अतएव श्री-नन्द-यशोदादीनां परिकरैः
सह द्वारवत्यादि-गमनं व्रजेशादेर् अंशभूता ये द्रोणाद्या इत्य् आदिवत् ज्ञेयम्
। श्री-ललित-माधवे (10.36) श्री-राधा-प्रार्थना--
या ते लीला-रस-परिमलोद्गारि-वन्यापरीता
धन्या क्षौणी विलसति वृता माथुरी माधुरीभिः ।
तत्रास्माभिश् चटुल-पशुपी-भाव-मुग्धान्तराभिः
संवीतस् त्वं कलय वदनोल्लासि-वेणुर् विहारम्

16.9

कृष्णः - प्रिये तथास्तु ।
राधिका - कधं बिअ ?
(कृष्णः स्थगितम् इवापसव्यतो विलोकते ।)
(प्रविश्य गार्ग्या सहापटीक्षेपेण एकानंशा ।)
एकानंशा-सखि राधे ! मात्र संशयं कृथाः । यतो भवत्यः श्रीमति गोकुले
तत्रैव वर्तन्ते किन्तु मयैव काल-क्षेपणार्थम् अन्यथा प्रपञ्चितम् । तद् एतन्
मनस्य् उअन्भूयताम् । कृष्णोऽप्य् एष तत्र गत एव प्रतीयताम् ।
गार्गी (स्वगतम्)-फलिदं मे तात-मुहादो सुदेन ।
श्री-भागवते यथा श्री-नन्दनन्दन-वसुदेव-नन्दनयोर् एकत्व-व्यञ्जिका
स्पष्टा । तथा श्री-ललित-माधवे विन्ध्यादार-प्रसूता-कीर्तिदा-प्रसूतयोर् एकत्व-
व्यञ्जिका लीला स्पष्टा । यथा गूढ-लीलायां श्री-कृष्णो वसुदेव-नन्दन-रूपेण
गतस् तथा श्री-राधा सत्यभामा-रूपेण गता । यथा स्पष्ट-लीलायां वसुदेव-
नन्दने नन्द-नन्दनावेशस् तथा श्री-सत्यभामायां श्री-राधावेश इति ।
नन्व् अप्रकट-लीलायां पूर्व-रागो नास्तीति प्रकट-लीला-विशेषोऽपेक्ष्यः । प्रकट-
लीलायां समृद्धिमान् सम्भोगो नास्तीत्य् अप्रकट-लीला-विशेषोऽपेक्ष्यः । अतएव
गोकुलस्य प्रकटाप्रकट-प्रकाशयोः स्वरूपेण द्वैविध्यं स्यात् । एवं लीलायाश्
च ? तत्राह समृद्धिमान् सम्भोगस् तत्र प्रकट-लीलायां न जातश् चेत्, तद् अर्थम्
अप्रकट-लीला-विशेषोऽपेक्ष्यः । स तत्र जात एव यथा दन्तवक्र-वधानन्तरं
रम्य-केलि-सुखेनात्र मास-द्वयम् उवास ह इति ।
किं च स्वकीयासु समञ्जसा रतिः, सा चानुरागान्ताः । तत्र जाति-भेदेन
समृद्धिमान् सम्भोगो रस-निर्यासत्वेन न कथ्यते । परकीयासु समर्था रतिः
। सा च भावान्ता । वैशिष्ट्यं पात्र-वैशिष्ट्याद् रतिर् एषोपगच्छति (ब्र्स् 2.5.1) इति
समर्था-रति-स्थायिकः समृद्धिमान् सम्भोगो रस-निर्यासत्वेन कथ्यते । अतएव
प्रकट-लीलायां पूर्व-राग-समृद्धिमन्तौ जातौ । अ प्रकट-लीला-विशेष-
स्वीकारेण किं प्रयोजनम् ? किं च जात-प्राकट्याः पूर्व-रागादि-गता लीला
अप्रकटा अधुना वर्तन्ते तासां पुनः प्राकट्ये किं पुनः पूर्वरागादि-रूपं
निज-प्रयोजनं भवति । लीलायाः प्रकटायां समृद्धिमत आस्वादनम् अस्त्य् एव
। तद् अर्थं प्रकट-लीला-विशेष इत्य् असङ्गतिर् इति । किन्तु रस-शास्त्रे सम्भोगस्य
रात्रि-प्राधान्यत्वात् । स च समृद्धिमान् रात्राव् एव जायते यथा निकट-दूरेत्यादि-
पूर्ववत् ।
केचित् तु दन्तवक्र-वधानन्तरं प्रौढ-यौवने ##[*एन्द्नोते #14] प्रौढ-
यौवनं विचार्यते । आनुक्रमिकी लीला नित्या । सा च जन्म कर्म च मे दिव्यम् इत्य्
आदेः । तस्यां श्री-नन्दनन्दनस्य वयो-गणनं श्री-वैष्णव-तोषण्याम् निर्णीतम्
एव । तत् तु पञ्चविंशत्य्-अधिक-शत-वर्ष-पर्यन्तम् । तद्-व्यवस्था । व्रजे
एकादश-समाः । तत्र सावित्र्य-जन्माभावेन धर्म-शास्त्र-विरोधाद् विवाहो नास्ति
। रास-क्रीडा-सुख-सम्भोगे परकीयात्वम् एवेत्य् अर्थः । मथुरायां
चतुर्विंशतिः वर्षाः । तत्रापि नास्ति विवाहः । ततः सम्भोगाद् अनन्तरं
सत्यभामादीनां । ततः षोडश-सहस्र-कन्यानाम् । ततः पुत्र-पौत्रादयो
बहवो जाताः । ततो दन्तवक्र-वधानन्तरं लीलावसाने व्रजागमनम् । तत्रापि
केषांचिन् मते विवाहः श्री-राधादिभिः सम्मतः । तद् असङ्गतम् । श्री-भागवते
कुत्राप्य् अवर्णितत्वात् । बन्धु-वर्गाएर् निषेधाभावेन रसोत्कर्षाभावाच् च ।
अतएव गोचारणादि-जन्य-विरहाभावस् ततो रास-दान-मानादि-लीलादेर् अभावेन
दूती प्रेषणादेर् अभावः स्यात् । अतएव श्री-रूप-पादैर् नवयौवनस्य
सदाधेयत्वेन वर्णितत्वात् श्री-महाप्रभोः पार्षद-वृन्दैर् विवाहस्य कुत्राप्य्
अवर्णितत्वाच् च । श्री-पद्म-पुराण-मते ललित-माधवे विवाह-वर्णनं कल्प-
भेदेन समाधेयम् ।
तस्मात् सर्वेषां मते प्रकटाप्रकट-लीलायां परकीयैव नित्यत्वात् । विवाहं
स्वीकृत्य तेनैव लीलाया अपरकटत्वं मत्वा स्वकीयाया नित्यत्वं मन्यते । तद्
असङ्गतम् । पूर्व-हेतोः श्री-व्रजेश्वरादीनां श्री-कृष्णस्य सदा दुग्ध-
मुखत्व-स्फूर्त्या सावित्र-जन्याभावेन विवाहाभावात् । नव-यौवन-संवलित-
पूर्णतमत्वस्य श्री-रूप-गोस्वाम्य्-आदिभिः सदा ध्येयत्वाच् च । तत् तु श्री-
कृष्णस्य मथुरादि-गमनाभावात् । स च कृष्णोऽन्यो यदु-सम्भूतः इत्य् आदि ।
मथुरादि-गमने तु पूर्णतरत्वादिपातात् । नव-यौवनस्य सदा ध्येयत्वं यथा
स्तवमालायां (उत्कलिका-वल्लरी 17)-
श्यामयोर् नव-वयः-सुषमाभ्यां
गौरयोर् अमल-कान्ति-यशोभ्याम् ।
क्वापि वाम् अखिल-वल्गु-वतंसौ
माधुरी हृदि सदा स्फुरतान् मे ॥ इत्य् आदेश् च ।
अस्मन्-मते तु श्री-वसुदेव-नन्दन-रूपेण मथुरा-द्वारकादौ गत्वा
दन्तवक्र-वधानन्तरं पुनर् व्रजम् आगत्य तत्र तु स्वयं-प्रकाश-रूपेण श्री-
व्रजेन्द्र-नन्दनेन लीलायाः प्रकटनं कृतम् । तत् तु त्रिमास्याः परतस् तासां
साक्षात् कृष्णेन सङ्गतिः इति जातम् । अस्य तु प्रकटाप्रकटे जातत्वं पूर्वम् एव
लिखितम् । ततः श्रीमद्-व्रजेन्द्र-नन्दने पूर्णतरादि-प्रकाशे । न तु मथुरा-
द्वारकादौ च । अतः प्रकटाप्रकटे परकीयायाः सद्-भावेन नित्यत्वात् । तत् तु
जयति जननिवास इत्य् आदेर् वर्तमान-प्रयोगा बहवः सन्ति । अतः श्री-कृष्ण-
चैतन्य-महाप्रभोः परिवारेषु श्रीमन्-नित्यानन्दाद्वैतादिभिः श्री-
भागवतानुसारेण प्रकटाप्रकटे व्रज-लीलायां श्री-कृष्णस्यौपपत्यं
नित्यत्वेन स्वीकृत्य स्व-स्व-परिवारे प्रवर्तितं दृश्यते । तेषु च श्री-गदाधर-
स्वरूप-रूप-सनातन-भट्ट-रघुनाथ-दास-कर्णपूरादिभिस् तत्-तन्-
मतानुसारेण तत्र तत्रैव परकीयात्वं स्व-स्व-ग्रन्थ-गणे वर्णयित्वा
प्रवर्तितं दृश्यते । लीला-मात्रस्य नित्यत्वात् । तत् तु जयति जननिवासः इत्य् आदेः ।
तथा श्री-रामानुजाचार्य-मध्वाचार्य-प्रभृतिभिश् च लीला-मात्रस्य नित्यत्वं
स्थाप्यते । अतो लीला-मात्रस्य नित्यत्वेनानुक्रमिक्या लीलाया नित्यत्वे न दोषस् तस्मात्
प्रकटाप्रकटे परकीयाया नित्यत्वम् ।
तत् तु पुनः परिपाट्या विचार्यते । स्वयं भगवान् श्री-व्रजेन्द्र-नन्दनः श्री-
कृष्ण-चैतन्यः । स च सप्तोत्तर-चतुर्दश-शत-शकाब्दे प्रकटितः । जगद्-
गुरुत्वाद् आचार्यत्वम् अङ्गीकृतवान् । अवतारे तु मुख्य-कारणम् आह (च्च् 1.1.6)-
श्री-राधायाः प्रणय-महिमा कीदृशो वानयैवा-
स्वाद्यो येनाद्भुत-मधुरिमा कीदृशो वा मदीयः ।
सौख्यं चास्या मद्-अनुभवतः कीदृशं वेति लोभात्
तद्-भावाढ्यः समजनि शची-गर्भ-सिन्धौ हरीन्दुः ॥ इत्य् आदि ।
गौण-कारणं तु भू-भार-रूप-महा-पापिनाम् असुर-स्वभावं दूरीकृत्य कलौ
मुख्य-धर्म-नाम-सङ्कीर्तन-प्रवर्तनम् । तस्य प्रमाणं अनुग्रहाय
भक्तानाम् (10.33.36) इत्य् आदि । अतएव श्री-नित्यानदाद्वैत-गदाधर-स्वरूप-रूप-
सनातनादीन् निज-पार्षदान् प्रकटय्य तद्-द्वारेण युग-धर्मं प्रवर्तयित्वा
तैः सह पुनर् अष्ट-चत्वारिंशद्-वर्ष-पर्यन्तं प्रकट-मुख्य-कारणं
मुख्य-रसास्वादनं कृतवान् । आस्वादनं तु सर्व-वेदान्त-सार-श्री-भागवत-

संमतम् । तत् तु प्रकटाप्रकटे नित्यत्वात् । तत्र च (10.33.19)-
कृत्वा तावन्तम् आत्मानं यावतीर् गोपयोषितः ।
रेमे स भगवांस् ताभिर् आत्मारामो ऽपि लीलया ॥
इत्य् आदि बहुशः । तस्माद् व्रजेन्द्र-नन्दनस्य गोप-स्त्रीषूपपतित्वं तासां तु
तस्मिन् परकीयात्वं क्रम-लीलावसाने प्रकटं नित्यम् एव । यतः श्रीमन्-
महाप्रभुः श्री-कृष्ण-चैतन्यः सर्व-भक्तान् तद् एवास्वादनं कारयित्वा
स्वयम् एवास्वादनं कृतवान् । तत्र स्वयम् आस्वादनं यथा श्री-चैतन्य-
चरितामृते (2.1.11)-
चण्डी-दास विद्यापति रायेर नाटक गीति
कर्णामृत श्री गीत गोविन्द
महाप्रभु रात्रि दिने स्वरूप-रामानन्देर सने
नाचे गाय परम आनन्द
एतद्-अभावे हृदि यस्य प्रेरणया प्रवर्तितोऽहं वराक-रूपोऽपि इति वचनात् । श्री-
महाप्रभुना निज-प्राकट्यस्य प्रयोजनस्य श्रीमद्-रूप-गोस्वामि-कृत-श्रीमद्-
उज्ज्वल-नीलमण्य्-आदिभिः सम्पादितत्वात् । प्राकट्य-मुख्य-प्रयोजनस्य हान्या
श्री-महाप्रभोः प्राकट्यम् अप्रयोजकम् । तस्मात् श्री-महाप्रभोः
कृतास्वादनस्य परम-विज्ञ-सेव्यत्वम् । यथा तत्र श्री-दास-गोस्वामि-कृत-
स्तवावल्यां (श्री-चैतन्याष्टके 4)
अनावेद्यां पूर्वैर् अपि मुनि-गणैर् भक्ति-निपुणैः
श्रुतेर् गूढां प्रेमोज्ज्वल-रस-फलां भक्ति-लतिकाम् ।
कृपालुस् तां गौडे प्रभु अतिकृपाभिः प्रकटयन्
शची-सूनुः किं मे नयन-सरणीं यास्यति पदम् ॥
अतएव श्री-महाप्रभोः शक्ति-रूपैः श्री-रूप-गोस्वामि-चरणैः श्रीमद्-उज्ज्वल-
नीलमणि-श्री-विदग्ध-माधव-दान-केलि-कौमुद्य्-आदि-ग्रन्थानां समर्था-
रति-विलास-रूपाणां सूत्र-रूपे श्री-स्मरण-मङ्गले प्रतिज्ञातम्-श्री-राधा-प्राण-
बन्धोः इति । एवं लघु-भागवतामृते (1.5.448, 451)-
प्रपञ्चागोचरत्वेन सा लीला प्रकटा मता ॥ इति ।
अथ प्रकटतां लब्धे व्रजेन्द्र-विहिते महे ।
तत्र प्रकटयत्य् एष लीला बाल्यादिका क्रमात् ।
करोति याः प्रकाशेषु कोटिशोऽप्रकटेष्व् अपि ॥
एवं स्तव-माला-स्तवावली-गणोद्देश-दीपिकादिषु प्रकटाप्रकटे वर्तमानाः
परकीया लीलाः प्रार्थनीया वर्तन्ते । एवं श्री-महाप्रभु-पार्षद-वर्गैः
कृतेषु संस्कृत-प्राकृत-मय-ग्रन्थ-निचयेषु बहु-विधानि प्रमाणानि वर्तन्ते।
तत्र श्री-महाप्रभु-परम-गुरु-श्री-माधवेन्द्र-पुरी-गोस्वामि-पादिअः श्री-
श्री-भगवत्-प्राप्ति-काले प्रार्थितवान्-
अयि दीनदयार्द्र नाथ हे,
मथुरानाथ कदावलोक्यसे ।
हृदयं त्वद्-अलोक-कातरं
दयित भ्राम्यति किं करोम्य् अहम् ॥ इत्य् आदि ।
तत् तु पार्षदाः श्री-कृष्ण-चैतन्यस्य प्रकटाप्रकटे सभासु स्वयम्
आस्वादितवन्तस् तेषां शिष्य-प्रशिष्यादयस् तद्-ग्रन्थ-द्वारेणेदानीम् अप्य्
आस्वादयन्ति - जयति जननिवास इत्य् आदि-वर्तमान-प्रयोगैर् लीला-मात्रस्य नित्यत्वात्
। तत्र प्रमाणानि यथा श्री-रामानन्द-राय-गोस्वामि-पादानां जगन्नाथ-
वल्लभाख्यं नाटकम्, श्री-स्वरूप-गोस्वामि-पादानां करचा, श्री-गदाधर-
पण्डित-गोस्वामि-पादानां प्रेमामृत-स्तोत्रादि, श्री-नरहरि-ठक्कुर-पादानां
श्री-कृष्ण-भजनामृतादि, श्री-वासुदेव-घोष-पादानां पदावल्य्-आदि, श्री-
राघव-पण्डित-गोस्वामि-पादानां श्री-भक्तिरत्न-प्रकाशादि, श्री-विष्णु-पुरी-
गोस्वामि-पादानां भक्ति-रत्नावल्य्-आदि, श्री-सार्वभौम-भट्टाचार्य-पादानां
श्रीमन्-महाप्रभोः शत-नाम-स्तोत्रादि, श्री-प्रबोधानन्द-सरस्वती-पादानां
पादानां श्री-वृन्दावन-शतकादि, श्री-सनातन-गोस्वामि-पादानां श्री-वैष्णव-
तोषण्य्-आदि, श्री-रूप-गोस्वामि-पादानां श्री-भक्ति-रसामृत-सिन्धुः, श्री-उज्ज्वल-
नीलमणिः, श्री-विदग्ध-माधवादि, श्री-गोपाल-भट्ट-गोस्वामि-पादानां श्री-
भागवत-सन्दर्भ-श्री-कृष्ण-कर्णामृत-टीकादिः, श्री-रघुनाथ-भट्ट-
गोस्वामि-पादानां तत्-शिष्य-द्वारेण श्रीभागवतादि-भक्ति-शास्त्र-पठन-
पाठनादिकम्, श्री-रघुनाथ-दास-गोस्वामि-पादानां मुक्ता-चरित-स्तव-मालादि,
श्री-कर्णपूर-गोस्वामि-पादानां श्री-आनन्द-वृन्दावन-चम्पू-श्री-कृष्णाह्निक-
कौमुदी-श्री-गौर-गणोद्देश-श्री-चैतन्य-चन्द्रोदय-नाटकादि, श्री-
भागवताचार्य-पादानां श्री-कृष्ण-प्रेम-तरङ्गिनी, तत्र श्रीमद्-अनन्ताचार्य-
पाद-श्री-नयनानन्द-पादादीनां पदावल्य्-आदि ।
एवं च श्री-महाप्रभोस् ताम्बूल-चर्वित-जन्म-श्री-नित्यानन्द-प्रभु-सेवक-श्री-
नारायणी-पुत्र-श्री-वृन्दावन-ठक्कुर-वर्णित-श्री-चैतन्य-भागवतादि । तत् तु
श्री-नित्यानन्द-प्रभुना साक्षात् प्रेरणया लिखितं भवति । तथा हि श्री-चैतन्य-
चरितामृते (1.8.) चैतन्य-लीलार व्यास वृन्दावन दास इत्य् आदि ।
एवं श्री-महाप्रभोर् मत-विरोधिनः श्रीमद्-अच्युतानन्दादि विना श्रीमद्-
अद्वैत-प्रभु-पुत्राः श्रीमद्-अद्वैताचार्य-पादैस् त्यक्ताः । तत् तु श्री-चैतन्य-
चरितामृतादौ प्रसिद्धम् । एवम् उपमहत्सु श्री-लोचन-दास-ठक्कुर-कृत-श्री-
चैतन्य-मङ्गल-दुर्लभ-सारादि, श्री-कृष्णदास-कविराज-महानुभाव-कृत-श्री-
गोविन्द-लीलामृत-श्री-चैतन्य-चरितामृत-श्री-कृष्ण-कर्णामृत-टीकादि ।
श्रीनिवासाचार्य-कृत-चतुः-श्लोकी-टीकादि, श्री-नरोत्तम-दास-ठक्कुर-श्री-
गोविन्द-कविराज-कृत-पदावल्य्-आदयः सर्वत्र प्रसिद्धाः । एवम् उत्कल-निवासि-
श्री-श्यामानन्दादीनां पदावली प्रसिद्धा ।
किं च श्रीमन्-महाप्रभोर् मन्त्र-सेवकः साक्षात् कोऽपि श्री-रूप-सनातनादीनां
च । तत्र शक्ति-सञ्चार-कृत-सेवकत्वे प्रमाणं मनः-शिक्षायां (7,12) यदीच्छेर्
आवासं व्रज-भुवि स-रागं प्रतिजनुः इत्य् अत्रैव, स-यूथ-श्री-रूपानुग इह
भवन् गोकुल-वने इत्य् आदि । श्री-बृहद्-भागवतामृत-पूर्व-खण्डे (1.1.1)-
नमश् चैतन्य-देवाय स्व-नामामृत-सेविने ।
यद् रूपाश्रयणाद् यस्य इत्य् आदि ।
अथ श्री-जीव-गोस्वामि-पादः श्रीमद्-रूप-पादस्य भ्रातुष्पुत्रस् तस्मात् तं
मन्त्र-सेवकं कृतवान् । तस्य तु श्रीमन्-महाप्रभोर् दर्शनं नास्ति श्रीमद्-
रूपादीनाम् अप्रकटे परकीयात्वं स्वकीयात्वं च मतं स्व-ग्रन्थे लिखितं तेन
। तत्र स्वकीयात्वं श्रीमद्-रघुनाथ-दास-प्रभृतयः श्री-चैतन्य-पार्षदाः
श्री-रूपादि-सङ्गिनोऽनङ्गी-कृतवन्तः । श्री-जीव-पादस्य तत् तु स्वेच्छा-लिखनं न
भवति । किन्तु परेच्छा-लिखनम् । तत्-पाण्डित्य-बलात् लिखन-परिपाटी-दर्शनेन
पण्डित-जनास् तत् स्वीकुर्वन्ति । ये च लब्ध-श्री-महाप्रभु-कृपा लब्ध-श्री-
रूपादि-कृपास् ते तु सर्वथा नाङ्गीकुर्वन्ति । एतन्-मत-प्रवर्तनं तु काल-कृतम्
एव । तत् तु सर्वं काल-कृतम् मन्ये इत्य् आदि । श्रेयांसि बहु-विघ्नानि इत्य् आदि च ।
अतस् तु केचिद् एवं वदन्ति श्री-जीव-पादस् तु भ्रातुष्पुत्र एव शिष्यश् च । तन्-मतं
स्वकीयात्वम् एव । तस्मात् ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यम् अप्य् उत (1.1.8)
इत्य्-आदि-न्यायेन श्रीमद्-रूप-पाद-मतं स्वकीयात्वम् एव । एवं चेत् श्रीमन्-
महाप्रभोः पार्षदेषु विरुद्धं जातम् । श्रीमन्-महाप्रभुणा तु श्रीमद्-
रूप-सनातनौ प्रति स्वकीयात्वम् उपदिष्टम् । अन्येषु तु परकीयात्वम्

उपदिष्टम् इति गुरुतरं विरुद्धं स्यात् । श्रीमद्-रूप-गोस्वामि-पादानां शक्ति-
सञ्चारोपदिष्ट-श्रीमज्-जीव-पादादि-शिष्याणां सर्वेषां परकीयैव । केवलं श्री-
जीव-गोस्वामि-पाद-गण-मध्ये क्वचित् क्वचिद् गुरु-विरुद्धम् आश्चर्यं दृश्यते
। यतोऽद्यापि तेषु सन्तानेषु एवं शिष्येषु स्व-स्व-ग्रन्थेषु प्रकटेऽप्रकटे च
परकीयात्वं दृश्यते । तस्मात् श्रीमन्-महाप्रभोस् तत्-पार्षदादीनां च
परकीयात्वम् एव मतम् । श्रीमज्-जीव-पादेन तु यत् स्वकीयात्वं लिखितम् तत्
परेच्छयैव । अतएव श्री-कृष्ण-सन्दर्भे स्वकीया-सिद्धान्तानन्तरं तद्-दोषः
प्रार्थनया स्वयम् एव क्षमापितः । तथा हि-
यद् एतत् तु मया क्षुद्रतरेण तरलायितं ।
क्षमतां तत् क्षमा-शीलः श्रीमान् गोकुल-वल्लभः ॥
तत्र शिष्य-परम्परा-श्रवणम् आह-गोपाल-दास-नामा कोऽपि वैश्यः श्री-जीव-
गोस्वामि-पादानां प्रिय-शिष्यः । तत्-प्रार्थना-परवशेन तेन स्वकीयात्वं
सिद्धान्तितम् । अतएव श्रीमद्-रूप-सनातन-पादादीनां ग्रन्थेषु कुत्र कुत्रापि
छेदनादिकं कृतम् । कृत्वापि तत्र तत्रापि स्व-दोष-क्षमापणं कृतम् । यथा
श्री-कृष्ण-सन्दर्भे यद् एतत् तु मया क्षुद्रतमेण तरलायितम् । श्री-लघु-
वैष्णव-तोषण्यां च (सर्वान्तिमे)-
लीला-स्तवष् टिप्पणी च सेयं वैष्णव-तोषणी ।
या संक्षिप्ता मया क्षुद्रतरेणापि तद्-आज्ञया ॥
अबुद्ध्या बुद्ध्या वा यद् इह मयकालेखि सहसा
तथीअ यद् वाच्छेदि द्वयम् अपि सहेरन् परम् अपि ।
अहो किं वा यद् यन् मनसि मम विस्फोरितम् अभूद्
अम्भोभिस् तन् मात्रं यदि बलम् अलं शङ्कित-कुलैः ॥
हरिनामामृते तन्-नाम स्पष्टम् एवोट्टङ्कितम् । तद् यथा-
हरिनामामृत-संज्ञं यद् अर्थम् एतत् प्रकाशयामासे ।
उभयत्र मम मित्रं स भवतु गोपाल-दासाख्यः ॥
श्री-गोपाल-चम्पू-मङ्गलाचरणे च (ग्च्प् 1.5)-
श्री-गोपाल-गणानां गोपालानां प्रमोदाय ।
भवतु समन्ताद् एषा नाम्ना गोपाल-चम्पूर् या ॥
श्रीमद्-उज्ज्वल-नीलमणि-टीकायां च-
स्वेच्छया लिखितं किञ्चित् किञ्चिद् अत्र परेच्छया ।
यत् पूर्वापर-सम्बन्धं तत् पूर्वम् अपरं परम् ॥
श्री-भागवत-सन्दर्भे च-
तौ सन्तोषयता सन्तौ श्रील-रूप-सनातनौ ।
दाक्षिणात्येन भट्टेन पुनर् एतद् विविच्यते ॥ओ॥
तस्याद्यं ग्रन्थनालेखं क्रान्तम् उत्क्रान्त-खण्डितम् ।
पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ॥ओ॥
इत्य् आदिकं च ।
श्री-कृष्ण-दास-नामा ब्राह्मणो गौडीयः श्रीमज्-जीव-विद्याध्ययने शिष्यः, न
तु मन्त्र-शिष्यः । तेषां शिष्याकरणात् । शिष्य-करणे प्रवृत्तिश् चेत् तर्हि श्रीनिवास-
नरोत्तमादीनां शिष्यत्वं श्री-जीवेन कथम् अत्याजि । तस्मात् तेष्व् अप्रकटेषु
स्वाधिकारेच्छया तन्-मन्त्र-शिष्यत्व-प्रकटनं कृष्ण-दासेन स्वेनैव कृतम्
। तेषां ग्रन्थेषु छेदनादि कुत्र कृतं, कुत्रापि पल्लवितम् ।
अतएव श्री-वैष्णव-तोषण्य्-आदिषु कुत्र कुत्रापि संशयास्पदत्वेन न सर्व-
संमतम् । तस्माद् एकस्याप्रामाण्येनान्य् अस्याप्रामाण्यम् इति न्यायात् स्वकीयात्व-
सिद्धान्ते सर्वेषां श्री-चैतन्य-पार्षदानाम् असंमतत्वेन श्रीमज्-जीव-पादेन
तु परापेक्षा-कृतेन च परकीयात्वं सर्व-संमतं मतम् इति सङ्गतम् ।
इति श्रीमद्-राधा-गोविन्द-देव-सेवाधिपति-श्री-हरिदास-गोस्वामी-चरणानुजीवि-
श्री-राधा-कृष्ण-दासोदीरिता भक्ति-साधन-दीपिका-नवम-कक्षा

16.326

(10)
दशम-कक्षा
(ब्र्स् 1.1.10-17)
तत्रादौ सुष्ठु वैशिष्ट्यम् अस्याः कथयितुं स्फुटम् ।
लक्षणं क्रियते भक्तेर् उत्तमायाः सतां मतम् ॥
तद् यथा-
अन्याभिलाषिता-शून्यं ज्ञान-कर्माद्य्-अनावृतम् ।
आनुकूल्येन कृष्णानुशीलनं भक्तिर् उत्तमा ॥
यथा श्री-नारद-पञ्चरात्रे --
सर्वोपाधि-विनिर्मुक्तं तत्-परत्वेन निर्मलम् ।
हृषीकेण हृषीकेश-सेवनं भक्तिर् उच्यते ॥
श्री-भागवतस्य तृतीय-स्कन्धे च (3.29.11-13) --
लक्षणं भक्ति-योगस्य निर्गुणस्य ह्य् उदाहृतम् ।
अहैतुक्य् अव्यवहिता या भक्तिः पुरुषोत्तमे ॥
सालोक्य-सार्ष्टि-सामीप्य-सारूप्यैकत्वम् अप्य् उत ।
दीयमानं न गृह्णन्ति विना मत्-सेवनं जनाः ॥
स एव भक्ति-योगाख्य आत्यन्तिक उदाहृतः ।
येनातिव्रज्य त्रिगुणं मद्-भावायोपपद्यते ॥
सालोक्येत्यादि-पद्यस्थ-भक्तोत्कर्ष-णिरूपणम् ।
भक्तेर् विशुद्धता-व्यक्त्या लक्षणे पर्यवस्यति ॥
क्लेषघ्नी शुभदा मोक्ष-लघुता-कृत् सुदुर्लभा ।
सान्द्रानन्द-विशेषात्मा श्री-कृष्णाकर्षिणी च सा ॥
(ब्र्स् 1.1.44-47)
अग्रतो वक्ष्यमाणायास् त्रिधा भक्तेर् अनुक्रमात् ।
द्विशः षड्भिः पदैर् एतन् माहात्यं परिकीर्तितम् ॥
किं च -
स्वल्पापि रुचिर् एव स्याद् भक्ति-तत्त्वावबोधिका ।
युक्तिस् तु केवला नैव यद् अस्या अप्रतिष्ठता ॥
तत्र प्राचीनैर् अप्य् उक्तम् -
यत्नेनापादितोऽप्य् अर्थः कुशलैर् अनुमातृभिः ।
अभियुक्ततरैर् अन्यैर् अन्यथैवोपपाद्यते ॥
(ब्र्स् 1.2.1-2)
सा भक्तिः साधनं भावः प्रेमा चेति त्रिधोदिता ॥
तत्र साधन-भक्तिः -
कृति-साध्या भवेत् साध्य-भावा सा साधनाभिधा ।
नित्य-सिद्धस्य भावस्य प्राकट्यं हृदि साध्यता ॥
(ब्र्स् 1.2.5-7)-
वैधी रागानुगा चेति सा द्विधा साधनाभिधा ॥
तत्र वैधी --
यत्र रागानवाप्तत्वात् प्रवृत्तिर् उपजायते ।
शासनेनैव शास्त्रस्य सा वैधी भक्तिर् उच्यते ॥
यथ, द्वितीये (2.1.6)-
तस्माद् भारत सर्वात्मा भगवान् ईश्वरो हरिः ।
श्रोतव्यः कीर्तितव्यश् च स्मर्तव्यश् चेछताभयम् ॥
तत्र अधिकारी (ब्र्स् 1.2.15-16)--
यः केनाप्य् अतिभाग्येन जात-श्रद्धोऽस्य सेवने ।
नातिसक्तो न वैराग्य-भाग् अस्याम् अधिकार्य् असौ ॥
यथैकादशे (11.20.28) --
यदृच्छया मत्-कथादौ जात-श्रद्धोऽस्तु यः पुमान् ।
न निर्विण्णो नातिसक्तो भक्ति-योगोऽस्य सिद्धिदः ॥
अथ रागानुगा (ब्र्स् 1.2.270)-
विराजन्तीम् अभिव्यक्तां व्रज-वासी जनादिषु ।
रागात्मिकाम् अनुसृता या सा रागानुगोच्यते ॥
टीका-अभिव्यक्तं सुव्यक्तं यथा स्यात् तथा व्रज-वासि-जनादिषु विराजन्तीं
रागात्मिकां भक्तिम् अनुसृता या भक्तिः । या रागानुगा उच्यते इति योजना । व्रज-
वासि-जनादिष्व् इत्य् अत्र जन-पदेन मनुष्य-मात्रं बोधितम् । आदि-पदेन पशु-
पक्ष्य्-आदयो गृह्यन्ते । अतएवोक्तं-
त्रैलोक्य-सौभगम् इदं च निरीक्ष्य रूपं
यत् गो-द्विज-द्रुम-मृगाः पुलकान्य् अबिभ्रन् । इति ।
विराजन्तीम् इति विशेषेण राजमानाम्, न तु धामान्तर-परिवार-भक्तिवद् ऐश्वर्य-
ज्ञानादिनाभिभूताम् । अनुसृतेत्य् अत्रानुसरणं नित्य-सिद्ध-व्रज-वासि-जन-भाव-
चेष्टानुगमनात्मकानुकरणम् । तच् च श्री-कृष्ण-प्रेष्ठानुगत-निष्ठं तद्
एवानुगत्यम् इति फलितार्थः । तच् च तद्-अनुगतत्वे सति तादृश-काय-वाङ्-
मानसीय-सेवा-कर्तृत्वं चेति ।
श्री-कृष्ण-प्रेष्ठाधीनत्वं यथैकादशे (11.3.21)-
तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् ।
शाब्दे परे च निष्णातं ब्रह्मण्य् उपशमाश्रयम् ॥
टीका च-उत्तमं श्रेयो जिज्ञासुः । शाब्दे ब्रह्मणि वेदाख्ये निष्णातं, अन्यथा
संशय-निरासकत्वायोग्यत्वाद् धेतोः । परे ब्रह्मणि अपरोक्षानुभवे च
निष्णातम् । अन्यथा यतो बोध-संचाराभावात् । परे ब्रह्मणि निष्णातत्वे
द्योतकम् आह उपशमाश्रयम् इति ।
तत्रैव श्रीमद्-उद्धवं प्रति श्री-भगवान् (11.10.12)-
आचार्योऽरणिर् आद्यः स्याद् अन्ते-वास्य् उत्तरारणिः ।
तत्-सन्धानं प्रवचनं विद्या-सन्धिः सुखावहः ॥
टीका-आद्योऽधरः । तत्-सन्धानं च तयोर् मध्यमं मन्थन-काष्ठां
प्रवचनम् उपदेशः । विद्या शास्त्रोत्थं ज्ञातम् । तत्र सन्धौ भवोऽग्निर् इव ।
तथा च श्रुतिः-आचार्यं पूर्व-रूपः अन्तेवास्य् उत्तर-रूपः इत्य् आदि । अतएव तद्-
विज्ञानार्थं स गुरुम् एवाभिगच्छेत् इति । आचार्यवान् पुरुषो वेद इति । नैषा तर्केण
मतिर् आपनेया इत्य् आदि च ।
तथा श्री-कृष्ण-प्रेष्ठ-गुरु-संसर्गेणैव तद्-भावोत्पत्तिः स्यात् । नान्यथेति
भावः । अतएव श्री-भागवते (11.17.27)-
आचार्यं मां विजानीयान् नावमन्येत कर्हिचित् ।
न मर्त्य-बुद्ध्यासूयेत सर्व-देव-मयो गुरुः ॥
नित्य-सिद्धस्य भावस्य प्राकट्यं हृदि साध्यता (ब्र्स् 1.2.2) इति नित्य-सिद्धस्य
भावस्य साधक-भक्तानां हृदि स्वयं प्रकटनं साध्यता । तत्-तद्-भावादि-
माधुर्ये श्रुते धीर् यद् अपेक्षते (ब्र्स् 1.2.292) इत्य् आश्रयिष्यमाणे गुरौ तद्-
भाव-माधुर्यं सुतरां दृश्यते । एतादृशे श्री-कृष्ण-रूप-गुरौ दृष्टे सति
लोभः स्वतः एव उत्पद्यते । यथा (ब्र्स् 1.2.241)-
दृग्-अम्भोभिर् धौतः पुलक-पतली मण्डित-तनुः
स्खलन्न् अन्तः-फुल्लो दधद् अतिपृथुं वेपथुम् अपि ।
दृशोः कक्षां यावन् मम स पुरुषः कोऽप्य् उपययौ
न जाते किं तावन् मतिर् इह गृहे नाभिरमते ॥
अथ श्रवण-गुरु-भजन-शिक्षा-गुर्वोः प्रायिकम् एकत्वम् इति । यथा तथैवाह
श्री-भक्ति-सन्दर्भे (206)-
तत्र भागवतान् धर्मान् शिक्षेद् गुर्व्-आत्म-दैवतः ।
अमाययानुवृत्त्या यैस् तुष्येद् आत्मात्म-दो हरिः ॥ (भ्प् 11.2.21) इति ।
तत्रैव भगवान् देवः ।
शिक्षा-गुरोर् अप्य् आवश्यकत्वम् आह श्री-दशमे (10.87.33)-
विजित-हृषीक-वायुभिर् अदान्त-मनस् तुर-गं
य इह यतन्ति यन्तुम् अति-लोलम् उपाय-खिदः ।
व्यसन-शतान्विताः समवहाय गुरोश् चरणं
वणिज इवाज सन्त्य् अकृत-कर्ण-धरा जलधौ ॥
टीका-ये गुरोश् चरणं समवहाआन् आश्रित्यातिलोल-मदान्तम् अदमितं मन एव
तुरगं दुर्गम-साम्याद् विजितैर् इन्द्रियैः प्राणैश् च यन्तुं भगवद्-
अन्तर्मुखीकर्तुं प्रयतन्ते । ते उपाय-खिदस् तेषु तेषूपायेषु खिद्यन्ते । अतो
व्यसन-शतान्विता भवन्ति । अतएव इह संसार-समुद्रे सन्ति तिष्ठन्ति दुःखम्
एव प्राप्नुवन्तीत्य् अर्थः । जलधौ अकृत-कर्णधरा अस्वीकृत-नाविका वणिजो यथा
तद्वत् ।
श्री-गुरु-प्रदर्शित-भगवद्-भक्ति-भजन-प्रकारेण भगवद्-धर्म-जीइआने
सति तत्-कृपया व्यसनानभिभूतौ च सत्यां शीघ्रम् एव मनो निश्चलं भवतीति
भावः ।
अथ ब्रह्म-वैवर्ते-
गुरु-भक्त्या स मिलति स्मरणात् सेव्यते बुधैः ।
मिलितोऽपि न लभ्यते जीवैर् अहमिका-परैः ॥
अतएव नारद-पञ्चरात्रे तत्-पूजनस्यावश्यकत्वम् उक्तं, यथा-
वैष्णवं ज्ञान-वक्तारं यो विद्याद् विष्णुवद् गुरुम् ।
पूजयेद् वाङ्-मनः-कायैः स शास्त्रज्ञः स वैष्णवः ॥
श्लोक-पादस्य वक्तापि यः पूज्यः स सदैव हि ।
किं पुनर् भगवद्-विष्णोः स्वरूपं वितनोति यः ॥ इत्य् आदि ।

तस्मात् श्री-गुरोर् आवश्यकत्वम् । तच्-चरणावलम्बनं विना प्रेमोत्पत्तिर् न
भवतीति निष्कर्षार्थः ।
श्री-रघुनाथ-दास-गोस्वामि-पादेनोक्त-मनः-शिक्षायां, यथा-
शची-सूनुं नन्दीश्वर-पति-सुतत्वे गुरु-वरं
मुकुन्द-प्रेष्ठत्वे स्मर इत्य् आदि ।
कालिका-पुराणे श्यामा-रहस्ये-
मधु-लोभाद् यथा भृङ्गः पुष्पात् पुष्पान्तरं व्रजेत् ।
ज्ञान-लोभात् तथा शिष्यो गुरोर् गुर्व्-अन्तरं व्रजेत् ॥
स्तवावल्यां च (मनः-शिक्षा 3,12)-
यदीच्छेर् आवासं व्रज-भुवि स-रागं प्रतिजनुर्
युव-द्वन्द्वं तच् चेत् परिचर्तिउम् आराद् अभिलषेः ।
स्वरूपं श्री-रूपं स-गणम् इह तस्याग्रजम् अपि
स्फुटं प्रेम्णा नित्यं स्मर नम तदा त्वं शृणु मनः ॥
स-यूथः श्री-रूपानुग इह भवन् गोकुल-वने
जनो राधा-कृष्णातुल-भजन-रत्नं स लभते ॥
(विलाप-कुसुमाञ्जली, 14)-
यद्-अवधि मम काचिन् मञ्जरी रूप-पूर्वा
व्रज-भुवि बत नेत्र-द्वन्द्व-दीप्तिं चकार ।
तद्-अवधि तव वृन्दारण्य-राज्ञि प्रकामं
चरण-कमल-लाक्षा-सन्दिदृक्षा ममाभूत् ॥ इति ।
अत एतादृशानुगत्यं विना श्री-नन्दनन्दनस्य तथाविध-स्वरूप-प्राप्तिर् न
भवति तत्रापि श्री-रूपानुगत्यं विना श्री-राधा-कृष्णातुल-भजन-रत्नं न
लभत इति निष्कर्षार्थः ।
प्रसङ्गात् आचार्य-लक्षणं, यथा वायु-पुराणे-
आचिनोति यः शास्त्रार्थान् स्वाचारैः स्थापयत्य् अपि ।
स्वयम् आचरते यस्मात् तस्माद् आचार्य उच्यते ॥
यथा विष्णु-स्मृतौ (ह्ब्व् 1.45-46)-
परिचर्या-यशो-लाभ-लिप्सुः शिष्याद् गुरुर् नहि ।
कृपा-सिन्धुः सुसम्पूर्णः सर्व-सत्त्वोपकारकः ॥
निःस्पृहः सर्वतः सिद्धः सर्व-विद्या-विशारदः ।
सर्व-संशय-संछेत्ता नालसो गुरुर् आहृतः ॥
गौतमीये-
न जपो नार्चनं नैव ध्यानं नापि विधि-क्रमः ।
केवलं सततं कृष्ण-चरणाम्भोज-भाविनाम् ॥ इति ।
किं च-
नायिकानां च सर्वासां मध्या श्रेष्ठतमा मता ।
प्रायः सर्व-रसोत्कर्षो मध्यायाम् एव युज्यते ॥ इत्य् आदि ।
दर्शितम् एव । किं च-त्वदीयता-मदीयता-मध्ययोर् मध्ये मदीयता श्रेष्ठा
।
इयं श्री-कृष्ण-लीला च श्रेष्ठा सर्व-प्रदायिका ।
न दातव्या न प्रकाश्या जने त्व् अनधिकारिणि ॥
तथा हि (पाद्मे)-
मां च गोपय येन स्यात् सृष्टिर् एषोत्तरोत्तरा । इति ।
श्री-भागवते प्रथम-स्कन्धे (1.1.8) ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यम्
अप्य् उत इति बृहद्-गौतमीये च ।
इति श्रीमद्-राधा-गोविन्द-देव-सेवाधिपति-श्री-हरिदास-गोस्वामी-चरणानुजीवि-
श्री-राधा-कृष्ण-दासोदीरिता भक्ति-साधन-दीपिका-दशम-कक्षा सम्पूर्ण ।
श्री-साधन्-दीपिका समाप्ता ।
श्री-श्रीमद्-गुरवे समर्पितम् अस्तु ।
[*एन्द्नोते #1] नोत् fओउन्द् इन् म्य् एदितिओन्.
[*एन्द्नोते #2] विशाखे ! इदम् अपि अल्पम् एतत् तत् शृणु । स किल अश्रुत-चर-
साधर्मः सम्मोहन-माधुरी-भर-नव्यः सर्वोपरि-विराजमानो प्रिय-
वयस्यस्य सकल-गोकुल-पतित्वेन गोविन्दाभिषेक-महोत्सवः कस्य वा गर्वं न
खलु खर्वयति ?

मूल पाठ: Sādhanadīpikā · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc