भाषा

ENहिગુ
ग्रंथ पाठ

साधनदीपिका · अध्याय 13

13.1

इति सनत्-कुमार-संहितायां युगल-दीप-दान-विधिः ।
पञ्चम-पटलः ।
पञ्च-बाणैः पुटीकृत्य यो जपेद् राधिका-मनुम् ।
तस्य सर्वार्थ-सिद्धिः स्यात् कृष्णं पश्यति तत्-क्षणात् ॥
ह्रीं ह्रीं क्लीं ब्रूं सः कृष्ण-प्रिये ह्रां ह्रीं क्लीं स्वाहा । इति षोडशाक्षरो
मन्त्रः । चतुःषष्ठि-यन्त्र-दीप-दान-प्रयोगम् आह ।
अथ स्तवः ।
[श्री राधा-कृपा-कटाक्ष-स्तव-राजः]
मुनीन्द्र-वृन्द-वन्दिते त्रि-लोक-शोक-हारिणी
प्रसन्न-वक्त्र-पण्कजे निकुञ्ज-भू-विलासिनि
व्रजेन्द्र-भानु-नन्दिनि व्रजेन्द्र-सूनु-सङ्गते
कदा करिष्यसीह मां कृपा-कटाक्ष-भाजनम्

13.2

अशोक-वृक्ष-वल्लरी-वितान-मण्डप-स्थिते
प्रवाल-वाल-पल्लव प्रभा रुणाङ्घ्रि-कोमले
वराभय-स्फुरत्-करे प्रभूत-सम्पदालये
कदा करिष्यसीह मां कृपा-कटाक्ष-भाजनम्

13.3

अनङ्ग-रण्ग मङ्गल-प्रसङ्ग-भङ्गुर-भ्रुवां
सविभ्रमं-ससम्भ्रमं दृगन्त-बाण-पातनै
निरन्तरं वशी-कृत-प्रतीति-नन्द-नन्दने
कदा करिष्यसीह मां कृपा-कटाक्ष-भाजनम्

13.4

तडित्-सुवर्ण-चम्पक-प्रदीप्त-गौर-विग्रहे
मुख-प्रभा-परास्त-कोटि-शारदेन्दु-मण्डले
विचित्र-चित्र-सञ्चरच्-चकोर-शाव-लोचने
कदा करिष्यसीह मां कृपा-कटाक्ष-भाजनम्

13.5

मदोन्मदाति-यौवने प्रमोद-मान-मण्डिते
प्रियानुराग-रञ्जिते कला-विलास-पण्डिते
अनन्य-धन्य-कुञ्ज-राज्य-काम केलि-कोविदे
कदा करिष्यसीह मां कृपा-कटाक्ष-भाजनम्

13.6

अशेष-हाव-भाव-धीर-हीर-हार-भूषिते
प्रभूत-शात-कुम्भ-कुम्भ-कुम्भि कुम्भ-सुस्तनि
प्रशस्त-मन्द-हास्य-चूर्ण-पूर्ण-सौख्य-सागरे
कदा करिष्यसीह मां कृपा-कटाक्ष-भाजनम्

13.7

मृणाल-वाल-वल्लरी तरङ्ग-रङ्ग-दोर्-लते
लताग्र-लास्य-लोल-नील-लोचनावलोकने
ललल्-लुलन्-मिलन्-मनोज्ञ मुग्ध-मोहनाश्रिते
कदा करिष्यसीह मां कृपा-कटाक्ष-भाजनम्

13.8

सुवर्ण-मालिकाञ्चित-त्रि-रेख-कम्बु-कण्ठगे
त्रि-सूत्र-मङ्गली-गुण-त्रि-रत्न-दीप्ति-दीधिति
सलोल-नील-कुन्तल प्रसून-गुच्छ-गुम्फिते
कदा करिष्यसीह मां कृपा-कटाक्ष-भाजनम्

13.9

नितम्ब-बिम्ब-लम्बमान-पुष्प-मेखला-गुणे
प्रशस्त-रत्न-किङ्किणी-कलाप-मध्य मञ्जुले
करीन्द्र-शुण्ड-दण्डिका-वरोह-सौभगोरुके
कदा करिष्यसीह मां कृपा-कटाक्ष-भाजनम्

13.10

अनेक-मन्त्र-नाद-मञ्जु-नूपुरा-रव-स्खलत्
समाज-राज-हंस-वंश-निक्वणाति-गौरवे
विलोल-हेम-वल्लरी-विडम्बि-चारु-चङ्क्रमे
कदा करिष्यसीह मां कृपा-कटाक्ष-भाजनम्

13.11

अनन्त-कोटि-विष्णु-लोक-नम्र-पद्मजार्चिते
हिमाद्रिजा-पुलोमजा-विरिञ्चजा-वर-प्रदे
अपार-सिद्धि-ऋद्धि-दिग्ध-सत्-पदाङ्गुली-नखे
कदा करिष्यसीह मां कृपा-कटाक्ष-भाजनम्

13.12

मखेश्वरि! क्रियेश्वरि स्वधेश्वरि सुरेश्वरि
त्रिवेद-भारतीश्वरि प्रमाण-शासनेश्वरि
रमेश्वरि! क्षमेश्वरि प्रमोद काननेश्वरि
व्रजेश्वरि व्रजाधिपे श्री राधिके नमोऽस्तु ते

13.13

इती मम् अद्भुतं-स्तवं निशम्य भानु-नन्दिनी
करोतु सन्ततं जनं कृपा-कटाक्ष-भाजनम्
भवेत् तदैव-सञ्चित-त्रि-रूप-कर्म-नाशनं
भवेत् तदा-व्रजेन्द्र-सूनु-मण्डल-प्रवेशनम्

13.14

राकायां च सिताष्टम्यां दशम्यां च विशुद्ध-धीः ।
एकादश्यां त्रयोदश्यां यः पठेत् स स्वयं शिवः

13.15

यं यं कामयते कामं तं तम् आप्नोति साधकः ।
राधा-कृपा-कटाक्षेण भुक्त्वान्ते मोक्षम् आप्नुयात्

13.16

ऊरु-दघ्ने नाभि-दघ्ने हृद्-दघ्ने कण्ट-दघ्नके ।
राधा-कुण्ड-जले स्थिता यः पठेत् साधकः शतम्

13.17

तस्य सर्वार्थ-सिद्धिः स्याद् वाक्-सामर्थ्यं तथा लभेत् ।
ऐश्वर्यं च लभेत् साक्षाद् दृशा पश्यति राधिकाम्

13.18

तेन स तत्-क्षणाद् एव तुष्टा दत्ते महावरम् ।
येन पश्यति नेत्राभ्यां तत्-प्रियं श्यामसुन्दरम्

13.19

नित्य-लीला-प्रवेशं च ददाति श्री-व्रजाधिपः ।
अतः परतरं प्रार्थ्यं वैष्णवस्य न विद्यते

मूल पाठ: Sādhanadīpikā · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc