भाषा

ENहिગુ
ग्रंथ पाठ

साधनदीपिका · अध्याय 12

12.1

इत्य् आदि ।
अथ युगल-दीप-दान-प्रयोगम् आह-
श्री-सनत्-कुमार उवाच-
दीप-दान-विधिं ब्रह्मन् ब्रूहि विस्तरतो मम ।
यस्यानुष्ठान-मात्रेण राधा-कृष्णौ प्रसीदतः

12.2

ब्रह्मोवाच-
शृणु वत्स प्रवक्ष्यामि दीप-दानं विशेषतः ।
राधा-कृष्ण-प्रसादैक-साधनं नात्र संशयः

12.3

कार्त्तिके मार्गशीर्षे वा पौषे वा माघ-मासके ।
वैशाखे वा प्रकर्तव्यं नित्य-स्नान-पुरः सरम्

12.4

विशुद्धं स्थानम् आश्रित्य सिद्ध-क्षेत्रं मनोहरम् ।
नन्द-ग्रामं च सङ्केतं वर-सानुं गिरिं तथा

12.5

गोवर्धनं च विमलं यमुना-तीरम् अद्भुतम् ।
एषाम् अन्यतमं स्थानं समाश्रित्य विधिर् भवेत्

12.6

पूर्वाह्ने कृत-नित्यादिः सङ्कल्प्य विधिवन् नरः ।
मण्डलं विपुलं कुर्याद् दीप-दानोचितं मुने

12.7

बिन्दुं चतुरस्र-युतं ततोऽष्टारं प्रकल्प्य च ।
षोडशास्त्रं विधायाथ सर-द्वात्रिंशकं कुरु

12.8

चतुषष्ठि-मितास्रं च मण्डलं विपुलं कुरु ।
भू-बिम्बं च प्रविन्यस्य पञ्च-वर्णैर् विधानतः

12.9

तन्-मध्ये स्थापयेद् दीपं षोडशार्णेन वत्सक ।
सौवर्णं राजतं चैव युगात्मानं विधापयेत्

12.10

मार्तिकं चेद् विधातव्यं वरसानु-पुरोत्थया ।
नन्दग्रामोत्थया चैव मुदा दीपं प्रकल्पयेत्

12.11

द्विधातु-सम्भवं दीपं धातु-जन्यं प्रकल्पयेत् ।
तत्राज्य-धारां सुरभी-द्वयोत्थां परिपातयेत्

12.12

कृष्णायाश् चैव शुक्लाया धेनोर् आज्यं निधापयेत् ।
अभिमन्त्र्यैव मूलेन क्रम-व्युत्क्रम-संस्थया

12.13

कृत्वा मातृकया चाज्यं वर्तिकां तत्र विन्यसेत् ।
ग्रामोत्थं च तुलं वर्णौ कार्यारम्भे प्रकल्पयेत्

12.14

स्थापयित्वा घृते सम्यक् कर्षणीं तत्र तन्-मयीम् ।
एवं दीपं विनिर्वर्त्य यन्त्र-राजं प्रपूजयेत्

12.15

अष्टादशार्ण-मन्त्रेण नन्द-सूनुं प्रपूजयेत् ।
षोडशार्णेन विधिवद् राधिकां परिपूजयेत्

12.16

सर्वावरण-पूजान्ते पुष्पाञ्जलिं प्रविन्यसेत् ।
अतह्वा मूर्ति-रूपेण राधा-कृष्णौ प्रपूजयेत्

12.17

ततः प्रकाशयेद् दीपं दीपान्तर-विधानतः ।
युगलं दीप-मध्यस्थं पूजयेत् स्व-स्व-मन्त्रतः

12.18

चतुरस्रेऽर्चयेन् नित्यं ललितां च विशाखिकाम् ।
राधां चैवानुराधां च विधिवद् गन्ध-पुष्पकैः

12.19

गोपाली पालिका चैव ध्यान-निष्ठा तथैव च ।
सोमाभा तारका चैव शैव्या पद्मा च भद्रिका

12.20

अष्टास्रे पूजयेद् अष्टौ विधिवद् गन्ध-पुष्पकैः ।
योनिमुद्रां ततो वध्वा प्रणमेत् सादरं मुने

12.21

षोडशास्रेऽर्चयेच् छ्यामां माधवीं कमलां तथा ।
कलां चन्द्रकलां चन्द्रां तथा चपलतां पुनः

12.22

प्रमोदां पद्मिनीं पूर्णां परमां सुभगां शुभाम् ।
चपलां विपुलां वामां क्रमतो गन्ध-पुष्पकैः

12.23

द्वात्रिंशास्रेऽर्चयेद् वेणीं वशिनीं सुप्रभां प्रभाम् ।
मालिनीं शालिनीं शालां विशालां कनक-प्रभाम्

12.24

मण्डिनीं मण्डला-मुख्यां ज्येष्ठां श्रेष्ठां च भामिनीम् ।
त्वरितां प्रारिजातेशीं सुकलां सुरसां रसाम्

12.25

वेशिनीं केशिनीं केशां सुकेशां मञ्जघोषिणीम् ।
शुभावतीं कान्तिमतीं कान्तां भानुमतीं मुदाम्

12.26

वसुधां वसुधामां च क्रमतो गन्ध-पुष्पकैः ।
चतुःषष्ठि-मितास्रे च पद्धी-पुष्टां च पोषिणीम्

12.27

कञ्ज-प्रभां कञ्ज-हस्तां वर्षिणीं हर्षिणीं हराम् ।
हारिणीं कारिणीं धारां धारिणीं चित्र-लेपिनीम्

12.28

ललामां लुलितां लोभदां च सुलोचनाम् ।
रोचिनीं सुरुचिं शोभां शुभ्रां शोभावतीं सभाम्

12.29

रोहितां लोहितां लीलां शीलां चैव सशीलिकाम् ।
पत्रिणीं पल्लवाभासां विशुद्धां विशदां बलाम्

12.30

सुदतीं सुमुखीं व्योमां सोमां सामां त्वरातुराम् ।
रत्नावलीं रत्ननिभां रत्नधामां दयावतीम्

12.31

प्रभावतीं प्रेमगां च क्षेमां क्षेमावतीं क्षमाम् ।
मञ्जरीं खञ्जरीटां च लक्षणां च सुलक्षणाम्

12.32

कामां कामवतीं वीणां हीनां वीणाकरां तलाम् ।
त्रियुगां शोणचरणां चारिणीं चारुदन्तिनीम्

12.33

विचित्रभाषिणीं चैव क्रमतः परिपूजयेत् ।
गन्धैः पुष्पैस् तथा दूपैर् दीपैर् नैवेद्यकैस् तथा

12.34

भू-बिम्बे पूजयेद् गोप-बालकान् क्रमतोऽष्ट च ।
सुबलं च सुबाहुं श्रीदामं श्री-मधुमङ्गलम् ।
माधवं चित्रलेखं च शारदं च विभावसुम्

12.35

ततः प्रपूजयेच् चित्रां प्रथ्मावरणेश्वरीम् ।
द्वितीयावरणे वृन्दां वीरां च परिपूजयेत्

12.36

तृतीयावरण्शीं च पौर्णमासीं प्रपूजयेत् ।
चतुर्थावरणे पालीं श्रीमद्-गान्धर्विका-सखीम्

12.37

पञ्चमावरणेशीं च श्यामलां परिपूजयेत् ।
षष्ठावरण-राज्ञीं च पद्मा-देवीं प्रपूजयेत्

12.38

सप्तमावरणेशीं च श्रीमज्-ज्योत्स्नावतीं शुभाम् ।
दीपस्य दक्ष-भागे तु नन्दं चैव यशोदिकां

12.39

वामे सम्पूजयेत् कीर्तिं वृषभानुं च गोपकम् ।
मण्डलं परिपूज्याथ पुष्पाञ्जलिं परिक्षिपेत्

12.40

दीपं पञ्च-दिनं वापि कुर्याद् दश-दिनं तथा ।
पक्षं वा रक्षयेद् दीपं मासं वापि मुनीश्वर

12.41

ततो विसर्जयेद् दीपं कृत-नित्य-क्रियो बुधः ।
सम्पूज्य दीप-राजं तु पुष्पाञ्जलिम् उपक्षिपेत्

12.42

यमुनादौ शुभे नीरे दीपराजं प्रवाहयेत् ।
एवं कृत्वा विधिं सद्यः सर्वान् कामान् अवाप्नुयात्

12.43

साक्षात् करोति युगलं दीपराज-प्रभावतः ।
पूजनाद् एव दीपस्य नासाध्यं विद्यते क्वचित्

मूल पाठ: Sādhanadīpikā · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc