साधनदीपिका · अध्याय 1
[चोम्मेन्तर्य् तकेन् ओवेर् fरोम्
गौदिय ग्रन्थ मन्दिर:
थिस् इस् अन् इन्तेरेस्तिन्ग् तेxत्. थेरे अप्पेअर् तो बे मन्य् ओरिगिनल् वेर्सेस् स्प्रिन्क्लेद्
थ्रोउघोउत् थे तेxत्, मन्य् ओf wहिछ् अरे इन्चोम्प्लेते. सोमे ओf थे वेर्सेस् दोन्ऽत् fओल्लोw
अन्य् रेगुलर् मेतेर् अन्द् सोमे wओर्क् इस् नेएदेद् तो एदित् थिस् तेxत्. सोमे वेर्सेस् अरे लिकेल्य्
qउओतेस्, बुत् इ हवेन्ऽत् बेएन् अब्ले तो त्रचे थेम्.
इ हवे उसेद् हरिदस् स्हस्त्रिऽस् एदितिओन्, अन्द् हवे नोत् हद् अच्चेस्स् तो अनोथेर्. इत् wओउल्द्
बे wओर्थ् fइन्दिन्ग् ओथेर् मनुस्च्रिप्त्स् इन् ओर्देर् तो प्रोदुचे अ त्रुए च्रितिचल् एदितिओन्.]
श्री-साधना-दीपिका
प्रथम-कक्षा
अमन्दं वृन्दावन-मन्दिरोदरे
सुहेम-रत्नावलि-चित्र-कुट्टिमे ।
सहोपविष्टं प्रियया समानया
गोविन्द-साक्षाद्-भगवन्तम् आश्रये
संसार-कूपे पतितान् अशेषान्
उद्धर्तु-कामः कलि-काल-लोकान् ।
यः प्रादुरासीत् किल गौड-देशे
चैतन्य-चन्द्रं तम् अहं प्रपद्ये
श्री-चैतन्य-प्रियतमः श्रीमद्-राधा-गदाधरः ।
तत्-परीवर-रूपस्य श्री-गोविन्द-प्रसेवनम् ॥
तयोः सत्-प्रेम-सत्-पात्रं श्री-रूपः करुणाम्बुधिः ।
तत्-पाद-कमल-द्वन्द्वे रतिर् मे स्याद् व्रजे सदा
तदीय-सेवाधिपतिं महाशयं
समस्त-कल्याण-गौणैक-मन्दिरम् ।
वारेन्द्र-विप्रान्वय-भूषणं गुरुं
भजेऽनिशं श्री-हरि-दास-संज्ञकम्
यत्-सेवया वशः श्रीमद्-गोविन्दो नन्द-नन्दनः ।
पयसा संयुतं भक्तं याचते करुणाम्बुधिः
किं चास्मिन् कदाचिद् वसन्त-वासरावसरे रात्रौ रास-मण्डले भ्रमति सति
संचारिण्याः श्री-वृषभानु-सुताया आश्चर्यं रूपं दृष्ट्वा तमालस्य मूले
मूर्च्छितवान् इति महती प्रसिद्धिः ।
तस्यैव कान्ता-परिचारकोऽसौ
तयोश् च दासः किल कोऽपि नाम्ना ।
स्वकीय-लोकस्य तदीय-दास्ये
मति-प्रवेशाय करोति यत्नम्
श्रीमद्-राधा-प्राण-बन्धोर् नैत्यिकं चरितं हि यत् ।
श्रीमत्-कृष्ण-कवीन्द्रेण कृपया प्रकटीकृतम्
श्रीमद्-रूपाज्ञया तेषां परमाप्त-वरेण तु ।
कृतं तस्मिन् मया भाष्ये तेषां वाक्य-प्रमाणतः
अथ तस्मात् पृथक्त्वेन साक्षाद्-भगवतो हरेः ।
मन्त्र-मय्यां समासेन सेवा किञ्चिद् विलिख्यते
तत्-तत्-प्रसङ्ग-सङ्गत्या सिद्धान्तोऽपि च लिख्यते ।
तस्य मध्ये न लिखितो ग्रन्थ-विस्तार-भीतितः ।
कक्षा-दशम-संपूर्णो ग्रन्थोऽयं सम्भविष्यति ।10॥
तत्र प्रथम-कक्षायां श्रीमत्-सेवा-प्रकाशनम् ।
द्वितीये श्रील-गोविन्द-साक्षाद्-भगवतः कथा
तृतीये मध्य-कैशोरे रसोत्कर्ष-निरूपणम् ।
चतुर्थेऽष्टादशार्णस्य मन्त्रस्यार्थो विलिख्यते
पञ्चमेऽस्य व्रज-भुवो माहात्म्यं परिकीर्तितम् ।
षष्ठे श्रीभानु-नन्दिन्याः प्रकाशस्य कथा शुभा
श्रीमन्-महाप्रभोस् तस्य भक्त-वृन्दस्य चैव हि ।
तत्त्वात्मिका-कथा प्रोक्ता तत्-तद्-ग्रन्थ-प्रमाणतः
सप्तमे त्व् अष्टमे प्रोक्ता पुनः श्री-रूप-सत्-कथा ।
रागात्मिका तथा रागानुगा-भक्ति-निरूपणम्
कक्षाया नवमे लेख्यं दशमे लिख्यते पुनः ।
श्रीमद्-भगवतस् तत्-तद्-भक्त्यादेस् तत्त्व-वर्णनम्
अथ श्रीमद्-रूप-सनातनाभ्यां श्रील-पण्डित-गोस्वामि-शिष्य-श्री-परमानन्द-
गोस्वामिना च श्रीमद्-वृन्दावन-योग-पीठादिषु सर्वं स्वरूप-राज-स्वयं-
भगवतः श्रीमद्-गोविन्द-देवस्य श्रीमन्-मदन-गोपाल-गोपीनाथयोश् च सेवा
श्रीमद्-ईश्वरेच्छया स्व-स्व-स्थाने स्व-स्व-सेवाः प्रकाशिताः । प्रकाशस् तु न
भेदेषु गण्यते स हि न पृथक् [लघुभाग्. 1.18] इति ।
स्वयं भगवतः श्रीमद्-गोविन्दस्य सुखाधिकः ।
वृन्दावने योग-पीठे सेवा तु प्रकटीकृता ।
श्री-चैतन्य-कृपा-रूप-रूपेण करुणा-कृता
सेवा गोपाल-देवस्य पर्मानन्द-दा शुभा ।
श्री-सनातन-रूपेण तत्रैव प्रकटीकृता
परमानन्द-दे श्रीमन्-नीप-पादप-भू-तले ।
कालिन्दी-जल-संसर्गि-शीतलानल-कल्पिते
राधा-गदाधर-च्छात्रः परमानन्द-नामकः ।
यस् तेनाशु प्रकटितो गोपीनाथो दयाम्बुधिः ।
वंशी-वट-तटे श्रीमद्-यमुनोपतटे शुभे
ततः सर्वस्व-रूपं जानता श्रील-रूपेण श्री-सनातनेन च मूल-स्वरूप-शक्ति-श्री-
राधा-गदाधर-परिवारे श्रीमन्-महाप्रभोर् आज्ञानुसारेण स्व-स्व-स्थाने स्व-
स्व-सेवा समर्पिता । तत्रापि श्री-पण्डित-गोस्वामि-शिष्यः प्रेमि-कृष्ण-दास-
गोस्वामिने समर्पिता श्री-रूपेण । तथा हि,
श्रीमद्-गदाधरस्यास्य स्वरूपं पूर्व-लक्षणम् ।
जानता श्रील-रूपेण सेवा तस्मै समर्पिता
श्रील-सनातन-गोस्वामिना स्वस्यातीवान्तरङ्गाय श्री-कृष्ण-दास-ब्रह्मचारिणे
श्री-मदन-गोपाल-देवस्य सेव समर्पिता । एवं श्रीमद्-रूपाद्वैत-रूपेण
श्रीमद्-रघुनाथेन श्री=युत-कुण्ड-युगल-परिचर्या तत्-परिसर-भूमिश् च श्री-
गोविन्दाय समर्पिता । एवं श्री-गोपीनाथस्य सेवा श्री-परमानन्द-गोस्वामिना
श्रीमधु-पण्डित-गोस्वामिने समर्पिता । किं च त्रयाणां श्री-विग्रहाणां प्रेयसी
किल श्री-हरि-दास-गोस्वामि-श्री-कृष्ण-दास-ब्रह्मचारि-गोस्वामि-श्री-मधु-
पण्डित-गोस्वामिभिश् च प्रकाशिता ॥
इति प्रथम-कक्षा
(2)
द्वितीय-कक्षा
अथ श्री-वृन्दावनोत्तमाङ्ग-योग-पीठाष्ट-दल-कमल-कर्णिका-राज-सिंहासन-
विराजमानः सर्वस्व-रूप-राजः सर्व-प्रकाश-मूल-भूतः स्वयं भगवत्-श्री-
व्रजेन्द्र-नन्दनो मध्य-कैशोरावस्थितः श्री-गोविन्द-देव एव श्री-
वृन्दावनाधिराजः । यथा बहूनां राज-पुत्राणां राज-पुत्रत्वे साम्ये तथाप्य्
एको राज-सिंहासनार्हो राजा भवति श्रुति-स्मृति-पुराणादाव् अस्यैव प्राधान्यात्,
यथा व्रजे महा-रासे धाम्नोऽभेदेऽपि परिकर-भेदेन सर्वेषु यूथेषु
पूर्णतम-प्रकाशेन स्थितः सन् श्री-राधिकायाः पार्श्वे स्वयम् एव विराजते, तथा
। अतएव मौन-मुद्रादिकं प्रकाश्य विग्रहवल्-लीला-काले सर्वेषां श्री-कृष्ण-
प्रकाशानां तत्रैवान्यत्र स्थितः सन् श्री-कृष्ण-चैतन्य-महाप्रभोस् तत्
पार्षदानां च निरतिशय-कृपा प्रकाश-रूप-श्री-रूप-सेवाम् अङ्गीकृत्य श्री-
गोविन्द-देवः स्वयम् एव विराजते । तथा ह्लादिनी-शक्ति-सारांश-महाभाव-
स्वरूपया श्रुति-स्मृति-पुराणादिषु वृन्दावनाधीशात्वेन प्रसिद्धया श्री-राधया
सह विराजमानत्वेनास्यैव प्रसिद्धेः, यथा ब्रह्म-संहितायाम् (5.37)-
आनन्द-चिन्मय-रस-प्रतिभाविताभिस्
ताभिर् य एव निज-रूपतया कलाभिः ।
गोलोक एव निवसत्य् अखिलात्म-भूतो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥
यथा हरि-वंशे-
अहं किलेन्द्रो देवानां त्वं गवाम् इन्द्रतां गतः ।
गोविन्द इति लोकास् त्वां स्तोष्यन्ति भुवि शाश्वतम् ॥
श्री-भागवते च (10.21.23)-
इन्द्रः सुरर्षिभिः साकं चोदितो देव-मातृभिः ।
अभ्यसिञ्चत दाशार्हं गोविन्द इति चाभ्यधात् ॥
टीका च-देव-मातृभिर् इति । गाः पशून् गां स्वर्गं वा इन्द्रत्वेन विन्दतीति कृत्वा
च गोविन्द इत्य् अभ्यधात् नाम कृतवान् ।
पुनस् तत्रैव दशम-स्कन्धे (10.27.28)-
इति गो-गोकुल-पतिं गोविन्दम् अभिषिच्य सः ।
अनुज्ञातो ययौ शक्रो वृतो देवादिभिर् दिवम् ॥
पद्यावल्यां[*एन्द्नोते #1]-
कालिन्दी-तीर-कल्प-द्रुम-तल-विलसत्-पद्म-पादारविन्दो
मन्दान्दोलाङ्गुलीभिर् मुखरित-मुरली मन्द-गीताभिनन्दः ।
राधा-वक्त्रेन्दु-मन्द-स्मित-मधुर-सुधास्वाद-सन्दोह-सान्द्रः
श्रीमद्-वृन्दावनेन्द्रः प्रभवतु भवतां भूतये कृष्ण-चन्द्रः ॥
स्कान्दे मथुरा-खण्डे नारदोक्तौ-
तस्मिन् वृन्दावने पुण्यं गोविन्दस्य निकेतनम् ।
तत्-सेवक-समाकीर्णं तत्रैव स्थीयते मया ॥
भुवि गोविन्द-वैकुण्ठं तस्मिन् वृन्दावने नृप ।
यत्र वृन्दादयो भृत्याः सन्ति गोविन्द-लालसाः ॥
वृन्दावने महा-सद्म यैर् दृष्टं पुरुषोत्तमैः ।
गोविन्दस्य महीपाल ते कृतार्था मही-तले ॥
तथा हि श्री-कृष्ण-सन्दर्भे श्री-भागवत-षष्ठ-स्कन्धे (6.8.20)-मां केश्ववो
गदया प्रातर् अव्याद् गोविन्द आसङ्गवम् आत्त-वेणुः इति ।
टीका च-तौ हि श्री-मथुरा-वृन्दावनयोः सुप्रसिद्ध-महा-योगपीठयोस् तत्-तन्-
नाम्नैव सहितौ प्रसिद्धौ तौ च तत्र तत्र प्रापञ्चिक-लोक-दृष्ट्या श्रीमत्-
प्रतिमाकारेण भातः । स्वजन-दृष्ट्या साक्षाद्-भूतौ च । तत्रोत्तर-रूपं
ब्रह्म-संहिता-गोविन्द-स्तवादौ प्रसिद्धम् । अतएवात्रापि साक्षाद्-रूप-वृन्द-
प्रकरण एवैतौ पठितौ इत्य् आदि-सन्दर्भ-टीकेत्य् अर्थः ।
तथा हि-साक्षाद् भगवतः श्रीमद्-गोविन्दस्य सुखाधिका । तथा हि श्री-चैतन्य-
चरितामृते (1.8.50-51)-
वृन्दावने कल्प-वृक्ष सुवर्ण-सदन
महा-योग-पीठ ताङ्हा रत्न-सिंहासन
ताते बसि आछेन साक्षात् व्रजेन्द्र-नन्दन
श्री-गोविन्द नाम साक्षात् मन्मथ-मदन
नौ सर्वत्र देशे यथा श्री-कृष्ण-प्रकाशादीनां नवीन-प्राचीना-धातु-शीलाद्य्-
आकाराः क्वचिद् भक्त-वत्सलतया चलच्-छक्ति-प्रकाशिका अर्चायमानाः क्वचित्
सामान्याकाराश् च श्री-नन्द-नन्दन-प्रकाशा दृश्यन्ते । तथासौ स्वयं भगवान्
श्री-गोविन्द-देवोऽपि (इति चेत्) ? न, किं त्व् असौ तथात्वे दृश्यमानोऽप्य् अर्चायमान-
विशेषः स्वयं प्रकाशः साक्षाद् व्रजेन्द्र-नन्दन एव ।
अत्र युक्ति-सुदृष्टान्तां प्राचीन-पौराणिकां कथाम् आह-प्रेम-नगरापर-
पर्याये प्रतिष्ठान-पुरे कोऽपि राजासीत् । स च पञ्च-पुत्रः । वार्धक-दशायां
मनसि एवं विचारितवान्-मत्-पुत्रेषु यो राज्यादि-पालनेन् समर्थो मयि प्रेमवांश्
च भवेत् । तस्मिन् राज्यादि समर्पयिष्यामि । इति मनसि कृत्वा बहिर् जडवद्
आचरितवान् । तं दृष्ट्वा सर्वे जना मनसि दुःखिता अभवन् । पुत्राणां मध्ये
तु ये दुष्टाचारास् ते मनसि हृष्टा राज्यादिकं नेतुं विषय-सुखं च कर्तुं
प्रवृत्ता अभवन् । तेषु कोऽपि पण्डितो ज्ञानवान् पूर्वतोऽपि पित्रोः प्रीतिं कृत्वा
सेवायां प्रवृत्तः । राजा तु तस्य भक्तिं दृष्ट्वा तस्मिन् राज्यादि-भारं
समर्पितवान् । अन्ये पुत्रास् तु तच् छ्रुत्वा तद्-उपरि दण्डादिकं कृतवन्तः । तान्
दृष्ट्वामात्याः सर्वे तद्-वृत्तान्तं राज्ञि निवेदितवन्तः ।
राजा तु तच् छ्रुत्वा कृत्रिम-जड-स्वभावादिकं त्यक्त्वा तान् पुत्रान् निरस्य तस्मिन्
पुत्रे स्वच्छन्दम् अभिषेकं कृतवान् । तथायं श्री-गोविन्द-देवः साक्षाद्
व्रजेन्द्र-कुमारोऽप्य् आधुनिक-भक्तानां प्रेम-तारतम्यं कर्तुं मौन-
मुद्रादिकम् अङ्गीकृत्य राधिकया सह विराजते । अत्रापि श्रुति-स्मृति-पुराणादि-
प्रमाणानि बहूनि सन्ति । तत्र श्री-गोपाल-तापन्यां (1.9-10)-
सत्-पुण्डरीक-नयनं मेघाभं वैद्युताम्बरम् ।
द्वि-भुजं ज्ञान-मुद्राढ्यं वन-मालिनम् ईश्वरम्
गोप-गोपी-गवावीतं सुर-द्रुम-तलाश्रितम् ॥ इत्य् आदि ।
तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहम् इत्य् आदि ।
गोपालाय गोवर्धनाय गोपी-जन-वल्लभाय नमो नमः ।
तथा हि ऊर्ध्वाम्नाये-
गोपाल एव गोविन्दः प्रकटाप्रकटः सदा ।
वृन्दावने योग-पीठे स एव सततं स्थितः ॥
असौ युग-चतुष्केऽपि श्रीमद्-वृन्दावनाधिपः ।
पूजितो नन्द-गोपाद्यैः कृष्णेनापि सुपूजितः ॥
चीर-हर्ता व्रज-स्त्रीणां व्रत-पूर्ति-विधायकः ।
चिद्-आनन्द-शिलाकारो व्यापको व्रज-मण्डले ॥
तत्र-
चन्द्रावली-दुराधर्षं राधा-सौभाग्य-मन्दिरम् ॥
तथा हि अथर्व-वेदे-गोकुलारण्ये मथुरा-मण्डले वृन्दावन-मध्ये सहस्र-
दल-पद्मे षोडश-दल-मध्येऽष्ट-दल-केशरे गोविन्दोऽपि श्यामः पीताम्बरो
द्विभुजो मयूर-पुच्छ-शिरो वेणु-वेत्र-हस्तो निर्गुणः स-गुणो निराकारः साकारो
निरीहः स-चेष्टो विराजते इति ।
द्वे पार्श्वे चन्द्रावली राधा च इत्य् आदि ।
तथा च संमोहन-तन्त्रोक्तिः-
गोविन्द-सहितां भूरि-हाव-भाव-परायणाम् ।
योग-पीठेश्वरीं राधां प्रणमामि निरन्तरम् ॥
तथा हि स्कान्दे-
गोविन्द-स्वामि-नामात्र वसत्य् अर्चात्मकोऽच्युतः ।
गन्दर्वैर् अप्सरोभिश् च क्रीडमानः स मोदते ॥
तथा हि ब्रह्म-संहितायां (5.1)-
ईश्वरः परमः कृष्णः सच्चिदानन्द-विग्रहः ।
अनादिर् आदिर् गोविन्दः सर्व-कारण-कारणम् ॥
अत्र श्लोके कृष्णोः विशेष्यः । अन्यत्रापि गोविन्दस्य विशेष्यत्वम् । यथा-
व्रजे गोविन्द-नामा यः पशूनाम् इन्द्रतां गतः ।
स एव कृष्णो भवति मनो-नेत्रादि-कर्षणात् ॥
ब्रह्म-संहितायां च (5.39)-
रामादि-मूर्तिषु कला-नियमेन तिष्ठन्
नानावतारम् अकरोद् भुवनेषु किन्तु ।
कृष्णः स्वयं समभवत् परमः पुमान् यो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥
टीका च-यो गोविन्दो रामादि-मूर्तिषु कला-नियमेन तिष्ठन् सन् नानावतारम्
अकरोत्, स देवः स्वयं कृष्णः समभवन् तं भजामीति ।
श्री-गोपाल-तापन्यां (1.35, 39-42, 45)-
कृष्णाय गोपीनाथाय गोविन्दाय नमो नमं ॥
तथा हि-
वेणु-वादन-शीलाय गोपालायाहि-मर्दिने ।
कालिन्दी-कूल-लोलाय लोल-कुण्डल-धारिणे ॥
वल्लवी-वदनाम्भोज-मालिने नृत्य-शालिने ।
नमः प्रणत-पालाय श्री-कृष्णाय नमो नमः ॥
नमः पाप-प्रणाशाय गोवर्धन-धराय च ।
पूतना-जीवितान्ताय तृणावार्तासु-हारिणे ॥
निष्कलाय विमोहाय शुद्धायाशुद्ध-वैरिणे ।
अद्वितीयाय महते श्री-कृष्णाय नमो नमः ॥
केशव क्लेश-हरण नारायण जनार्दन ।
गोविन्द परमानन्द मां समुद्धर माधव ॥ इत्य् आदि ।
तत्र ऊर्ध्वाम्नाये-
श्रीमन्-मदन-गोपालोऽप्य् अत्रैव सुप्रतिष्ठितः । इति ।
श्री-दशमे (10.19.16)-
गोपीनां परमानन्द आसीद् गोविन्द-दर्शने ॥ इति ।
तथा हि (10.21.10)-
वृन्दावने सखि भुवो वितनोति कीर्तिं
यद् देवकी-सुत-पदाम्बुज-लब्ध-लक्ष्मि ।
गोविन्द-वेणुम् अनु मत्त-मयूर-नृत्यं
प्रेक्षाद्रि-सान्व्-अपरतान्य-समस्त-सत्त्वम् ॥ इति ।
तथा हि श्री-गोविन्द-लीलाम्र्ते (21.28) च-
श्री-गोविन्द-स्थलाख्यं तटम् इदम् अमलं कृष्ण-संयोग-पीठं
वृन्दारण्योत्तमाङ्गं क्रम-नतम् अभितः कूर्म-पीठ-स्थलाभम् ।
कुञ्ज-श्रेणी-दलाढ्यं मणिमय-गृह-सत्-कर्णिकं स्वर्ण-रम्भा-
श्रेणी-किञ्जल्कम् एषा दश-शत-दल-राजीव-तुल्यं ददर्श ॥
श्री-पद्म-पुराणे (5.69.79-85)-
पार्वत्य् उवाच
गोविन्दस्य किम् आश्चर्यं सौन्दर्याकृत-विग्रह ।
तद् अहं श्रोतुम् इच्छामि कथयस्व दया-निधे ॥
ईश्वर उवाच
मध्ये वृन्दावने रम्ये-मञ्जु-मञ्जीर-शोभिते ।
योजनाश्रित-सद्-वृक्ष-शाखा-पल्लव-मण्डिते ॥
तन्-मध्ये मञ्जु-भवने योग-पीठं समुज्जवलम् ।
तद्-अष्ट-कोण-निर्माणं नाना-दीप्ति-मनोहरम् ॥
तस्योपरि च माणिक्य-रत्न-सिंहासनं शुभम् ।
तस्मिन् नष्ट-दलं पद्मं कर्णिकायां सुखाश्रयम् ॥
गोविन्दस्य परं स्थानं किम् अस्य महिमोच्यते ।
श्रीमद्-गोविन्द-मन्त्र-स्थ-बल्लवी-वृन्द-सेवितम् ॥
दिव्य-व्रज-वयो-रूपं कृष्णं वृन्दावनेश्वरम् ।
व्रजेन्द्रं सन्ततैश्वर्यं व्रज-बालैक-वल्लभम् ॥
यौवनोद्भिन्न-कैशोरं वयसाद्भुत-विग्रहम् ।
वराह-संहितायां च-
वृन्दावने तु गोविन्दं ये पश्यन्ति वसुन्धरे ।
न ते यम-पुरं यान्ति यान्ति पुण्य-कृतां गतिम् ॥
अस्य टीका च-अथ सर्वासाम् अर्चानां दर्शन-माहात्म्यं वदन् उपर्य् उपरि
स्फूर्त्या श्रीमद्-अर्चा-विशेषायमाणस्य साक्षाद्-भगवतः श्री-गोविन्द-देवस्य
दर्शन-माहात्म्यम् आह वृन्दावन इति ।
तथा हि वराह-तन्त्रे पञ्चम-पटले, यथा-
श्री-वराह उवाच-
कर्णिका तन् महद् धाम गोविन्द-स्थानम् अव्ययम् ।
तत्रोपरि स्वर्ण-पीठे मणि-मण्डप-मण्डितम् ॥
तथा हि-
कर्णिकायां महा-लीला तल्-लीला-रस-तद्-गिरौ ।
यत्र कृष्णो नित्य-वृन्दा-काननस्य पतिर् भवेत् ॥
कृष्णो गोविन्दतां प्राप्तः किम् अन्यैर् बहु-भाषितैः ।
दलं तृतीयकं रम्यं सर्व-श्रेष्ठोत्तमोत्तमम् ॥
तथा हि-
गोविन्दस्य प्रिय-स्थानं किम् अस्य महिमोच्यते ।
गोविन्दं तत्र संस्थं च वल्लवी-वृन्द-वल्लभम् ॥
दिव्य-व्रज-वयो-रूपं वल्लवी-प्रीति-वर्धनम् ।
व्रजेन्द्रं नियतैश्वर्यं व्रज-बालैक-वल्लभम् ॥
तथा हि-
पृथिव्य् उवाच-
परमं कारणं कृष्णं गोविन्दाख्यं परात्परम् ।
वृन्दावनेश्वरं नित्यं निर्गुणस्यैक-कारणम् ॥
वराह उवाच-
राधया सह गोविन्दं स्वर्ण-सिंहासने स्थितम् ।
पूर्वोक्त-रूप-लावण्यं दिव्य-भूषं सुसुन्दरम् ॥
त्रिभङ्ग-मञ्जु-सुस्निग्धं गोपी-लोचन-तारकम् ।
तत्रैव योग-पीठे च स्वर्ण-सिंहासनावृते ॥
प्रत्यङ्ग-रभसावेशाः प्रधानाः कृष्ण-वल्लभाः ।
ललिताद्याः प्रकृतयो मूल-प्रकृती राधिका ॥
संमुखे ललिता देवी श्यामलापि च वायवे ।
इतरे श्री-मधुमती धन्यैशान्यां हरि-प्रिया ॥
विशाखा च तथा पूर्वे शैव्या चाग्नौ ततः परम् ।
पद्मा च दक्षिणे भद्रा नैरृते क्रमशः स्थिताः ॥
योग-पीठस्य कोणाग्रे चारु-चन्द्रावली प्रिया ।
प्रकृत्य् अष्टौ तद् अन्याश् च प्रधानाः कृष्ण-वल्लभाः ॥
प्रधाना प्रकृतिश् चाद्या राधिका सर्वथाधिका ।
चित्ररेखा च वृन्दा च चन्द्रा मदन-सुन्दरी ॥
सुप्रिया च मधुमती शशीरेखा हरिप्रिया ।
संमुखादि-क्रमे दिक्षु विदिक्षु च तथा स्थिताः ॥
षोडशी प्रकृति-श्रेष्ठा प्रधाना कृष्ण-वल्लभा ।
वृन्दावनेश्वरी राधा तवद् तु ललिता प्रिया ॥
गौतमीय-तन्त्रे-
रत्न-भूधर-संलग्न-रत्नासन-परिग्रहम् ।
कल्प-पादप-मध्यस्थ-हेम-मण्डपिका-गतम् ॥
इत्य् अनेन गोविन्दस्यैव विशेषणम् इति विवेचनीयम् । तापनी च- तम् एकं गोविन्दं
सच्-चिद्-आनन्द-विग्रहम् इति ।
श्री-जयदेव-चरणैश् च (ग्ग् 2.19)-
गोविन्दं व्रज-सुन्दरी-गण-वृतं पश्यामि हृष्यामि च ॥
श्री-भक्ति-रसामृत-सिन्धौ (2.1.43)-
लीला प्रेम्णा प्रियाधिक्यं माधुर्यं वेणु-रूपयोः ।
इत्य् असाधारणं प्रोक्तं गोविन्दस्य चतुष्टयम् ॥
तत्रैव (1.2.239)-
स्मेरां भङ्गी-त्रय-परिचितां साचि-विस्तीर्ण-दृष्टिं
वंशी-न्यस्ताधर-किशलयाम् उज्ज्वलां चन्द्रकेण ।
गोविन्दाख्यां हरि-तनुम् इतः केशि-तीर्थोपकण्ठे
मा प्रेक्षिष्ठास् तव यदि सखे बन्धु-सन्गेऽस्ति रङ्गः ॥
श्री-दान-केलि-कौमुद्यां -
अर्जुनः: बिसाहे । इदं बि थोअ च्चेअ । ता सुणाहि । सो किर अस्सुद-अर-साहम्मो
सम्मोहण-माहुरा-भर-णब्बो सब्बोबरि विरेहन्तो पिअ-बअस्सस्स सअल-गोउल-
बैत्तणेण गोइन्दाहिसेअ-महूसबो कस्स बा गब्बं ण क्खु खब्बेदि ?
।[*एन्द्नोते #2]
इत्य् एवम्भूतस्य मौन-मुद्रादिकं प्रकाश्य विग्रहवत् स्थितस्य श्री-गोविन्द-
देवस्य प्रकट-लीला-काले मौन-मुद्रादिकम् आच्छादितम् अभवत् । तथा च-
प्रकट-लीला-काले भक्तानां भक्ति-सदर्शनार्थं प्रकटितम् एव । तत्र श्री-
गोपाल-तापन्यादि-प्रसिद्धं-कदाचित् प्रकटीभूय (1.10) द्विभुजं मौन-
मुद्राढ्यं इति च ।
किं च श्री-कृष्ण-सन्दर्भे (153)-
तद् एवं तत्र श्री-कृष्ण-लीला द्विविधा अप्रकट-रूपा प्रकट-रूपा च ।
प्रापञ्चिक-लोकाप्रकटत्वात् तत्-प्रकटत्वाच् च । तत्राप्रकटा -
यत्रासौ संस्थितः कृष्णस् त्रिभिः शक्त्या समाहितः ।
रामानिरुद्ध-प्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ [ग्तु 2.36] इति ।
मथुरा-तत्त्व-प्रतिपादक-श्री-गोपाल-तापन्य्-आदौ - चिन्तामणि-प्रकर-सद्मसु-
कल्प-वृक्ष [भ्प् 5.40] इत्य् आदि वृन्दावन-तत्त्व-प्रतिपादक-ब्रह्म-संहितादौ च
प्रकट-लीलातः किञ्चिद् विलक्षणत्वेन दृष्टा, प्रापञ्चिक-लोकैस् तद्-वस्तुभिश्
चामिश्रा, कालवद्-आदि-मध्यावसान-परिच्छेद-रहित-स्व-प्रवाहा, यादवेन्द्रत्व-
व्रज-युवराजत्वाद्य्-उचिताहरहर्-महा-सभोपवेश-गोचारण-विनोदादि-लक्षणा
। प्रकट-रूपा तु श्री-विग्रहवत् कालादिभिर् अपरिच्छेद्यैव सती भगवद्-
इच्छात्मक-स्वरूप-शक्त्यैव लब्धारम्भ-समापना प्रापञ्चिकाप्रापञ्चिक-लोक-
वस्तु-संवलिता तदीय-जन्मादि-लक्षणा ।
तत्राप्रकटा द्विविधा । मन्त्रोपासनामयी स्वारसिकी च । प्रथमा यथा तत्-तद्-
एकतर-स्थानादि-नियत-स्थितिका तत्-तन्-मन्त्र-ध्यान-मयी । यथा बृहद्-ध्यान-
रत्नाभिषेकादि-प्रस्तावः क्रम-दीपिकायाम् । यथा वा --
अथ ध्यानं प्रवक्ष्यामि सर्व-पाप-प्रणाशनम् ।
पीताम्बर-धरं कृष्णं पुण्डरीक-निभेक्षणम् ॥ इत्य् आदि गौतमीय-तन्त्रे ।
यथा वा -
वेणुं क्वणन्तम् अरविन्द-दलायताक्षम्-
बर्हावतंसम् असिताम्बुद-सुन्दराङ्गम् ।
कन्दर्प-कोटि-कमनीय-विशेष-शोभं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥
आलोल-चन्द्रक-लसद्-वनमाल्य-वंशी-
रत्नाङ्गदं प्रणय-केलि-कला-विलासम् ।
श्यामं त्रि-भङ्ग-ललितं नियत-प्रकाशं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ इति ब्रह्म-संहितायाम् [5.39-40] ।
होमस् तु पूर्ववत् कार्यो गोविन्द-प्रीतये ततः इत्य्-आद्य्-अनन्तरं -
गोविन्दं मनसा ध्यायेत् गवां मध्ये स्थितं शुभम् ।
बर्हापीडक-संयुक्तं वेणु-वादन-तत्-परम् ॥
गोपी-जनैः परिवृतं वन्य-पुष्पावतंसकम् ॥ इति बोधायन-कर्म-विपाक-
प्रायश्चित्त-स्मृतौ ।
तद् उ होवाच हैरण्यो गोप-वेशम् अभ्राभं तरुणं कल्प-द्रुमाश्रितम् । तदिह
श्लोका भवन्ति --
सत्-पुण्डरीक-नयनं मेघाभं वैद्युताम्बरम् ।
द्वि-भुजं मौन-मुद्राढ्यं वनमालिनमीश्वरम् ॥
गोप-गोपी-गवावीतं सुर-द्रुम-तलाश्रितम् ।
दिव्यालङ्करणोपेतं रक्त-पङ्कज-मध्यगम् ॥
कालिन्दी-जल-कल्लोल-सङ्गि-मारुत-सेवितम् ।
चिन्तयंश् चेतसा कृष्णं मुक्तो भवति संसृतेः ॥
इति श्री-गोपाल-तापन्याम् [1.11-15] - गोविन्दं गोकुलानन्दं सच्-चिद्-आनन्द-विग्रहम्
[ग्तु 1.37] इत्य् आदि च ।
अथ स्वारसिकी च यथोदाहृतम् एव स्कान्दे --
वत्सैर् वत्सतरीभिश् च सदा क्रीडति माधवः ।
वृन्दावनान्तरगतः स-रामो बालकैः सह ॥ इत्य् आदि ।
तत्र च-कारात् श्री-गोपेन्द्रादयो गृह्यन्ते । राम-शब्देन रोहिण्य् अपि । तथा तेनैव
क्रीडतीत्य् आदिना व्रजागमन-शयनादि-लीलापि । क्रीडा-शब्दस्य विहारार्थत्वाद्
विहारस्य नाना-स्थानानुसारण-रूपत्वाद् एक-स्थान-निष्ठाया
मन्त्रोपासनामय्या भिद्यतेऽसौ । यथावसर-विविध-स्वेच्छामयी स्वारसिकी ।
एवं ब्रह्म-संहितायाम् --
चिन्तामणि-प्रकर-सद्मसु कल्प-वृक्ष-
लक्षावृतेषु सुरभिर् अभिपालयन्तम्
लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्रह्मस् 5.28] इति ।
अत्र कथा गानं नात्यं गमनम् अपि वंशी [ब्रह्मस् 5.52] इत्य् अत्रानुसन्धेयम्
। तत्र नाना-लीला-प्रवाह-रूपतया स्वारसिकी गङ्गेव ।
अथाप्रकटायां मन्त्रोपासना-मयीम् आह --
मां केशवो गदया प्रातर् अव्याद्
गोविन्द आसङ्गवम् आत्त-वेणुः । [भ्प् 6.8.2] इति ।
आत्त-वेणुर् इति विशेषेण गोविन्दः श्री-वृन्दावन-मथुरा-प्रसिद्ध-महा-योग-
पीठयोस् तन्-नाम्नैव सहितौ प्रसिद्धौ । तौ च तत्र तत्र प्रापञ्चिक-लोक-
दृष्ट्यां श्रीमत्-प्रतिमाकारेणाभातः स्वजन-दृष्ट्यां साक्षाद्-रूप-वृन्द-
प्रकरण एव एतौ पठितौ । ततश् च नारायण-वर्माख्य-मन्त्रोपास्य-
देवतात्वेन (श्री-गोपाल-तापन्यादि-प्रसिद्ध-स्वतन्त्र-मन्त्रान्तरोपास्य-
देवतात्वेन) च मन्त्रोपासना-मय्याम् इदम् उदाहृतम् ॥
तथा हि ललित-माधवे (7.33f)-
राधिका (श्री-कृष्ण-मुखेन्दुम् अवलोक्य): हन्त ! हन्त ! णिब्भ-रूक्कण्डिदा ए
मम मुद्धत्तणं, जं गोइन्दस्स पडिमं जेब्ब गोइन्दं मण्णेमि ।
तथा राधिका (7.35)-
पुरो धिन्वन् घ्राणं परिमिलति सोऽयं परिमलो
घन-श्यामा सेयं द्युति-विततिर् आकर्षति दृशौ ।
स्वरः सोऽयं धीरस् तरलयति कर्णौ मम बलाद्
अहो गोविन्दस्य प्रकृतिम् उपलब्धा प्रतिकृतिः ॥
स्कान्दे-
दोलायमानं गोविन्दं मञ्चस्थं मधुसूदनम् ।
रथे च वामनं दृष्ट्वा पुनर् जन्म न विद्यते ॥
द्वारकायां श्री-पुरुषोत्तमे च । एतत्-पद्य-द्वये गोविन्द-शब्दस् तु सर्व-
प्रकाश-मूल-भूतस्य श्री-वृन्दावन-नाथस्य गोविन्दस्य प्रकाशापेक्षया । स
च प्रकाशस् तु न भेदेषु गण्यते स हि न पृथक् इति (ल्भाग् 1.1.20) ।
दक्षिणाभिमुखं देवं दोलारूढं सुरेश्वरम् ।
सकृद् दृष्ट्वा तु गोविन्दं मुच्यते ब्रह्म-हत्यायाः ।
वर्तमानं च यत् पापं यद् भूतं यद् भविष्यति ।
तत् सर्वं निर्दहत्य् आशु गोविन्दानल-कीर्तनात् ।
गोविन्देति यथा प्रोक्तं भक्त्या वा भक्ति-वर्जितम् ।
दहते सर्व-पापानि युगान्ताग्निर् इवोत्थितः ॥
गोविन्द-नामा यः कश्चिन् नरो भवति भूतले ।
तन् नास्ति कर्मजं लोके वाङ्-मानसम् एव वा ।
यन् न क्षपयते पापं कलौ गोविन्द-कीर्तनम् ॥
किं तत्र वेदागम-शास्त्र-विस्तरैस्
तीर्थैर् अनेकैर् अपि किं प्रयोजनम् ।
यद्य् आननेनेछसि मोक्ष-कारणं
गोविन्द गोविन्द इति स्फुटं रट ॥
श्री-चैतन्य-चरितामृते (1.8.50-51)
वृन्दावने कल्प-वृक्ष सुवर्ण-सदन ।
महा-योग-पीठ ताङ्हा रत्न-सिंहासन ॥
ताते बसि आछेन साक्षात् व्रजेन्द्र-नन्दन ।
श्री-गोविन्द नाम साक्षात् मन्मथ-मदन ॥
(1.5.221, 225-6)
याङ्र ध्यान निज-लोके करे पद्मासन
अष्टादशाक्षर-मन्त्रे करे उपासन
साक्षात् व्रजेन्द्र-सुत इथे नाहि आन
येबा अज्ञे करे ताङ्रे प्रतिमा-हेन ज्ञान
सेइ अपराधे तार नाहिक निस्तार
घोर नरकेते पडे कि बलिब आर
ब्रह्म-वैवर्ते-
प्राप्यापि दुर्लभतरं मानुष्यं विबुधेप्सितम् ।
यैर् आश्रितो न गोविन्दस् तैर् आत्मा वञ्चितश् चिरम् ॥
द्रष्टुं न योग्या वक्तुं वा त्रिषु लोकेषु तेऽधमाः ।
श्री-गोविन्द-पाद-द्वन्द्वे विमुखा ये भवन्ति हि ॥
असौ रसिक-शेखरो गोविन्द-देवः कदाचिद् ऋतु-भेदेन स्व-सेवा-काले यथोचित-
भोजनादि-निमित्ताय स्वाधिकार-नियुक्तेन केनापि सह-गोप-किशोर-रूपेण रात्रौ
स्वप्न-स्फूर्त्या साक्षाद् रूपेण वा कथोपकथनं कुरुते । एतच् च लोक-
परम्परया श्रूयते । किन्तु अतीव-रहस्यत्वात् आचार्य-वचनाद्य्-अनुरोधाच् च
प्रकाश्य न लिख्यते इत्य् आदि ।
अथ ऊर्ध्वाम्नाय-तन्त्र-वाक्यान्य् आह-
श्री-पार्वत्य् उवाच-
कोऽसौ गोविन्द-देवोऽस्ति यस् त्वया सूचितः पुरा ।
कीदृशं तस्य माहात्म्यं किं स्वरूपं च शङ्कर ॥
श्री-महादेव उवाच-
गोपाल एव गोविन्दः प्रकटाप्रकटः सदा ।
वृन्दावने योग-पीठे स एव सततं स्थितः ॥
असौ युग-चतुष्केऽपि श्रीमद्-वृन्दावनाधिपः ।
पूजितो नन्द-गोपाद्यैः कृष्णेनापि सुपूजितः ॥
चीर-हर्ता व्रज-स्त्रीणां व्रत-पूर्ति-विधायकः ।
चिद्-आनन्द-शिलाकारो व्यापको व्रज-मण्डले ॥
किशोरताम् उपक्रम्य वर्तमानो दिने दिने ।
ताम्बूल-पूरित-मुखो राधिका-प्राण-दैवतः ॥
रत्न-बद्ध-चतुः-कूलं हंस-पद्मादि-सङ्कुलम् ।
ब्रह्म-कुण्ड-नाम कुण्डं तस्य दक्षिणतो दिशि ॥
रत्न-मण्डपम् आभाति मद्नार-तरुभिर् वृतम् ।
तन्-मध्ये योग-पीठाख्यं साम्राज्य-पदम् उत्तमम् ॥
वृन्दावनेश्वरी-प्राज्य-साम्राज्य-रस-रञ्जितः ।
इहैव निर्जितः कृष्णो राधया प्रौढ-हासया ॥
तस्यां गो श्रीः सदा वृन्दा वीरा चाखिल-साधना ।
योग-पीठस्य पूर्वत्र नाम्ना लीलावती स्थिता ।
दक्षिणस्यां स्थिता श्यामा कृष्ण-केलि-विनोदिनी ॥
पश्चिमे संस्थिता देवी भोगिनी नाम सर्वदा ।
उत्तरत्र स्थिता नित्यं सिद्धेशी नाम देवता ।
पञ्च-वक्त्रः स्थितः पूर्वे दश-वक्त्रश् च दक्षिणे ॥
पश्चिमे च चतुर्वक्त्रः सहस्र-वक्त्र उत्तरे ।
सुवर्ण-वेत्र-हस्ता च सर्वतः शासने स्थिता ॥
मदनोन्मोदिनी नाम राधिकायाः प्रिया सखी ।
पादयोः पातयत्य् एव गोविन्दं मान-विह्वलम् ॥
रति-पति-मति-मानदेऽपि साक्षाद्
इह युगलाकृति-धाम-काम-दम्भे ।
हरि-मणि-नव-नील-मधुरीभिः
पदि पदि मन्मथ-सौधम् उच्चिनोति ॥
मन्मथ-द्वितयं पश्चात् श्री-कृष्णायेति सत्-पदम् ।
गोविन्दाय ततः पश्चात् स्वाहायं द्वादशाक्षरः ॥
गोविन्दस्य महा-मन्त्रः काले पूर्वानुराग-भाक् ।
ततः परं प्रवक्ष्यामि गोविन्दं युगलात्मकम् ॥
लक्ष्मी-मन्मथ-राधेति गोविन्दाभ्यां नमः पदम् ।
एतस्य ज्ञान-मात्रेण राधा-कृष्णौ प्रसीदतः ॥
अनयोस् तु ऋषिः कामो विराट् छन्द उदाहृतः ।
देवता नित्य-गोविन्दो राधा-गोविन्द एव च ॥
योग-पीठेश्वरी शक्तिः षड्-अङ्गं काम-बीजकैः ।
ध्यायेद् गोविन्द-देवं नव-घन-मधुरं द्विय-लीला-नटन्तम्
विस्फूर्जन्-मल्ल-कच्छं कर-युग-मुरली-रत्न-दण्डाश्रितं च ।
असंन्यस्ताच्छ-पीताम्बर-विपुल-दशा-द्वन्द्व-गुच्छाभिरामं
पूर्ण-श्री-मोहनेन्द्रं तद्-इतर-चरणाक्रान्त-दक्षाङ्घ्रि-नालम् ॥
एवं ध्यात्वा जपेन् मन्त्रं यावल्-लक्ष-चतुष्टयम् ।
तिलाज्य-हवनस्यान्ते योग-पीठेश्वरौ यजेत् ॥
चम्पकाशोक-तुलसी-कह्लारैः कमलैस् तथा ।
राधा-गोविन्द-युगलं साक्षात् पश्यति चक्षुषा ॥
श्रीमन्-मदन-गोपालोऽप्य् अत्रैव सुप्रतिष्ठितः ।
कैशोर-रूपी गोपालो गोविन्दः प्रौढ-विग्रहः ।
उभयोस् तारतम्येन गोपीनाथोऽतिसुन्दरः ॥
धीरोद्धतस् तु गोपालो धीरोदात्तयोच्यते ।
गोविन्दो गोपिकानाथो यो धीर-ललिताकृतिः ॥
सिंह-मध्यस् तु गोपालस् त्रिभङ्ग-ललिताकृतिः ।
गोविन्दो गोपिकानाथः पीन-वक्षः-स्थलो विटः ॥
त्रिसन्ध्यम् अन्यद् अन्यद् धि माधुर्यं गोविदां पतौ ।
गोवर्धन-दरी-धातु-पल्लवादि-विचित्रिते ।
बाल्यतः समतिक्रान्तः कैशोरात् परतो गतः ॥
वगाहमानः कन्दर्पः श्री-गोविन्दो विराजते ।
नाना-रत्न-मनोहारीन्य् एतस्मिन् योग-पीठके ।
सहजो हि प्रभावोऽयं नाचिरात् परितुष्यति ॥
अन्येषु सिद्ध-पीठेषु या सिद्धिर् बहु-हायनैः ।
वृन्दावने योग-पीठे सैकेनाह्ना प्रजायते ॥
प्रातर् बालार्क-सङ्काशं सङ्गवे मङ्गल-च्छवि ।
मध्याह्ने तरुणार्काभं पराह्ने पद्म-पत्रवत् ॥
सायं सिन्दूर-पूराभं रात्रौ च शशि-निर्मलम् ।
तमस्विनीष्व् इन्द्रनील-मयूख-मेचक-प्रभम् ॥
वर्षासु च सदाभाति हरित्-तृण-मणि-प्रभम् ।
शरत्-सुचन्द्र-बिम्बाभं हेमन्ते पद्म-रागवत् ॥
शिशिरे हीरक-प्रख्यं वसन्ते पल्लवारुणम् ।
ग्रीष्मे पीयूष-पूराभं योग-पीठं विराजते ॥
माधुरीभिः सदाच्छन्नम् अशोक-ललितादृतम् ।
अघश् चोर्ध्वं महा-रत्न-मयूखैः परितो वृतम् ॥
चन्द्रावली-दुराधर्षं राधा-सौभाग्य-मन्दिरम् ॥
श्री-रत्न-मण्डपं नाम तथा शृङ्गार-मण्डपम् ॥
सौभाग्य-मण्डपं नाम महा-माधुर्य-मण्डपम् ।
साम्राज्य-मण्डपं नाम तथा कन्दर्प-मण्डपम् ॥
आनन्द-मण्डपं नाम तथा सुरत-मण्डपम् ।
इत्य् अष्टौ योग-पीठस्य नामानि शृणु पार्वति ॥
नामाष्टकं यः पठति प्रभाते
श्री-योग-पीठस्य महत्तमस्य ।
गोविन्द-देवं वशयेत् स तेन
प्रेमानम् आप्नोति परस्य पुंसः ॥
अथ मन्त्र-मय्यां सद्-आचार-विधिर् लिख्यते । मन्त्र-मयी द्विधा । तत्र श्री-
भागवतादि-वर्णित-जन्म-कर्म-गो-चारणादि-लीला एक-विधा । सा तु स्मरण-
मङ्गल-श्री-गोविन्द-लीलामृताद्य्-अनुसारेण कर्तव्या । द्वितीया तु अर्चायमान-
विशेष-मौन-मुद्राढ्य-श्री-विग्रह-विशेष-सेवा । सा च सर्व-स्मृति-संमता श्री-
हरि-भक्ति-विलासे लिखितास्ति । तद्-अनुसारेण प्रेम-युक्तया भक्त्या कर्तव्या ।
तस्मात् किञ्चित् प्रकाश्य लिख्यते ।
ब्राह्म-मुहूर्ताद् उत्थाय पूजकादयः सर्वे पार्षदाः सेवानामापराध-रहिता
भगवत्-परिचर्यां विना प्रसादान्नम् अप्य् अस्वीकुर्वन्तः । किं पुनर् भगवद्-
द्रव्यं स्वेच्छया बलात्कारेण वा । विधिवत् गुर्वादि-प्रणाम-दन्त-धावन-
यथोचित-स्नानादि-विधिं कृत्वा स्व-सेवायां सावधानाः श्री-मन्दिरे प्रविशन्ति ।
पूजकस् तु विधिवत् घण्टादि-वाद्यं कृत्वा प्रभोः श्रीमद्-ईश्वर्याश् च
प्रबोधनं कारयेत् । ग्रीष्म-शीत-वर्षाद्य्-अनुसारेण देवादि-दुर्लभ-सेवां
[अद्दितिओनल् तेxत्? यथा साधकः सिद्ध-रूपेण मानसीं लीलां दण्डात्मिकां
भावयेत् तथा तेनैव गुरु-परम्परया रागानुगा-मतेन मौन-मुद्राढ्यः
। दण्डात्मिका-लीला-सेवा चैका नाम्ना भेदः पृथग् भवेत् । अतस् तयोर् ऐक्य-
सेवनं च ।]
ततः श्री-मुख-प्रक्षालनादिकं, यथा श्री-गोविन्द-लीलामृते (1.24?) (प्रोबब्ल्य्
कक्)
स-मुष्टि-पाणि-द्वयम् उन्नमय्य
विमोटयन् सोऽथ रसालसाङ्गम् ।
जृम्भा-विसर्पद्-दशनांशु-जालस्
तमाल-नीलः शयनाद् उदस्थात् ॥
तद् यथा-
उत्थाय तल्प-वरतः स वरासन-स्थो
दत्तैर् जलैः कनक-झर्झरि-नालितोऽपि ।
सरकास् तः पतित-पत्र-विनिर्मितेन
वीटी-वरेण परिममार्ज सुदिव्य-दन्तान् ॥
एवं श्रीमद्-ईश्वर्याश् च (श्री-कृष्णाह्निक-कौमुद्यां 2.49,52)
उत्थाय तल्प-तलतः कनकासन-स्था
निद्रावसान-विगलन्-नियत-व्यवस्था ।
सा पाद-पीठम् अधिदत्त-पदारविन्दा
रेजे तदा पर्जनैर् विहिताभिनन्दा ॥
आमृज्य सूक्ष्म-वसनेन सितेन कान्तान्
सा दन्त-काष्ठ-शकलेन विघृष्ट-दन्तान् ।
ताम्बूल-राग-पर-भागवतीं मनोज्ञां
जिह्वां विशोधनिकया व्यलिखद् रसज्ञाम् ॥
ततः सुस्वादु-मिष्ट-दधि-समर्पणम् । ततो मङ्गलारात्रिकम् । तत्र ध्यानम्-
कर्पूरावलि-निन्दि चारु-वसनं बिभ्रन्-नितम्बे वहन्न्
उष्णीषं वर-मूर्ध्नि कान्तम् अरुणं निद्रा-विमिश्रेक्षणम् ।
स्वीकुर्वन् सुखदं मनोरथ-करं माङ्गल्यारात्रिकं
गोविन्दः कुशलं करोति भवतो रात्र्य्-अन्त-काले सदा ॥
ततो हैमन्ते फल्गुला-धारणं-
कौशेय-वस्त्र-परिनिर्मित-फल्गुलाख्यं
प्रालेय-वारणकं बहु-मूल्य-लभ्यम् ।
सौवर्ण-चित्र-परिचित्रित-सर्व-देशम्
आ-मस्तकात् पद-युगावधि शोभमानम् ॥
गोविन्दम् आदि-पुरुषं व्रज-राज-पुत्रं
पश्यन्तम् अग्निम् अमलं भगवन्तम् ईडे ।
वर्णेनारुणम् अतुलं
बहु-रत्न-चित्र-विचित्रित-फल्गुलकम् ।
बिभ्राणं गोविन्दं
विहसद् वदनं कदा पश्ये ॥
अथ ग्रीष्मे तनिया-धारणम्-
सूक्ष्म-वस्त्र-निर्मितं त्रिभाग-रूप-खण्डितम् ।
सर्व-प्रान्त-देश-स्वर्ण-सूत्र-मौक्तिकाञ्चितम् ॥
कृष्ण-देव-मध्य-देश-राजितं विराजितम् ।
ग्रीष्म-ताप-शोषकं सुशीत-वस्त्रम् आश्रये ॥
मुकुलित-कञ्चुक-धारणम्-
उष्णीषं दधद् अरुणं धटीं
विचित्रां तद्-उपरि च बिभ्राणः ।
मुकुलित-कञ्चुक-बन्धः
श्री-गोविन्दो हृदि स्फुरतु ॥
ततः सर्वे मिलित्वा आरात्रिक-दर्शनम् । एवं देव-मुनीन्द्रादयोऽपि गीतावाद्य-
कीर्तनादि कुर्वन्ति । यथा पद्यावल्यां (22)-
चेतो-दर्पण-मार्जनं भव-महा-दावाग्नि-निर्वापणं
श्रेयः-कैरव-चन्द्रिका-वितरणं विद्या-वधू-जीवनम् ।
आनन्दाम्बुधि-वर्धनं प्रति-पदं पूर्णामृतास्वादनं
सर्वात्म-स्नपनं परं विजयते श्री-कृष्ण-सङ्कीर्तनम् ॥
अथ दर्शन-फलम्-
सर्वाभीष्ट-प्रदं श्रीमन् मङ्गलारात्रि-दर्शनम् ।
प्रेम-भक्ति-प्रदं सर्व-दुःस्वप्नादि-निवर्तकम् ॥
एवं पाचकादयः सर्वे स्व-स्व-सेवायां परम-भक्त्या च सावधाना वर्तिष्यन्ते
। सेवायां मुखोऽधिकारी तु स्व-प्रतिनिधिं कर्म-चारिणम् उद्दिश्य तस्मिन् स्व-
सर्व-कर्म समर्प्य सेवायां सावधानः स्वयं करिष्यति अभावे पूजकादि-द्वारा
च । एवं श्रीमद्-ईश्वर्या दधि-भोजनं मङ्गल-नीराजनं च कर्तव्यम् ।
अथ शृङ्गारारात्रि-विधिर् लिख्यते । ततः सुगन्ध-तैलादिभिर् मर्दनोन्-
मार्जनादिकं हिम-ग्रीष्म-वर्षादि-कालोचितम् उष्ण-शीतल-जलादिभिः स्नानं च,
सूक्ष्म-वस्त्रेण श्रीमद्-अङ्ग-संमार्जनं, यथा श्री-गोविन्द-लीलामृते (4.8-12)-
तम् आगतं स्नापन-वेदिकान्तरं
भृत्यः समुत्तार्य विभूषणं तनोः ।
सुकुञ्चितं चीन-नवीनम् अंशुकं
सारङ्ग-नामा लघु पर्यधापयन्
अभ्यज्य नारायण-तैल-लेपैः
प्रत्यङ्ग-नाना-मृदु-बन्ध-पूर्वम् ।
सुबन्ध-नामा क्षुरित-सूनुर् अस्य
प्रेम्णाङ्ग-संमर्दनम् आततान
उद्वर्तनेनास्य मुदा सुगन्धः
शीतेन पीतेन सदा सुशीतम् ।
स्निग्धेन मुग्धो नवनीत-पिण्डाद्
उद्वर्तयामास शनैस् तद्-अङ्गम्
धात्री-फलार्द्र-कल्केन केशान् शीत-सुगन्धिना ।
स्निग्धः स्निग्धेन सुस्निग्धान् कर्पूरोऽपि समस्करोत्
मन्द-पक्व-परिवासित-कुम्भ-
श्रेणि-संभृत-जलैर् अथ दासाः ।
शतकुम्भ-घटिकात्त-विमुक्तैः
स्वेश्वरं प्रमुदिताः स्नपयन्ति
मूल पाठ: Sādhanadīpikā · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0