भाषा

ENहिગુ
ग्रंथ पाठ

सद्धर्मपुण्डरीकसूत्र · अध्याय 5

5.1

इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये अधिमुक्तिपरिवर्तो नाम चतुर्थः ॥
सद्ध्प्_5: ओषधीपरिवर्तः ।
अथ खलु भगवानायुष्मन्तं महाकाश्यपं तांश्चान्यान् स्थविरान् महाश्रावकानामन्त्रयामास - साधु साधु महाकाश्यप । साधु खलु पुनर्युष्माकं काश्यप यद्यूयं तथागतस्य भूतान् गुणवर्णान् भाषध्वे । एते च काश्यप तथागतस्य भूता गुणाः । अतश्चान्ये ऽप्रमेया असंख्येयाः, येषां न सुकरः पर्यन्तो ऽधिगन्तुमपरिमितानपि कल्पान् भाषमाणैः । धर्मस्वामी काश्यप तथागतः, सर्वधर्माणां राजा प्रभुर्वशी । यं च काश्यप तथागतो धर्मं यत्रोपनिक्षिपति, स तथैव भवति । सर्वधर्माश्च काश्यप तथागतो युक्त्योपनिक्षिपति । तथागतज्ञानेनोपनिक्षिपति । यथा ते धर्माः सर्वज्ञभूमिमेव गच्छन्ति । सर्वधर्मार्थगतिं च तथागतो व्यवलोकयति । सर्वधर्मार्थवशिताप्राप्तः सर्वधर्माध्याशयप्राप्तः सर्वधर्मविनिश्चयकौशल्यज्ञानपरमपारमिताप्राप्तः सर्वज्ञज्ञानसंदर्शकः सर्वज्ञज्ञानावतारकः सर्वज्ञज्ञानोपनिक्षेपकः काश्यप तथागतो ऽर्हन् सम्यक्संबुद्धः ॥
तद्यथापि नाम काश्यप अस्यां त्रिसाहस्रमहासाहस्रायां लोकधातौ यावन्तस्तृणगुल्मौषधिवनस्पतयो नानावर्णा नानाप्रकारा ओषधिग्रामा नानानामधेयाः पृथिव्यां जाताः पर्वतगिरिकन्दरेषु वा । मेघश्च महावारिपरिपूर्ण उन्नमेत्, उन्नमित्वा सर्वावतीं त्रिसाहस्रमहासाहस्रां लोकधातुं संछादयेत् । संछाद्य च सर्वत्र समकालं वारि प्रमुञ्चेत् । तत्र काश्यप ये तृणगुल्मौषधिवनस्पतयो ऽस्यां त्रिसाहस्रमहासाहस्रलोकधातौ, तत्र ये तरुणाः कोमलनालशाखापत्रपलाशास्तृणगुल्मौषधिवनस्पतयो द्रुमा महाद्रुमाः, सर्वे ते ततो महामेघप्रमुक्ताद्वारिणो यथाबलं यथाविषयमब्धातुं प्रत्यापिबन्ति । ते चैकरसेन वारिणा प्रभूतेन मेघप्रमुक्तेन यथाबीजमन्वयं विवृद्धिं विरूढिं विपुलतामापद्यन्ते, तथा च पुष्पफलानि प्रसवन्ति । ते च पृथक् पृथगू नानानामधेयानि प्रतिलभन्ते । एकधरणीप्रतिष्ठिताश्च ते सर्वे ओषधिग्रामा बीजग्रामा एकरसतोयाभिष्यन्दिताः । एवमेव काश्यप तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उत्पद्यते । यथा महामेघः उन्नमते, तथा तथागतो ऽप्युत्पद्य सर्वावन्तं सदेवमानुषासुरं लोकं स्वरेणाभिविज्ञापयति । तद्यथापि नाम काश्यप महामेघः सर्वावतीं त्रिसाहस्रमहासाहस्रां लोकधातुमवच्छादयति, एवमेव काश्यप तथागतो ऽर्हन् सम्यक्संबुद्धः सदेवमानुषासुरस्य लोकस्य पुरत एवं शब्दमुदीरयति, घोषमनुश्रावयति - तथागतो ऽस्मि भवन्तो देवमनुष्याः अर्हन् सम्यक्संबुद्धः, तीर्णस्तारयामि, मुक्तो मोचयामि, आश्वस्त आश्वासयामि, परिनिर्वृतः परिनिर्वापयामि । अहमिमं च लोकं परं च लोकं सम्यक् प्रज्ञया यथाभूतं प्रजानामि सर्वज्ञः सर्वदर्शी । उपसंक्रामन्तु मां भवन्तो देवमनुष्या धर्मश्रवणाय । अहं मार्गस्याख्याता मार्गदेशिको मार्गवित् मार्गकोविदः । तत्र काश्यप बहूनि प्राणिकोटीनयुतशतसहस्राणि तथागतस्य धर्मश्रवणायोपसंक्रामन्ति । अथ तथागतो ऽपि तेषां सत्त्वानामिन्द्रियवीर्यपरापरवैमात्रतां ( वैद्य 85 ) ज्ञात्वा तांस्तान् धर्मपर्यायानुपसंहरति, तां तां धर्मकथां कथयति बह्वीं विचित्रां हर्षणीयां परितोषणीयां प्रामोद्यकरणीयां हितसुखसंवर्तनकरणीयाम् । यया
कथय ते सत्त्वाः दृष्ट एव धर्मे सुखिता भवन्ति, कालं च कृत्वा सुगतीषूपपद्यन्ते, यत्र प्रभूतांश्च कामान् परिभुञ्जन्ते, धर्मं च शृण्वन्ति । श्रुत्वा च तं धर्मं विगतनीवरणा भवन्ति । अनुपूर्वेण च सर्वज्ञधर्मेष्वभियुज्यन्ते यथाबलं यथाविषयं यथास्थानम् ॥
तद्यथापि नाम काश्यप महामेघः सर्वावतीं त्रिसाहस्रमहासाहस्रां लोकधातुं संछाद्य समं वारि प्रमुञ्चति, सर्वांश्च तृणगुल्मौषधिवनस्पतीन् वारिणा संतर्पयति । यथाबलं यथाविषयं यथास्थामं च ते तृणगुल्मौषधिवनस्पतयो वार्यापिबन्ति, स्वकस्वकां च जातिप्रमाणतां गच्छन्ति । एवमेव काश्यप तथागतो ऽर्हन् सम्यक्संबुद्धो यं धर्मं भाषते, सर्वः स धर्म एकरसो यदुत विमुक्तिरसो विरागरसो निरोधरसः सर्वज्ञज्ञानपर्यवसानः । तत्र काश्यप ये ते सत्त्वास्तथागतस्य धर्मं भाषमाणस्य शृण्वन्ति धारयन्ति अभिसंयुज्यन्ते, न ते आत्मनात्मानं जानन्ति वा वेदयन्ति वा बुध्यन्ति वा । तत्कस्य हेतोः? तथागत एव काश्यप तान् सत्त्वांस्तथा जानाति, ये च ते, यथा च ते, यादृशाश्च ते । यं च ते चिन्तयन्ति, यथा च ते चिन्तयन्ति, येन च ते चिन्तयन्ति । यं च ते भावयन्ति, यथा च ते भावयन्ति, येन च ते भावयन्ति । यं च ते प्राप्नुवन्ति, यथा च ते प्राप्नुवन्ति, येन च ते प्राप्नुवन्ति । तथागत एव काश्यप तत्र प्रत्यक्षः प्रत्यक्षदर्शी यथा च दर्शी तेषां सत्त्वानां तासु तासु भूमिषु स्थितानां तृणगुल्मौषधिवनस्पतीनां हीनोत्कृष्टमध्यमानाम् । सो ऽहं काश्यप एकरसधर्म विदित्वा यदुत विमुक्तिरसं निर्वृतिरसं निर्वाणपर्यवसानं नित्यपरिनिर्वृतमेकभूमिकमाकाशगतिकमधिमुक्तिं सत्त्वानामनुरक्षमाणो न सहसैव सर्वज्ञज्ञानं संप्रकाशयामि । आश्चर्यप्राप्ता अद्भुतप्राप्ता यूयं काश्यप यद्यूयं संधाभाषितं तथागतस्य न शक्नुथ अवतरितुम् । तत्कस्य हेतोः? दुर्विज्ञेयं काश्यप तथागतानामर्हतां सम्यक्संबुद्धानां संधाभाषितमिति ॥
अथ खलु भगवांस्तस्यां वेलायामिममेवार्थं भूयस्या मात्रया संदर्शयमान इमा गाथा अभाषत -
धर्मराजा अहं लोके उत्पन्नो भवमर्दनः ।
धर्मं भाषामि सत्त्वानामधिमुक्तिं विजानिय

5.2

धीरबुद्धी महावीरा चिरं रक्षन्ति भाषितम् ।
रहस्यं चापि धारेन्ति न च भाषन्ति प्राणिनाम्

5.3

दुर्बोध्यं चापि तज्ज्ञानं सहसा श्रुत्व बालिशाः ।
काङ्क्षां कुर्युः सुदुर्मेधास्ततो भ्रष्टा भ्रमेयु ते

5.4

यथाविषयु भाषामि यस्य यादृशकं बलम् ।
अन्यमन्येहि अर्थेहि दृष्टिं कुर्वामि उज्जुकाम्

5.5

यथापि काश्यपा मेघो लोकधातूय उन्नतः ।
सर्वमोनहती चापि छादयन्तो वसुंधराम्

5.6

सो च वारिस्य संपूर्णो विद्युन्माली महाम्बुदः ।
निर्नादयन्त शब्देन हर्षयेत् सर्वदेहिनः

5.7

सूर्यरश्मी निवारित्वा शीतलं कृत्व मण्डलम् ।
हस्तप्राप्तो ऽवतिष्ठन्तो वारि मुञ्चेत् समन्ततः

5.8

स चैव मम मुञ्चेत आपस्कन्धमनल्पकम् ।
प्राखरन्तः समन्तेन तर्पयेन्मेदिनीमिमाम्

5.9

इह या काचि मेदिन्यां जाता ओषधयो भवेत् ।
तृणगुल्मवनस्पत्यो द्रुमा वाथ महाद्रुमाः

5.10

सस्यानि विविधान्येव यद्वापि हरितं भवेत् ।
पर्वते कन्दरे चैव निकुञ्जेषु च यद्भवेत्

5.11

सर्वान् संतर्पयेन्मेघस्तृणगुल्मवनस्पतीन् ।
तृषितां धरणीं तर्पेत् परिषिञ्चति चौषधीः

5.12

तच्च एकरसं वारि मेघमुक्तमिहस्थितम् ।
यथाबलं यथाविषयं तृणगुल्मा पिबन्ति तत्

5.13

द्रुमाश्च ये केचि महाद्रुमाश्च खुद्राक मध्याश्च यथावयाश्च ।
यथाबलं सर्वे पिबन्ति वारि पिबन्ति वर्धन्ति यथेच्छकामाः

5.14

काण्डेन नालेन त्वचा यथैव शाखाप्रशाखाय तथैव पत्रैः ।
वर्धन्ति पुष्पेहि फलेहि चैव मेघाभिवृष्टेन महौषधीयः

5.15

यथाबलं ता विषयश्च यादृशो यासां च यद् यादृशकं च बीजम् ।
स्वकस्वकं ताः प्रसवं ददन्ति वारिं च तं एकरसं प्रमुक्तम्

5.16

एमेव बुद्धो ऽपि ह लोके काश्यप उत्पद्यते वारिधरो व लोके ।
उत्पद्य च भाषति लोकनाथो भूतां चरिं दर्शयते च प्राणिनाम्

5.17

एवं च संश्रावयते महर्षिः पुरस्कृतो लोके सदेवके ऽस्मिन् ।
तथागतो ऽहं द्विपदोत्तमो जिनो उत्पन्नु लोकस्मि यथैव मेघः

5.18

संतर्पयिष्याम्यहु सर्वसत्त्वान् संशुष्कगात्रांस्त्रिभवे विलग्नान् ।
दुःखेन शुष्यन्त सुखे स्थपेयं कामांश्च दास्याम्यहु निर्वृतिं च

5.19

शृणोथ मे देवमनुष्यसंघा उपसंक्रमध्वं मम दर्शनाय ।
तथागतो ऽहं भगवाननाभिभूः संतारणार्थं इह लोकि जातः

5.20

भाषामि च प्राणिसहस्रकोटिनां धर्मं विशुद्धं अभिदर्शनीयम् ।
एका च तस्यो समता तथत्वं यदिदं विमुक्तिश्चथ निर्वृती च

5.21

स्वरेण चैकेन वदामि धर्मं बोधिं निदानं करियान नित्यम् ।
समं हि एतद्विषमत्व नास्ति न कश्चि विद्वेषु न रागु विद्यते

5.22

अनुनीयता मह्य न काचिदस्ति प्रेमा च दोषश्च न मे कहिंचित् ।
समं च धर्मं प्रवदामि देहिनां यथैकसत्त्वस्य तथा परस्य

5.23

अनन्यकर्मा प्रवदामि धर्मं गच्छन्तु तिष्ठन्तु निषीदमानः ।
निषण्ण शय्यासनमारुहित्वा किलासिता मह्य न जातु विद्यते

5.24

संतर्पयामी इमु सर्वलोकं मेघो व वारिं सम मुञ्चमानः ।
आर्येषु नीचेषु च तुल्यबुद्धिर्दुःशीलभूतेष्वथ शीलवत्सु

5.25

विनष्टचारित्र तथैव ये नराश्चारित्रआचारसमन्विताश्च ।
दृष्टिस्थिता ये च विनष्टदृष्टी सम्यग्दृशो ये चाविशुद्धदृष्टयः

5.26

हीनेषु चोत्कृष्टमतीषु चापि मृद्विन्द्रियेषु प्रवदामि धर्मम् ।
किलासितां सर्व विवर्जयित्वा सम्यक् प्रमुञ्चाम्यहु धर्मवर्षम्

5.27

यथाबलं च श्रुणियान मह्यं विविधासु भूमीषु प्रतिष्ठिहन्ति ।
देवेषु मर्त्येषु मनोरमेषु शक्रेषु ब्रह्मेष्वथ चक्रवर्तिषु

5.28

क्षुद्रानुक्षुद्रा इम ओषधीयो क्षुद्रीक एता इह याव लोके ।
अन्या च मध्या महती च ओषधी शृणोथ ताः सर्व प्रकाशयिष्ये

5.29

अनास्रवं धर्म प्रजानमाना निर्वाणप्राप्ता विहरन्ति ये नराः ।
षडभिज्ञ त्रैविद्य भवन्ति ये च सा क्षुद्रिका ओषधि संप्रवुत्ता

5.30

गिरिकन्देषू विहरन्ति ये च प्रत्येकबोधिं स्पृहयन्ति ये नराः ।
ये ईदृशा मध्यविशुद्धबुद्धयः सा मध्यमा ओषधि संप्रवुत्ता

5.31

ये प्रार्थयन्ते पुरुषर्षभत्वं बुद्धो भविष्ये नरदेवनाथः ।
वीर्यं च ध्यानं च निषेवमाणाः सा ओषधी अग्र इयं प्रवुच्चति

5.32

ये चापि युक्ताः सुगतस्य पुत्रा मैत्रीं निषेवन्तिह शान्तचर्याम् ।
निष्काङ्क्षप्राप्ता पुरुषर्षभत्वे अयं द्रुमो वुच्यति एवरूपः

5.33

अविवर्तिचक्रं हि प्रवर्तयन्ता ऋद्धीबलस्मिन् स्थित ये च धीराः ।
प्रमोचयन्तो बहु प्राणिकोटी महाद्रुमो सो च प्रवुच्चते हि

5.34

समश्च सो धर्म जिनेन भाषितो मेघेन वा वारि समं प्रमुक्तम् ।
चित्रा अभिज्ञा इम एवरूपा यथौषधीयो धरणीतलस्थाः

5.35

अनेन दृष्टान्तनिदर्शनेन उपायु जानाहि तथागतस्य ।
यथा च सो भाषति एकधर्मं नानानिरुक्ती जलबिन्दवो वा

5.36

ममापि चो वर्षतु धर्मवर्षं लोको ह्ययं तर्पितु भोति सर्वः ।
यथाबलं चानुविचिन्तयन्ति सुभाषितं एकरसं पि धर्मम्

5.37

तृणगुल्मका वा यथ वर्षमाणे मध्या पि वा ओषधियो यथैव ।
द्रुमा पि वा ते च महाद्रुमा वा यथ शोभयन्ते दशदिक्षु सर्वे

5.38

इयं सदा लोकहिताय धर्मता तर्पेति धर्मेणिमु सर्वलोकम् ।
संतर्पितश्चाप्यथ सर्वलोकः प्रमुञ्चते ओषधि पुष्पकाणि

5.39

मध्यापि च ओषधियो विवर्धयी अर्हन्त ये ते स्थित आस्रवक्षये ।
प्रत्येकबुद्धा वनषण्डचारिणो निष्पादयी धर्ममिमं सुभाषितम्

5.40

बहुबोधिसत्त्वाः स्मृतिमन्त धीराः सर्वत्र त्रैधातुकि ये गतिंगताः ।
पर्येषमाणा इममग्रबोधिं द्रुमा व वर्धन्ति ति नित्यकालम्

5.41

ये ऋद्धिमन्तश्चतुध्यानध्यायिनो ये शून्यतां श्रुत्व जनेन्ति प्रीतिम् ।
रश्मीसहस्राणि प्रमुञ्चमानास्ते चैव वुच्चन्ति महाद्रुमा इह

5.42

एतादृशी काश्यप धर्मदेशना मेघेन वा वारि समं प्रमुक्तम् ।
बह्वी विवर्धन्ति महौषधीयो मनुष्यपुष्पाणि अनन्तकानि

5.43

स्वप्रत्ययं धर्म प्रकाशयामि कालेन दर्शेमि च बुद्धबोधिम् ।
उपायकौशल्यु ममैतदग्रं सर्वेष चो लोकविनायकानाम्

5.44

परमार्थ एवं मयं भूतभाषितो ते श्रावकाः सर्वि न एन्ति निर्वृतिम् ।
चरन्ति एते वर बोधिचारिकां बुद्धा भविष्यन्तिमि सर्वश्रावकाः

5.45

पुनरपरं काश्यप तथागतः सत्त्वविनये समो न चासमः । तद्यथा काश्यप चन्द्रसुर्यप्रभा सर्वलोकमवभासयति कुशलकारिणमकुशलकारिणं चोर्ध्वावस्थितमधरावस्थितं च सुगन्धि दुर्गन्धि, सा सर्वत्र समं प्रभा निपतति न विषमम्, एवमेव काश्यप तथागतानामर्हतां सम्यक्संबुद्धानां सर्वज्ञज्ञानचित्तप्रभा सर्वेषु पञ्चगत्युपपन्नेषु सत्त्वेषु यथाधिमुक्तिं महायानिकप्रत्येकबुद्धयानिकश्रावकयानिकेषु सद्धर्मदेशना समं प्रवर्तते । न च तथागतस्य ज्ञानप्रभाया ऊनता वा अतिरिक्तता वा यथापुण्यज्ञानसमुदागमाय संभवति । न सन्ति काश्यप त्रीणि यानानि । केवलमन्योन्यचरिताः सत्त्वाः, तेन त्रीणि यानानि प्रज्ञप्यन्ते ॥
एवमुक्ते आयुष्मान् महाकाश्यपो भगवन्तमेतदवोचत् - यदि भगवन् न सन्ति त्रीणि यानानि, किं कारणं प्रत्युत्पन्ने ऽध्वनि श्रावकप्रत्येकबुद्धबोधिसत्त्वानां प्रज्ञप्तिः प्रज्ञप्यते? एवमुक्ते भगवानायुष्मन्तं महाकाश्यपमेतदवोचत् - तद्यथा काश्यप कुम्भकारः समासु मृत्तिकासु भाजनानि करोति । तत्र कानिचिद् गुडभाजनानि भवन्ति, कानिचिद् घृतभाजनानि, कानिचिद् दधिक्षीरभाजनानि, कानिचिद् हीनान्यशुचिभाजनानि भवन्ति, न च मृत्तिकाया नानात्वम्, अथ च द्रव्यप्रक्षेपमात्रेण भाजनानां नानात्वं प्रज्ञायते । एवमेव काश्यप एकमेवेदं यानं यदुत बुद्धयानम् । न द्वितीयं न तृतीयं वा यानं संविद्यते ॥
एवमुक्ते आयुष्मान् महाकाश्यपो भगवन्तमेतदवोचत् - यद्यपि भगवन् सत्त्वा नानाधिमुक्तयो ये त्रैधातुकान्निःसृताः, किं तेषामेकं निर्वाणमुत द्वे त्रीणि वा? भगवानाह - सर्वधर्मसमतावबोधाद्धि काश्यप निर्वाणम् । तच्चैकम्, न द्वे न त्रीणि । तेन हि काश्यप उपमां ते करिष्यामि । उपमया इहैकत्या विज्ञपुरुषा भाषितस्यार्थमाजानन्ति । तद्यथा काश्यप जात्यन्धः पुरुषः । स एवं ब्रूयान्न सन्ति सुवर्णदुर्वणानि रूपाणि, न सन्ति सुवर्णदुर्वर्णानां रूपाणां द्रष्टारः, न स्तः सूर्याचन्द्रमसौ, न सन्ति नक्षत्राणि, न सन्ति ग्रहाः, न सन्ति ग्रहाणां द्रष्टारः । अथान्ये पुरुषास्तस्य जात्यन्धस्य पुरुषस्य पुरत एवं वदेयुः - सन्ति सुवर्णदुर्वर्णानि रूपाणि, सन्ति सुवर्णदुर्वर्णानां रूपाणां द्रष्टारः, स्तः सूर्याचन्द्रमसौ, सन्ति नक्षत्राणि, सन्ति ग्रहाः, सन्ति ग्रहाणां द्रष्टारः । स च जात्यन्धः पुरुषस्तेषां पुरुषाणां न श्रद्दध्यात्, नोक्तं गृह्णीयात् । अथ कश्चिद् वैद्यः सर्वव्याधिज्ञः स्यात् । स तं जात्यन्धं पुरुषं पश्येत् । तस्यैवं स्यात् - तस्य पुरुषस्य पूर्वपापेन कर्मणा व्याधिरुत्पन्नः । ये च केचन व्याधय उत्पद्यन्ते, ते सर्वे चतुर्विधाः - वातिकाः पैत्तिकाः श्लैःमिकाः सांनिपातिकाश्च । अथ स वैद्यस्तस्य व्याधेर्व्युपशमनार्थं पुनः पुनरुपायं चिन्तयेत् ।
तस्यैवं स्यात् - यानि खल्विमानि द्रव्याणि प्रचरन्ति, न तैः शक्यो ऽयं व्याधिश्चिकित्सितुम् । सन्ति तु हिमवति पर्वतराजे चतस्र ओषधयः । कतमाश्चतस्रः? तद्यथा - प्रथमा सर्ववर्णरसस्थानानुगता नाम, द्वितीया सर्वव्याधिप्रमोचनी नाम, तृतीया सर्वविषविनाशनी नाम, चतुर्थी यथास्थानस्थितसुखप्रदा नाम । इमाश्चतस्रः ओषधयः । अथ स वैद्यस्तस्मिन् जात्यन्धे कारुण्यमुत्पाद्य तादृशमुपायं चिन्तयेत्, येनोपायेन हिमवन्तं पर्वतराजं शक्नुयाद्गन्तम् । गत्वा चोर्ध्वमप्यारोहेत्, अधो ऽप्यवतरेत्, तिर्यगपिप्रविचिनुयात् । स एवं प्रविचिन्वंस्ताश्चतस्र ओषधीरारागयेत् । आराग्य च कांचिद्दन्तैः क्षोदितां कृत्वा दद्यात्, कांचित् पेषयित्वा दद्यात्, कांचिदन्यद्रव्यसंयोजितां पाचयित्वा दद्यात्, कांचिदामद्रव्यसंयोजितां कृत्वा दद्यात्, कांचिच्छलाकया शरीरस्थानं विद्ध्वा दद्यात्, कांचिदग्निना परिदाह्य दद्यात्, कांचिदन्योन्यद्रव्यसंयुक्तां यावत् पानभोजनादिष्वपि योजयित्वा दद्यात् । अथ स जात्यन्धपुरुषस्तेनोपाययोगेन चक्षुः प्रतिलभेत । स प्रतिलब्धचक्षुर्बहिरध्यात्मं दूरे आसन्ने च चन्द्रसूर्यप्रभां नक्षत्राणि ग्रहान् सर्वरूपाणि च पश्येत् । एवं च वदेत् - अहो बताहं मूढः, यो ऽहं पूर्वमाचक्षमाणानां न श्रद्दधामि, नोक्तं ( वैद्य 92 ) गृह्णामि । सो ऽहमिदानीं सर्वं पश्यामि । मुक्तो ऽस्मि अन्धभावात् । प्रतिलब्धचक्षुश्चास्मि । न च मे कश्चिद् विशिष्टतरो ऽस्तीति । तेन च समयेन पञ्चाभिज्ञा ऋषयो भवेयुर्दिव्यचक्षुर्दिव्यश्रोत्रपरचित्तज्ञानपूर्वनिवासानुस्मृतिज्ञानर्द्धिविमोक्षक्रियाकुशलाः, ते तं पुरुषमेवं वदेयुः - केवलं भोः पुरुष त्वया चक्षुः प्रतिलब्धम् । न तु भवान् किंचिज्जानाति । कुतो ऽभिमानस्ते समुत्पन्नः? न च ते ऽस्ति प्रज्ञा । न चासि पण्डितः । तमेनमेवं वदेयुः - यदा त्वं भोः पुरुष अन्तर्गृहं निषण्णो बहिरन्यानि रूपाणि न पश्यसि, न च जानासि, नापि ते ये सत्त्वाः स्निग्धचित्ता वा द्रुग्धचित्ता वा । न विजानीषे पञ्चयोजनान्तरस्थितस्य जनस्य भाषमाणस्य । भेरीशङ्खादीनां शब्दं न प्रजानासि, न शृणोषि । क्रोशान्तरमप्यनुत्क्षिप्य पादौ न शक्नोषि गन्तुम् । जातसंवृद्धश्चासि मातुः कुक्षौ । तां च क्रियां न स्मरसि । तत्कथमसि पण्डितः? कथं च सर्वं पश्यामीति
वदसि? तत्साधु भोः पुरुष यदन्धकारं तत्प्रकाशमिति संजानीषे, यच्च प्रकाशं तदन्धकारमिति संजानीषे ॥
अथ स पुरुषस्तान् ऋषीनेवं वदेत् - क उपायः, किं वा शुभं कर्म कृत्वेदृशीं प्रज्ञां प्रतिलभेय, युष्माकं प्रसादाच्चैतान् गुणान् प्रतिलभेय? अथ खलु ते ऋषयस्तस्य पुरुषस्यैवं कथयेयुः - यदीच्छसि, अरण्ये वस । पर्वतगुहासु वा निषण्णो धर्मं चिन्तय । क्लेशाश्च ते प्रहातव्याः । तथा धूतगुणसमन्वागतो ऽभिज्ञाः प्रतिलप्स्यसे । अथ स पुरुषस्तमर्थं गृहीत्वा प्रव्रजितः । अरण्ये वसन् एकाग्रचित्तो लोकतृष्णां प्रहाय पञ्चाभिज्ञाः प्राप्नुयात् । प्रतिलब्धाभिज्ञश्च चिन्तयेत् - यदहं पूर्वमन्यत्कर्म कृतवान्, तेन मे न कश्चिद् गुणो ऽधिगतः । इदानीं यथाचिन्तितं गच्छामि । पूर्वं चाहमल्पप्रज्ञो ऽल्पप्रतिसंवेदी अन्धभूतो ऽस्म्यासीत् ॥

इति हि काश्यप उपमैषा कृता अस्यार्थस्य विज्ञप्तये । अयं च पुनरत्रार्थो द्रष्टव्यः । जात्यन्ध इति काश्यप षड्गतिसंसारस्थितानां सत्त्वानामेतदधिवचनम्, ये सद्धर्मं न जानन्ति, क्लेशतमोन्धकारं च संवर्धयन्ति । ते चाविद्यान्धाः । अविद्यान्धाश्च संस्कारानुपविचिन्वति, संस्कारप्रत्ययं च नामरूपम्, यावदेवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति । एवमविद्यान्धास्तिष्ठन्ति सत्त्वाः संसारे । तथागतस्तु करुणां जनयित्वा त्रैधातुकान्निःसृतः पितेव प्रिये एकपुत्रके करुणां जनयित्वा त्रैधातुके ऽवतीर्य सत्त्वान् संसारचक्रे परिभ्रमतः संपश्यति । न च ते संसारान्निःसरणं प्रजानन्ति । अथ भगवांस्तान् प्रज्ञाचक्षुषा पश्यति । दृष्ट्वा च जानाति - अमी सत्त्वाः पूर्वं कुशलं कृत्वा मन्दद्वेषास्तीव्ररागाः, मन्दरागास्तीव्रद्वेषाः, केचिदल्पप्रज्ञाः, केचित् पण्डिताः, केचित्परिपाकशुद्धाः, केचिन्मिथ्यादृष्टयः । तेषां सत्त्वानां तथागत उपायकौशल्येन त्रीणि यानानि देशयति । तत्र यथा ते ऋषयः पञ्चाभिज्ञा विशुद्धचक्षुषः, एवं बोधिसत्त्वा बोधिचित्तान्युत्पाद्य अनुत्पत्तिकीं धर्मक्षान्तिं प्रतिलभ्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते ॥
तत्र यथासौ महावैद्यः, एवं तथागतो द्रष्टव्यः । यथासौ जात्यन्धस्तथा मोहान्धाः सत्त्वा द्रष्टव्याः । यथा वातपित्तश्लेष्माणः, एवं रागद्वेषमोहाः, द्वाषष्टि च दृष्टिकृतानि द्रष्टव्यानि । यथा चतस्र ओषधयस्तथा शून्यतानिमित्ताप्रणिहितनिर्वाणद्वारं च द्रष्टव्यम् । यथा यथा द्रव्याण्युपयुज्यन्ते, तथा तथा व्याधयः प्रशाम्यन्तीति । एवं शून्यतानिमित्ताप्रणिहितानि विमोक्षमुखानि भावयित्वा सत्त्वा अविद्यां निरोधयन्ति । अविद्यानिरोधात् संस्कारनिरोधः, यावदेवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति । एवं चास्य चित्तं न कुशले तिष्ठति न पापे ॥
यथा अन्धश्चक्षुः प्रतिलभते, तथा श्रावकप्रत्येकबुद्धयानीयो द्रष्टव्यः । संसारक्लेशबन्धनानि च्छिनत्ति । क्लेशबन्धनान्निर्मुक्तः प्रमुच्यते षङ्गतिकात् त्रैधातुकात् । तेन श्रावकयानीयः एवं जानाति, एवं च वाचं भाषते - न सन्त्यपरे धर्मा अभिसंबोद्धव्याः । निर्वाणप्राप्तो ऽस्मीति । अथ खलु तथागतस्तस्मै धर्मं देशयति । येन सर्वधर्मा न प्राप्ताः, कुतस्तस्य निर्वाणमिति? तं भगवान् बोधौ समादापयति । स उत्पन्नबोधिचित्तो न संसारस्थितो न निर्वाणप्राप्तो भवति । सो ऽवबुध्य त्रैधातुकं दशसु दिक्षु शून्यं निर्मितोपमं मायोपमं स्वप्नमरीचिप्रतिश्रुत्कोपमं लोकं पश्यति । स सर्वधर्माननुत्पन्नाननिरुद्धान् अबद्धानमुक्तान् अतमोन्धकारान् नप्रकाशान् पश्यति । य एवं गम्भीरान् धर्मान् पश्यति, स पश्यति अपश्यनया सर्वत्रैधातुकं परिपूर्णमन्योन्यसत्त्वाशयाधिमुक्तम् ॥
अथ खलु भगवानिममेवार्थं भूयस्या मात्रया संदर्शयमानः तस्यां वेलायामिमा गाथा अभाषत -
चन्द्रसूर्यप्रभा यद्वन्निपतन्ति समं नृषु ।
गुणवत्स्वथ पापेषु प्रभाया नोनपूर्णता

5.46

तथागतस्य प्रज्ञाभा समा ह्यादित्यचन्द्रवत् ।
सर्वसत्त्वान् विनयते न चोना नैव चाधिका

5.47

यथा कुलालो मृद्भाण्डं कुर्वन् मृत्सु समास्वपि ।
भवन्ति भाजना तस्य गुडक्षीरधृताम्भसाम्

5.48

अशुचेः कानिचित्तत्र दध्नो ऽन्यानि भवन्ति तु ।
मृदमेकां स गृह्णाति कुर्वन् भाण्डानि भार्गवः

5.49

यादृक् प्रक्षिप्यते द्रव्यं भाजनं तेन लक्ष्यते ।
सत्त्वाविशेषे ऽपि तथा रुचिभेदात्तथागताः

5.50

यानभेदं वर्णयन्ति बुद्धयानं तु निंश्चितम् ।
संसारचक्रस्याज्ञानान्निर्वृतिं न विजानते

5.51

यस्तु शून्यान् विजानाति धर्मानात्मविवर्जितान् ।
संबुद्धानां भगवतां बोधिं जानाति तत्त्वतः

5.52

प्रज्ञामध्यव्यवस्थानात् प्रत्येकजिन उच्यते ।
शून्यज्ञानविहीनत्वाच्छ्रावकः संप्रभाष्यते

5.53

सर्वधर्मावबोधात्तु सम्यक्संबुद्ध उच्यते ।
तेनोपायशतैर्नित्यं धर्मं देशेति प्राणिनाम्

5.54

यथा हि कश्चिज्जात्यन्धः सूर्येन्दुग्रहतारकाः ।
अपश्यन्नेवमाहासौ नास्ति रूपाणि सर्वशः

5.55

जात्यन्धे तु महावैद्यः कारुण्यं संनिवेश्य ह ।
हिमवन्तं स गत्वान तिर्यगूर्ध्वमधस्तथा

5.56

सर्ववर्णरस्थाना नगाल्लभत ओषधीः ।
एवमादीश्चतस्रो ऽथ प्रयोगमकरोत्ततः

5.57

दन्तैः संचूर्ण्य कांचित्तु पिष्ट्वा चान्यां तथापराम् ।
सूच्यग्रेण प्रवेश्याङ्गे जात्यन्धाय प्रयोजयेत्

5.58

स लब्धचक्षुः संपश्येत् सूर्येन्दुग्रहतारकाः ।
एवं चास्य भवेत्पूर्वज्ञानात्तदुदाहृतम्

5.59

एवं सत्त्वा महाज्ञाना जात्यन्धाः संसरन्ति हि ।
प्रतीत्योत्पादचक्रस्य अज्ञानाद्दुःखवर्त्मनः

5.60

एवमज्ञानसंमूढे लोके सर्वविदुत्तमः ।
तथागतो महावैद्य उत्पन्नः करुणात्मकः

5.61

उपायकुशलः शास्ता सद्धर्मं देशयत्यसौ ।
अनुत्तरां बुद्धबोधिं देशयत्यग्रयानिके

5.62

प्रकाशयति मध्यां तु मध्यप्रज्ञाय नायकः ।
संसारभीरवे बोधिमन्यां संवर्णयत्यपि

5.63

त्रैधातुकान्निःसृतस्य श्रावकस्य विजानतः ।
भवत्येवं मया प्राप्तं निर्वाणममलं शिवम्

5.64

तामेव तत्र प्रकाशेमि नैतन्निर्वाणमुच्यते ।
सर्वधर्मावबोधात्तु निर्वाणं प्राप्यते ऽमृतम्

5.65

महर्षयो यथा तस्मै करुणां संनिवेश्य वै ।
कथयन्ति च मूढो ऽसि मा ते ऽभूज्ज्ञानवानहम्

5.66

अभ्यन्तरावस्थितस्त्वं यदा भवसि कोष्ठके ।
बहिर्यद्वर्तते तद्वै न जानीषे त्वमल्पधीः

5.67

यो ऽभ्यन्तरे ऽवस्थितस्तु बहिर्ज्ञातं कृताकृतम् ।
सो अद्यापि न जानाति कुतस्त्वं वेत्स्यसे ऽल्पधीः

5.68

पञ्चयोजनमात्रं तु यः शब्दो निश्चरेदिह ।
तं श्रोतुं न समर्थो ऽसि प्रागेवान्यं विदूरतः

5.69

त्वयि ये पापचित्त वा अनुनीतास्तथापरे ।
ते न शक्यं त्वया ज्ञातुमभिमानः कुतो ऽस्ति ते

5.70

क्रोशमात्रे ऽपि गन्तव्ये पदवीं न विना गतिः ।
मातुः कुक्षौ च यद्वृत्तं विस्मृतं तत्तदेव ते

5.71

अभिज्ञा यस्य पञ्चैताः स सर्वज्ञ इहोच्यते ।
त्वं मोहादप्यकिंचिज्ज्ञः सर्वज्ञो ऽस्मीति भाषसे

5.72

सर्वज्ञत्वं प्रार्थयसे यद्यभिज्ञाभिनिर्हरेः ।
तं चाभिज्ञाभिनिर्हारमरण्यस्थो विचिन्तय ।
धर्मं विशुद्धं तेन त्वमभिज्ञाः प्रतिलप्स्यसे

5.73

सो ऽर्थं गृह्य गतो ऽरण्यं चिन्तयेत् सुसमाहितः ।
अभिज्ञाः प्राप्तवान् पञ्च नचिरेण गुणान्वितः

5.74

तथैव श्रावकाः सर्वे प्राप्तनिर्वाणसंज्ञिनः ।
जिनो ऽथ देशयेत्तस्मै विश्रामो ऽयं न निर्वृतिः

5.75

उपाय एष बुद्धानां वदन्ति यदिमं नयम् ।
सर्वज्ञत्वमृते नास्ति निर्वाणं तत्समारभ

5.76

त्र्यध्वज्ञानमनन्तं च षट् च पारमिताः शुभाः ।
शून्यतामनिमित्तं च प्रणिधानविवर्जितम्

5.77

बोधिचित्तं च ये चान्ये धर्मा निर्वाणगामिनः ।
सास्रवानास्रवाः शान्ताः सर्वे गगनसंनिभाः

5.78

ब्रह्मविहाराश्चत्वारः संग्रहा ये च कीर्तिताः ।
सत्त्वानां विनयार्थाय कीर्तिताः परमर्षिभिः

5.79

यश्च धर्मान् विजानाति मायास्वप्नस्वभावकान् ।
कदलीस्कन्धनिःसारान् प्रतिश्रुत्कासमानकान्

5.80

तत्स्वभावं च जानाति त्रैधातुकमशेषतः ।
अबद्धमविमुक्तं च न विजानाति निर्वृतिम्

5.81

सर्वधर्मान् समान् शून्यान्निर्नानाकरणात्मकान् ।
न चैतान् प्रेक्षते नापि किंचिद्धर्मं विपश्यति

5.82

स पश्यति महाप्रज्ञो धर्मकायमशेषतः ।
नास्ति यानत्रयं किंचिदेकयानमिहास्ति तु

5.83

सर्वधर्माः समाः सर्वे समाः समसमाः सदा ।
एवं ज्ञात्वा विजानाति निर्वाणममृतं शिवम्

मूल पाठ: Saddharmapuṇḍarīkasūtra · Edition: P.L. Vaidya, Darbhanga : The Mithila Institute, 1960 (Buddhist Sanskrit Texts, 6) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc