सद्धर्मपुण्डरीकसूत्र · अध्याय 6
इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये ओषधीपरिवर्तो नाम पञ्चमः ॥
सद्ध्प्_6: व्याकरणपरिवर्तः ।
अथ खलु भगवानिमा गाथा भाषित्वा सर्वावन्तं भिक्षुसंघमामन्त्रयते स्म - आरोचयामि वो भिक्षवः, प्रतिवेदयामि । अयं मम श्रावकः काश्यपो भिक्षुस्त्रिंशतो बुद्धकोटीसहस्राणामन्तिके सत्कारं करिष्यति, गुरुकारं माननां पूजनामर्चनामपचायनां करिष्यति, तेषां च बुद्धानां भगवतां सद्धर्मं धारयिष्यति । स पश्चिमे समुच्छ्रये अवभासप्राप्तायां लोकधातौ महाव्यूहे कल्पे रश्मिप्रभासो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके भविष्यति विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । द्वादश चास्यान्तरकल्पानायुष्प्रमाणं भविष्यति । विंशतिं चास्यान्तरकल्पान् सद्धर्मः स्थास्यति । विंशतिमेवान्तरकल्पान् सद्धर्मप्रतिरूपकः स्थास्यति । तच्चास्य बुद्धक्षेत्रं शुद्धं भविष्यति शुचि अपगतपाषाणशर्करकठल्यमपगतश्वभ्रप्रपातमपगतस्यन्दनिकागूथोलिगल्लं समं रमणीयं प्रासादिकं दर्शनीयं वैडूर्यमयं रत्नवृक्षप्रतिमण्डितं सुवर्णसूत्राष्टापदनिबद्धं पुष्पाभिकीर्णम् । बहूनि च तत्र बोधिसत्त्वशतसहस्राण्युत्पत्स्यन्ते । अप्रमेयाणि च तत्र श्रावककोटीनयुतशतसहस्राणि भविष्यन्ति । न च तत्र मारः पापीयानवतारं लप्स्यते, न च मारपर्षत् प्रज्ञास्यते । भविष्यन्ति तत्र खलु पुनर्मारश्च मारपर्षदश्च । अपि तु खलु पुनस्तत्र लोकधातौ तस्यैव भगवतो रश्मिप्रभासस्य तथागतस्य शासने सद्धर्मपरिग्रहायाभियुक्ता भविष्यन्ति ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
पश्याम्यहं भिक्षव बुद्धचक्षुषा स्थविरो ह्ययं काश्यप बुद्ध भेष्यति ।
अनागते ऽध्वानि असंख्यकल्पे कृत्वान पूजां द्विपदोत्तमानाम्
त्रिंशत्सहस्राः परिपूर्णकोट्यो जिनानयं द्रक्ष्यति काश्यपो ह्ययम् ।
चरिष्यती तत्र च ब्रह्मचर्यं बौद्धस्य ज्ञानस्य कृतेन भिक्षवः
कृत्वान पूजां द्विपदोत्तमानां समुदानिय ज्ञानमिदं अनुत्तरम् ।
स पश्चिमे चोच्छ्रयि लोकनाथो भविष्यते अप्रतिमो महर्षिः
क्षेत्रं च तस्य प्रवरं भविष्यति विचित्र शुद्धं शुभ दर्शनीयम् ।
मनोज्ञरूपं सद प्रेमणीयं सुवर्णसूत्रैः समलंकृतं च
रत्नामया वृक्ष तहिं विचित्रा अष्टापदस्मिं तहि एकमेके ।
मनोज्ञगन्धं च विमुञ्चमाना भेष्यन्ति क्षेत्रस्मि इमस्मि भिक्षो
पुष्पप्रकारैः समलंकृतं च विचित्रपुष्पैरुपशोभितं च ।
श्वभ्रप्रपाता न च तत्र सन्ति समं शिवं भेष्यति दर्शनीयम्
तहि बोधिसत्त्वान सहस्रकोट्यः सुदान्तचित्तान महर्द्धिकानाम् ।
वैपुल्यसूत्रान्तधराण तायिनां बहू भविष्यन्ति सहस्र नेके
अनास्रवा अन्तिमदेहधारिणो भेष्यन्ति ये श्रावक धर्मराज्ञः ।
प्रमाणु तेषां न कदाचि विद्यते दिव्येन ज्ञानेन गणित्व कल्पान्
सो द्वादश अन्तरकल्प स्थास्यति सद्धर्म विंशान्तरकल्प स्थास्यति ।
प्रतिरूपकश्चान्तरकल्प विंशतिं रश्मिप्रभासस्य वियूह भेष्यति
अथ खल्वायुष्मान् महामौद्गल्यायनः स्थविर आयुष्मांश्च सुभूतिरायुष्मांश्च महाकात्यायनः प्रवेपमानैः कायैर्भगवन्तमनिमिषैर्नेत्रैर्व्यवलोकयन्ति स्म ।
तस्यां च वेलायां पृथक् पृथङमनःसंगीत्या इमा गाथा अभाषन्त -
अर्हन्त हे महावीर शाक्यसिंह नरोत्तम ।
अस्माकमनुकम्पाय बुद्धशब्दमुदीरय
अवश्यमवसरं ज्ञात्वा अस्माकं पि नरोत्तम ।
अमृतेनेव सिञ्चित्वा व्याकुरुष्व विभोजन
दुर्भिक्षादागतः कश्चिन्नरो लब्ध्वा सुभोजनम् ।
प्रतीक्ष भूय उच्येत हस्तप्राप्तस्मि भोजने
एवमेवोत्सुका अस्मो हीनयानं विचिन्तय ।
दुष्कालभुक्तसत्त्वा वा बुद्धज्ञानं लभामहे
न तावदस्मान् संबुद्धो व्याकरोति महामुनिः ।
यथा हस्तस्मि प्रक्षिप्तं न तद्भुञ्जीत भोजनम्
एवं च उत्सुका वीर श्रुत्वा घोषमनुत्तरम् ।
व्याकृता यद भेष्यामस्तदा भेष्याम निर्वृताः
व्याकरोहि महावीर हितैषी अनुकम्पकः ।
अपि दारिद्र्यचित्तानां भवेदन्तो महामुने
अथ खलु भगवांस्तेषा महाश्रावकाणां स्थविराणामिममेवंरूपं चेतसैव चेतःपरिवितर्कमाज्ञाय पुनरपि सर्वावन्तं भिक्षुसंघमामन्त्रयते स्म - अयं मे भिक्षवो महाश्रावकः स्थविरः सुभूतिस्त्रिंशत एव बुद्धकोटीनयुतशतसहस्राणां सत्कारं करिष्यति, गुरुकारं माननां पूजनामर्चनामपचायनां करिष्यति । तत्र च ब्रह्मचर्यं चरिष्यति, बोधिं च समुदानयिष्यति । एवंरूपांश्चाधिकारान् कृत्वा पश्चिमे समुच्छ्रये शशिकेतुर्नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके भविष्यति विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । रत्नसंभवं च नामास्य तद् बुद्धक्षेत्रं भविष्यति । रत्नावभासश्च नाम स कल्पो भविष्यति । समं च तद् बुद्धक्षेत्रं भविष्यति, रमणीयं स्फटिकमयं रत्नवृक्षविचित्रितमपगतश्वभ्रप्रपातमपगतगूथोलिगल्लं मनोज्ञं पुष्पाभिकीर्णम् । कूटागारपरिभोगेषु चात्र पुरुषा वासं कल्पयिष्यन्ति । बहवश्चास्य श्रावका भविष्यन्त्यपरिमाणाः, येषां न शक्यं गणनया पर्यन्तो ऽधिगन्तुम् । बहूनि चात्र बोधिसत्त्वकोटीनयुतशतसहस्राणि भविःयन्ति । तस्य च भगवतो द्वादशान्तरकल्पानायुःप्रमाणं भविःयति । विंशतिं चान्तरकल्पान् सद्धर्मः स्थास्यति । विंशतिमेवान्तरकल्पान् सद्धर्मप्रतिरूपकः स्थास्यति । स च भगवान् वैहायसमन्तरीक्ःए स्थित्वा अभीक्ःणं धर्मं देशयिःयति, बहूनि च बोधिसत्त्वशतसहस्राणि बहूनि च श्रावकशतसहस्राणि विनेःयति ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
आरोचयामि अहमद्य भिक्षवः प्रतिवेदयाम्यद्य ममा शृणोथ ।
स्थविरः सुभूतिर्मम श्रावको ऽयं भविष्यते बुद्ध अनागते ऽध्वनि
बुद्धांश्च पश्यित्व महानुभावान् त्रिंशच्च पूर्णानयुतान कोटीः ।
चरिष्यते चर्य तदानुलोमिकीमिमस्य ज्ञानस्य कृतेन चैषः
स पश्चिमे वीर समुच्छ्रयस्मिन् द्वात्रिंशतीलक्षणरूपधारी ।
सुवर्णयूपप्रतिमो महर्षिर्भविष्यते लोकहितानुकम्पी
सुदर्शनीयं च सुक्षेत्र भेष्यति इष्टं मनोज्ञं च महाजनस्य ।
विहरिष्यते यत्र स लोकबन्धुस्तारित्व प्राणीनयुतान कोटीः
बहुबोधिसत्त्वात्र महानुभावा अविवर्त्यचक्रस्य प्रवर्तितारः ।
तीक्ष्णेन्द्रियास्तस्य जिनस्य शासने ये शोभयिष्यन्ति त बुद्धक्षेत्रम्
बहुश्रावकास्तस्य न संख्य तेषां प्रमाणु नैवास्ति कदाचि तेषाम् ।
षडभिज्ञ त्रैविद्य महर्द्धिकाश्च अष्टाविमोक्षेषु प्रतिष्ठिताश्च
अचिन्तियं ऋद्धिबलं च भेष्यति प्रकाशयन्तस्यिममग्रबोधिम् ।
देवा मनुष्या यथ गङ्गवालिका भेष्यन्ति तस्यो सततं कृताञ्जली
सो द्वादशो अन्तरकल्प स्थास्यपि सद्धर्मु विंशान्तरकल्प स्थास्यति ।
प्रतिरूपको विंशतिमेव स्थास्यति कल्पान्तराणि द्विपदोत्तमस्य
अथ खलु भगवान् पुनरेव सर्वावन्तं भिक्षुसंघमामन्त्रयते स्म - आरोचयामि वो भिक्षयः, प्रतिवेदयामि । अयं मम श्रावकः स्थविरो महाकात्यायनो ऽष्टानां बुद्धकोटीशतसहस्राणामन्तिके सत्कारं करिष्यति, गुरुकारं माननां पूजनामर्चनामपचायनां करिष्यति । परिनिर्वृतानां च तेषां तथागतानां स्तूपान् करिष्यति योजनसहस्रं समुच्छ्रयेण पञ्चाशद् योजनानि परिणाहेन सप्तानां रत्नानाम् । तद्यथा सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य लोहितमुक्तेरश्मर्गभस्य मुसारगल्वस्य सप्तमस्य रत्नस्य । तेषां च स्तूपानां पूजां करिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिश्च ( वैद्य 101 ) । ततश्च भूयः परेण परतरेण पुनर्विशतीनां बुद्धकोटीनामन्तिके एवरूपमेव सत्कारं करिष्यति, गुरुकारं माननां पूजनामर्चनामपचायनां करिष्यति । स पश्चिमे समुच्छ्रये पश्चिमे आत्मभावप्रतिलम्भे जाम्बूनदप्रभासो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके भविष्यति विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवन् । परिशुद्धं चास्य बुद्धक्षेत्रं भविष्यति समं रमणीयं प्रासादिकं दर्शनीयं स्फटिकमयं रत्नवृक्षाभिविचित्रितं सुवर्णसूत्राच्छोडितं पुष्पसंस्तरसंस्तृतमपगतनिरयतिर्यग्योनियमलोकासुरकायं बहुनरदेवप्रतिपूर्णं बहुश्रावकःअतसहस्रोपःओभितं बहुबोधिसत्त्वःअतसहस्रालंकृतम् । द्वादःअ चास्य अन्तरकल्पानायुष्प्रमाणं भविष्यति । विंःअतिं चास्य अन्तरकल्पान् सद्धर्मः स्थास्यति । विंःअतिमेवान्तरकल्पान् सद्धर्मप्रतिरूपकः स्थास्यति ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
शृणोथ मे भिक्षव अद्य सर्वे उदाहरन्तस्य गिरामनन्यथाम् ।
कात्यायनः स्थविरु अयं मि श्रावकः करिष्यते पूज विनायकानाम्
सत्कारु तेषां च बहुप्रकारं बहूविधं लोकविनायकानाम् ।
स्तूपांश्च कारापयि निर्वृतानां पुष्पेहि गन्धेहि च पूजयिष्यति
लभित्व सो पश्चिमकं समुच्छ्रयं परिशुद्धक्षेत्रस्मि जिनो भविष्यति ।
परिपूरयित्वा इममेव ज्ञानं देशेष्यते प्राणिसहस्रकोटिनाम्
स सत्कृतो लोकि सदेवकस्मिन् प्रभाकरो बुद्ध विभुर्भविष्यति ।
जाम्बूनदाभासु स चापि नाम्ना संतारको देवमनुष्यकोटिनाम्
बहुबोधिसत्त्वास्तथ श्रावकाश्च अमिता असंख्या पि च तत्र क्षेत्रे ।
उपशोभयिष्यन्ति ति बुद्धशासनं भवप्रहीणा विभवाश्च सर्वे
अथ खलु भगवान् पुनरेव सर्वावन्तं भिक्षुसंघमामन्त्रयते स्म - आरोचयामि वो भिक्षवः, प्रतिवेदयामि । अयं मम श्रावकः स्थविरो महामौद्गल्यायनो ऽष्टाविंशतिबुद्धसहस्राण्यारागयिष्यति, तेषां च बुद्धानां भगवतां विविधं सत्कारं करिष्यति, गुरुकारं माननां पूजनामर्चनामपचायनां करिष्यति । परिनिर्वृतानां च तेषां बुद्धानां भगवतां स्तूपान् कारयिष्यति सप्तरत्नमयान् । तद्यथा सुवर्णस्य रूप्यस्य वैदूर्यस्य स्फटिकस्य लोहितमुक्तेरश्मगर्भस्य मुसारगल्वस्य । योजनसहस्रं समुच्छ्रयेण पञ्चयोजनशतानि परिणाहेन । तेषां च स्तूपानां विविधां पूजां करिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिः । ततश्च भूयः परेण परतरेण विंशतेर्बुद्धकोटीशतसहस्राणामेवंरूपमेव सत्कारं करिष्यति, गुरुकारं माननां पूजनामर्चनामपचायनां करिष्यति । पश्चिमे च आत्मभावप्रतिलम्भे तमालपत्रचन्दनगन्धो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके भविष्यति विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । मनोभिरामं च नामास्य तद्बुद्धक्षेत्रं भविष्यति । रतिप्रपूर्णश्च नाम स कल्पो भविष्यति । परिशुद्धं चास्य तद्बुद्धक्षेत्रं भविष्यति, समं रमणीयं प्रासादिकं सुदर्शनीयं स्फटिकमयं रत्नवृक्षाभिविचित्रितं मुक्तकुसुमाभिकीर्णं बहुनरदेवप्रतिपूर्णमृषिशतसहस्रनिषेवितं यदुत श्रावकैश्च बोधिसत्त्वैश्च । चतुर्विशतिं चास्य अन्तरकल्पानायुष्प्रमाणं भविष्यति । चत्वारिंशच्च अन्तरकल्पान् सद्धर्मः स्थास्यति । चत्वारिंशदेव अन्तरकल्पान् सद्धर्मप्रतिरूपकः स्थास्यति ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
मौद्गल्यगोत्रो मम श्रावको ऽयं जहित्व मानुष्यकमात्मभावम् ।
विंशत्सहस्राणि जिनान तायिनामन्यांश्च अष्टौ विरजान द्रक्ष्यति
चरिष्यते तत्र च ब्रह्मचर्यं बौद्धं इमं ज्ञान गवेषमाणः ।
सत्कारु तेषां द्विपदोत्तमानां विविधं तदा काहि विनायकानाम्
सद्धर्मु तेषां विपुलं प्रणीतं धारेत्व कल्पान सहस्रकोट्यः ।
पूजां च स्तूपेषु करिष्यते तदा परिनिर्वृतानां सुगतान तेषाम्
रत्नामयान् स्तूप सवैजयन्तान् करिष्यते तेष जिनोत्तमानाम् ।
पुष्पेहि गन्धेहि च पूजयन्तो वाद्येहि वा लोकहितानुकम्पिनाम्
तत्पश्चिमे चैव समुच्छ्रयस्मिन् प्रियदर्शने तत्र मनोज्ञक्षेत्रे ।
भविष्यते लोकहितानुकम्पी तमालपत्रचन्दनगन्ध नाम्ना
चतुर्विशपूर्णान्तरकल्प तस्य आयुष्प्रमाणं सुगतस्य भेष्यति ।
प्रकाशयन्तस्यिम बुद्धनेत्रीं मनुजेषु देवेषु च नित्यकालम्
बहुश्रावकातस्य जिनस्य तत्र कोटी सहस्रा यथ गङ्गवालिकाः ।
षडभिज्ञ त्रैविद्य महर्द्धिकाश्च अभिज्ञप्राप्ताः सुगतस्य शासने
अवैवर्तिकाश्चो बहुबोधिसत्त्वा आरब्धवीर्याः सद संप्रजानाः ।
अभियुक्तरूपाः सुगतस्य शासने तेषां सहस्राणि बहूनि तत्र
परिनिर्वृतस्यापि जिनस्य तस्य सद्धर्मु संस्थास्यति तस्मि काले ।
विंशच्च विंशान्तरकल्प पूर्णा एतत्प्रमाणं प्रतिरूपकस्य
महर्द्धिकाः पञ्च मि श्रावका ये निर्दिष्ट ये ते मय अग्रबोधये ।
अनागते ऽध्वानि जिनाः स्वयंभुवस्तेषां च चर्यां शृणुथा ममान्तिकात्
मूल पाठ: Saddharmapuṇḍarīkasūtra · Edition: P.L. Vaidya, Darbhanga : The Mithila Institute, 1960 (Buddhist Sanskrit Texts, 6) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0