सद्धर्मपुण्डरीकसूत्र · अध्याय 24
अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तस्यां वेलायामिमां गाथां भाषित्वा तं भगवन्तं चन्द्रसूर्यविमलप्रभासश्रियं संकुसुमिताभिज्ञ स भगवांश्चन्द्रसूर्यविमलप्रभासश्रीस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तं सर्वसत्त्वप्रियदर्शनं बोधिसत्त्वं महासत्त्वमेतदवोचत् - परिनिर्वाणकालसमयो मे कुलपुत्र अनुप्राप्तः, क्षयान्तकालो मे कुलपुत्र अनुप्राप्तः । तद्गच्छ त्वं कुलपुत्र, मम मञ्चं प्रज्ञपयस्व, परिनिर्वायिष्यामीति ॥
अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स भगवांश्चन्द्रसूर्यविमलप्रभासश्रीस्तथागतस्तं सर्वसत्त्वप्रियदर्शनं बोधिसत्त्वं महासत्त्वमेतदवोचत् - इदं च ते कुलपुत्र शासनमनुपरिन्दामि, ( वैद्य 239 ) इमांश्च बोधिसत्त्वान् महासत्त्वान्, इमांश्च महाश्रावकान्, इमां च बुद्धबोधिम्, इमां च लोकधातुम्, इमानि च रत्नव्योमकानि, इमानि च रत्नवृक्षाणि, इमांश्च देवपुत्रान्, ममोपस्थायकाननुपरिन्दामि । परिनिर्वृतस्य च मे कुलपुत्र ये धातवस्ताननुपरिन्दामि । आत्मना च त्वया कुलपुत्र मम धातूनां विपुला पूजा कर्तव्या । वैस्तारिकाश्च ते धातवः कर्तव्याः । स्तूपानां च बहूनि सहस्राणि कर्तव्यानि । अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स भगवांश्चन्द्रसूर्यविमलप्रभासश्रीस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तं सर्वसत्त्वप्रियदर्शनं बोधिसत्त्वं महासत्त्वमेवमनुशिष्य तस्यामेव रात्र्यां पश्चिमे यामे अनुपधिशेषे निर्वाणधातौ परिनिर्वृतो ऽभूत् ॥
अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तं भगवन्त चन्द्रसूर्यविमलप्रभासश्रियं तथागतं परिनिर्वृतं विदित्वा उरगसारचन्दनचित्तां कृत्वा तं तथागतात्मभावं संप्रज्वालयामास । दग्धं निशान्तं च तथागतात्मभावं विदित्वा ततो धातून् गृहीत्वा रोदति क्रन्दति परिदेवते स्म । अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वो रुदित्वा क्रन्दित्वा परिदेवित्वा सप्तरत्नमयानि चतुरशीतिकुम्भसहस्राणि कारयित्वा तेषु तांस्तथागतधातून् प्रक्षिप्य सप्तरत्नमयानि चतुरशीतिस्तूपसहस्राणि प्रतिष्ठापयामास, यावद् ब्रह्मलोकमुच्चैस्त्वेन, छत्रावलीसमलंकृतानि पट्टघण्टासमीरितानि च । स तान् स्तूपान् प्रतिष्ठाप्य एवं चिन्तयामास - कृता मया तस्य भगवतश्चन्द्रसूर्यविमलप्रभासश्रियस्तथागतस्य धातूनां पूजा । अतश्च भूय उत्तरि विशिष्टतरां तथागतधातूनां पूजां करिष्यामीति । अथ खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तं सर्वावन्तं बोधिसत्त्वगणं तांश्च महाश्रावकांस्तांश्च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यगणानामन्त्रयामास - सर्वे यूयं कुलपुत्राः समन्वाहरध्वम् । तस्य भगवतो धातूनां पूजां करिष्याम इति । अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तस्यां वेलायां तेषां चतुरशीतीनां तथागतधातुस्तूपसहस्राणां पुरस्ताच्छतपुण्यविचित्रितं स्वं बाहुमादीपयामास । आदीप्य च द्वासप्ततिवर्षसहस्राणि तेषां तथागतधातुस्तूपानां पूजामकरोत् । पूजां च कुर्वता तस्याः पर्षदो ऽसंख्येयानि श्रावककोटीनयुतशतसहस्राणि विनीतानि । सर्वैश्च तैर्बोधिसत्त्वैः सर्वरूपसंदर्शनसमाधिः प्रतिलब्धो ऽभूत् ॥
अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वावान् बोधिसत्त्वगणः, ते च सर्वे महाश्रावकाः, तं सर्वसत्त्वप्रियदर्शनं बोधिसत्त्वं महासत्त्वमङ्गहीनं दृष्ट्वा अश्रुमुखा रुदन्तः क्रन्दन्तः परिदेवमानाः परस्परमेतदूचुः - अयं सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वो ऽस्माकमाचार्यो ऽनुशासकः । सो ऽयं सांप्रतमङ्गहीनो बाहुहीनः संवृत्त इति । अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तान् बोधिसत्त्वांस्तांश्च महाश्रावकांस्तांश्च देवपुत्रानामन्त्रयामास - मा यूयं कुलपुत्रा मामङ्गहीनं दृष्ट्वा रुदत, मा ( वैद्य 240 ) क्रदन्त, मा परिदेवध्वम् । एषो ऽहं कुलपुत्रा ये केचिद्दशसु दिक्षु अनन्तापर्यन्तासु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति, तान् सर्वान् बुद्धान् भगवतः साक्षिणः कृत्वा तेषां पुरतः सत्त्वाधिष्ठानं करोमि, येन सत्येन सत्यवचनेन स्वं मम बाहुं तथागतपूजाकर्मणे परित्यज्य सुवर्णवर्णो मे कायो भविष्यति । तेन सत्येन सत्यवचनेन अयं मम बाहुर्यथापौराणो भवतु, इयं च महापृथिवी षड्विकारं प्रकम्पतु, अन्तरीक्षगताश्च देवपुत्रा महापुष्पवर्षं प्रवर्षन्तु । अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ समनन्तरकृते ऽस्मिन् सत्याधिष्ठाने तेन सर्वसत्त्वप्रियदर्शनेन बोधिसत्त्वेन महासत्त्वेन, अथ खल्वियं त्रिसाहस्रमहासाहस्री लोकधातुः षड्विकारं प्रकम्पिता, उपर्यन्तरीक्षाच्च महापुष्पवर्षमभिप्रवर्षितम् । तस्य च सर्वसत्त्वप्रियदर्शनस्य बोधिसत्त्वस्य महासत्त्वस्य स बाहुर्यथापौराणः संस्थितो ऽभूत्, यदुत तस्यैव बोधिसत्त्वस्य महासत्त्वस्य ज्ञानबलाधानेन पुण्यबलाधानेन च । स्यात् खलु पुनस्ते नक्षत्रराजसंकुसुमिताभिज्ञ काङ्क्षा वा विमतिर्वा विचिकित्सा वा - अन्यः स तेन कालेन तेन समयेन सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वो ऽभूत्? न खलु पुनस्ते नक्षत्रराजसंकुसुमिताभिज्ञ एवं द्रष्टव्यम् । तत्कस्य हेतोः? अयं स नक्षत्रराजसंकुसुमिताभिज्ञ भैषज्यराजो बोधिसत्त्वो महासत्त्वस्तेन कालेन तेन समयेन सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वो ऽभूत् । इयन्ति नक्षत्रराजसंकुसुमिताभिज्ञ भैषज्यराजो बोधिसत्त्वो महासत्त्वो दुष्करकोटीनयुतशतसहस्राणि करोति,
आत्मभावपरित्यागांश्च करोति । बहुतरं खल्वपि स नक्षत्रराजसंकुसुमिताभिज्ञ बोधिसत्त्वयानसंप्रस्थितः कुलपुत्रो वा कुलदुहिता वा इमामनुत्तरां सम्यक्संबोधिमाकाङ्क्षमाणो यः पादाङ्गुष्ठं तथागतचैत्येष्वादीपयेत् । एकां हस्ताङ्गुलिं पादाङ्गुलिं वा एकाङ्गं वा बाहुमादीपयेत्, बोधिसत्त्वयानसंप्रस्थितः स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्याभिसंस्कारं प्रसवति । न त्वेव राज्यपरित्यागान्न प्रियपुत्रदुहितृभार्यापरित्यागान्न त्रिसाहस्रमहासाहस्रीलोकधातोः सवनसमुद्रपर्वतोत्ससरस्तडागकूपारामायाः परित्यागात् । यश्च खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ बोधिसत्त्वयानसंप्रस्थितः कुलपुत्रो वा कुलदुहिता वा इमां त्रिसाहस्रमहासाहस्रीं लोकधातुं सप्तरत्नपरिपूर्णां कृत्वा सर्वबुद्धबोधिसत्त्वश्रावकप्रत्येकबुद्धेभ्यो दानं दद्यात्, स नक्षत्रराजसंकुसुमिताभिज्ञ कुलपुत्रो वा कुलदुहिता वा तावत् पुण्यं प्रसवति, यावत् स कुलपुत्रो वा कुलदुहिता वा यः इतः सद्धर्मपुण्डरीकाद्धर्मपर्यायादन्तशश्चतुष्पादिकामपि गाथां धारयेत्, इमं तस्य बहुतरं पुण्याभिसंस्कारं वदामि । न त्वेवं इमां त्रिसाहस्रमहासाहस्रीं लोकधातुं सप्तरत्नपरिपूर्णां कृत्वा दानं ददतस्तस्य सर्वबुद्धबोधिसत्त्वश्रावकप्रत्येकबुद्धेभ्यः ॥
तद्यथापि नाम नक्षत्रराजसंकुसुमिताभिज्ञ सर्वेषामुत्ससरस्तडागानां महासमुद्रो मूर्धप्राप्तः, एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ सर्वेषां तथागतभाषितानां सूत्रान्तानामयं सद्धर्मपुण्डरीको धर्मपर्यायो मूर्धप्राप्तः । तद्यथापि नाम नक्षत्रराजसंकुसुमिताभिज्ञ सर्वेषां कालपर्वतानां चक्रवालानां महाचक्रवालानां च सुमेरुः पर्वतराजो मूर्धप्राप्तः, एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ ( वैद्य 241 ) अयं सद्धर्मपुण्डरीको धर्मपर्यायः सर्वेषां तथागतभाषितानां सूत्रान्तानां राजा मूर्धप्राप्तः । तद्यथापि नाम नक्षत्रराजसंकुसुमिताभिज्ञ सर्वेषां नक्षत्राणां चन्द्रमाः प्रभाकरो ऽग्रप्राप्तः, एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ सर्वेषां तथागतभाषितानां सूत्रान्तानामयं सद्धर्मपुण्डरीको धर्मपर्यायश्चन्द्रकोटीनयुतशतसहस्रातिरेकप्रभाकरो ऽग्रप्राप्तः । तद्यथापि नाम नक्षत्रराजसंकुसुमिताभिज्ञ सूर्यमण्डलं सर्वं तमोन्धकारं विधमति, एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ अयं सद्धर्मपुण्डरीको धर्मपर्यायः सर्वाकुशलतमोन्धकारं विधमति । तद्यथापि नाम नक्षत्रराजसंकुसुमिताभिज्ञ त्रायस्त्रिंशानां देवानां शक्रो देवानामिन्द्रः, एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ अयं सद्धर्मपुण्डरीको धर्मपर्यायः सर्वेषां तथागतभाषितानां सूत्रान्तानामिन्द्रः । तद्यथापि नाम नक्षत्रराजसंकुसुमिताभिज्ञ ब्रह्मा सहांपतिः सर्वेषां ब्रह्मकायिकानां देवानां राजा ब्रह्मलोके पितृकार्यं करोति, एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ अयं सद्धर्मपुण्डरीको धर्मपर्यायः सर्वेषां सत्त्वानां शैक्षाशैक्षाणां च सर्वश्रावकाणां प्रत्येकबुद्धानां बोधिसत्त्वयानसंप्रस्थितानां च पितृकार्यं करोति । तद्यथापि नाम नक्षत्रराजसंकुसुमिताभिज्ञ सर्वबालपृथग्जनानतिक्रान्तः स्रोतआपन्नः सकृदागामी अनागामी अर्हन् प्रत्येकबुद्धश्च, एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ अयं सद्धर्मपुण्डरीको धर्मपर्यायः सर्वांस्तथागतभाषितान् सूत्रान्तानतिक्रम्य अभ्युद्गतो मूर्धप्राप्तो वेदितव्यः । ते ऽपि नक्षत्रराजसंकुसुमिताभिज्ञ सत्त्वा
मूर्धप्राप्ता वेदितव्याः, ये खल्विमं सूत्रराजं धारयिष्यन्ति । तद्यथापि नाम नक्षत्रराजसंकुसुमिताभिज्ञ सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वो ऽग्र आख्यायते, एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ अयं सद्धर्मपुण्डरीको धर्मपर्यायः सर्वेषां तथागतभाषितानां सुत्रान्तानामग्र आख्यायते । तद्यथापि नाम नक्षत्रराजसंकुसुमिताभिज्ञ सर्वेषां श्रावकप्रत्येकबुद्धबोधिसत्त्वानां तथागतो धर्मराजः पट्टबद्धः, एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ अयं सद्धर्मपुण्डरीको धर्मपर्यायस्तथागतभूतो बोधिसत्त्वयानसंप्रस्थितानाम् । त्राता खल्वपि नक्षत्रराजसंकुसुमिताभिज्ञ अयं सद्धर्मपुण्डरीको धर्मपर्यायः सर्वसत्त्वानां सर्वभयेभ्यः, विमोचकः सर्वदुःखेभ्यः । तडाग इव तृषितानामग्निरिव शीतार्तानां चैलमिव नग्नानां सार्थवाह इव वणिजानां मातेव पुत्राणां नौरिव पारगामिनां वैद्य इव आतुराणां दीप इव तमोन्धकारावृतानां रत्नमिव धनार्थिनां चक्रवर्तीव सर्वकोट्टराजानां समुद्र इव सरितामुल्केव सर्वतमोन्धकारविधमनाय । एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ अयं सद्धर्मपुण्डरीको धर्मपर्यायः सर्वदुःखप्रमोचकः सर्वव्याधिच्छेदकः सर्वसंसारभयबन्धनसंकटप्रमोचकः । येन चायं नक्षत्रराजसंकुसुमिताभिज्ञ सद्धर्मपुण्डरीको धर्मपर्यायः श्रुतो भविष्यति, यश्च लिखति, यश्च लेखयति, एषां नक्षत्रराजसंकुसुमिताभिज्ञ पुण्याभिसंस्काराणां बौद्धेन ज्ञानेन न शक्यं पर्यन्तो ऽधिगन्तुम्, यावन्तं पुण्याभिसंस्कारं स कुलपुत्रो वा कुलदुहिता वा प्रसविष्यति । य इमं धर्मपर्यायं धारयित्वा वाचयित्वा वा देशयित्वा वा श्रुत्वा वा लिखित्वा ( वैद्य 242 ) वा पुस्तकगतं वा कृत्वा सत्कुर्यात् गुरुकुर्यान्मानयेत् पूजयेत् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकवैजयन्तीभिर्वाद्यवस्त्राञ्जलिकर्मभिर्वा घृतप्रदीपैर्वा गन्धतैलप्रदीपैर्वाचम्पकतैलप्रदीपैर्वा सुमनातैलप्रदीपैर्वा पाटलतैलप्रदिपैर्वा वार्षिकतैलप्रदीपैर्वा नवमालिकातैलप्रदीपैर्वा बहुविधाभिश्च पूजाभिः सत्कारं कुर्याद् गुरुकारं कुर्यात् माननां कुर्यात् पूजनां कुर्यात्, बहु स नक्षत्रराजसंकुसुमिताभिज्ञ बोधिसत्त्वयानसंप्रस्थितः
कुलपुत्रो वा कुलदुहिता वा पुण्यं प्रसविष्यति य इमं भैषज्यराजपूवयोगपरिवर्तं धारयिष्यति वाचयिष्यति श्रोष्यति । सचेत् पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ मातृग्राम इमं धर्मपर्यायं श्रुत्वा उद्गहीष्यति धारयिष्यति तस्य स एव पश्चिमः स्त्रीभावो भविष्यति । यः कश्चिन्नक्षत्रराजसंकुसुमिताभिज्ञ इमं भैषज्यराजपूर्वयोगपरिवर्तं पश्चिमायां पञ्चाशत्यां श्रुत्वा मातृग्रामः प्रतिपत्स्यते स खल्वतश्च्युतः सुखावत्यां लोकधातावुपपत्स्यते यस्यां स भगवानमितायुस्तथागतो ऽर्हन् सम्यक्संबुद्धो बोधिसत्त्वगणपरिवृतस्तिष्ठति ध्रियते यापयति । स तस्यां पद्मगर्भे सिंहासने निषण्ण उपपत्स्यते । न च तस्य रागो व्याबाधिष्यते, न द्वेषो न मोहो न मानो न मात्सर्यं न क्रोधो न व्यापादः । सहोपपन्नाश्च पञ्चाभिज्ञाः प्रतिलप्स्यते । अनुत्पत्तिकधर्मक्षान्तिं च प्रतिलप्स्यते । अनुत्पत्तिकधर्मक्षान्तिप्रतिलब्धः स खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ बोधिसत्त्वो महासत्त्वो द्वासप्ततिगङ्गानदीवालिकासमांस्तथागतान् द्रक्ष्यति । तादृशं चास्य चक्षुरिन्द्रियं परिशुद्धं भविष्यति, येन चक्षुरिन्द्रियेण परिशुद्धेन तान् बुद्धान् भगवतो द्रक्ष्यति । ते चास्य बुद्धा भगवन्तः साधुकारमनुप्रदास्यन्ति - साधु साधु कुलपुत्र, यत्त्वया सद्धर्मपुण्डरीकं धर्मपर्यायं श्रुत्वा तस्य भगवतः शाक्यमुनेस्तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रवचने उद्दिष्टं स्वाध्यायितं भावितं चिन्तितं मनसि कृतं परसत्त्वानां च संप्रकाशितम्, अयं ते कुलपुत्र पुण्याभिसंस्कारो न शक्यमग्निना दग्धुं नोदकेन हर्तुम् । अयं ते कुलपुत्र पुण्याभिसंस्कारो न शक्यं बुद्धसहेस्रेणापि निर्देष्टुम् । विहतमारप्रत्यर्थिकस्त्वं कुलपुत्र उत्तीर्णभयसंग्रामो मर्दितशत्रुकण्टकः । बुद्धशतसहस्राधिष्ठितो ऽसि । न तव कुलपुत्र सदेवके लोके समारके सब्रह्मके सश्रमणब्राह्मणिकायां प्रजायां सदृशो विद्यते तथागतमेकं विनिर्मुच्य । नान्यः कश्चिच्छ्रावको वा प्रत्येकबुद्धो वा बोधिसत्त्वो वा यस्त्वां शक्तः पुण्येन वा प्रज्ञया वा समाधिना वा अभिभवितुम् । एवं ज्ञानबलाधानप्राप्तः स नक्षत्रराजसंकुसुमिताभिज्ञ बोधिसत्त्वो भविष्यति ॥
यः कश्चिन्नक्षत्रराजसंकुसुमिताभिज्ञ इमं भैषज्यराजपूर्वयोगपरिवर्तं भाष्यमाणं श्रुत्वा साधुकारमनुप्रदास्यति, तस्योत्पलगन्धो मुखाद्वास्यति, गात्रेभ्यश्चास्य चन्दनगन्धो भविष्यति । य इह धर्मपर्याये साधुकारं दास्यति, तस्येम एवंरूपा दृष्टधार्मिका गुणानुशंसा भविष्यन्ति, ( वैद्य 243 ) ये मयैतर्हि निर्दिष्टाः । तस्मात्तर्हि नक्षत्रराजसंकुसुमिताभिज्ञ अनुपरिन्दाम्यहमिमं सर्वसत्त्वप्रियदर्शनस्य बोधिसत्त्वस्य महासत्त्वस्य पूर्वयोगपरिवर्तम्, यथा पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्चाशत्यां वर्तमानायामस्मिन् जम्बुद्वीपे प्रचरेत्, नान्तर्धानं गच्छेत्, न च मारः पापीयानवतारं लभेत्, न मारकायिका देवताः, न नागा न यक्षा न गन्धर्वा न कुम्भाण्डा अवतारं लभेयुः । तस्मात्तर्हि नक्षत्रराजसंकुसुमिताभिज्ञ अधितिष्ठामीमं धर्मपर्यायमस्मिन् जम्बुद्वीपे । भैषज्यभूतो भविष्यति ग्लानानां सत्त्वानां व्याधिस्पृष्टानाम् । इमं धर्मपर्यायं श्रुत्वा व्याधिः काये न क्रमिष्यति, न जरा नाकालमृत्युः । सचेत् पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ यः कश्चिद् बोधिसत्त्वयानसंप्रस्थितः पश्येदेवंरूपं सूत्रान्तधारकं भिक्षुम्, तं चन्दनचूर्णैर्नीलोत्पलैरभ्यकिरेत्, अभ्यवकीर्य चैवं चित्तमुत्पादयितव्यम् - गमिष्यत्ययं कुलपुत्रो बोधिमण्डम् । ग्रहीष्यत्ययं तृणानि । प्रज्ञपयिष्यत्ययं बोधिमण्डे तृणसंस्तरम् । करिष्यत्ययं मारयक्षपराजयम् । प्रपूरयिष्यत्ययं धर्मशङ्खम् । पराहनिष्यत्ययं धर्मभेरीम् । उत्तरिष्यत्ययं भवसागरम् । एवं नक्षत्रराजसंकुसुमिताभिज्ञ तेन बोधिसत्त्वयानसंप्रस्थितेन कुलपुत्रेण वा कुलदुहित्रा वा एवंरूपं सूत्रान्तधारकं भिक्षुं दृष्ट्वा एवं चित्तमुत्पादयितव्यम् - इत्येतादृशाश्चास्य गुणानुशंसा भविष्यन्ति यादृशास्तथागतेन निर्दिष्टाः ॥
अस्मिन् खलु पुनर्भैषज्यपूर्वयोगपरिवर्ते निर्दिश्यमाने चतुरशीतीनां बोधिसत्त्वसहस्राणां सर्वरुतकौशल्यानुगताया धारण्याः प्रतिलम्भो ऽभूत् । स च भगवान् प्रभूतरत्नस्तथागतो ऽर्हन् सम्यक्संबुद्धः साधुकारमदात् - साधु साधु नक्षत्रराजसंकुसुमिताभिज्ञ, यत्र हि नाम त्वमेवमचिन्त्यगुणधर्मस्तथागतेन निर्दिष्टः, त्वं चाचिन्त्यगुणधर्मसमन्वागतं तथागतं परिपृच्छसीति ॥
इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये भैषज्यराजपूर्वयोगपरिवर्तो नाम द्वाविंशतिमः ॥
सद्ध्प्_23: गद्गदस्वरपरिवर्तः ।
अथ खलु भगवान् शाक्यमुनिस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तस्यां वेलायां महापुरुषलक्षणाद् भ्रूविवरान्तरादूर्णाकोशात् प्रभां प्रमुमोच, यया प्रभया पूर्वस्यां दिशि अष्टादशगङ्गानदीवालिकासमानि बुद्धक्षेत्रकोटीनयुतशतसहस्राणि आभया स्फुटान्यभूवन् । तानि च अष्टादशगङ्गानदीवालिकासमानि बुद्धक्षेत्रकोटीनयुतशतसहस्राण्यतिक्रम्य वैरोचनरश्मिप्रतिमण्डिता नाम लोकधातुः, तत्र कमलदलविमलनक्षत्रराजसंकुसुमिताभिज्ञो नाम तथागतो ऽर्हन् सम्यक्संबुद्धस्तिष्ठति ध्रियते यापयति विपुलेनायुष्प्रमाणेन । विपुलेन बोधिसत्त्वसंघेन सार्धं परिवृतः पुरस्कृतो धर्मं देशयति स्म । अथ खलु या भगवता शाक्यमुनिना तथागतेनार्हता सम्यक्संबुद्धेनोर्णाकोशात् प्रभा प्रमुक्ताः, सा तस्यां वेलायां वैरोचनरश्मिप्रतिमण्डितां लोकधातुं महत्या आभया स्फरति स्म । तस्यां खलु पुनर्वैरोचनरश्मिप्रतिमण्डितायां लोकधातौ गद्गदस्वरो नाम बोधिसत्त्वो महासत्त्वः प्रतिवसति स्म अवरोपितकुशलमूलः । दृष्टपूर्वाश्च तेन बहूनां तथागतानामर्हतां सम्यक्संबुद्धानामेवंरूपा रश्म्यवभासाः । बहुसमाधिप्रतिलब्धश्च स गद्गदस्वरो बोधिसत्त्वो महासत्त्वः । तद्यथा ध्वजाग्रकेयूरसमाधिप्रतिलब्धः सद्धर्मपुण्डरीकसमाधिप्रतिलब्धो विमलदत्तसमाधिप्रतिलब्धो नक्षत्रराजविक्रीडितसमाधिप्रतिलब्धः अनिलम्भसमाधिप्रतिलब्धो ज्ञानमुद्रासमाधिप्रतिलब्धः चन्द्रप्रदीपसमाधिप्रतिलब्धः सर्वरुतकौशल्यसमाधिप्रतिलब्धः सर्वपुण्यसमुच्चयसमाधिप्रतिलब्धः प्रसादवतीसमाधिप्रतिलब्धः ऋद्धिविक्रीडितसमाधिप्रतिलब्धो ज्ञानोल्कासमाधिप्रतिलब्धो व्यूहराजसमाधिप्रतिलब्धो विमलप्रभाससमाधिप्रतिलब्धो विमलगर्भसमाधिप्रतिलब्धो ऽप्कृत्स्नसमाधिप्रतिलब्धः सूर्यावर्तसमाधिप्रतिलब्धः । पेयालं यावद् गङ्गानदीवालिकोपमसमाधिकोटीनयुतशतसहस्रप्रतिलब्धो गद्गदस्वरो बोधिसत्त्वो महासत्त्वः । तस्य खलु पुनर्गद्गदस्वरस्य बोधिसत्त्वस्य महासत्त्वस्य सा प्रभा काये निपतिताभूत् । अथ खलु गद्गदस्वरो बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणाम्य तं
भगवन्तं कमलदलविमलनक्षत्रराजसंकुसुमिताभिज्ञं तथागतमर्हन्तं सम्यक्संबुद्धमेतदवोचत् - गमिष्याम्यहं भगवंस्तां सहां लोकधातुं तं भगवन्तं शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धं दर्शनाय वन्दनाय पर्युपासनाय, तं च मञ्जुश्रियं कुमारभूतं दर्शनाय, तं च भैषज्यराजं बोधिसत्त्वं दर्शनाय, तं च प्रदानशूरं बोधिसत्त्वं दर्शनाय, तं च नक्षत्रराजसंकुसुमिताभिज्ञं बोधिसत्त्वं दर्शनाय, तं च विशिष्टचारित्रं बोधिसत्त्वं दर्शनाय, तं च व्यूहराजं बोधिसत्त्वं दर्शनाय, तं च भैषज्यराजसमुद्गतं बोधिसत्त्वं दर्शनाय ॥
अथ खलु भगवान् कमलदलविमलनक्षत्रराजसंकुसुमिताभिज्ञस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तं गद्गदस्वरं बोधिसत्त्वं महासत्त्वमेतदवोचत् - न त्वया कुलपुत्र तस्यां सहायां लोकधातौ गत्वा हीनसंज्ञोत्पादयितव्या । सा खलु पुनः कुलपुत्र लोकधातुरुत्कूलनिकूला ( वैद्य 245 ) मृन्मयी कालपर्वताकीर्णा गूथोडिल्लपरिपूर्णा । स च भगवान् शाक्यमुनिस्तथागतो ऽर्हन् सम्यक्संबुद्धो ह्रस्वकायः, ते च बोधिसत्त्वा ह्रस्वकायाः । तव च कुलपुत्र द्वाचत्वारिंशद्योजनशतसहस्राण्यात्मभावप्रतिलाभः । मम च कुलपुत्र अष्टषष्टियोजनशतसहस्राण्यात्मभावप्रतिलाभः । त्वं च कुलपुत्र प्रासादिको दर्शनीयो ऽभिरूपः, परमशुभवर्णपुष्करतया समन्वागतः, पुण्यशतसहस्रातिरेकलक्ष्मीकः । तस्मात्तर्हि कुलपुत्र तां सहां लोकधातुं गत्वा मा हीनसंज्ञामुत्पादयिष्यसि तथागते च बोधिसत्त्वेषु च तस्मिंश्च बुद्धक्षेत्रे ॥
एवमुक्ते गद्गदस्वरो बोधिसत्त्वो महासत्त्वस्तं भगवन्तं कमलदलविमलनक्षत्रराजसंकुसुमिताभिज्ञं तथागतमर्हन्तं सम्यक्संबुद्धमेतदवोचत् - तथाहं भगवन् करिष्ये, यथा तथागत आज्ञापयति । गमिष्याम्यहं भगवंस्तां सहां लोकधातुं तथागताधिष्ठानेन तथागतबलाधानेन तथागतविक्रीडितेन तथागतव्यूहेन तथागताभ्युद्गतज्ञानेन । अथ खलु गद्गदस्वरो बोधिसत्त्वो महासत्त्वस्तस्यां वेलायामनुच्चलित एव तस्माद् बुद्धक्षेत्रादनुत्थितश्चैव तस्मादासनात् तथारूपं समाधिं समापद्यते स्म, यस्य समाधेः समनन्तरसमापन्नस्य गद्गदस्वरस्य बोधिसत्त्वस्य अथ तावदेवेह सहायां लोकधातौ गृध्रकूटे पर्वते तस्य तथागतधर्मासनस्य पुरस्ताच्चतुरशीतिपद्मकोटीनयुतशतसहस्राणि प्रादुर्भूतान्यभूवन् सुवर्णदण्डानि रुप्यपत्राणि पद्मकिंशुकर्वणानि संदृश्यन्ते स्म ॥
अथ खलु मञ्जुश्रीः कुमारभूतस्तं पद्मव्यूहप्रादुर्भावं दृष्ट्वा भगवन्तं शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धमेतदवोचत् - कस्येदं भगवन् पूर्वनिमित्तं येनेमानि चतुरशीतिपद्मकोटीनयुतशतसहस्राणि संदृश्यन्ते स्म सुवर्णदण्डानि रूप्यपत्राणि पद्मकिंशुकवर्णानि? एवमुक्ते भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत् - एष मञ्जुश्रीः पूर्वस्माद्दिग्भागाद्वैरोचनरश्मिप्रतिमण्डिताया लोकधातोस्तस्य भगवतः कमलदलविमलनक्षत्रराजसंकुसुमिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बुद्धक्षेत्राद् गद्गदस्वरो बोधिसत्वो महासत्त्वश्चतुरशीतिबोधिसत्त्वकोटीनयुतशतसहस्रैः परिवृतः पुरस्कृत इमां सहां लोकधातुमागच्छति मम दर्शनाय वन्दनाय पर्युपासनाय, अस्य च सद्धर्मपुण्डरीकस्य धर्मपर्यायस्य श्रवणाय । अथ खलु मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत् - कस्तेन भगवन् कुलपुत्रेण कुशलसंभारः कृतः, येन स कुशलसंभारेण कृतेनोपचितेन अयं विशेषः प्रतिलब्धः? कतमस्मिंश्च भगवन् समाधौ स बोधिसत्त्वश्चरति? तं वयं भगवन् समाधिं शृणुयाम, तत्र य वयं भगवन् समाधौ चरेम । तं च वयं भगवन् बोधिसत्त्वं महासत्त्वं पश्येम, कीदृशस्तस्य बोधिसत्त्वस्य वर्णः, कीदृग् रूपम्, कीदृग् लिङ्गम्, कीदृकू संस्थानम्, को ऽस्याचार इति । तत्साधु भगवन् करोतु तथागतस्तथारूपं निमित्तं येन निमित्तेन संचोदितः समानः स बोधिसत्त्वो महासत्त्व इमां सहां लोकधातुमागच्छेत् ॥
अथ खलु भगवान् शाक्यमुनिस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तं भगवन्तं प्रभूतरत्नं तथागतमर्हन्तं सम्यक्संबुद्धं परिनिर्वृतमेतदवोचत् - करोतु भगवांस्तथारूपं निमित्तं येन ( वैद्य 246 ) गद्गदस्वरो बोधिसत्त्वो महासत्त्व इमां सहां लोकधातुमागच्छेत् । अथ खलु भगवान् प्रभूतरत्नस्तथागतो ऽर्हन् सम्यक्संबुद्धः परिनिर्वृतस्तस्यां वेलायां तथारूपं निमित्तं प्रादुश्चकारगद्गदस्वरस्य बोधिसत्त्वस्य महासत्त्वस्य संचोदनार्थम् - आगच्छ कुलपुत्र इमां सहां लोकधातुम् । अयं तु मञ्जुश्रीः कुमारभूतो दर्शनमभिनन्दति । अथ खलु गद्गदस्वरो बोधिसत्त्वो महासत्त्वस्तस्य भगवतः कमलदलविमलनक्षत्रराजसंकुसुमिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य पादौ शिरसाभिवन्द्य त्रिः प्रदक्षिणीकृत्य सार्धं तैश्चतुरशीतिबोधिसत्त्वकोटीनयुतशतसहस्रैः परिवृतः पुरस्कृतस्तस्या वैरोचनरश्मिप्रतिमण्डिताया लोकधातोरन्तर्हितः इमां सहां लोकधातुमागच्छति स्म, प्रकम्पद्भिः क्षेत्रैः, प्रवर्षद्भिः पद्मैः, प्रवाद्यमानैस्तूर्यकोटीनयुतशतसहस्रैः, नीलोत्पलपद्मनेत्रेण वदनेन, सुवर्णवर्णेन कायेन, पुण्यशतसहस्रालंकृतेनात्मभावेन, श्रिया जाज्वल्यमानः, तेजसा देदीप्यमानः, लक्षणैर्विचित्रितगात्रो नारायणसंहननकायः । सप्तरत्नमयं कूटागारमभिरुह्य वैहायसे सप्ततालमात्रेण बोधिसत्त्वगणपरिवृतः पुरस्कृत आगच्छति स्म । स येनेयं सहा लोकधातुः, येन च गृध्रकूटः पर्वतराजस्तेनोपसंक्रामत् । उपसंक्रम्य तस्मात् कूटागारादवतीर्य शतसहस्रमूल्यं मुक्ताहारं गृहीत्वा येन भगवांस्तेनोपसंक्रामत् । उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य सप्तकृत्वः प्रदक्षिणीकृत्य तं मुक्ताहारं भगवतः पूजाकर्मणे निर्यातयामास । निर्यात्य च भगवन्तमेतदवोचत् - कमलदलविमलनक्षत्रराजसंकुसुमिताभिज्ञो भगवांस्तथागतो ऽर्हन् सम्यक्संबुद्धो भगवतः परिपृच्छति अल्पाबाधताम् आल्पतङ्कतां लघूत्थानतां यात्रां बलं सुखसंस्पर्शविहारताम् । एवं च स भगवानवोचत् - कच्चित्ते भगवन् क्षमणीयम्, कच्चिद् यापनीयम्, कच्चिद्धातवः प्रतिकुर्वन्ति, कच्चित्ते सत्त्वाः स्वाकाराः सुवैनेयाः सुचिकित्साः, कच्चिच्छुचिकाया
मा अतीव रागचरिताः, मा अतीव द्वेषचरिता मा अतीव मोहचरिता मा अतीव भगवन् सत्त्वा ईर्ष्यालुका मा मत्सरिणो मा अमातृज्ञा मा अपितृज्ञा मा अश्रामण्य मा अब्राह्मण्या मा मिथ्यादृष्ट्यो मा अदान्तचित्ता मा अगुप्तेन्द्रियाः । कच्चित्ते भगवन् निहतमारप्रत्यर्थिका एते सत्त्वाः । कच्चिद् भगवन् प्रभूतरत्नस्तथागतो ऽर्हन् सम्यक्संबुद्धः परिनिर्वृतः इमां सहां लोकधातुमागतो धर्मश्रवणाय सप्तरत्नमये स्तूपे मध्यगतः । तं च भगवन्तं तथागतर्महन्तं सम्यक्संबुद्धं स भगवान् परिपृच्छति - कच्चिद्भगवंस्तस्य भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य क्षमणीयम्, कच्चिद् यापनीयम्, कच्चिद् भगवन् प्रभूतरत्नस्तथागतो ऽर्हन् सम्यक्संबुद्धश्चिरं स्थास्यति । वयमपि भगवंस्तस्य प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य धातुविग्रहं पश्येम । तत्साधु भगवान् दर्शयतु तथागतस्तस्य भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य धातुविग्रहमिति ॥
अथ खलु भगवान् शाक्यमुनिस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तं भगवन्तं प्रभूतरत्नं ( वैद्य 247 ) तथागतमर्हन्तं सम्यक्संबुद्धं परिनिर्वृतमेतदवोचत् - अयं भगवन् गद्गदस्वरो बोधिसत्त्वो महासत्त्वो भगवन्तं प्रभूतरत्नं तथागतमर्हन्तं सम्यक्संबुद्धं परिनिर्वृतं द्रष्टुकामः । अथ खलु भगवान् प्रभूतरत्नस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तं गद्गदस्वरं बोधिसत्त्वं महासत्त्वमेतदवोचत् - साधु साधु कुलपुत्र, यत्र हि नाम त्वं भगवन्तं शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धं द्रष्टुकामो ऽभ्यागतः, इमं च सद्धर्मपुण्डरीकं धर्मपर्याय श्रावणाय मञ्जुश्रियं च कुमारभूतं दर्शनायेति ॥
अथ खलु पद्मश्रीर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - कीदृशं भगवन् गद्गदस्वरेण बोधिसत्त्वेन महासत्त्वेन पूर्वं कुशलमूलमवरोपितम्, कस्य वा तथागतस्यान्तिके? अथ खलु भगवान् शाक्यमुनिस्तथागतो ऽर्हन् सम्यक्संबुद्धः पद्मश्रियं बोधिसत्त्वं महासत्त्वमेतदवोचत् - भूतपूर्वं कुलपुत्र अतीते ऽध्वनि असंख्येये कल्पे असंख्येयतरे विपुले अप्रमेये अप्रमाणे यदासीत् । तेन कालेन तेन समयेन मेघदुन्दुभिस्वरराजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् सर्वरूपसंदर्शनायां लोकधातौ प्रियदर्शने कल्पे । तस्य खलु पुनः कुलपुत्र भगवतो मेघदुन्दुभिस्वरराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य गद्गदस्वरेण बोधिसत्त्वेन महासत्त्वेन तूर्यशतसहस्रप्रवादितेन द्वादशवर्षशतसहस्राणि पूजा कृताभूत् । सप्तरत्नमयानां च भाजनानां चतुरशीतिसहस्राणि दत्तान्यभूवन् । तत्र कुलपुत्र मेघदुन्दुभिस्वरराजस्य तथागतस्य प्रवचने गद्गदस्वरेण बोधिसत्त्वेन महासत्त्वेन इयमीदृशी श्रीः प्राप्ता । स्यात् खलु पुनस्ते कुलपुत्र काङ्क्षा वा विमतिर्वा विचिकित्सा वा - अन्यः स तेन कालेन तेन समयेन गद्गदस्वरो नाम बोधिसत्त्वो महासत्त्वो ऽभूत्, येन सा तस्य भगवतो मेघदुन्दुभिस्वरराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य पूजा कृता, तानि चतुरशीतिभाजनसहस्राणि दत्तानि? न खलु पुनस्ते कुलपुत्र एवं द्रष्टव्यम् । तत्कस्य हेतोः? अयमेव स कुलपुत्र गद्गदस्वरो बोधिसत्त्वो महासत्त्वो ऽभूत्, येन सा तस्य भगवतो मेघदुन्दुभिस्वरराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य पूजा कृता, तानि चतुरशितिभाजनसहस्राणि दत्तानि । एवं बहुबुद्धपर्युपासितः कुलपुत्र गद्गदस्वरो बोधिसत्त्वो महासत्त्वः बहुबुद्धशतसहस्रावरोपितकुशलमूलः कृतबुद्धपरिकर्मा । दृष्टपूर्वाश्चानेन गद्गदस्वरेण बोधिसत्त्वेन महासत्त्वेन गङ्गानदीवालिकासमा बुद्धा भगवन्तः । पश्यसि त्वं पद्मश्रीरेतं गद्गदस्वरं बोधिसत्त्वं महासत्त्वम्? पद्मश्रीराह - पश्यामि भगवन्, पश्यामि सुगत । भगवानाह - एष खलु पुनः पद्मश्रीर्गद्गदस्वरो बोधिसत्त्वो महासत्त्वो बहुभी रूपैरिमं सद्धर्मपुण्डरीकं धर्मपर्यायं
देशयति स्म । तद्यथा - क्वचिद् ब्रह्मरूपेण, क्वचिद् रूद्ररूपेण, क्वचिच्छक्ररूपेण, क्वचिदीश्वररूपेण, क्वचित् सेनापतिरूपेण, क्वचिद् वैश्रवणरूपेण, क्वचिच्चक्रवर्तिरूपेण, क्वचित् कोट्टराजरूपेण, क्वचिच्छ्रेष्ठिरूपेण, क्वचिद् गृहपतिरूपेण, क्वचिन्नैगमरूपेण, क्वचिद् ब्राह्मणरूपेण इमं सद्धर्मपुण्डरीकं ( वैद्य 248 ) धर्मपर्यायं देशयति स्म । क्वचिद् भिक्षुरूपेण, क्वचिद् भिक्षुणीरूपेण, क्वचिदुपासकरूपेण, क्वचिदुपासिकारूपेण क्वचिच्छ्रेष्ठिभार्यारूपेण, क्वचिद् गृहपतिभार्यारूपेण, क्वचिन्नैगमभार्यारूपेण, क्वचिद्दारकरूपेण, क्वचिद्दारिकारूपेण, गद्गदस्वरो बोधिसत्त्वो महासत्त्वः इमं सद्धर्मपुण्डरीकं धर्मपर्यायं सत्त्वानां देशयति स्म । इयद्भिः कुलपुत्र रूपसंदर्शनैर्गद्गदस्वरो बोधिसत्वो महासत्त्व इमं सद्धर्मपुण्डरीकं धर्मपर्यायं सत्त्वानां देशयति स्म । यावत् केषांचिद् यक्षरूपेण गद्गदस्वरो बोधिसत्त्वो महासत्त्व इमं सद्धर्मपुण्डरीकं धर्मपर्यायं सत्त्वानां देशयति स्म । केषांचित् सुररूपेण, केषांचिद् गरूडरूपेण, केषांचित् किन्नररूपेण, केषांचिन्महोरगरूपेण गद्गदस्वरो बोधिसत्त्वो महासत्त्व इमं सद्धर्मपुण्डरीकं धर्मपर्यायं सत्त्वानां देशयति स्म । यावन्निरयतिर्यग्योनियमलोकाक्षणोपपन्नानामपि सत्त्वानां गद्गदस्वरो बोधिसत्त्वो महासत्त्व इमं सद्धर्मपुण्डरीकं धर्मपर्यायं देशयंस्त्राता भवति । यावदन्तःपुरमध्यगतानामपि सत्त्वानां गद्गदस्वरो बोधिसत्त्वो महासत्त्वः स्त्रीरूपमभिनिर्माय इम सद्धर्मपुण्डरीकं धर्मपर्यायं सत्त्वानां देशयति स्म । अस्यां सहायां लोकधातौ सत्त्वानां धर्मं देशयति स्म । त्राता खल्वपि पद्मश्रीर्गद्गदस्वरो बोधिसत्त्वो महासत्त्वः सहायां लोकधातावुपपन्नानां सत्त्वानाम् । तस्यां च सहायां लोकधातावेव स गद्गदस्वरो बोधिसत्त्वो महासत्त्व इयद्भी रूपनिमित्तैरिमं सद्धर्मपुण्डरीकं धर्मपर्यायं सत्त्वानां देशयति । न चास्य सत्पुरुषस्य ऋद्धिहानिर्नापि प्रज्ञाहानिः । इयद्भिः कुलपुत्र ज्ञानावभासैर्गद्गदस्वरो बोधिसत्त्वो महासत्त्वो ऽस्यां सहायां लोकधातौ प्रज्ञायते । अन्येषु च गङ्गानदीवालिकासमेषु लोकधातुषु बोधिसत्त्ववैनेयानां
सत्त्वानां बोधिसत्त्वरूपेण धर्मं देशयति । श्रावकवैनेयानां सत्त्वानां श्रावकरूपेण धर्मं देशयति । प्रत्येकबुद्धवैनेयानां सत्त्वानां प्रत्येकबुद्धरूपेण धर्मं देशयति । तथागतवैनेयानां सत्त्वानां तथागतरूपेण धर्मं देशयति । यावत्तथागतधातुवैनेयानां सत्त्वानां तथागतधातुं दर्शयति । यावत् परिनिर्वाणवैनेयानां सत्त्वानां परिनिर्वृतमात्मानं दर्शयति । एवं ज्ञानबलाधानप्राप्तः खलु पुनः पद्मश्रीर्गद्गदस्वरो बोधिसत्त्वो महासत्त्वः ॥
अथ खलु पद्मश्रीर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - अवरोपितकुशलमूलो ऽयं भगवन् गद्गदस्वरो बोधिसत्त्वो महासत्त्वः । कतम एष भगवन् समाधिर्यस्मिन् समाधाववस्थितेन गद्गदस्वरेण बोधिसत्त्वेन महासत्त्वेन इयन्तः सत्त्वा विनीता इति? एवमुक्ते भगवान् शाक्यमुनिस्तथागतो ऽर्हन् सम्यक्संबुद्धः पद्मश्रियं बोधिसत्त्वं महासत्त्वमेतदवोचत् - एष हि कुलपुत्र सर्वरूपसंदर्शनो नाम समाधिः । अस्मिन् समाधाववस्थितेन गद्गदस्वरेण बोधिसत्त्वेन महासत्त्वेन एवमप्रमेयः सत्त्वार्थः कृतः ॥
अस्मिन् खलु पुनर्गद्गदस्वरपरिवर्ते निर्दिश्यमाने यानि गद्गदस्वरेण बोधिसत्त्वेन महासत्त्वेन सार्धं चतुरशीतिबोधिसत्त्वकोटीनयुतशतसहस्राणि इमां सहां लोकधातुमागतानि, सर्वेषां तेषां सर्वरूपसंदर्शनस्य समाधेः प्रतिलम्भो ऽभूत् । अस्यां च सहायां लोकधातौ ( वैद्य 249 ) गणनासमतिक्रान्तानां बोधिसत्त्वानां महासत्त्वानां येषां सर्वरूपसंदर्शनस्य समाधेः प्रतिलम्भो ऽभूत् ॥
अथ खलु गद्गदस्वरो बोधिसत्त्वो महासत्त्वो भगवतः शाक्यमुनेस्तथागतस्यार्हतः सम्यक्संबुद्धस्य तस्य च भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य धातुस्तूपे विपुलां विस्तीर्णां पूजां कृत्वा पुनरपि सप्तरत्नमये कूटागारे ऽभिरुह्य प्रकम्पद्भिः क्षेत्रैः प्रवर्षद्भिः पद्मैः प्रवाद्यमानैस्तूर्यकोटीनयुतशतसहस्रैः सार्धं तैश्चतुरशीतिबोधिसत्त्वकोटीनयुतशतसहस्रैः परिवृतः पुरस्कृतः पुनरपि स्वं बुद्धक्षेत्रमभिगतः । समभिगम्य च तं भगवन्तं कमलदलविमलनक्षत्रराजसंकुसुमिताभिज्ञं तथागतमर्हन्तं सम्यक्संबुद्धमेतदवोचत् - कृतो मे भगवन् सहायां लोकधातौ सत्त्वार्थः । तस्य च भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य धातुस्तूपो दृष्टः वन्दितश्च । स च भगवान् शाक्यमुनिस्तथागतो दृष्टो वन्दितश्च । स च मञ्जुश्रीः कुमारभूतो दृष्टः । स च भैषज्यराजो बोधिसत्त्वो महासत्त्वो वीर्यबलबेगप्राप्तः, स च प्रदानशूरो बोधिसत्त्वो महासत्त्वो दृष्टः । सर्वेषां च तेषां चतुरशीतिबोधिसत्त्वकोटीनयुतशतसहस्राणां सर्वरूपसंदर्शनस्य समाधेः प्रतिलम्भो ऽभूत् ॥
अस्मिन् खलु पुनर्गद्गदस्वरस्य बोधिसत्त्वस्य महासत्त्वस्य गमनागमनपरिवर्ते भाष्यमाणे द्वाचत्वारिंशतां बोधिसत्त्वसहस्राणामनुत्पत्तिकधर्मक्षान्तिप्रतिलम्भो ऽभूत् । पद्मश्रियश्च बोधिसत्त्वस्य महासत्त्वस्य सद्धर्मपुण्डरीकस्य समाधेः प्रतिलम्भो ऽभूत् ॥
इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये गद्गदस्वरपरिवर्तो नाम त्रयोविंशतिमः ॥
सद्ध्प्_24: समन्तमुखपरिवर्तः ॥
अथ खलु अक्षयमतिर्बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणाम्य भगवन्तमेतदवोचत् - केन कारणेन भगवन् अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वो ऽवलोकितेश्वर इत्युच्यते? एवमुक्ते भगवानक्षयमतिं बोधिसत्त्वं महासत्त्वमेतदवोचत् - इह कुलपुत्र यावन्ति सत्त्वकोटीनयुतशतसहस्राणि यानि दुःखानि प्रत्युअनुभवन्ति, तानि सचेदवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नामधेयं शृणुयुः, ते सर्वे तस्माद्दुःखस्कन्धाद् परिमुच्येरन् । ये च कुलपुत्र सत्त्वा अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नामधेयं धारयिष्यन्ति, सचेत्ते महत्यग्निस्कन्धे प्रपतेयुः, सर्वे ते अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य तेजसा तस्मान्महतो ऽग्निस्कन्धात् परिमुच्येरन् । सचेत् पुनः कुलपुत्र सत्त्वा नदीभिरुह्यमाना अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्याक्रन्दं कुर्युः, सर्वास्ता नद्यस्तेषां सत्त्वानां गाधं दद्युः । सचेत् पुनः कुलपुत्र सागरमध्ये वहनाभिरूढानां सत्त्वकोटीनयुतशतसहस्राणां हिरण्यसुवर्णमणिमुक्तावज्रवैडूर्यशङ्खशिलाप्रवालाश्मगर्भमुसारगल्वलोहितमुक्तादीनां कृतनिधीनां स पोतस्तेषां कालिकावातेन राक्षसीद्वीपे क्षिप्तः स्यात्, तस्मिंश्च कश्चिदेवैकः सत्त्वः स्यात् यो ऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्याक्रन्दं कुर्यात्, सर्वे ते परिमुच्येरंस्तस्माद् राक्षसीद्वीपात् । अनेन खलु पुनः कुलपुत्र कारणेन अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वो ऽवलोकितेश्वर इति संज्ञायते ॥
सचेत् कुलपुत्र कश्चिदेव वध्योत्सृष्टो ऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्याक्रन्दं कुर्यात्, तानि तेषां वध्यघातकानां शस्त्राणि विकीर्येरन् । सचेत् खलु पुनः कुलपुत्र अयं त्रिसाहस्रमहासाहस्रो लोकधातुर्यक्षराक्षसैः परिपूर्णो भवेत्, ते ऽवलोकितेश्वरस्य महासत्त्वस्य नामधेयग्रहणेन दुष्टचित्ता द्रष्टुमप्यशक्ताः स्युः । सचेत्खलु पुनः कुलपुत्र कश्चिदेव सत्त्वो दार्वायस्मयैर्हडिनिगडबन्धनैर्बद्धो भवेत्, अपराध्यनपराधी वा, तस्यावलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नामधेयग्रहणेन क्षिप्रं तानि हडिनिगडबन्धनानि विवरमनुप्रयच्छन्ति । ईदृशः कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य प्रभावः ॥
सचेत्कुलपुत्र अयं त्रिसाहस्रमहासाहस्रो लोकधातुर्धूर्तैरमित्रैश्चौरैश्च शस्त्रपाणिभिः परिपूर्णो भवेत्, तस्मिंश्चैकः सार्थवाहो महान्तं सार्थं रत्नाढ्यमनर्ध्यं गृहीत्वा गच्छेत् । ते गच्छन्तस्तांश्चौरान् धूर्तान् शत्रूंश्च शस्त्रहस्तान् पश्येयुः । दृष्ट्वा च पुनर्भीतास्त्रस्ता अशरणमात्मानं संजानीयुः । स च सार्थवाहस्तं सार्थमेवं ब्रूयात् - मा भैष्ट कुलपुत्राः, मा भैष्ट, अभयंददमवलोकितेश्वरं बोधिसत्त्वं महासत्त्वमेकस्वरेण सर्वे समाक्रन्दध्वम् । ततो यूयमस्माच्चौरभयादमित्रभयात् क्षिप्रमेव परिमोक्ष्यध्वे । अथ खलु सर्व एव स सार्थः एकस्वरेण अवलोकितेश्वरमाक्रन्देत् - नमो नमस्तस्मै अभयंददायावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वायेति ( वैद्य 251 )। सहनामग्रहणेनैव स सार्थः सर्वभयेभ्यः परिमुक्तो भवेत् । ईदृशः कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य प्रभावः ॥
ये कुलपुत्र रागचरिताः सत्त्वाः, ते ऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नमस्कारं कृत्वा विगतरागा भवन्ति । ये द्वेषचरिताः सत्त्वाः, ते ऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नमस्कारं कृत्वा विगतद्वेषा भवन्ति । ये मोहचरिताः सत्त्वाः, ते ऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नमस्कारं कृत्वा विगतमोहा भवन्ति । एवं महर्द्धिकः कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः ॥
यश्च कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य पुत्रकामो मातृग्रामो नमस्कारं करोति, तस्य पुत्रः प्रजायते अभिरूपः प्रासादिको दर्शनीयः । पुत्रलक्षणसमन्वागतो बहुजनप्रियो मनापो ऽवरोपितकुशलमूलश्च भवति । यो दारिकामभिनन्दति, तस्य दारिका प्रजायते अभिरूपा प्रासादिका दर्शनीया परमया शुभवर्णपुष्करतया समन्वागता दारिका - लक्षणसमन्वागता बहुजनप्रिया मनापा अवरोपितकुशलभूला च भवति । ईदृशः कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य प्रभावः ॥
ये च कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नमस्कारं करिष्यन्ति, नामधेयं च धारयिष्यन्ति, तेषाममोघफलं भवति । यश्च कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नमस्कारं करिष्यति, नामधेयं च धारयिष्यति, यश्च द्वाषष्टीनां गङ्गानदीवालिकासमानां बुद्धानां भगवतां नमस्कारं कुर्यात्, नामधेयानि च धारयेत्, यश्च तावतामेव बुद्धानां भगवतां तिष्ठतां ध्रियतां यापयतां चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः पूजां कुर्यात्, तत्किं मन्यसे कुलपुत्र कियन्तं स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं पुण्याभिसंस्कारं प्रसवेत्? एवमुक्ते अक्षयमतिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - बहु भगवन्, बहु सुगत स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुं पुण्याभिसंस्कारं प्रसवेत् । भगवानाह - यश्च कुलपुत्र तावतां बुद्धानां भगवतां सत्कारं कृत्वा पुण्याभिसंस्कारः, यश्च अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य अन्तश एकमपि नमस्कारं कुर्यात् नामधेयं च धारयेत्, समो ऽनधिको ऽनतिरेकः पुण्याभिसंस्कारः उभयतो भवेत् । यश्च तेषां द्वाषष्टीनां गङ्गानदीवालिकासमानां बुद्धानां भगवतां सत्कारं कुर्यात् नामधेयानि च धारयेत्, यश्च अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नमस्कारं कुर्यात् नामधेयं च धारयेत्, एतावुभौ पुण्यस्कन्धौ न सुकरौ क्षपयितुं कल्पकोटीनयुतशतसहस्रैरपि । एवमप्रमेयं कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नामधारणात् पुण्यम् ॥
अथ खल्वक्षयमतिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - कथं भगवन् अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वो ऽस्यां सहायां लोकधातौ प्रविचरति? कथं सत्त्वानां धर्मं देशयति? कीदृशश्चावलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्योपायकौशल्यविषयः? एवमुक्ते भगवानक्षयमतिं बोधिसत्त्वं महासत्त्वमेतदवोचत् - सन्ति कुलपुत्र लोकधातवः ( वैद्य 252 ) येष्ववलोकितेश्वरो बोधिसत्त्वो महासत्त्वो बुद्धरूपेण सत्त्वानां धर्मं देशयति । सन्ति लोकधातवः, येष्ववलोकितेश्वरो बोधिसत्त्वो महासत्त्वो बोधिसत्त्वरूपेण सत्त्वानां धर्मं देशयति । केषांचित् प्रत्येकबुद्धरूपेण अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सत्त्वानां धर्मं देशयति । केषांचिच्छ्रावकरूपेण अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सत्त्वानां धर्मं देशयति । केषांचिद् ब्रह्मरूपेणावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सत्त्वानां धर्मं देशयति । केषांचिच्छक्ररूपेणावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः धर्मं देशयति । केषांचिद् गन्धर्वरूपेणावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सत्त्वानां धर्मं देशयति । केषांचिद् गन्धर्वरूपेणावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सत्त्वानां धर्मं देशयति । यक्षवैनेयानां सत्त्वानां यक्षरूपेण धर्मं देशयति । ईश्वरवैनेयानां सत्त्वानामीश्वररूपेण, महेश्वरवैनेयानां सत्त्वानां महेश्वररूपेण धर्मं देशयति । चक्रवर्तिराजवैनेयानां सत्त्वानां चक्रवर्तिराजरूपेण धर्मं देशयति । पिशाचवैनेयानां सत्त्वानां पिशाचरूपेण धर्मं देशयति । वैश्रवणवैनेयानां सत्त्वानां वैश्रवणरूपेण धर्मं देशयति । सेनापतिवैनेयानां सत्त्वानां सेनापतिरूपेण धर्मं देशयति । ब्राह्मणवैनेयानां सत्त्वानां ब्राह्मणरूपेण धर्मं देशयति । वज्रपाणिवैनेयानां सत्त्वानां वज्रपाणिरूपेण धर्मं देशयति । एवमचिन्त्यगुणसमन्वागतः कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः । तस्मात्तर्हि कुलपुत्र अवलोकितेश्वरं बोधिसत्त्वं महासत्त्वं पूजयध्वम् । एष कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वो भीतानां सत्त्वानामभयं ददाति । अनेन कारणेन अभयंदद इति संज्ञायते इह सहायां लोकधातौ ॥
अथ खल्वक्षयमतिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - दास्यामो वयं भगवन् अवलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय धर्मप्राभृतं धर्माच्छादम् । भगवानाहयस्येदानीं कुलपुत्र कालं मन्यसे । अथ खल्वक्षयमतिर्बोधसत्त्वो महासत्त्वः स्वकण्ठादवर्ताय शतसहस्रमूल्यं मुक्ताहारमवलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय धर्माच्छादमनुप्रयच्छति स्म - प्रतीच्छ सत्पुरुष इमं धर्माच्छादं ममान्तिकात् । स न प्रतीच्छति स्म । अथ खल्वक्षयमतिर्बोधिसत्त्वो महासत्त्वो ऽवलोकितेश्वरं बोधिसत्त्वं महासत्त्वमेतदवोचत् - प्रतिगृहाण त्वं कुलपुत्र इमं मुक्ताहारमस्माकमनुकम्पामुपादाय । अथ खल्ववलोकितेश्वरो बोधिसत्त्वो महासत्त्वो ऽक्षयमतेर्बोधिसत्त्वस्य महासत्त्वस्यान्तिकात् तं मुक्ताहारं प्रतिगृह्णाति स्म अक्षयमतेर्बोधिसत्त्वस्य महसत्त्वस्यानुकम्पामुपादाय, तासां च चतसृणां पर्षदां तेषां च देवनागयक्षगन्धर्वासुरगरूडकिन्नरमहोरगमनुष्यामनुष्याणामनुकम्पामुपादाय । प्रतिगृह्य च द्वौ प्रत्यंशौ कृतवान् । कृत्वा चैकं प्रत्यंशं भगवते शाक्यमुनये ददाति स्म, द्वितीयं प्रत्यंशं भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य रत्नस्तूपे समुपनामयायास । ईदृश्या कुलपुत्र विकुर्वया अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वो ऽस्यां सहायां लोकधातावनुविचरति ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
चित्रध्वज अक्षयोमती एतमर्थं परिपृच्छि कारणात् ।
केना जिनपुत्र हेतुना उच्यते हि अवलोकितेश्वरः
अथ स दिशता विलोकिया प्रणिधीसागरु अक्षयोमति ।
चित्रध्वजो ऽध्यभाषत शृणु चर्यामवलोकितेश्वरे
कल्पशत नेककोट्यचिन्तिया बहुबुद्धान सहस्रकोटिभिः ।
प्रणिधान यथा विशोधितं स्तथ शृण्वाहि मम प्रदेशतः
श्रवणो अथ दर्शनो ऽपि च अनुपूर्वं च तथा अनुस्मृतिः ।
भवतीह अमोघ प्राणिनां सर्वदुःखभवशोकनाशकः
सचि अग्निखदाय पातयेद् घतनार्थाय प्रदुष्टमानसः ।
स्मरतो अवलोकितेश्वरं अभिसिक्तो इव अग्नि शाम्यति
सचि सागरदुर्गि पातयेन्नागमकरसुरभूत-आलये ।
स्मरतो अवलोकितेश्वरं जलराजे न कदाचिसीदति
सचि मेरुतलातु पातयेद् घतनार्थाय प्रदुष्टमानसः ।
स्मरतो अवलोकितेश्वरं सूर्यभूतो व नभे प्रतिष्ठति
वज्रामय पर्वतो यदि घतनार्थाय हि मूर्ध्नि ओषरेत् ।
स्मरतो अवलोकितेश्वरं रोमकूप न प्रभोन्ति हिंसितुम्
सचि शत्रुगणैः परीवृतः शस्त्रहस्तैर्विहिंसचेतसैः ।
स्मरतो अवलोकितेश्वरं मैत्रचित्त तद भोन्ति तत्क्षणम्
सचि आघतने उपस्थितो वध्यघातनवशंगतो भवेत् ।
स्मरतो अवलोकितेश्वरं खण्डखण्ड तद शस्त्र गच्छियुः
सचि दारुमयैरयोमयैर्हडिनिगडैरिह बद्धबन्धनैः ।
स्मरतो अवलोकितेश्वरं क्षिप्रमेव विपटन्ति बन्धना
मन्त्रा बल विद्य ओषधी भूत वेताल शरीरनाशका ।
स्मरतो अवलोकितेश्वरं तान् गच्छन्ति यतः प्रवर्तिताः
सचि ओजहरैः परीवृतो नागयक्षसुरभूतराक्षसैः ।
स्मरतो अवलोकितेश्वरं रोमकूप न प्रभोन्ति हिंसितुम्
सचि व्यालमृगैः परीवृतस्तीक्ष्णदंष्ट्रनखरैर्महाभयैः ।
स्मरतो अवलोकितेश्वरं क्षिप्र गच्छन्ति दिशा अनन्ततः
सचि दृष्टिविषैः परीवृतो ज्वलनार्चिशिखिदुष्टदारुणैः ।
स्मरतो अवलोकितेश्वरं क्षिप्रमेव ते भोन्ति निर्विषाः
गम्भीर सविद्यु निश्चरी मेघवज्राशनि वारिप्रस्रवाः ।
स्मरतो अवलोकितेश्वरं क्षिप्रमेव प्रशमन्ति तत्क्षणम्
बहुदुःखशतैरुपद्रुतान् सत्त्व दृष्ट्व बहुदुःखपीडितान् ।
शुभज्ञानबलो विलोकिया तेन त्रातरु गजे सदेवके
ऋद्धीबलपारमिंगतो विपुलज्ञान उपायशिक्षितः ।
सर्वत्र दशद्दिशी जगे सर्वक्षेत्रेषु अशेष दृश्यते
ये च अक्षणदुर्गती भया नरकतिर्यग्यमस्य शासने ।
जातीजरव्याधिपीडिता अनुपूर्वं प्रशमन्ति प्राणिनाम्
अथ खलु अक्षमतिर्हृष्टतुष्टमना इमा गाथा अभाषत -
शुभलोचन मैत्रलोचना प्रज्ञाज्ञानविशिष्टलोचना ।
कृपलोचन शुद्धलोचना प्रेमणीय सुमुखा सुलोचना
अमलामलनिर्मलप्रभा वितिमिर ज्ञानदिवाकरप्रभा ।
अपहृतानिलज्वलप्रभा प्रतपन्तो जगती विरोचसे
कृपसद्गुणमैत्रगर्जिता शुभगुण मैत्रमना महाघना ।
क्लेशाग्नि शमेसि प्राणिनां धर्मवर्षं अमृतं प्रवर्षसि
कलहे च विवादविग्रहे नरसंग्रामगते महाभये ।
स्मरतो अवलोकितेश्वरं प्रशमेया अरिसंघ पापका
मेघस्वर दुन्दुभिस्वरो जलधरगर्जित ब्रह्मसुस्वरः ।
स्वरमण्डलपारमिंगतः स्मरणीयो अवलोकितेश्वरः
स्मरथा स्मरथा स काङ्क्षथा शुद्धसत्त्वं अवलोकितेश्वरम् ।
मरणे व्यसने उपद्रवे त्राणु भोति शरणं परायणम्
सर्वगुणस्य पारमिंगतः सर्वसत्त्वकृपमैत्रलोचनो ।
गुणभूत महागुणोदधी वन्दनीयो अवलोकितेश्वरः
यो ऽसौ अनुकम्पको जगे बुद्ध भेष्यति अनागते ऽध्वनि ।
सर्वदुःखभयशोकनाशकं प्रणमामी अवलोकितेश्वरम्
लोकेश्वर राजनायको भिक्षुधर्माकरु लोकपूजितो ।
बहुकल्पशतांश्चरित्व च प्राप्तु बोधि विरजां अनुत्तराम्
स्थित दक्षिणवामतस्तथा वीजयन्त अमिताभनायकम् ।
मायोपमता समाधिना सर्वक्षेत्रे जिन गत्व पूजिषु
दिशि पश्चिमतः सुखाकरा लोकधातु विरजा सुखावती ।
यत्र एष अमिताभनायकः संप्रति तिष्ठति सत्त्वसारथिः
न च इस्त्रिण तत्र संभवो नापि च मैथुनधर्म सर्वशः ।
उपपादुक ते जिनोरसाः पद्मगर्भेषु निषण्ण निर्मलाः
सो चैव अमिताभनायकः पद्मगर्भे विरजे मनोरमे ।
सिंहासनि संनिषण्णको शालरजो व यथा विराजते
सो ऽपि तथा लोकनायको यस्य नास्ति त्रिभवेस्मि सादृशः ।
यन्मे पुण्य स्तवित्व संचितं क्षिप्र भोमि यथ त्वं नरोत्तम
मूल पाठ: Saddharmapuṇḍarīkasūtra · Edition: P.L. Vaidya, Darbhanga : The Mithila Institute, 1960 (Buddhist Sanskrit Texts, 6) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0