भाषा

ENहिગુ
ग्रंथ पाठ

सद्धर्मपुण्डरीकसूत्र · अध्याय 22

22.1

एवमुक्त्वा ताः कुन्तिप्रमुखा राक्षस्यो भगवन्तमेतदूचुः - वयमपि भगवंस्तेषामेवंरूपाणां धर्मभाणकानां रक्षां करिष्यामः, स्वस्त्ययनं दण्डपरिहारं विषदूषणं करिष्याम इति । एवमुक्ते भगवांस्ता राक्षस्य एतदवोचत् - साधु साधु भगिन्यः । यद् यूयं तेषां धर्मभाणकानां रक्षावरणगुप्तिं करिष्यध्वे ये ऽस्य धर्मपर्यायस्य अन्तशो नामधेयमात्रमपि धारयिष्यन्ति । कः पुनर्वादो य इमं धर्मपर्यायं सकलसमाप्तं धारयिष्यन्ति, पुस्तकगतं वा सत्कुर्युः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिस्तैलप्रदीपैर्वा घृतप्रदीपैर्वा गन्धतैलप्रदीपैर्वा चम्पकतैलप्रदीपैर्वा वार्षिकतैलप्रदीपैर्वा उत्पलतैलप्रदीपैर्वा सुमनातैलप्रदीपैर्वा ईद्दशैर्बहुविधैः पूजाविधानशतसहस्रैः सत्करिष्यन्ति गुरुकरिष्यन्ति, ते त्वया कुन्ति सपरिवारया रक्षितव्याः ॥
अस्मिन् खलु पुनर्धारणीपरिवर्ते निर्दिश्यमाने अष्टाषष्टीनां प्राणिसहस्राणामनुत्पत्तिकधर्मक्षान्तिप्रतिलाभो ऽभूत् ॥
इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये धारणीपरिवर्तो नामैकविंशतिमः ॥
सद्ध्प्_22: भैषज्यराजपूर्वयोगपरिवर्तः ।
अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - केन कारेणेन भगवन् भैषज्यराजो बोधिसत्त्वो महासत्त्वो ऽस्यां सहायां लोकधातौ प्रविचरति, बहूनि चास्य भगवन् दुष्करकोटीनयुतशतसहस्राणि संदृश्यन्ते? तत्साधु भगवान् देशयतु तथागतो ऽर्हन् सम्यक्संबुद्धो भैषज्यराजस्य बोधिसत्त्वस्य महासत्त्वस्य यत् किंचिच्चर्याप्रदेशमात्रम्, यच्छ्रुत्वा देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यास्तदन्यलोकधात्वागताश्च बोधिसत्त्वा महासत्त्वा इमे च महाश्रावकाः श्रुत्वा सर्वे प्रीतास्तुष्टा उदग्रा आत्तमनसो भवेयुरिति ॥
अथ खलु भगवान् नक्षत्रराजसंकुसुमिताभिज्ञस्य बोधिसत्त्वस्य महासत्त्वस्य अध्येषणां विदित्वा तस्यां वेलायां नक्षत्रराजसंकुसुमिताभिज्ञं बोधिसत्त्वं महासत्त्वमेतदवोचत् - भूतपुर्वं कुलपुत्र अतीते ऽध्वनि गङ्गानदीवालिकासमैः कल्पैर्यदासीत् । तेन कालेन तेन समयेन चन्द्रसूर्यविमलप्रभासश्रीर्नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादिविद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । तस्य खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ भगवतश्चन्द्रसूर्यविमलप्रभासश्रियस्तथागतस्यार्हतः सम्यक्संबुद्धस्य अशीतिकोट्यो बोधिसत्त्वानां महासत्त्वानां महासंनिपातो ऽभूत् द्वासप्ततिगङ्गानदीवालिकासमाश्चास्य श्रावकसंनिपातो ऽभूत् । अपगमातृग्रामं च तत्प्रवचनमभूत्, अपगतनिरयतिर्यग्योनिप्रेतासुरकायं समं रमणीयं पाणितलजातं च तद्बुद्धक्षेत्रमभूत्, दिव्यवैडूर्यमयभूमिभागं रत्नचन्दनवृक्षसमलकृतं च रत्नजालसमीरितं च अवसक्तपट्टदामाभिप्रलम्बितं च रत्नगन्धघटिकानिर्धूपितं च । सर्वेषु च रत्नवृक्षमूलेषु इषुक्षेपमानमात्रे रत्नव्योमकानि संस्थितान्यभूवन् । सर्वेषु च रत्नव्योमकमूर्ध्नेषु कोटीशतं देवपुत्राणां तूर्यतालावचरसंगीतिसंप्रभाणितेन अवस्थितमभूत् तस्य भगवतश्चन्द्रसूर्यविमलप्रभासश्रियस्तथागतस्यार्हतः सम्यक्संबुद्धस्य पूजाकर्मणे । स च भगवानिमं सद्धर्मपुण्डरीकं धर्मपर्यायं तेषां महाश्रावकाणां तेषां च बोधिसत्त्वानां महासत्त्वानां विस्तरेण संप्रकाशयति स्म, सर्वसत्त्वप्रियदर्शनं बोधिसत्त्वं महासत्त्वमधिष्ठानं कृत्वा । तस्य खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ भगवतश्चन्द्रसूर्यविमलप्रभासश्रियस्तथागतस्यार्हतः सम्यक्संबुद्धस्य द्वाचत्वारिंशत्कल्पसहस्राण्यायुष्प्रमाणमभूत्, तेषां च बोधिसत्त्वनां महासत्त्वानां तेषां च महाश्रावकाणां तावदेवायुष्प्रमाणमभूत् । स च सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तस्य भगवतः प्रवचने दुष्करचर्याभियुक्तो ऽभूत् । स द्वादशवर्षसहस्राणि चंक्रमाभिरुढो ऽभूत्, महावीर्यारम्भेण योगाभियुक्तो
ऽभूत् । स द्वादशानां वर्षसहस्राणामत्ययेन सर्वरूपसंदर्शनं नाम समाधिं प्रतिलभते स्म । सहप्रतिलम्भाच्च तस्य समाधेः स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातस्तस्यां वेलायामेवं चिन्तयामास - इमं सद्धर्मपुण्डरीकं धर्मपर्यायमागम्य अयं मया सर्वरूपसंदर्शनः ( वैद्य 237 ) समाधिः प्रतिलब्धः । तस्यां वेलायां स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्व एवं चिन्तयति स्म - यन्न्वहं भगवतश्चन्द्रसूर्यविमलप्रभासश्रियस्तथागतस्य पूजां कुर्यामू, अस्य च सद्धर्मपुण्डरीकस्य धर्मपर्यायस्य । स तस्यां वेलायां तथारूपं समाधिं समापन्नः यस्य समाधेः समनन्तरसमापन्नस्य सर्वसत्त्वप्रियदर्शनस्य बोधिसत्त्वस्य महासत्त्वस्य, अद्य तावदेवोपर्यन्दरीक्षान्मान्दारवमहामान्दारवाणां पुष्पाणां महन्तं पुष्पवर्षमभिप्रवृष्ःअम् । कालानुसारिचन्दनमेघः कृतः । उरगसारचन्दनवर्षनभिप्रवृष्ःअम् । तादृशी च नक्षत्रराजसंकुसुमिताभिज्ञ सा गन्धजातिः, यस्या एकः कर्ष इमां सहालोकधातुं मूल्येन क्षमति ॥

अथ खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वः स्मृतिमान् संप्रजानंस्तस्मात् समाधेर्व्युदतिष्ठत् । व्युत्थाय चैवं चिअन्तयामास - न तदर्द्धिप्रातिहार्यसंदर्शनेन भगवतः पूजा कृता भवति, यथा आत्मभावपरित्यागेनेति । अथ खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तस्यां वेलायामगरुतुरुष्ककुन्दुरुकरसं भक्षयति स्म, चम्पकतैलं च पिबति स्म । तेन खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ पर्यायेण तस्य सर्वसत्त्वप्रियदर्शनस्य बोधिसत्त्वस्य महासत्त्वस्य सततसमितं गन्धं भक्षयतश्चम्पकतैलं च पिबतो द्वादश वर्षाण्यतिक्रान्तान्यभूवन् । अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तेषां द्वादशानां वर्षाणामत्ययेन तं स्वमात्मभावं दिव्यैर्वस्त्रैः परिवेष्टय गन्धतैलप्लुतं कृत्वा स्वकमधिष्ठानमकरोत् । स्वकमधिष्ठानं कृत्वा स्वं कायं प्रज्वालयामास तथागतस्य पूजाकर्मणे, अस्य च सद्धर्मपुण्डरीकस्य धर्मपर्यायस्य पूजार्थम् । अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ तस्य सर्वसत्त्वप्रियदर्शनस्य बोधिसत्त्वस्य महासत्त्वस्य ताभिः कायप्रदीपप्रभाज्वालाभिरशीतिगङ्गानदीवालिकासमा लोकधातवः स्फुटा अभुवन् । तासु च लोकधातुषु अशीतिगङ्गानदीवालिकासमा एव बुद्धा भगवन्तस्ते सर्वे साधुकारं ददन्ति स्म - साधु साधु कुलपुत्र, साधु खलु पुनस्त्वं कुलपुत्र, अयं स भूतो बोधिसत्त्वानां महासत्त्वानां वीर्यारम्भः । इयं सा भूता तथागतपूजा धर्मपूजा । न तथा पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकापूजा, नाप्यामिषपूजा नाप्युरगसारचन्दनपूजा । इयं तत्कुलपुत्र अग्रप्रदानम् । न तथा राज्यपरित्यागदानं न प्रियपुत्रभार्यापरित्यागदानम् । इयं पुनः कुलपुत्र विशिष्टा अग्रा वरा प्रवरा प्रणीता धर्मपूजा, यो ऽयमात्मभावपरित्यागः । अथ खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ ते बुद्धा भगवन्त इमां वाचं भाषित्वा तूष्णीमभूवन् ॥
तस्य खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ सर्वसत्त्वप्रियदर्शनात्मभावस्य दीप्यतो द्वादश वर्षशतान्यतिक्रान्तान्यभूवन्, न च प्रशमं गच्छति स्म । स पश्चाद्द्वादशानां वर्षशतानामत्ययात् प्रशान्तो ऽभूत् । स खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्व एवंरूपां तथागतपूजां च धर्मपूजां च कृत्वा ततश्च्युतस्तस्यैव भगवतश्चन्द्रसूर्यविमलप्रभासश्रियस्तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रवचने राज्ञो विमलदत्तस्य गृहे ( वैद्य 238 ) उपपन्न औपपादिकः । उत्सङ्गे पर्यङ्केण प्रादुर्भूतो ऽभूत् । समनन्तरोपपन्नश्च खलु पुनः स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तस्यां वेलायां स्वमातापितरौ गाथयाध्यभाषत -
अयं ममा चंक्रमु राजश्रेष्ठ यस्मिन् मया स्थित्व समाधि लब्धः ।
वीर्यं दृढं आरभितं महाव्रतं परित्यजित्वा प्रियमात्मभावम्

22.2

अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्व इमां गाथां भाषित्वा स्वमातापितरावेतदवोचत् - अद्याप्यम्ब तात स भगवांश्चन्द्रसूर्यविमलप्रभासश्रीस्तथागतो ऽर्हन् सम्यक्संबुद्ध एतर्हि तिष्ठति ध्रियते यापयति धर्मं देशयति, यस्य मया भगवतश्चन्द्रसूर्यविमलप्रभासश्रियस्तथागतस्य पूजां कृत्वा सर्वरुतकौशल्यधारणी प्रतिलब्धा, अयं च सद्धर्मपुण्डरीको धर्मपर्यायो ऽशीतिभिर्गाथाकोटीनयुतशतसहस्रैः कङ्करैश्च विवरैश्च अक्षोभ्यैश्च तस्य भगवतो ऽन्तिकाच्छ्रुतो ऽभूत् । साधु अम्ब तात गमिष्याम्यहं तस्य भगवतो ऽन्तिकम्, तस्मिंश्च गत्वा भूयस्तस्य भगवतः पूजां करिष्यामीति । अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तस्यां वेलायां सप्ततालमात्रं वैहायसमभ्युद्गम्य सप्तरत्नमये कूटागारे पर्यङ्कमाभुज्य तस्य भगवतः सकाशमुपसंक्रान्तः । उपसंक्रम्य तस्य भगवतः पादौ शिरसाभिवन्द्य तं भगवन्तं सप्तकृत्वः प्रदक्षिणीकृत्य येन स भगवांस्तेनाञ्जलिं प्रणाम्य तं भगवन्तं नमस्कृत्वा अनया गाथायाभिष्टौति स्म -
सुविमलवदना नरेन्द्र धीरा तव प्रभ राजतियं दशद्दिशासु ।
तुभ्य सुगत कृत्व अग्रपूजां अहमिह आगतु नाथ दर्शनाय

मूल पाठ: Saddharmapuṇḍarīkasūtra · Edition: P.L. Vaidya, Darbhanga : The Mithila Institute, 1960 (Buddhist Sanskrit Texts, 6) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc