भाषा

ENहिગુ
ग्रंथ पाठ

सद्धर्मपुण्डरीकसूत्र · अध्याय 25

25.1

इति ॥
अथ खलु धरणिंधरो बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणाम्य भगवन्तमेतदवोचत् - न ते भगवन् सत्त्वाः अवरकेण कुशलमूलेन समन्वागता भविष्यन्ति, ये ऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्येमं धर्मपर्यायपरिवर्तं श्रोष्यन्ति अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य विकुर्वानिर्देशं समन्तमुखपरिवर्तं नाम अवलोकितेश्वरस्य बोधिसत्त्वस्य विकुर्वणप्रातिहार्यम् ॥
अस्मिन् खलु पुनः समन्तमुखपरिवर्ते भगवता निर्देश्यमाने तस्याः पर्षदश्चतुरशीतिनां प्राणिसहस्राणामसमसमायामनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नान्यभूवन् ॥
इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये समन्तमुखपरिवर्तो नामावलोकितेश्वरविकुर्वणनिर्देशश्चतुर्विशतिमः ॥
सद्ध्प्_25: शुभव्यूहराजपूर्वयोगपरिवर्तः ।
अथ खलु भगवान् सर्वावन्तं बोधिसत्त्वगणमामन्त्रयामास - भूतपूर्वं कुलपुत्र अतीते ऽध्वन्यसंख्येयैः कल्पैरसंख्येयतरैर्यदासीत् । तेन कालेन तेन समयेन जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि, विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् प्रियदर्शने कल्पे वैरोचनरश्मिप्रतिमण्डितायां लोकधातौ । तस्य खलु पुनः कुलपुत्रा जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्य तथागतस्य प्रवचने शुभव्यूहो नाम राजाभूत् । तस्य खलु पुनः कुलपुत्रा राज्ञः शुभव्यूहस्य विमलदत्ता नाम भार्याभूत् । तस्य खलु पुनः कुलपुत्रा राज्ञः शुभव्यूहस्य द्वौ पुत्रावभूताम् - एको विमलगर्भो नाम, द्वितीयो विमलनेत्रो नाम । तौ च द्वौ दारकावृद्धिमन्तौ चाभूताम्, प्रज्ञावन्तौ च पुण्यवन्तौ च ज्ञानवन्तौ च बोधिसत्त्वचर्यायां च अभियुक्तावभूताम् । तद्यथा - दानपारमितायामभियुक्तावभूताम्, शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायामुपायकौशल्यपारमितायां मैत्र्यां करुणायां मुदितायामुपेक्षायां यावत् सप्तत्रिंशत्सु बोधिपक्षिकेषु धर्मेषु । सर्वत्र पारंगतावभूताम्, विमलस्य समाधेः पारंगतौ, नक्षत्रराजादित्यस्य समाधेः पारंगतौ, विमलनिर्भासस्य समाधेः पारंगतौ, विमलभासस्य समाधेः पारंगतौ, अलंकारशुभस्य समाधेः पारंगतौ, महातेजोगर्भस्य समाधेः पारंगतावभूताम् । स च भगवांस्तेन कालेन तेन समयेन इमं सद्धर्मपुण्डरीकं धर्मपर्यायं देशयामास तेषां सत्त्वानामनुकम्पायै, तस्य च राज्ञः शुभव्यूहस्यानुकम्पायै । अथ खलु कुलपुत्रा विमलगर्भो दारको विमलनेत्रश्च दारको येन स्वमाता जनयित्री, तेनोपसंक्रामताम् । उपसंक्रम्य दशनखमञ्जलिं प्रगृह्य जनयित्रीमेतदवोचताम् एह्यम्ब गमिष्यावस्तस्य भगवतो जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य सकाशम् तं भगवन्तं जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञं तथागतमर्हन्तं सम्यक्संबुद्धं दर्शनाय वन्दनाय
पर्युपासनाय । तत्कस्य हेतोः? एष ह्यम्ब स भगवान् जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्तथागतो ऽर्हन् सम्यक्संबुद्धः सदेवकस्य लोकस्य पुरतः सद्धर्मपुण्डरीकं नाम धर्मपर्यायं विस्तेरण संप्रकाशयति, तं श्रवणाय गमिष्यावः । एवमुक्ते कुलपुत्रा विमलदत्ता राजभार्या विमलगर्भं दारकं विमलनेत्रं च दारकमेतदवोचत् - एष खलु कुलपुत्रौ युवयोः पिता राजा शुभव्यूहो ब्राह्मणेष्वभिप्रसन्नः । तस्मान्न लप्स्यथ तं तथागतं दर्शनायाभिगन्तुम् । अथ खलु कुलपुत्रा विमलगर्भो दारको विमलनेत्रश्च दारको दशनखमञ्जलिं प्रगृह्य तां स्वमातरं जनयित्रीमेतदवोचताम् - मिथ्यादृष्टिकुले ऽस्मिन्नावां जातौ? आवां पुनर्धर्मराजपुत्राविति । अथ खलु कुलपुत्रा विमलदत्ता राजभार्या तौ द्वौ दारकावेतदवोचत् - साधु साधु कुलपुत्रौ ( वैद्य 259 )। युवां तस्य स्वपितू राज्ञः शुभव्यूहस्यानुकम्पायै किंचिदेव प्रातिहार्यं संदर्शयतम् । अप्येव नाम युवयोरन्तिके प्रसादं कुर्यात् । प्रसन्नचित्तश्च अस्माकमनुजानीयात् तस्य भगवतो जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धमभिगन्तुम् ॥
अथ खलु कुलपुत्रा विमलगर्भो दारको विमलनेत्रश्च दारकस्तस्यां वेलायां सप्ततालमात्रं वैहायसमभ्युद्गम्य तस्य पितू राज्ञः शुभव्यूहस्यानुकम्पायै बुद्धानुज्ञातानि यमकानि प्रातिहार्याण्यकुरुताम् । तौ तत्रैवान्तरीक्षे गतौ शय्यामकल्पयताम् । तत्रैवान्तरीक्षे चंक्रमतः, तत्रैवान्तरीक्षे रजो व्यधुनीताम्, तत्रैवान्तरीक्षे ऽधःकायाद्वारिधारां प्रमुमोचतुः, ऊर्ध्वकायादग्निस्कन्धं प्रज्वालयतः स्म । ऊर्ध्वकायाद्वारिधारां प्रमुमोचतुः, अधःकायादग्निस्कन्धं प्रज्वालयतः स्म । तौ तस्मिन्नेवाकाशे महान्तौ भूत्वा खुड्डकौ भवतः, खुड्डकौ भूत्वा महान्तौ भवतः । तस्मिन्नेवान्तरीक्षे ऽन्तर्धायतः । पृथिव्यामुन्मज्जतः । पृथिव्यामुन्मज्जित्वा आकाशौन्मज्जतः । इयद्भिः खलु पुनः कुलपुत्रा ऋद्धिप्रातिहार्यैस्ताभ्यां द्वाभ्यां दारकाभ्यां स शुभव्यूहो राजा स्वपिता विनीतः । अथ खलु कुलपुत्राः स राजा शुभव्यूहस्तयोर्दारकयोस्तमृद्धिप्रातिहार्यं दृष्ट्वा तस्यां वेलायां तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो दशनखमञ्जलिं प्रगृह्य तौ दारकावेतदवोचत् - को युवयोः कुलपुत्रौ शास्ता, कस्य वा युवां शिष्याविति? अथ खलु कुलपुत्रास्तौ द्वौ दारकौ तं राजानं शुभव्यूहमेतदवोचत् - एष स महाराज भगवान् जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तिष्ठति ध्रियते यापयति रत्नमये बोधिवृक्षमूले धर्मासनोपविष्टः । सदेवकस्य लोकस्य पुरतः सद्धर्मपुण्डरीकं नाम धर्मपर्यायं विस्तरेण संप्रकाशयति । स आवयोर्भगवान् शास्ता । तस्यावां महाराज शिष्यौ । अथ खलु कुलपुत्राः स राजा शुभव्यूहस्तौ दारकावेतदवोचत् - पश्यामो वयं कुलपुत्रौ तं युवयोः शास्तारम् । गमिष्यामो वयं तस्य भगवतः सकाशम् ॥
अथ खलु कुलपुत्रास्तौ द्वौ दारकौ ततो ऽन्तरीक्षादवतीर्य येन स्वमाता जनयित्री तेनोपसंक्रामताम् । उपसंक्रम्य दशनखमञ्जलिं प्रगृह्य स्वमातरं जनयित्रीमेतदवोचताम् - एष आवाभ्यामम्ब विनीतः स्वपिता अनुत्तरायां सम्यक्संबोधौ । कृतमावाभ्यां पितुः शास्तृकृत्यम् । तदिदानीमुत्स्रष्टुमर्हसि । आवां तस्य भगवतः सकाशे प्रव्रजिष्याव इति ॥

अथ खलु कुलपुत्रा विमलगर्भो दारको विमलनेत्रश्च दारकस्तस्यां वेलायां स्वमातरं जनयित्रीं गाथाभ्यामध्यभाषताम् -
अनुजानीह्यावयोरम्ब प्रव्रज्यामनगारिकाम् ।
आवां वै प्रव्रजिष्यावो दुर्लभो हि तथागतः

25.2

औदुम्बरं यथा पुष्पं सुदुर्लभतरो जिनः ।
उत्सृज्य प्रव्रजिष्यावो दुर्लभा क्षणसंपदा

25.3

विमलदत्ता राजभार्या आह -
उत्सृजामि युवामद्य गच्छथा साधु दारकौ ।
वयं पि प्रव्रजिष्यामो दुर्लभो हि तथागतः

मूल पाठ: Saddharmapuṇḍarīkasūtra · Edition: P.L. Vaidya, Darbhanga : The Mithila Institute, 1960 (Buddhist Sanskrit Texts, 6) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc