भाषा

ENहिગુ
ग्रंथ पाठ

सद्धर्मपुण्डरीकसूत्र · अध्याय 21

21.1

इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये तथागतद्धर्यभिसंस्कारपरिवर्तो नाम विंशतितमः ॥
सद्ध्प्_21: धारणीपरिवर्तः ।
अथ खलु भैषज्यराजो बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् कियद् भगवन् स कुलपुत्रो वा कुलदुहिता वा पुण्यं प्रसवेत्, य इमं सद्धर्मपुण्डरीकं धर्मपर्यायं धारयेत्, कायगतं वा पुस्तकगतं वा कृत्वा? एवमुक्ते भगवान् भैषज्यराजं बोधिसत्त्वं महासत्त्वमेतदवोचत् - यः कश्चिद् भैषज्यराज कुलपुत्रो वा कुलदुहिता वा अशीतिगङ्गानदीवालिकासमानि तथागतकोटीनयुतशतसहस्राणि सत्कुर्याद् गुरुकुर्यान्मानयेत् पूजयेत्, तकिं मन्यसे भैषज्यराज कियत्कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? भैषज्यराजो बोधिसत्त्वो महासत्त्व आह - बहु भगवन्, बहु सुगत । भगवानाह - आरोचयामि ते भैषज्यराज, प्रतिवेदयामि । यः कश्चिद् भैषज्यराज कुलपुत्रो वा कुलदुहिता वा अस्मात् सद्धर्मपुण्डरीकाद्धर्मपर्यायादन्तश एकामपि चतुष्पदीगाथां धारयेत्, वाचयेत्, पर्यवाप्नुयात्, प्रतिपत्त्या च संपादयेत्, अतः स भैषज्यराज कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत् ॥
अथ खलु भैषज्यराजो बोधिसत्त्वो महासत्त्वस्तस्यां वेलायां भगवन्तमेतदवोचत् - दास्यामो वयं भगवंस्तेषां कुलपुत्राणां कुलदुहितृणां वा येषामयं सद्धर्मपुण्डरीको धर्मपर्यायः कायगतो वा स्यात्, पुस्तकगतो वा, रक्षावरणगुप्तये धारणीमन्त्रपदानि । तद्यथा -
अन्ये मन्ये मने ममने चित्ते चरिते समे समिता विशान्ते मुक्ते मुक्ततमे समे अविषमे समसमे जये क्षये अक्षये अक्षिणे शान्ते समिते धारणि आलोकभाषे प्रत्यवेक्षणि निधिरु अभ्यन्तरनिविष्टे अभ्यन्तरपारिशुद्धिमुत्कुले अरडे परडे सुकाङ्क्षि असमसमे बुद्धविलोकिते धर्मपरीक्षिते संघनिर्घोषणि निर्घोणि भयाभयविशोधनि मन्त्रे मन्त्राक्षयते रुते रुतकौशल्ये अक्षये अक्षयवनताये वक्कुले वलोड्र अमन्यनताये स्वाहा ॥
इमानि भगवन् मन्त्रधारणीपदानि द्वाषष्टिभिर्गङ्गानदीवालिकासमैर्बुद्धैर्भगवद्भिर्भाषितानि । ते सर्वे बुद्धा भगवन्तस्तेन द्रुग्धाः स्युः, य एवंरुपान् धर्मभाणकानेवंरूपान् सूत्रान्तधारकानतिक्रामेत् ॥
अथ खलु भगवान् भैषज्यराजाय बोधिसत्त्वाय महासत्त्वाय साधुकारमदात् साधु साधु भैषज्यराज, सत्त्वानामर्थः कृतः । धारणीपदानि भाषितानि सत्त्वानामनुकम्पामुपादय । रक्षावरणगुप्तिः कृता ॥
अथ खलु प्रदानशूरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - अहमपि भगवन् एवंरूपाणां धर्मभाणकानामर्थाय धारणीपदानि दास्यामि, यत्तेषामेवंरूपाणां धर्मभाणकानां न कश्चिदवतारप्रेक्षी अवतारगवेषी अवतारं लप्स्यते । तद्यथा यक्षो वा राक्षसो वा पूतनो वा कृत्यो वा कुम्भाण्डो वा प्रेतो वा अवतारप्रेक्षी अवतारगवेषी अवतारं न लप्स्यत इति ॥
अथ खलु प्रदानशूरो बोधिसत्त्वो महासत्त्वस्तस्यां वेलायामिमानि धारणीमन्त्रपदानि भाषते स्म । तद्यथा -
ज्वले महाज्वले उक्के तुक्के मुक्के अडे अडावति नृत्ये नृत्यावति इट्टिनि विट्टिनि चिट्टिनि नृत्यनि नृत्यावति स्वाहा ॥
इमानि भगवन् धारणीपदानि गङ्गानदीवालिकासमैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैर्भाषितानि, अनुमोदितानि च । ते सर्वे तथागतास्तेन द्रुग्धाः स्युः, यस्तानेवंरूपान् धर्मभाणकानतिक्रमेत ॥
अथ खलु वैश्रवणो महाराजो भगवन्तमेतदवोचत् - अहमपि भगवन् धारणीपदानि भाषिष्ये तेषां धर्मभाणकानां हिताय सुखाय अनुकम्पायै रक्षावरणगुप्तये ॥ तद्यथा -
अट्टे तट्टे नट्टे वनट्टे अनडे नाडि कुनडि स्वाहा ॥
एभिर्भगवन् धारणीपदैस्तेषां धर्मभाणकानां पुद्गलानां रक्षां करोमि, योजनशताच्चाहं तेषां कुलपुत्राणां कुलदुहितृणां च एवंरूपाणां सूत्रान्तधारकाणां रक्षा कृता भविष्यति, स्वस्त्ययनं कृतं भविष्यति ॥
अथ खलु विरूढको महाराजो तस्यामेव पर्षदि संनिपतितो ऽभूत् संनिषण्णश्च कुम्भाण्डकोटीनयुतशतसहस्रैः परिवृतः पुरस्कृतः । स उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणाम्य भगवन्तमेतदवोचत् - अहमपि भगवन् धारणीपदानि भाषिष्ये बहुजनहिताय । तेषां च तथारूपाणां धर्मभाणकानामेवंरूपाणां सूत्रान्तधारकाणां रक्षावरणगुप्तये धारणीमन्त्रपदानि । तद्यथा -
अगणे गणे गौरि गन्धारि चण्डालि मातङ्गि पुक्कसि संकुले व्रूसलि सिसि स्वाहा ॥
इमानि तानि भगवन् धारणीमन्त्रपदानि, यानि द्वाचत्वारिंशद्भिर्बुद्धकोटीभिर्भाषितानि । ते सर्वे तेन द्रुग्धाः स्युः, यस्तानेवंरूपान् धर्मभाणकानतिक्रमेत ॥
अथ खलु लम्बा च नाम राक्षसी विलम्बा च नाम राक्षसी कूटदन्ती च नाम राक्षसी पुष्पदन्ती च नाम राक्षसी मकुटदन्ती च नाम राक्षसी केशिनी च नाम राक्षसी अचला च नाम राक्षसी मालाधारी च नाम राक्षसी कुन्ती च नाम राक्षसी सर्वसत्त्वोजोहारी च नाम राक्षसी ह्ःरीती च न्ःम र्ःक्षसी सपुत्रपरिव्ःर्ः एत्ःः सर्व्ः र्ःक्षस्यो येन भगव्ःंस्तेनोपसंक्र्ःन्त्ःः । उपसंक्रम्य सर्व्ःस्त्ः र्ःक्षस्य एकस्वरेण भगवन्तमेतदवोचन् - वयमपि भगवंस्तेष्ःमेवंरूप्ःण्ःं सूत्र्ःन्तध्ःरक्ःण्ःं धर्मभ्ःणक्ःन्ःं रक्ष्ःवरणगुप्तिं करिष्य्ःमः, स्वस्त्ययनं च करिष्य्ःमः । यथ्ः तेष्ःं धर्मभ्ःणक्ःन्ःं न कश्चिदवत्ःरप्रेक्षी अवत्ःरगवेषी अवत्ःरं लप्स्यतीति ॥
अथ खलु ताः सर्वा राक्षस्य एकस्वरेण समं संगीत्या भगवत इमानि धारणीमन्त्रपदानि प्रयच्छन्ति स्म । तद्यथा -( वैद्य 235 )
इति मे इति मे इति मे इति मे इति मे । निमे निमे निमे निमे निमे । रुहे रुहे रुहे रुहे रुहे । स्तुहे स्तुहे स्तुहे स्तुहे स्तुहे स्वाहा ॥
इमं शीर्षं समारुह्य मा कश्चिद् द्रोही भवतु धर्मभाणकानां यक्षो वा राक्षसो वा प्रेतो वा पिशाचो वा पूतनो वा कृत्यो व वेतालो वा कुम्भाण्डो वा स्तब्धो वा ओमारको वा ओस्तारको वा अपस्मारको वा यक्षकृत्यो वा अमनुष्यकृत्यो वा मनुष्यकृत्यो वा एकाहिको वा द्वैतीयको वा त्रैतीयको वा चतुर्थको वा नित्यज्वरो वा विषमज्वरो वा । अन्तशः स्वप्नान्तरगतस्यापि स्त्रीरूपाणि वा पुरुषरूपाणि वा दारकरूपाणि वा दारिकारूपाणि वा विहेठां कुर्युः, नेदं स्थानं विद्यते ॥
अथ खलु ता राक्षस्य एवस्वरेण समं संगीत्या भगवन्तमाभिर्गाथाभिरध्यभाषन्त -
सप्तधास्य स्फुटेन्मूर्धा अर्जकस्येव मञ्जरी ।
य इमं मन्त्र श्रुत्वा वै अतिक्रमेद्धर्मभाणकम्

21.2

या गतिर्मातृघातीनां पितृघातीन या गतिः ।
तां गतिं प्रतिगच्छेद्यो धर्मभाणकमतिक्रमेत्

21.3

या गतिस्तिलपीडानां तिलकूटानां च या गतिः ।
तां गतिं प्रतिगच्छेद्यो धर्मभाणकमतिक्रमेत्

21.4

या गतिस्तुलकूटानां कांस्यकूटान या गतिः ।
तां गतिं प्रतिगच्छेद्यो धर्मभाणकमतिक्रमेत्

मूल पाठ: Saddharmapuṇḍarīkasūtra · Edition: P.L. Vaidya, Darbhanga : The Mithila Institute, 1960 (Buddhist Sanskrit Texts, 6) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc