भाषा

ENहिગુ
ग्रंथ पाठ

सद्धर्मपुण्डरीकसूत्र · अध्याय 2

2.1

इत्यार्यसद्धर्मपुण्डरीके धमपर्याये निदानपरिवर्तो नाम प्रथमः ॥1॥
सद्ध्प्_2: उपायकौशल्यपरिवर्तः ।
अथ खलु भगवान् स्मृतिमान् संप्रजानंस्ततः समाधेर्व्युत्थितः । व्युत्थाय आयुष्मन्तं शारिपुत्रमामन्त्रयते स्म - गम्भीरं शारिपुत्र दुर्दृशं दुरनुबोधं बुद्धज्ञानं तथागतैरर्हद्भिः सम्यक्संबुद्धैः प्रतिबुद्धम्, दुर्विज्ञेयं सर्वश्रावकप्रत्येकबुद्धैः । तत्कस्य हेतोः? बहुबुद्धकोटीनयुतशतसहस्रपर्युपासिताविनो हि शारिपुत्र तथागता अर्हन्तः सम्यक्संबुद्धा बहुबुद्धकोटीनयुतशतसहस्रचीर्णचरिताविनो ऽनुत्तरायां सम्यक्संबोधौ दूरानुगताः कृतवीर्या आश्चर्याद्भुतधर्मसमन्वागता दुर्विज्ञेयधर्मसमन्वागता दुर्विज्ञेयधर्मानुज्ञाताविनः ॥
दुर्विज्ञेयं शारिपुत्र संधाभाष्यं तथागतानामर्हतां सम्यक्संबुद्धानाम् । तत्कस्य हेतोः? स्वप्रत्ययान् धर्मान् प्रकाशयन्ति विविधोपायकौशल्यज्ञानदर्शनहेतुकारणनिर्देशनारम्बणनिरुक्तिप्रज्ञप्तिभिस्तैरुपायकौशल्यैस्तस्मिंस्तस्मिंल्लग्नान् सत्त्वान् प्रमोचयितुम् । महोपायकौशल्यज्ञानदर्शनपरमपारमिताप्राप्ताः शारिपुत्र तथागता अर्हन्तः सम्यक्संबुद्धाः । असङ्गाप्रतिहतज्ञानदर्शनबलवैशारद्यावेणिकेन्द्रियबलबोध्यङ्गध्यानविमोक्षसमाधिसमापत्त्यद्भुतधर्मसमन्वागता विविधधर्मसंप्रकाशकाः । महाश्चर्याद्भुतप्राप्ताः शारिपुत्र तथागता अर्हन्तः सम्यक्संबुद्धाः । अलं शारिपुत्र एतावदेव भाषितुं भवतु - परमाश्चर्यप्राप्ताः शारिपुत्र तथागता अर्हन्तः सम्यक्संबुद्धाः । तथागत एव शारिपुत्र तथागतस्य धर्मान् देशयेत्, यान् धर्मांस्तथागतो जानाति । सर्वधर्मानपि शारिपुत्र तथागत एव देशयति । सर्वधर्मानपि तथागत एव जानाति, ये च ते धर्माः, यथा च ते धर्माः, यादृशाश्च ते धर्माः, यल्लक्षणाश्च ते धर्माः, यत्स्वभावाश्च ते धर्माः, ये च यथा च यादृशाश्च यल्लक्षणाश्च यत्स्वभावाश्च ते धर्मा इति । तेषु धर्मेषु तथागत एव प्रत्यक्षो ऽपरोक्षः ॥
अथ खलु भगवानेतमेवार्थं भूयस्या मात्रया संदर्शयमानस्तस्यां वेलायामिमा गाथा अभाषत -
अप्रमेया महावीरा लोके समरुमानुषे ।
न शक्यं सर्वशो ज्ञातुं सर्वसत्त्वैर्विनायकाः

2.2

बला विमोक्षा ये तेषां वैशारद्याश्च यादृशाः ।
यादृशा बुद्धधर्माश्च न शक्यं ज्ञातु केनचित्

2.3

पूर्वे निषेविता चर्या बुद्धकोटीन अन्तिके ।
गम्भीरा चैव सूक्ष्मा च दुर्विज्ञेया सुदुर्दृशा

2.4

तस्यां चीर्णाय चर्यायां कल्पकोट्यो अचिन्तिया ।
फलं मे बोधिमण्डस्मिन् दृष्टं यादृशकं हि तत्

2.5

अहं च तत्प्रजानामि ये चान्ये लोकनायकाः ।
यथा यद् यादृशं चापि लक्षणं चास्य यादृशम्

2.6

न तद्दर्शयितुं शक्यं व्याहारो ऽस्य न विद्यते ।
नाप्यसौ तादृशः कश्चित् सत्त्वो लोकस्मि विद्यते

2.7

यस्य तं देशयेद्धर्म देशितं चापि जानियात् ।
अन्यत्र बोधिसत्त्वेभ्यो अधिमुक्तीय ये स्थिताः

2.8

ये चापि ते लोकविदुस्य श्रावकाः कृताधिकाराः सुगतानुवर्णिताः ।
क्षीणास्रवा अन्तिमदेहधारिणो न तेष विषयो ऽस्ति जिनान ज्ञाने

2.9

स चैव सर्वा इय लोकधातु पूर्णा भवेच्छारिसुतोपमानाम् ।
एकीभवित्वान विचिन्तयेयुः सुगतस्य ज्ञानं न हि शक्य जानितुम्

2.10

सचेह त्वं सादृशकेहि पण्डितैः पूर्णा भवेयुर्दशा पि द्दिशायो ।
ये चापि मह्यं इमि श्रावकान्ये तेषां पि पूर्णा भवि एवमेव

2.11

एकीभवित्वान च ते ऽद्य सर्वे विचिन्तयेयुः सुगतस्य ज्ञानम् ।
न शक्त सर्वे सहिता पि ज्ञातुं यथाप्रमेयं मम बुद्धज्ञानम्

2.12

प्रत्येकबुद्धान अनास्रवाणां तीक्ष्णेन्द्रियाणान्तिमदेहधारिणाम् ।
दिशो दशः सर्व भवेयुः पूर्णा यथा नडानां वनवेणुनां वा

2.13

एको भवित्वान विचिन्तयेयुर्ममाग्रधर्माण प्रदेशमात्रम् ।
कल्पान कोटीनयुताननन्तान्न तस्य भूतं परिजानि अर्थम्

2.14

नवयानसंप्रस्थित बोधिसत्त्वाः कृताधिकारा बहुबुद्धकोटिषु ।
सुविनिश्चितार्था बहुधर्मभाणकास्तेषां पि पूर्णा दशिमा दिशो भवेत्

2.15

नडान वेणून व नित्यकालमच्छिद्रपूर्णो भवि सर्वलोकः ।
एकीभवित्वान विचिन्तयेयुर्यो धर्म साक्षात् सुगतेन दृष्टः

2.16

अनुचिन्तयित्वा बहुकल्पकोट्यो गङ्गा यथा वालिक अप्रमेयाः ।
अनन्यचित्ताः सुखुमाय प्रज्ञया तेषां पि चास्मिन् विषयो न विद्यते

2.17

अविवर्तिका ये भवि बोधिसत्त्वा अनल्पका यथरिव गङ्गवालिकाः ।
अनन्यचित्ताश्च विचिन्तयेयुस्तेषां पि चास्मिन् विषयो न विद्यते

2.18

गम्भीर धर्मा सुखुमा पि बुद्धा अतर्किकाः सर्वि अनास्रवाश्च ।
अहं च जानामिह यादृशा हि ते ते वा जिना लोकि दशद्दिशासु

2.19

यं शारिपुत्रो सुगतः प्रभाषते अधिमुक्तिसंपन्न भवाहि तत्र ।
अनन्यथावादि जिनो महर्षी चिरेण पी भाषति उत्तमार्थम्

2.20

आमन्त्रयामी इमि सर्वश्रावकान् प्रत्येकबोधाय च ये ऽभिप्रस्थिताः ।
संस्थापिता ये मय निर्वृतीय संमोक्षिता दुःखपरंपरातः

2.21

उपायकौशल्य ममेतदग्रं भाषामि धर्मं बहु येन लोके ।
तहिं तहिं लग्न प्रमोचयामि त्रीणी च यानान्युपदर्शयामि

2.22

अथ खलु ये तत्र पर्षत्संनिपाते महाश्रावका आज्ञातकौण्डिन्यप्रमुखा अर्हन्तः क्षीणास्रवा द्वादश वशीभूतशतानि ये चान्ये श्रावकयानिका भिक्षुभिक्षुण्युपासकोपासिका ये च प्रत्येकबुद्धयानसंप्रस्थिताः, तेषां सर्वेषामेतदभवत् - को नु हेतुः किं कारणं यद् भगवानधिमात्रमुपायकौशल्यं तथागतानां संवर्णयति? गम्भीरश्चायं मया धर्मो ऽभिसंबुद्ध इति संवर्णयति? दुर्विज्ञेयश्च सर्वश्रावकप्रत्येकबुद्धैरिति संवर्णयति? यथा तावद् भगवता एकैव विमुक्तिराख्याता, वयमपि बुद्धधर्माणां लाभिनो निर्वाणप्राप्ताः । अस्य च वयं भगवतो भाषितस्यार्थ न जानीमः ॥
अथ खल्वायुष्मान् शारिपुत्रस्तासां चतसृणां पर्षदां विचिकित्साकथंकथां विदित्वा चेतसैव चेतःपरिवितर्कमाज्ञाय आत्मना च धर्मसंशयप्राप्तस्तस्यां वेलायां भगवन्तमेतदवोचत् - को भगवन् हेतुः, कः प्रत्ययो यद् भगवानधिमात्रं पुनः पुनस्तथागतानामुपायकौशल्यज्ञानदर्शनधर्मदेशनां संवर्णयति - गम्भीरश्च मे धर्मो ऽभिसंबुद्ध इति । दुर्विज्ञेयं च संघाभाष्यमिति पुनः पुनः संवर्णयति । न च मे भगवतो ऽन्तिकादेवंरूपो धर्मपर्यायः श्रुतपूर्वः । इमाश्च भगवंश्चतस्रः पर्षदो विचिकित्साकथंकथाप्राप्ताः । तत्साधु भगवान्निर्दिशतु यत्संघाय तथागतो गम्भीरस्य तथागतधर्मस्य पुनः पुनः संवर्णनां करोति ॥
अथ खल्वायुष्मान् शारिपुत्रस्तस्यां वेलायामिमा गाथा अभाषत -
चिरस्याद्य नरादित्य ईदृशीं कुरुते कथाम् ।
बला विमोक्षा ध्यानाश्च अप्रमेया मि स्पर्शिताः

2.23

बोधिमण्डं च कीर्तेसि पृच्छकस्ते न विद्यते ।
संधाभाष्यं च कीर्तेसि न च त्वां कश्चि पृच्छति

2.24

अपृच्छितो व्याहरसि चर्यां वर्णेसि चात्मनः ।
ज्ञानाधिगम कीर्तेसि गम्भीरं च प्रभाषसे

2.25

अद्येमे संशयप्राप्ता वशीभूता अनास्रवाः ।
निर्वाणं प्रस्थिता ये च किमेतद् भाषते जिनः

2.26

प्रत्येकबोधिं प्रार्थेन्ता भिक्षुण्यो भिक्षवस्तथा ।
देवा नागाश्च यक्षाश्च गन्धर्वाश्च महोरगाः

2.27

समालपन्तो अन्योन्यं प्रेक्षन्ते द्विपदोत्तमम् ।
कथंकथी विचिन्तेन्ता व्याकुरुष्व महामुने

2.28

यावन्तः श्रावकाः सन्ति सुगतस्येह सर्वशः ।
अहमत्र पारमीप्राप्तो निर्दिष्टः परमर्षिणा

2.29

ममापि संशयो ह्यत्र स्वके स्थाने नरोत्तम ।
किं निष्ठा मम निर्वाणे अथ चर्या मि दर्शिता

2.30

प्रमुञ्च घोषं वरदुन्दुभिस्वरा उदाहरस्वा यथ एष धर्मः ।
इमे स्थिता पुत्र जिनस्य औरसा व्यवलोकयन्तश्च कृताञ्जली जिनम्

2.31

देवाश्च नागाश्च सयक्षराक्षसाः कोटीसहस्रा यथ गङ्गवालिकाः ।
ये चापि प्रार्थेन्ति समग्रबोधिं सहस्रशीतिः परिपूर्ण ये स्थिताः

2.32

राजान ये महिपति चक्रवर्तिनो ये आगताः क्षेत्रसहस्रकोटिभिः ।
कृताञ्जली सर्वि सगौरवाः स्थिताः कथं नु चर्यां परिपूरयेम

2.33

एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत् - अलं शारिपुत्र । किमनेनार्थेन भाषितेन? तत्कस्य हेतोः? उत्रसिष्यति शारिपुत्र अयं सदेवको लोको ऽस्मिन्नर्थे व्याक्रियमाणे । द्वैतीयकमप्यायुष्मान् शारिपुत्रो भगवन्तमध्येषते स्म - भाषतां भगवान्, भाषतां सुगत एतमेवार्थम् । तत्कस्य हेतोः? सन्ति भगवंस्तस्यां पर्षदि बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि बहूनि प्राणिकोटीनयुतशतसहस्राणि पूर्वबुद्धदर्शावीनि प्रज्ञावन्ति, यानि भगवतो भाषितं श्रद्धास्यन्ति प्रतीयिष्यन्ति उद्ग्रहीष्यन्ति ॥
अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमनया गाथयाध्यभाषत -
विस्पष्टु भाषस्व जिनान उत्तमा सन्तीह पर्षाय सहस्र प्राणिनाम् ।
श्राद्धाः प्रसन्नाः सुगते सगौरवा ज्ञास्यन्ति ये धर्ममुदाहृतं ते

2.34

अथ खलु भगवान् द्वैतीयकमप्यायुष्मन्तं शारिपुत्रमेतदवोचत् - अलं शारिपुत्र अनेनार्थेन प्रकाशितेन । उत्रसिष्यति शारिपुत्र अयं सदेवको लोको ऽस्मिन्नर्थे व्याक्रियमाणे । अभिमानप्राप्ताश्च भिक्षवो महाप्रपातं प्रपतिष्यन्ति ॥
अथ खलु भगवांस्तस्यां वेलायामिमां गाथामभाषत -
अलं हि धर्मेणिह भाषितेन सूक्ष्मं इदं ज्ञानमतर्किकं च ।
अभिमानप्राप्ता बहु सन्ति बाला निर्दिष्टधर्मस्मि क्षिपे अजानकाः

2.35

त्रैतीयकमप्यायुष्मान् शारिपुत्रो भगवन्तमध्येषते स्म - भाषतां भगवान्, भाषतां सुगत एतमेवार्थम् । मादृशानां भगवन्निह पर्षदि बहूनि प्राणिशतानि संविद्यन्ते, अन्यानि च भगवन् बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि बहूनि प्राणिकोटीनयुतशतसहस्राणि, यानि भगवता पूर्वभवेषु परिपाचितानि, तानि भगवतो भाषितं श्रद्धास्यन्ति प्रतीयिष्यन्ति उद्गहीष्यन्ति । तेषां तद्भभविष्यति दीर्घरात्रमर्थाय हिताय सुखायेति ॥
अथ खल्वायुष्मान् शारिपुत्रस्तस्यां वेलायामिमा गाथा अभाषत -
भाषस्व धर्मं द्विपदानमुत्तमा अहं त्वामध्येषमि ज्येष्ठपुत्रः ।
सन्तीह प्राणीन सहस्रकोटयो ये श्रद्दधास्यन्ति ते धर्म भाषितम्

2.36

ये च त्वया पूर्वभवेषु नित्यं परिपाचिताः सत्त्व सुदीर्घरात्रम् ।
कृताञ्जली ते पि स्थितात्र सर्वे ये श्रद्दधास्यन्ति तवैत धर्मम्

2.37

अस्मादृशा द्वादशिमे शताश्च ये चापि ते प्रस्थित अग्रबोधये ।
तान् पश्यमानः सुगतः प्रभाषतां तेषां च हर्षं परमं जनेतु

2.38

अथ खलु भगवांस्त्रैतीयकमप्यायुष्मतः शारिपुत्रस्याध्येषणां विदित्वा आयुष्मन्तं शारिपुत्रमेतदवोचत् - यदिदानीं त्वं शारिपुत्र यावत्रैतीयकमपि तथागतमध्येषसे । एवमध्येषमाणं त्वां शारिपुत्र किं वक्ष्यामि ? तेन हि शारिपुत्र शृणु, साधु च सुष्ठु च मनसि कुरु । भाषिष्ये ऽहं ते ॥
समनन्तरभाषिता चेयं भगवता वाक्, अथ खलु ततः पर्षद आभिमानिकानां भिक्षूणां भिक्षुणीनामुपासकानामुपासिकानां पञ्चमात्राणि सहस्राण्युत्थाय आसनेभ्यो भगवतः पादौ शिरसाभिवन्दित्वा ततः पर्षदो ऽपक्रामन्ति स्म, यथापीदमभिमानाकुशलमूलेन अप्राप्ते प्राप्तसंज्ञिनो ऽनधिगते ऽधिगतसंज्ञिनः । ते आत्मानं सव्रणं ज्ञात्वा ततः पर्षदो ऽपक्रान्ताः । भगवांश्च तूष्णींभावेनाधिवासयति स्म ॥
अथ खलु भगवानायुष्मन्तं शारिपुत्रमामन्त्रयते स्म - निप्पलावा मे शारिपुत्र पर्षत् अपगतफल्गुः श्रद्धासारे प्रतिष्ठिता । साधु शारिपुत्र एतेषामाभिमानिकानामतो ऽपक्रमणम् । तेन हि शारिपुत्र भाषिष्ये एतमर्थम् । साधु भगवन्नित्यायुष्मान् शारिपुत्रो भगवतः प्रत्यश्रौषीत् ॥
भगवानेतदवोचत् - कदाचित् कर्हिचिच्छारिपुत्र तथागत एवंरूपां धर्मदेशनां कथयति । तद्यथापि नाम शारिपुत्र उदुम्बरपुष्पं कदाचित् कर्हिचित् संदृश्यते, एवमेव शारिपुत्र तथागतो ऽपि कदाचित् कर्हिचित् एवंरूपां धर्मदेशनां कथयति । श्रद्दधत मे शारिपुत्र, भूतवाद्यहमस्मि, तथावाद्यहमस्मि, अनन्यथावाद्यहमस्मि । दुर्बोध्यं शारिपुत्र तथागतस्य संधाभाष्यम् । तत्कस्य हेतोः? नानानिरुक्तिनिर्देशाभिलापनिर्देशनैर्मया शारिपुत्र विविधैरुपायकौशल्यशतसहस्रैर्धर्मः संप्रकाशितः । अतर्को ऽतर्कावचरस्तथागतविज्ञेयः शारिपुत्र सद्धर्मः । तत्कस्य हेतोः? एककृत्येन शारिपुत्र एककरणीयेन तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उत्पद्यते महाकृत्येन महाकरणीयेन । कतमं च शारिपुत्र तथागतस्य एककृत्यमेककरणीयं महाकृत्यं महाकरणीयं येन कृत्येन तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उत्पद्यते? यदिदं तथागतज्ञानदर्शनसमादापनहेतुनिमित्तं सत्त्वानां तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उत्पद्यते । तथागतज्ञानदर्शनसंदर्शनहेतुनिमित्तं सत्त्वानां तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उत्पद्यते । तथागतज्ञानदर्शनावतारणहेतुनिमित्तं सत्त्वानां तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उत्पद्यते । तथागतज्ञानप्रतिबोधनहेतुनिमित्तं सत्त्वानां तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उत्पद्यते । तथागतज्ञानदर्शनमार्गावतारणहेतुनिमित्तं सत्त्वानां तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उत्पद्यते । इदं तच्छारिपुत्र तथागतस्य एककृत्यमेककरणीयं महाकृत्यं महाकरणीयमेकप्रयोजनं लोके प्रादुर्भावाय । इति हि शारिपुत्र यत्तथागतस्य एककृत्यमेककरणीयं महाकृत्यं महाकरणीयम्, तत्तथागतः करोति । तत्कस्य हेतोः? तथागतज्ञानदर्शनसमादापक एवाहं शारिपुत्र, तथागतज्ञानदर्शनसंदर्शक एवाहं शारिपुत्र, तथागतज्ञानदर्शनावतारक एवाहं शारिपुत्र, तथागतज्ञानदर्शनप्रतिबोधक एवाहं शारिपुत्र, तथागतज्ञानदर्शनमार्गावतारक एवाहं शारिपुत्र । एकमेवाहं शारिपुत्र यानमारभ्य सत्त्वानां धर्म देशयामि यदिदं बुद्धयानम् । न किंचिच्छारिपुत्र द्वितीयं वा तृतीयं वा यानं संविद्यते । सर्वत्रैषा शारिपुत्र धर्मता दशदिग्लोके । तत्कस्य हेतोः? ये ऽपि तु शारिपुत्र अतीत
ऽध्वन्यभूवन् दशसु दिक्ष्वप्रमेयेष्वसंख्येयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च । ये नानाभिनिर्हारनिर्देशविविधहेतुकारणनिदर्शनारम्बणनिरुक्त्युपायकौशल्यैर्नानाधिमुक्तानां सत्त्वानां नानाधात्वाशयानामाशयं विदित्वा धर्मं देशितवन्तः । ते ऽपि सर्वे शारिपुत्र बुद्धा भगवन्त एकमेव यानमारभ्य सत्त्वानां धर्मं देशितवन्तः, यदिदं बुद्धयानं सर्वज्ञतापर्यवसानम्, यदिदं तथागतज्ञानदर्शनसमादापनमेव सत्त्वानां तथागतज्ञानदर्शनसंदर्शनमेव तथागतज्ञानदर्शनावतारणमेव तथागतज्ञानदर्शनप्रतिबोधनमेव तथागतज्ञानदर्शनमार्गावतारणमेव सत्त्वानां धर्मं देशितवन्तः । यैरपि शारिपुत्र सत्त्वैस्तेषामतीतानां तथागतानामर्हतां सम्यक्संबुद्धानामन्तिकात् सद्धर्मः श्रुतः, ते ऽपि सर्वे ऽनुत्तरायाः सम्यक्संबोधेर्लाभिनो ऽभूवन् ॥
ये ऽपि ते शारिपुत्र अनागते ऽध्वनि भविष्यन्ति दशसु दिक्ष्वप्रमेयेष्वसंख्येयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च, ये च नानाभिर्निहारनिर्देशविविधहेतुकारणनिदर्शनारम्बणनिरुक्त्युपायकौशल्यैर्नानाधिमुक्तानां सत्त्वानां नानाधात्वाशयानामाशयं विदित्वा धर्मं देशयिष्यन्ति, ते ऽपि सर्वे शारिपुत्र बुद्धा भगवन्त एकमेव यानमारभ्य सत्त्वानां धर्मं देशयिष्यन्ति यदिदं बुद्धयानं सर्वज्ञतापर्यवसानम्, यदिदं तथागतज्ञानदर्शनसमादापनमेव सत्त्वानां तथागतज्ञानदर्शनसंदर्शनमेव तथागतज्ञानदर्शनावतारणमेव तथागतज्ञानदर्शनप्रतिबोधनमेव तथागतज्ञानदर्शनमार्गावतारणमेव सत्त्वानां धर्मं देशयिष्यन्ति । ये ऽपि ते शारिपुत्र सत्त्वास्तेषामनागतानां तथागतानामर्हतां सम्यक्संबुद्धानामन्तिकात् तं धर्मं श्रोष्यन्ति, ते ऽपि सर्वे ऽनुत्तरायाः सम्यक्संबोधेर्लाभिनो भविष्यन्ति ॥
ये ऽपि ते शारिपुत्र एतर्हि प्रत्युत्पन्ने ऽध्वनि दशसु दिक्ष्वप्रमेयेष्वसंख्येयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास्तिष्ठन्ति घ्रियन्ते यापयन्ति, धर्मं च देशयन्ति बहुजनहिताय बहुजनहिताय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च, ये नानाभिनिर्हारनिर्देशविविधहेतुकारणनिदर्शनारम्बणनिरुक्त्युपायकौशल्यैर्नानाधिमुक्तानां सत्त्वानां नानाधात्वाशयानामाशयं विदित्वा धर्मं देशयन्ति, ते ऽपि सर्वे शारिपुत्र बुद्धा भगवन्त एकमेव यानमारभ्य सत्त्वानां धर्मं देशयन्ति यदिदं बुद्धयानं सर्वज्ञतापर्यवसानम्, यदिदं तथागतज्ञानदर्शनसमादापनमेव सत्त्वानां तथागतज्ञानदर्शनसंदर्शनमेव तथागतज्ञानदर्शनावतारणमेव तथागतज्ञानदर्शनप्रतिबोधनमेव तथागतज्ञानदर्शनमार्गावतारणमेव सत्त्वानां धर्मं देशयन्ति । ये ऽपि ते शारिपुत्र सत्त्वास्तेषां प्रत्युत्पन्नानां तथागतानामर्हतां सम्यक्संबुद्धानामन्तिकात् तं धर्मं शृण्वन्ति, ते ऽपि सर्वे ऽनुत्तरायाः सम्यक्संबोधेर्लाभिनो भविष्यन्ति ॥

अहमपि शारिपुत्र एतर्हि तथागतो ऽर्हन् सम्यक्संबुद्धो बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च नानाभिनिर्हारनिर्देशविविधहेतुकारणनिदर्शनारम्बणनिरुक्त्युपायकौशल्यैर्नानाधिमुक्तानां सत्त्वानां नानाधात्वाशयानामाशयं विदित्वा धर्मं देशयामि । अहमपि शारिपुत्र एकमेव यानमारभ्य सत्त्वानां धर्मं देशयामि यदिदं बुद्धयानं सर्वज्ञतापर्यवसानम्, यदिदं तथागतज्ञानदर्शनसमादापनमेव सत्त्वानां तथागतज्ञानदर्शनसंदर्शनमेव तथागतज्ञानदर्शनावतारणमेव तथागतज्ञानदर्शनप्रतिबोधनमेव तथागतज्ञानदर्शनमार्गावतारणमेव सत्त्वानां धर्मं देशयामि । ये ऽपि ते शारिपुत्र सत्त्वा एतर्हि ममेमं धर्मं शृण्वन्ति, ते ऽपि सर्वे ऽनुत्तरायाः सम्यक्संबोधेर्लाभिनो भविष्यन्ति । तदनेनापि शारिपुत्र पर्यायेण एवं वेदितव्यं यथा नास्ति द्वितीयस्य यानस्य क्वचिद्दशसु दिक्षु लोके प्रज्ञप्तिः, कुतः पुनस्तृतीयस्य ॥
अपि तु खलु पुनः शारिपुत्र यदा तथागता अर्हन्तः सम्यक्संबुद्धा कल्पकषाये ( वैद्य 29 ) वोत्पद्यन्ते सत्त्वकषाये वा क्लेशकषाये वा दृष्टिकषाये वा आयुष्कषाये वोत्पद्यन्ते । एवंरूपेषु शारिपुत्र कल्पसंक्षोभकषायेषु बहुसत्त्वेषु लुब्धेष्वल्पकुशलमूलेषु तदा शारिपुत्र तथागता अर्हन्तः सम्यक्संबुद्धा उपायकौशल्येन तदेवैकं बुद्धयानं त्रियाननिर्देशेन निर्दिशन्ति । तत्र शारिपुत्र ये श्रावका अर्हन्तः प्रत्येकबुद्धा वा इमां क्रियां तथागतस्य बुद्धयानसमादपनां न शृण्वन्ति नावतरन्ति नावबुध्यन्ति, न ते शारिपुत्र तथागतस्य श्रावका वेदितव्याः, नाप्यर्हन्तो नापि प्रत्येकबुद्धा वेदितव्याः । अपि तु खलु पुनः शारिपुत्र यः कश्चिद् भिक्षुर्वा भिक्षुणी वा अर्हत्त्वं प्रतिजानीयात्, अनुत्तरायां सम्यक्संबोधौ प्रणिधानमपरिगृह्य उच्छिन्नो ऽस्मि बुद्धयानादिति वदेत्, एतावन्मे समुच्छ्रयस्य पश्चिमकं परिनिर्वाणं वदेत्, आभिमानिकं तं शारिपुत्र प्रजानीयाः । तत्कस्य हेतोः? अस्थानमेतच्छारिपुत्र अनवकाशो यद्भिक्षुरर्हन् क्षीणास्रवः संमुखीभूते तथागते इमंः धर्मं श्रुत्वा न श्रद्दध्यात् स्थापयित्वा परिनिर्वृतस्य तथागतस्य । तत्कस्य हेतोः? न हि शारिपुत्र श्रावकास्तस्मिन् काले तस्मिन् समये परिनिर्वृते तथागते एतेषामेवंरूपाणां सूत्रान्तानां धारका वा देशका वा भविष्यन्ति । अन्येषु पुनः शारिपुत्र तथागतेष्वर्हत्सु सम्यक्संबुद्धेषु निःसंशया भविष्यन्ति । इमेषु बुद्धधर्मेषु श्रद्दधाध्वं मे शारिपुत्र पत्तीयत अवकल्पयत । न हि शारिपुत्र तथागतानां मृषावादः संविद्यते । एकमेवेदं शारिपुत्र यानं यदिदं बुद्धयानम् ॥
अथ खलु भगवानेतमेवार्थं भूयस्या मात्रया संदर्शयमानस्तस्यां वेलायामिमा गाथा अभाषत -
अथाभिमानप्राप्ता ये भिक्षुभिक्षुण्युपासकाः ।
उपासिकाश्च अश्राद्धाः सहस्राः पञ्चनूनकाः

2.39

अपश्यन्त इमं दोषं छिद्रशिक्षासमन्विताः ।
व्रणांश्च परिरक्षन्तः प्रक्रान्ता बालबुद्धयः

2.40

पर्षत्कषायतां ज्ञात्वा लोकनाथो ऽधिवासयि ।
तत्तेषां कुशलं नास्ति शृणुयुर्धर्म ये इमम्

2.41

शुद्धा च निष्पलावा च सुस्थिता परिषन्मम ।
फल्गुव्यपगता सर्वा सारा चेयं प्रतिष्ठिता

2.42

शृणोहि मे शारिसुता यथैष संबुद्ध धर्मः पुरुषोत्तमेहि ।
यथा च बुद्धाः कथयन्ति नायका उपायकौशल्यशतैरनेकैः

2.43

यथाशयं जानिय ते चरिं च नानाधिमुक्तानिह प्राणकोटिनाम् ।
चित्राणि कर्माणि विदित्व तेषां पुराकृतं यत्कुशलं च तेहि

2.44

नानानिरुक्तीहि च कारणेहि संप्रापयामी इम तेष प्राणिनाम् ।
हेतूहि दृष्टान्तशतेहि चाहं तथा तथा तोषयि सर्वसत्त्वान्

2.45

सूत्राणि भाषामि तथैव गाथा इतिवृत्तकं जातकमद्भुतं च ।
निदान औपम्यशतैश्च चित्रैर्गेयं च भाषामि तथोपदेशान्

2.46

ये भोन्ति हीनाभिरता अविद्वसू अचीर्णचर्या बहुबुद्धकोटिषु ।
संसारलग्नाश्च सुदुःखिताश्च निर्वाण तेषामुपदर्शयामि

2.47

उपायमेतं कुरुते स्वयंभूर्बौद्धस्य ज्ञानस्य प्रबोधनार्थम् ।
न चापि तेषां प्रवदे कदाचिद् युष्मे ऽपि बुद्धा इह लोकि भेष्यथ

2.48

किं कारणं कालमवेक्ष्य तायी क्षणं च दृष्ट्वा ततु पश्च भाषते ।
सो ऽयं क्षणो अद्य कथंचि लब्धो वदामि येनेह च भूतनिश्चयम्

2.49

नवाङ्गमेतन्मम शासनं च प्रकाशितं सत्त्वबलाबलेन ।
उपाय एषो वरदस्य ज्ञाने प्रवेशनार्थाय निदर्शितो मे

2.50

भवन्ति ये चेह सदा विशुद्धा व्यक्ता शुची सूरत बुद्धपुत्राः ।
कृताधिकारा बहुबुद्धकोटिषु वैपुल्यसूत्राणि वदामि तेषाम्

2.51

तथा हि ते आशयसंपदाय विशुद्धरूपाय समन्विताभून् ।
वदामि तान् बुद्ध भविष्यथेति अनागते ऽध्वानि हितानुकम्पकाः

2.52

श्रुत्वा च प्रीतिस्फुट भोन्ति सर्वे बुद्धा भविष्याम जगत्प्रधानाः ।
पुनश्च हं जानिय तेष चर्यां वैपुल्यसूत्राणि प्रकाशयामि

2.53

इमे च ते श्रावक नायकस्य येहि श्रुतं शासनमेतमग्र्यम् ।
एकापि गाथा श्रुत धारिता वा सर्वेष बोधाय न संशयो ऽस्ति

2.54

एकं हि यानं द्वितियं न विद्यते तृतियं हि नैवास्ति कदाचि लोके ।
अन्यत्रुपाया पुरुषोत्तमानां यद्याननानात्वुपदर्शयन्ति

2.55

बौद्धस्य ज्ञानस्य प्रकाशनार्थं लोके समुत्पद्यति लोकनाथः ।
एकं हि कार्यं द्वितियं न विद्यते न हीनयानेन नयन्ति बुद्धाः

2.56

प्रतिष्ठितो यत्र स्वयं स्वयंभूर्यच्चैव बुद्धं यथ यादृशं च ।
बलाश्च ये ध्यानविमोक्ष-इन्द्रियास्तत्रैव सत्त्वा पि प्रतिष्ठपेति

2.57

मात्सर्यदोषो हि भवेत मह्यं स्पृशित्व बोधिं विरजां विशिष्टाम् ।
यदि हीनयानस्मि प्रतिष्ठपेयमेकं पि सत्त्वं न ममते साधु

2.58

मात्सर्य मह्यं न कहिंचि विद्यते ईर्ष्या न मे नापि च छन्दरागः ।
उच्छिन्न पापा मम सर्वधर्मास्तेनास्मि बुद्धो जगतो ऽनुबोधात्

2.59

यथा ह्यहं चित्रितु लक्षणेहि प्रभासयन्तो इमु सर्वलोकम् ।
पुरस्कृतः प्राणिशतैरनेकैर्देशेमिमां धर्मस्वभावमुद्राम्

2.60

एवं च चिन्तेम्यहु शारिपुत्र कथं नु एवं भवि सर्वसत्त्वाः ।
द्वात्रिंशतीलक्षणरूपधारिणः स्वयंप्रभा लोकविदू स्वयंभूः

2.61

यथा च पश्यामि यथा च चिन्तये यथा च संकल्प ममासि पूर्वम् ।
परिपूर्णमेतत् प्रणिधानु मह्यं बुद्धा च बोधिं च प्रकाशयामि

2.62

सचेदहं शारिसुता वदेयं सत्त्वान बोधाय जनेथ छन्दम् ।
अजानकाः सर्व भ्रमेयुरत्र न जातु गृह्णीयु सुभाषितं मे

2.63

तांश्चैव हं जानिय एवरूपान् न चीर्णचर्याः पुरिमासु जातिषु ।
अध्योषिताः कामगुणेषु सक्तास्तृष्णाय संमूर्छित मोहचित्ताः

2.64

ते कामहेतोः प्रपतन्ति दुर्गतिं षट्सू गतीषू परिखिद्यमानाः ।
कटसी च वर्धेन्ति पुनः पुनस्ते दुःखेन संपीडित अल्पपुण्याः

2.65

विलग्न दृष्टीगहनेषु नित्यमस्तीति नास्तीति तथास्ति नास्ति ।
द्वाषष्टि दृष्टीकृत निश्रयित्वा असन्त भावं परिगृह्य ते स्थिताः

2.66

दुःशोधका मानिन दम्भिनश्च वङ्काः शठा अल्पश्रुताश्च बालाः ।
ते नैव शृण्वन्ति सुबुद्धघोषं कदाचि पि जातिसहस्रकोटिषु

2.67

तेषामहं शारिसुता उपायं वदामि दुःखस्य करोथ अन्तम् ।
दुःखेन संपीडित दृष्ट्व सत्त्वान् निर्वाण तत्राप्युपदर्शयामि

2.68

एवं च भाषाम्यहु नित्यनिर्वृता आदिप्रशान्ता इमि सर्वधर्माः ।
चर्यां च सो पूरिय बुद्धपुत्रो अनागते ऽध्वानि जिनो भविष्यति

2.69

उपायकौशल्य ममैवरूपं यत् त्रीणि यानान्युपदर्शयामि ।
एकं तु यानं हि नयश्च एक एका चियं देशन नायकानाम्

2.70

व्यपनेहि काङ्क्षां तथ संशयं च येषां च केषां चिह काङ्क्ष विद्यते ।
अनन्यथावादिन लोकनायका एकं इदं यानु द्वितीयु नास्ति

2.71

ये चाप्यभूवन् पुरिमास्तथागताः परिनिर्वृता बुद्धसहस्र नेके ।
अतीतमध्वानमसंख्यकल्पे तेषां प्रमाणं न कदाचि विद्यते

2.72

सर्वेहि तेहि पुरुषोत्तमेहि प्रकाशिता धर्म बहू विशुद्धाः ।
दृष्टान्तकैः कारणहेतुभिश्च उपायकौशल्यशतैरनेकैः

2.73

सर्वे च ते दर्शयि एकयानमेकं च यानं अवतारयन्ति ।
एकस्मि याने परिपाचयन्ति अचिन्तिया प्राणिसहस्रकोट्यः

2.74

अन्ये उपाया विविधा जिनानां येही प्रकाशेन्तिममग्रधर्मम् ।
ज्ञात्वाधिमुक्तिं तथ आशयं च तथागता लोकि सदेवकस्मिन्

2.75

ये चापि सत्त्वास्तहि तेष संमुखं शृण्वन्ति धर्मं अथ वा श्रुताविनः ।
दानं च दत्तं चरितं च शीलं क्षान्त्या च संपादित सर्वचर्याः

2.76

वीर्येण ध्यानेन कृताधिकाराः प्रज्ञाय वा चिन्तित एति धर्माः ।
विविधानि पुण्यानि कृतानि येहि ते सर्वि बोधाय अभूषि लाभिनः

2.77

परिनिर्वृतानां च जिनान तेषां ये शासने केचिदभूषि सत्त्वाः ।
क्षान्ता च दान्ता च विनीत तत्र ते सर्वि बोधाय अभूषि लाभिनः

2.78

ये चापि धातून करोन्ति पूजां जिनान तेषां परिनिर्वृतानाम् ।
रत्नामयान् स्तूपसहस्र नेकान् सुवर्णरूप्यस्य च स्फाटिकस्य

2.79

ये चाश्मगर्भस्य करोन्ति स्तूपान् कर्केतनामुक्तमयांश्च केचित् ।
वैडूर्यश्रेष्ठस्य तथेन्द्रनीलान् ते सर्वि बोधाय अभूषि लाभिनः

2.80

ये चापि शैलेषु करोन्ति स्तूपान् ये चन्दनानामगुरुस्य केचित् ।
ये देवदारूस्य करोन्ति स्तूपान् ये दारुसंघातमयांश्च केचित्

2.81

इष्टामयान् मृत्तिकसंचितान् वा प्रीताश्च कुर्वन्ति जिनान स्तूपान् ।
उद्दिश्य ये पांसुकराशयो ऽपि अटवीषु दुर्गेषु च कारयन्ति

2.82

सिकतामयान् वा पुन कूट कृत्वा ये केचिदुद्दिश्य जिनान स्तूपान् ।
कुमारकाः क्रीडिषु तत्र तत्र ते सर्वि बोधाय अभूषि लाभिनः

2.83

रत्नामया बिम्ब तथैव केचिद् द्वात्रिंशतीलक्षणरूपधारिणः ।
उद्दिश्य कारापित येहि चापि ते सर्वि बोधाय अभूषि लाभिनः

2.84

ये सप्तरत्नामय तत्र केचिद् ये ताम्रिका वा तथ कांसिका वा ।
कारापयीषु सुगतान बिम्बा ते सर्वि बोधाय अभूषि लाभिनः

2.85

सीसस्य लोहस्य च मृत्तिकाय वा कारापयीषु सुगतान विग्रहान् ।
ये पुस्तकर्मामय दर्शनीयांस्ते सर्वि बोधाय अभूषि लाभिनः

2.86

ये चित्रभित्तीषु करोन्ति विग्रहान् परिपूर्णगात्रान् शतपुण्यलक्षणान् ।
लिखेत्स्वयं चापि लिखापयेद्वा ते सर्वि बोधाय अभूषि लाभिनः

2.87

ये चापि केचित्तहि शिक्षमाणाः क्रीडारतिं चापि विनोदयन्तः ।
नखेन काष्ठेन कृतासि विग्रहान् भित्तीषु पुरुषा च कुमारका वा

2.88

सर्वे च ते कारूणिका अभूवन् सर्वे ऽपि ते तारयि प्राणिकोट्यः ।
समादपेन्ता बहुबोधिसत्वांस्ते सर्वि बोधाय अभूषि लाभिनः

2.89

धातूषु यैश्चापि तथागतानां स्तूपेषु वा मृत्तिकविग्रहेषु वा ।
आलेख्यभित्तीष्वपि पांसुस्तूपे पुष्पा च गन्धा च प्रदत्त आसीत्

2.90

वाद्या च वादापित येहि तत्र भेर्यो ऽथ शङ्खाः पटहाः सुघोषकाः ।
निर्नादिता दुन्दुभयश्च येहि पूजाविधानाय वराग्रबोधिनाम्

2.91

वीणाश्च ताला पणवाश्च येहि मृदङ्ग वंशा तुणवा मनोज्ञाः ।
एकोत्सवा वा सुकुमारका वा ते सर्वि बोधाय अभूषि लाभिनः

2.92

वादापिता झल्लरियो ऽपि येहि जलमण्डका चर्पटमण्डका वा ।
सुगतान उद्दिश्यथ पूजनार्थं गीतं सुगीतं मधुरं मनोज्ञम्

2.93

सर्वे च ते बुद्ध अभूषि लोके कृत्वान तां बहुविधधातुपूजाम् ।
किमल्पकं पि सुगतान धातुषु एकं पि वादापिय वाद्यभाण्डम्

2.94

पुष्पेण चैकेन पि पूजयित्वा आलेख्यभित्तौ सुगतान बिम्बान् ।
विक्षिप्तचित्ता पि च पूजयित्वा अनुपूर्व द्रक्ष्यन्ति च बुद्धकोट्यः

2.95

यैश्चाञ्जलिस्तत्र कृतो ऽपि स्तूपे परिपूर्ण एका तलसक्तिका वा ।
उन्नामितं शीर्षमभून्मुहूर्तमवनामितः कायु तथैकवारम्

2.96

नमो ऽस्तु बुद्धाय कृतैकवारं येही तदा धातुधरेषु तेषु ।
विक्षिप्तचित्तैरपि एकवारं ते सर्वि प्राप्ता इममग्रबोधिम्

2.97

सुगतान तेषां तद तस्मि काले परिनिर्वृतानामथ तिष्ठतां वा ।
ये धर्मनामापि श्रुणिंसु सत्त्वास्ते सर्वि बोधाय अभूषि लाभिनः

2.98

अनागता पी बहुबुद्धकोट्यो अचिन्तिया येषु प्रमाणु नास्ति ।
ते पी जिना उत्तमलोकनाथाः प्रकाशयिष्यन्ति उपायमेतम्

2.99

उपायकौशल्यमनन्तु तेषां भविष्यति लोकविनायकानाम् ।
येना विनेष्यन्तिह प्राणकोट्यो बौद्धस्मि ज्ञानस्मि अनास्रवस्मिन्

2.100

एको ऽपि सत्त्वो न कदाचि तेषां श्रुत्वान धर्मं न भवेत बुद्धः ।
प्रणिधानमेतद्धि तथागतानां चरित्व बोधाय चरापयेयम्

2.101

धर्मामुखा कोटिसहस्र नेके प्रकाशयिष्यन्ति अनागते ऽध्वे ।
उपदर्शयन्तो इममेकयानं वक्ष्यन्ति धर्मं हि तथागतत्वे

2.102

स्थितिका हि एषा सद धर्मनेत्री प्रकृतिश्च धर्माण सदा प्रभा[सते] ।
विदित्व बुद्धा द्विपदानमुत्तमा प्रकाशयिष्यन्ति ममेकयानम्

2.103

धर्मस्थितिं धर्मनियामतां च नित्यस्थितां लोकि इमामकम्प्याम् ।
बुद्धाश्च बोधिं पृथिवीय मण्डे प्रकाशयिष्यन्ति उपायकौशलम्

2.104

दशसू दिशासू नरदेवपूजितास्तिष्ठन्ति बुद्धा यथ गङ्गवालिकाः ।
सुखापनार्थं इह सर्वप्राणिनां ते चापि भाषन्तिममग्रबोधिम्

2.105

उपायकौशल्य प्रकाशयन्ति विविधानि यानान्युपदर्शयन्ति ।
एकं च यानं परिदीपयन्ति बुद्धा इमामुत्तमशान्तभूमिम्

2.106

चरितं च ते जानिय सर्वदेहिनां यथाशयं यच्च पुरा निषेवितम् ।
वीर्यं च स्थामं च विदित्व तेषां ज्ञात्वाधिमुक्तिं च प्रकाशयन्ति

2.107

दृष्टान्तहेतून् बहु दर्शयन्ति बहुकारणान् ज्ञानबलेन नायकाः ।
नानाधिमुक्तांश्च विदित्व सत्त्वान् नानाभिनिर्हारुपदर्शयन्ति

2.108

अहं पि चैतर्हि जिनेन्द्रनायको उत्पन्न सत्त्वान सुखापनार्थम् ।
संदर्शयामी इम बुद्धबोधिं नानाभिनिर्हारसहस्रकोटिभिः

2.109

देशेमि धर्मं च बहुप्रकारं अधिमुक्तिमध्याशय ज्ञात्व प्राणिनाम् ।
संहर्षयामी विविधैरुपायैः प्रत्यात्मिकं ज्ञानबलं ममैतत्

2.110

अहं पि पश्यामि दरिद्रसत्त्वान् प्रज्ञाय पुण्येहि च विप्रहीणान् ।
प्रस्कन्न संसारि निरुद्ध दुर्गे मग्नाः पुनर्दुःखपरंपरासु

2.111

तृष्णाविलग्नांश्चमरीव बाले कामैरिहान्धीकृत सर्वकालम् ।
न बुद्धमेषन्ति महानुभावं न धर्म मार्गन्ति दुखान्तगामिनम्

2.112

गतीषु षट्सु परिरुद्धचित्ताः कुदृष्टिदृष्टीषु स्थिता अकम्प्याः ।
दुःखातु दुःखानुप्रधावमानाः कारुण्य मह्यं बलवन्तु तेषु

2.113

सो ऽहं विदित्वा तहि बोधिमण्डे सप्ताह त्रीणि परिपूर्ण संस्थितः ।
अर्थं विचिन्तेमिममेवरूपं उल्लोकयन् पादपमेव तत्र

2.114

प्रेक्षामि तं चानिमिषं द्रुमेन्द्रं तस्यैव हेष्ठे अनुचंक्रमामि ।
आश्चर्यज्ञानं च इदं विशिष्टं सत्त्वाश्च मोहान्ध अविद्वसू इमे

2.115

ब्रह्मा च मां याचति तस्मि काले शक्रश्च चत्वारि च लोकपालाः ।
महेश्वरो ईश्वर एव चापि मरुद्गणानां च सहस्रकोटयः

2.116

कृताञ्जली सर्वि स्थिताः सगौरवा अर्थं च चिन्तेमि कथं करोमि ।
अहं च बोधीय वदामि वर्णान् इमे च दुःखैरभिभूत सत्त्वाः

2.117

ते मह्य धर्मं क्षिपि बालभाषितं क्षिपित्व गच्छेयुरपायभूमिम् ।
श्रेयो ममा नैव कदाचि भाषितुं अद्यैव मे निर्वृतिरस्तु शान्ता

2.118

पुरिमांश्च बुद्धान् समनुस्मरन्तो उपायकौशल्यु यथा च तेषाम् ।
यं नून हं पि इम बुद्धबोधिं त्रिधा विभज्येह प्रकाशयेयम्

2.119

एवं च मे चिन्तितु एष धर्मो ये चान्ये बुद्धा दशसु द्दिशासु ।
दर्शिंसु ते मह्य तदात्मभावं साधुं ति घोषं समुदीरयन्ति

2.120

साधू मुने लोकविनायकाग्र अनुत्तरं ज्ञानमिहाधिगम्य ।
उपायकौशल्यु विचिन्तयन्तो अनुशिक्षसे लोकविनायकानाम्

2.121

वयं पि बुद्धाय परं तदा पदं तृधा च कृत्वान प्रकाशयामः ।
हीनाधिमुक्ता हि अविद्वसू नरा भविष्यथा बुद्ध न श्रद्दधेयुः

2.122

ततो वयं कारणसंग्रहेण उपायकौशल्य निषेवमाणाः ।
फलाभिलाषं परिकीर्तयन्तः समादपेमो बहुबोधिसत्त्वान्

2.123

अहं चुदग्रस्तद आसि श्रुत्वा घोषं मनोज्ञं पुरुषर्षभाणाम् ।
उदग्रचित्तो भणि तेष तायिनां न मोहवादी प्रवरा महर्षी

2.124

अहं पि एवं समुदाचरिष्ये यथा वदन्ती विदु लोकनायकाः ।
अहं पि संक्षोभि इमस्मि दारुणे उत्पन्न सत्त्वान कषायमध्ये

2.125

ततो ह्यहं शारिसुता विदित्वा वाराणसीं प्रस्थितु तस्मि काले ।
तहि पञ्चकानां प्रवदामि भिक्षुणां धर्मं उपायेन प्रशान्तभूमिम्

2.126

ततः प्रवृत्तं मम धर्मचक्रं निर्वाणशब्दश्च अभूषि लोके ।
अर्हन्तशब्दस्तथ धर्मशब्दः संघस्य शब्दश्च अभूषि तत्र

2.127

भाषामि वर्षाणि अनल्पकानि निर्वाणभूमिं चुपदर्शयामि ।
संसारदुःखस्य च एष अन्तो एवं वदामी अहु नित्यकालम्

2.128

यस्मिंश्च काले अहु शारिपुत्र पश्यामि पुत्रान् द्विपदोत्तमानाम् ।
ये प्रस्थिता उत्तममग्रबोधिं कोटीसहस्राणि अनल्पकानि

2.129

उपसंक्रमित्वा च ममैव अन्तिके कृताञ्जलीः सर्वि स्थिताः सगौरवाः ।
येही श्रुतो धर्म जिनान आसीत् उपायकौशल्यु बहुप्रकारम्

2.130

ततो ममा एतदभूषि तत्क्षणं समयो ममा भाषितुमग्रधर्मम् ।
यस्याहमर्थं इह लोकि जातः प्रकाशयामी तमिहाग्रबोधिम्

2.131

दुःश्रद्दधं एतु भविष्यते ऽद्य निमित्तसंज्ञानिह बालबुद्धिनाम् ।
अधिमानप्राप्तान अविद्वसूनां इमे तु श्रोष्यन्ति हि बोधिसत्त्वाः

2.132

विशारदश्चाहु तदा प्रहृष्टः संलीयनां सर्व विवर्जयित्वा ।
भाषामि मध्ये सुगतात्मजानां तांश्चैव बोधाय समादपेमि

2.133

संदृश्य चैतादृशबुद्धपुत्रांस्तवापि काङ्क्षा व्यपनीत भेष्यति ।
ये चा शता द्वादशिमे अनास्रवा बुद्धा भविष्यन्तिमि लोकि सर्वे

2.134

यथैव तेषां पुरिमाण तायिनां अनागतानां च जिनान धर्मता ।
ममापि एषैव विकल्पवर्जिता तथैव हं देशयि अद्य तुभ्यम्

2.135

कदाचि कहिंचि कथंचि लोके उत्पादु भोति पुरुषर्षभाणाम् ।
उत्पद्य चा लोकि अनन्तचक्षुषः कदाचिदेतादृशु धर्म देशयुः

2.136

सुदुर्लभो ईदृशु अग्रधर्मः कल्पान कोटीनयुतैरपि स्यात् ।
सुदुर्लभा ईदृशकाश्च सत्त्वाः श्रत्वान ये श्रद्दधि अग्रधर्मम्

2.137

औदुम्बरं पुष्प यथैव दुर्लभं कदाचि कहिंचि कथंचि दृश्यते ।
मनोज्ञरूपं च जनस्य तद्भवेदाश्चर्यु लोकस्य सदेवकस्य

2.138

अतश्च आश्चर्यतरं वदामि श्रुत्वान यो धर्ममिमं सुभाषितम् ।
अनुमोदि एकं पि भणेय वाचं कृत सर्वबुद्धान भवेय पूजा

2.139

व्यपनेहि काङ्क्षामिह संशयं च आरोचयामि अहु धर्मराजा ।
समादपेमि अहमग्रबोधौ न श्रावकाः केचिदिहास्ति मह्यम्

2.140

तव शारिपुत्रैतु रहस्यु भोतु ये चापि मे श्रावक मह्य सर्वे ।
ये बोधिसत्त्वाश्च इमे प्रधाना रहस्यमेतन्मम धारयन्तु

2.141

किं कारणं पञ्चकषायकाले क्षुद्राश्च दुष्टाश्च भवन्ति सत्त्वाः ।
कामैरिहान्धीकृत बालबुद्धयो न तेष बोधाय कदाचि चित्तम्

2.142

श्रुत्वा च यानं मम एतदेकं प्रकाशितं तेन जिनेन आसीत् ।
अनागते ऽध्वानि भ्रमेयु सत्त्वाः सूत्रं क्षिपित्वा नरकं व्रजेयुः

2.143

लज्जी शुची ये च भवेयु सत्त्वाः संप्रस्थिता उत्तममग्रबोधिम् ।
विशारदो भूत्व वदेमि तेषामेकस्य यानस्य अनन्तवर्णान्

2.144

एतादृशी देशन नायकानामुपायकौशल्यमिदं वरिष्ठम् ।
बहूहि संधावचनेहि चोक्तं दुर्बोध्यमेतं हि अशिक्षितेहि

2.145

तस्माद्धि संधावचनं विजानिया बुद्धान लोकाचरियाण तायिनाम् ।
जहित्व काङ्क्षां विजहित्व संशयं भविष्यथा बुद्ध जनेथ हर्षम्

मूल पाठ: Saddharmapuṇḍarīkasūtra · Edition: P.L. Vaidya, Darbhanga : The Mithila Institute, 1960 (Buddhist Sanskrit Texts, 6) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc