भाषा

ENहिગુ
ग्रंथ पाठ

सद्धर्मपुण्डरीकसूत्र · अध्याय 3

3.1

इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये उपायकौशल्यपरिवर्तो नाम द्वितीयः ॥
सद्ध्प्_3: औपम्यपरिवर्तः ।
अथ खल्वायुष्मान् शारिपुत्रस्तस्यां वेलायां तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो येन भगवांस्तेनाञ्जलिं प्रणम्य भगवतो ऽभिमुखो भगवन्तमेव व्यवलोकयमानो भगवन्तमेतदवोचत् - आश्चर्याद्भुतप्राप्तो ऽस्मि भगवन् औद्बिल्यप्राप्तः इदमेवंरूपं भगवतो ऽन्तिकाद् घोषं श्रुत्वा । तत्कस्य हेतोः? अश्रुत्वैव तावदहं भगवन् इदमेवंरूपं भगवतो ऽन्तिकाद् धर्मं तदन्यान् बोधिसत्त्वान् दृष्ट्वा बोधिसत्त्वानां च अनागते ऽध्वनि बुद्धनाम श्रुत्वा अतीव शोचामि अतीव संतप्ये, भ्रष्टो ऽस्म्येवंरूपात् तथागतज्ञानगोचराद् ज्ञानदर्शनात् । यदा चाहं भगवन् अभीक्ष्णं गच्छामि पर्वतगिरिकन्दराणि वनषण्डान्यारामनदीवृक्षमूलान्येकान्तानि दिवाविहाराय, तदाप्यहं भगवन् यद्भूयस्त्वेन अनेनैव विहारेण विहरामि । तुल्ये नाम धर्मधातुप्रवेशे वयं भगवता हीनेन यानेन निर्यातिताः । एवं च मे भगवंस्तस्मिन् समये भवति - अस्माकमेवैषो ऽपराधः, नैव भगवतो ऽपराधः । तत्कस्य हेतोः? सचेद्भगवानस्माभिः प्रतीक्षितः स्यात् सामुत्कर्षिकीं धर्मदेशनां कथयमानः, यदिदमनुत्तरां सम्यक्संबोधिमारभ्य, तेष्वेव वयं भगवन् धर्मेषु निर्याताः स्याम । यत्पुनर्भगवन् अस्माभिरनुपस्थितेषु बोधिसत्त्वेषु संधाभाष्यं भगवतो ऽजानमानैस्त्वरमाणैः प्रथमभाषितैव तथागतस्य धर्मदेशना श्रुत्वोद्गृहीता धारिता भाविता चिन्तिता मनसिकृता । सो ऽहं भगवन् आत्मपरिभाषणयैव भूयिष्ठेन रात्रिंदिवान्यतिनामयामि । अद्यास्मि भगवन् निर्वाणप्राप्तः । अद्यास्मि भगवन् परिनिर्वृतः । अद्य मे भगवन् अर्हत्त्वं प्राप्तम् । अद्याहं भगवन् भगवतः पुत्रो ज्येष्ठ औरसो मुखतो जातो धर्मजो धर्मनिर्मितो धर्मदायादो धर्मनिर्वृत्तः । अपगतपरिदाहो ऽस्म्यद्य भगवन् इममेवंरूपमद्भुतधर्ममश्रुतपूर्वं भगवतो ऽन्तिकाद् घोषं श्रुत्वा ॥
अथ खल्वायुष्मान् शारिपुत्रस्तस्यां वेलायां भगवन्तमाभिर्गाथाभिरध्यभाषत -
आश्चर्यप्राप्तो ऽस्मि महाविनायक औद्बिल्यजातो इमु घोष श्रुत्वा ।
कथंकथा मह्य न भूय काचित् परिपाचितो ऽहं इह अग्रयाने

3.2

आश्चर्यभूतः सुगतान घोषः काङ्क्षां च शोकं च जहाति प्राणिनाम् ।
क्षीणास्रवस्यो मम यश्च शोको विगतो ऽस्ति सर्वं श्रुणियान घोषम्

3.3

दिवाविहारमनुचंक्रमन्तो वनषण्ड आरामथ वृक्षमूलम् ।
गिरिकन्दरांश्चाउप्युपसेवमानो अनुचिन्तयामी इममेव चिन्ताम्

3.4

अहो ऽस्मि परिवञ्चितु पापचित्तैस्तुल्येषु धर्मेषु अनास्रवेषु ।
यन्नाम त्रैधातुकि अग्रधर्मं न देशयिष्यामि अनागते ऽध्वे

3.5

द्वात्रिंशती लक्षण मह्य भ्रष्टा सुवर्णवर्णच्छविता च भ्रष्टा ।
बला विमोक्षाश्चिमि सर्वि रिञ्चिता तुल्येषु धर्मेषु अहो ऽस्मि मूढः

3.6

अनुव्यञ्जना ये च महामुनीनामशीति पूर्णाः प्रवरा विशिष्टाः ।
अष्टादशावेणिक ये च धर्मास्ते चापि भ्रष्टा अहु वञ्चितो ऽस्मि

3.7

दृष्ट्वा च त्वां लोकहितानुकम्पी दिवाविहारं परिगम्य चैकः ।
हा वञ्चितो ऽस्मीति विचिन्तयामि असङ्गज्ञानातु अचिन्तियातः

3.8

रात्रिंदिवानि क्षपयामि नाथ भूयिष्ठ सो एव विचिन्तयन्तः ।
पृच्छामि तावद् भगवन्तमेव भ्रष्टो ऽहमस्मीत्यथ वा न वेति

3.9

एवं च मे चिन्तयतो जिनेन्द्र गच्छन्ति रात्रिंदिव नित्यकालम् ।
दृष्ट्वा च अन्यान् बहुबोधिसत्त्वान् संवर्णितांल्लोकविनायकेन

3.10

श्रुत्वा च सो ऽहं इमु बुद्धधर्मं संघाय एतत्किल भाषितं ति ।
अतर्किकं सूक्ष्ममनास्रवं च ज्ञानं प्रणेती जिन बोधिमण्डे

3.11

दृष्टीविलग्नो ह्यहमासि पूर्वं परिव्राजकस्तीर्थिकसंमतश्च ।
ततो ममा आशयु ज्ञात्व नाथो दृष्टीविमोक्षाय ब्रवीति निर्वृतिम्

3.12

विमुच्य ता दृष्टिकृतानि सर्वशः शून्यांश्च धर्मानहु स्पर्शयित्वा ।
ततो विजानाम्यहु निर्वृतो ऽस्मि न चापि निर्वाणमिदं प्रवुच्यति

3.13

यदा तु बुद्धो भवते ऽग्रसत्त्वः पुरस्कृतो नरमरुयक्षराक्षसैः ।
द्वात्रिंशतीलक्षणरूपधारी अशेषतो निर्वृतु भोति तत्र

3.14

व्यपनीत सर्वाणि मि मन्यितानि श्रुत्वा च घोषं अहमद्य निर्वृतः ।
यदापि व्याकुर्वसि अग्रबोधौ पुरतो हि लोकस्य सदेवकस्य

3.15

बलवच्च आसीन्मम छम्भितत्वं प्रथमं गिरं श्रुत्व विनायकस्य ।
मा हैव मारो स भवेद्विहेठको अभिनिर्मिणित्वा भुवि बुद्धवेषम्

3.16

यदा तु हेतूहि च कारणैश्च दृष्टान्तकोटीनयुतैश्च दर्शिता ।
सुपरिस्थिता सा वरबुद्धबोधिस्ततो ऽस्मि निष्काङ्क्षु श्रुणित्व धर्मम्

3.17

यदा च मे बुद्धसहस्रकोट्यः कीर्तेष्यती तान् परिनिर्वृतान् जिनान् ।
यथा च तैर्देशितु एष धर्म उपायकौशल्य प्रतिष्ठिहित्वा

3.18

अनागताश्चो बहु बुद्ध लोके तिष्ठन्ति ये चो परमार्थदर्शिनः ।
उपायकौशल्यशतैश्च धर्मं निदर्शयिष्यन्त्यथ देशयन्ति च

3.19

तथा च ते आत्मन यादृशी चरी अभिनिष्क्रमित्वा प्रभृतीय संस्तुता ।
बुद्धं च ते यादृशु धर्मचक्रं तथा च ते ऽवस्थित धर्मदेशना

3.20

ततश्च जानामि न एष मारो भूतां चरिं दर्शयि लोकनाथः ।
न ह्यत्र माराण गती हि विद्यते ममैव चित्तं विचिकित्सप्राप्तम्

3.21

यदा तु मधुरेण गभीरवल्गुना संहर्षितो बुद्धस्वरेण चाहम् ।
तदा मि विध्वंसित सर्वसंशया विचिकित्स नष्टा च स्थितो ऽस्मि ज्ञाने

3.22

निःसंशयं भेष्यि तथागतो ऽहं पुरस्कृतो लोकि सदेवके ऽस्मिन् ।
संघाय वक्ष्ये इमु बुद्धबोधिं समादपेन्तो बहुबोधिसत्त्वान्

3.23

एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत् - आरोचयामि ते शारिपुत्र, प्रतिवेदयामि ते अस्य सदेवकस्य लोकस्य पुरतः समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः पुरतः । मया त्वं शारिपुत्र विंशतीनां बुद्धकोटीनयुतशतसहस्राणामन्तिके परिपाचितो ऽनुत्तरायां सम्यक्संबोधौ । मम च त्वं शारिपुत्र दीर्घरात्रमनुशिक्षितो ऽभूत् । स त्वं शारिपुत्र बोधिसत्त्वसंमन्त्रितेन बोधिसत्त्वरहस्येन इह मम प्रवचने उपपन्नः । स त्वं शारिपुत्र बोधिसत्त्वाधिष्ठानेन तत्पौर्वकं चर्याप्रणिधानं बोधिसत्त्वसंमन्त्रितं बोधिसत्त्वरहस्यं न समनुस्मरसि । निर्वृतो ऽस्मीति मन्यसे । सो ऽहं त्वां शारिपुत्र पूर्वचर्याप्रणिधानज्ञानानुबोधमनुस्मारयितुकाम इमं सद्धर्मपुण्डरीकं धर्मपर्यायं सूत्रान्तं महावैपुल्यं बोधिसत्त्वाववादं सर्वबुद्धपरिग्रहं श्रावकाणां संप्रकाशयामि ॥
अपि खलु पुनः शारिपुत्र, भविष्यसि त्वमनागते ऽध्वनि अप्रमेयैः कल्पैरचिन्त्यैरप्रमाणैर्बहूनां तथागतकोटीनयुतशतसहस्राणां सद्धर्मं धारयित्वा विविधां च पूजां कृत्वा इमामेव बोधिसत्त्वचर्यां परिपूर्य पद्मप्रभो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके भविष्यसि ( वैद्य 48 ) विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् ॥
तेन खलु पुनः शारिपुत्र समयेन तस्य भगवतः पद्मप्रभस्य तथागतस्य विरजं नाम बुद्धक्षेत्रं भविष्यति समं रमणीयं प्रासादिकं परमसुदर्शनीयं परिशुद्धं च स्फीतं च ऋद्धं च क्षेमं च सुभिक्षं च बहुजननारीगणाकीर्णं च मरुप्रकीर्णं च वैडूर्यमयं सुवर्णसूत्राष्टापदनिबद्धम् । तेषु च अष्टापदेषु रत्नवृक्षा भविष्यन्ति सप्तानां रत्नानां पुष्पफलैः सततसमितं समर्पिताः ॥
सो ऽपि शारिपुत्र पद्मप्रभस्तथागतो ऽर्हन् सम्यक्संबुद्धस्त्रीण्येव यानान्यारभ्य धर्मं देशयिष्यति । किंचापि शारिपुत्र स तथागतो न कल्पकषाय उत्पत्स्यते, अपि तु प्रणिधानवशेन धर्मं देशयिष्यति । महारत्नप्रतिमण्डितश्च नाम शारिपुत्र स कल्पो भविष्यति । तत्किं मन्यसे शारिपुत्र केन कारणेन स कल्पो महारत्नप्रतिमण्डित इत्युच्यते? रत्नानि शारिपुत्र बुद्धक्षेत्रे बोधिसत्त्वा उच्यन्ते । ते तस्मिन् काले तस्यां विरजायां लोकधातौ बहवो बोधिसत्त्वा भविष्यन्त्यप्रमेया असंख्येया अचिन्त्या अतुल्या अमाप्या गणनां समतिक्रान्ता अन्यत्र तथागतगणनया । तेन कारणेन स कल्पो महारत्नप्रतिमण्डित इत्युच्यते ॥
तेन खलु पुनः शारिपुत्र समयेन बोधिसत्त्वास्तस्मिन् बुद्धक्षेत्रे यद्भूयसा रत्नपद्मविक्रामिणो भविष्यन्ति । अनादिकर्मिकाश्च ते बोधिसत्त्वा भविष्यन्ति । चिरचरितकुशलमूला बहुबुद्धशतसहस्रचीर्णब्रह्मचर्याः, तथागतपरिसंस्तुता बुद्धज्ञानाभियुक्ता महाभिज्ञापरिकर्मनिर्जाताः सर्वधर्मनयकुशला मार्दवाः स्मृतिमन्तः । भूयिष्ठेन शारिपुत्र एवंरूपाणां बोधिसत्त्वानां परिपूर्णं तद्बुद्धक्षेत्रं भविष्यति ॥
तस्य खलु पुनः शारिपुत्र पद्मप्रभस्य तथागतस्य द्वादशान्तरकल्पा आयुष्प्रमाणं भविष्यति स्थापयित्वा कुमारभूतत्वम् । तेषां च सत्त्वानामष्टान्तरकल्पा आयुष्प्रमाणं भविष्यति । स च शारिपुत्र पद्मप्रभस्तथागतो द्वादशानामन्तरकल्पानामत्ययेन धृतिपरिपूर्णं नाम बोधिसत्त्वं महासत्त्वं व्याकृत्य अनुत्तरायां सम्यक्संबोधौ परिनिर्वास्यति । अयं भिक्षवो धृतिपरिपूर्णो बोधिसत्त्वो महासत्त्वो ममानन्तरमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । पद्मवृषभविक्रामी नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके भविष्यति विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । तस्यापि शारिपुत्र पद्मवृषभविक्रामिणस्तथागतस्य एवंरूपमेव बुद्धक्षेत्रं भविष्यति ॥
तस्य खलु पुनः शारिपुत्र पद्मप्रभस्य तथागतस्य परिनिर्वृतस्य द्वात्रिंशदन्तरकल्पान् सद्धर्मः स्थास्यति । ततस्तस्य तस्मिन् सद्धर्मे क्षीणे द्वात्रिंशदन्तरकल्पान् सद्धर्मप्रतिरूपकः स्थास्यति ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
भविष्यसे शारिसुता तुहं पि अनागते ऽध्वानि जिनस्तथागतः ।
पद्मप्रभो नाम समन्तचक्षुर्विनेष्यसे प्राणिसहस्रकोट्यः

3.24

बहुबुद्धकोटीषु करित्व सत्क्रियां चर्याबलं तत्र उपार्जयित्वा ।
उत्पादयित्वा च दशो बलानि स्पृशिष्यसे उत्तममग्रबोधिम्

3.25

अचिन्तिये अपरिमितस्मि कल्पे प्रभूतरत्नस्तद कल्पु भेष्यति ।
विरजा च नाम्ना तद लोकधातुः क्षेत्रं विशुद्धं द्विपदोत्तमस्य

3.26

वैदूर्यसंस्तीर्ण तथैव भूमिः सुवर्णसूत्रप्रतिमण्डिता च ।
रत्नामयैर्वृक्षशतैरुपेता सुदर्शनीयैः फलपुष्पमण्डितैः

3.27

स्मृतिमन्त तस्मिन् बहुबोधिसत्त्वाः चर्याभिनिर्हारसुकोविदाश्च ।
ये शिक्षिता बुद्धशतेषु चर्यां ते तत्र क्षेत्रे उपपद्य सन्ति

3.28

सो चेज्जिनः पश्चिमके समुच्छ्रये कुमारभूमीमतिनामयित्वा ।
जहित्व कामानभिनिष्कमित्वा स्पृशिष्यते उत्तममग्रबोधिम्

3.29

सम द्वादशा अन्तरकल्प तस्य भविष्यते आयु तदा जिनस्य ।
मनुजानपी अन्तरकल्प अष्ट आयुष्प्रमाणं तहि तेष भेष्यति

3.30

परिनिर्वृतस्यापि जिनस्य तस्य द्वात्रिंशतिं अन्तरकल्प पूर्णाम् ।
सद्धर्म संस्थास्यति तस्मि काले हिताय लोकस्य सदेवकस्य

3.31

सद्धर्मि क्षीणे प्रतिरूपको ऽस्य द्वात्रिंशती अन्तरकल्प स्थास्यति ।
शरीरवैस्तारिक तस्य तायिनः सुसत्कृतो नरमरुतैश्च नित्यम्

3.32

एतादृशः सो भगवान् भविष्यति प्रहृष्ट त्वं शारिसुता भवस्व ।
त्वमेव सो तादृशको भविष्यसि अनाभिभूतो द्विपदानमुत्तमः

3.33

अथ खलु ताश्चतस्रः पर्षदो भिक्षुभिक्षुण्युपासकोपासिका देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्या आयुष्मतः शारिपुत्रस्येदं व्याकरणमनुत्तरायां सम्यक्संबोधौ भगवतो ऽन्तिकात् संमुखं श्रुत्वा तुष्टा उदग्रा आत्तमनसः प्रमुदिताः प्रीतिसौमनस्यजाताः स्वकस्वकैश्चीवरैर्भगवन्तमभिच्छादयामासुः । शक्रश्च देवानामिन्द्रो ब्रह्मा च सहांपतिरन्याश्च देवपुत्रशतसहस्रकोट्यो भगवन्तं दिव्यैर्वस्त्रैरभिच्छादयामासुः । दिव्यैश्च मान्दारवैर्महामान्दरवैश्च पुष्पैरभ्यवकिरन्ति स्म । दिव्यानि च वस्त्राण्युपर्यन्तरीक्षे भ्रामयन्ति स्म । दिव्यानि च तूर्यशतसहस्राणि दुन्दुभयश्चोपर्यन्तरीक्षे पराहनन्ति स्म । महान्तं च पुष्पवर्षमभिप्रवर्षयित्वा एवं च वाचं भाषन्ते स्म - पूर्वं भगवता वाराणस्यामृषिपतने मृगदावे धर्मचक्रं प्रवर्तितम् । इदं पुनर्भगवता अद्य अनुत्तरं द्वितीयं धर्मचक्रं प्रवर्तितम् । ते च देवपुत्रास्तस्यां वेलायामिमा गाथा अभाषन्त -
धर्मचक्रं प्रवर्तेसि लोके अप्रतिपुद्गल ।
वाराणस्यां महावीर स्कन्धानामुदयं व्ययम्

3.34

प्रथमं प्रवर्तितं तत्र द्वितीयमिह नायक ।
दुःश्रद्दधेय यस्तेषां देशितो ऽद्य विनायक

3.35

बहु धर्मः श्रुतो ऽस्माभिअर्लोकनाथस्य संमुखम् ।
न चायमीदृशो धर्मः श्रुतपूर्वः कदाचन

3.36

अनुमोदाम महावीर संधाभाष्यं महर्षिणः ।
यथार्थो व्याकृतो ह्येष शारिपुत्रो विशारदः

3.37

वयमप्येदृशाः स्यामो बुद्धा लोके अनुत्तराः ।
संधाभाष्येण देशेन्तो बुद्धबोधिमनुत्तराम्

3.38

यच्छ्रुतं कृतमस्माभिरस्मिंल्लोके परत्र वा ।
आरागितश्च यद्बुद्धः प्रार्थना भोतु बोधये

3.39

अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् - निष्काङ्क्षो ऽस्मि भगवन् विगतकथंकथो भगवतो ऽन्तिकात् संमुखमिदमात्मनो व्याकरणं श्रुत्वा अनुत्तरायां सम्यक्संबोधौ । यानि च इमानि भगवन् द्वादश वशीभूतशतानि भगवता पूर्वं शैक्षभूमौ स्थापितानि एवमववदितानि एवमनुशिष्टान्यभूवन् एतत्पर्यवसानो मे भिक्षवो धर्मविनयो यदिदं जातिजराव्याधिमरणशोकसमतिक्रमो निर्वाणसमवसरणः । इमे च भगवन् द्वे भिक्षुसहस्रे शैक्षाशैक्षाणां भगवतः श्रावकाणां सर्वेषामात्मदृष्टिभवदृष्टिविभवदृष्टिसर्वदृष्टिविवर्जितानां निर्वाणभूमिस्थिताः स्मः इत्यात्मनः संजानताम्, ते भगवतो ऽन्तिकादिममेवंरूपमश्रुतपूर्वं धर्म श्रुत्वा कथंकथामापन्नाः । तत्साधु भगवान् भाषतामेषां भिक्षूणां कौकृत्यविनोदनार्थ यथा भगवन्नेताश्चतस्रः पर्षदो निष्काङ्क्षा निर्विचिकित्सा भवेयुः ॥
एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत् - ननु ते मया शारिपुत्र पूर्वमेवाख्यातं यथा नानाभिनिर्हारनिर्देशविविधहेतुकारणनिदर्शनारम्बणनिरुक्त्युपायकौशल्यैर्नानाधिमुक्तानां सत्त्वानां नानाधात्वाशयानामाशयं विदित्वा तथागतो ऽर्हन् सम्यक्संबुद्धो धर्मं देशयति । इमामेवानुत्तरां सम्यक्संबोधिमारभ्य सर्वधर्मदेशनाभिर्बोधिसत्त्वयानमेव समादापयति । अपि तु खलु पुनः शारिपुत्र औपम्यं ते करिष्यामि अस्यैवार्थस्य भूयस्या मात्रया संदर्शनार्थम् । तत्कस्य हेतोः? उपमया इह एकत्या विज्ञपुरुषा भाषितस्यार्थमाजानन्ति ॥
तद्यथापि नाम शारिपुत्र इह स्यात् कस्मिंश्चिदेव ग्रामे वा नगरे वा निगमे वा जनपदे वा जनपदप्रदेशे वा राष्ट्रे वा राजधान्यां वा गृहपतिर्जीर्णो वृद्धो महल्लको ऽभ्यतीतवयो ऽनुप्राप्त आढ्यो महाधनो महाभोगः । महच्चास्य निवेशनं भवेदुच्छ्रितं च विस्तीर्णं च चिरकृतं च जीर्णं च द्वयोर्वा त्रयाणां वा चतुर्णां वा पञ्चानां वा प्राणिशतानामावासः । एकद्वारं च तन्निवेशनं भवेत् । तृणसंछन्नं च भवेत् । विगलितप्रासादं च भवेत् । पूतिस्तम्भमूलं च भवेत् । संशीर्णकुड्यकटलेपनं च भवेत् । तच्च सहसैव महाताग्निस्कन्धेन सर्वपार्श्वेषु सर्वावन्तं निवेशनं प्रदीप्तं भवेत् । तस्य च पुरुषस्य बहवः कुमारकाः स्युः पञ्च वा दश वा विंशतिर्वा । स च पुरुषस्तस्मान्निवेशनाद् बहिर्निर्गतः स्यात् ॥
अथ खलु शारिपुत्र स पुरुषस्तं स्वकं निवेशनं महाताग्निस्कन्धेन समन्तात्
संप्रज्वलितं दृष्ट्वा भीतस्त्रस्त उद्विग्नचित्तो भवेत्, एवं चानुविचिन्तयेत् - प्रतिबलो ऽहमनेन महताग्निस्कन्धेनासंस्पृष्टो ऽपरिदग्धः क्षिप्रमेव स्वस्तिना अस्माद् गृहादादीप्ताद् द्वारेण निर्गन्तुं निर्धावितुम् । अपि तु य इमे ममैव पुत्रा बालकाः कुमारका अस्मिन्नेव निवेशने आदीप्ते तैस्तैः क्रीडनकैः क्रीडन्ति रमन्ति परिचारयन्ति, इमं चागारमादीप्तं न जानन्ति न बुध्यन्ते न विदन्ति न चेतयन्ति नोद्वेगमापद्यन्ते, संतप्यमाना अप्यनेन महताग्निस्कन्धेन महता च दुःखस्कन्धेन स्पृष्टाः समाना न दुःखं मनसि कुर्वन्ति, नापि निर्गमनमनसिकारमुत्पादयन्ति ॥
स च शारिपुत्र पुरुषो बलवान् भवेद् बाहुबलिकः । स एवमनुविचिन्तयेत् - अहमस्मि बलवान् बाहुबलिकश्च । यन्न्वहं सर्वानिमान् कुमारकानेकपिण्डयित्वा उत्सङ्गेनादाय अस्माद् गृहान्निर्गमयेयम् । स पुनरेवमनुविचिन्तयेत् - इदं खलु निवेशनमेकप्रवेशं संवृतद्वारमेव । कुमारकाश्चपलाश्चञ्चला बालजातीयाश्च । मा हैव परिभ्रमेयुः । ते ऽनेन महताग्निस्कन्धेनानयव्यसनमापद्येरन् । यन्नूनमहमेतान् संचोदययम् । इति प्रतिसंख्याय तान् कुमारकानामन्त्रयते स्म - आगच्छत भवन्तः कुमारकाः, निर्गच्छत । आदीप्तमिदं गृहं महता अग्निस्कन्धेन । मा हैवात्रैव सर्वे ऽनेन महताग्निस्कन्धेन धक्ष्यथ, अनयव्यसनमापत्स्यथ । अथ खलु ते कुमारका एवं तस्य हितकामस्य पुरुषस्य तद्भाषितं नावबुध्यन्ते नोद्विजन्ति नोत्रसन्ति न संत्रसन्ति न संत्रासमापद्यन्ते, न विचिन्तयन्ति न निर्धावन्ति, नापि जानन्ति न विजानन्ति किमेतदादीप्तं नामेति । अन्यत्र तेन तेनैव धावन्ति विधावन्ति, पुनः पुनश्च तं पितरमवलोकयन्ति । तत्कस्य हेतोः? यथापीदं बालभावत्वात् ॥
अथ खलु स पुरुष एवमनुविचिन्तयेत् - आदीप्तमिदं निवेशनं महताग्निस्कन्धेन संप्रदीप्तम् । मा हैवाहं चेमे च कुमारका इहैवानेन महाताग्निस्कन्धेन अनयव्यसनमापत्स्यामहे । यन्न्वहमुपायकौशल्येनेमान् कुमारकान् अस्माद् गृहात् निष्क्रामयेयम् । स च पुरुषस्तेषां कुमारकाणामाशयज्ञो भवेत्, अधिमुक्तिं च विजानीयात् । तेषां च कुमारकाणामनेकविधान्यनेकानि क्रीडनकानि भवेयुर्विविधानि च रमणीयकानीष्टानि कान्तानि प्रियाणि मनआपानि, तानि च दुर्लभानि भवेयुः ॥
अथ खलु स पुरुषस्तेषां कुमारकाणामाशयं जानंस्तान् कुमारकानेतदवोचत् - यानि तानि कुमारका युष्माकं क्रीडनकानि रमणीयकान्याश्चर्याद्भुतानि, येषामलाभात् संतप्यथ, नानावर्णानि बहुप्रकाराणि । तद्यथा गोरथकान्यजरथकानि मृगरथकानि । यानि भवतामिष्टानि कान्तानि प्रियाणि मनआपानि । तानि च मया सर्वाणि बहिनिर्वेशनद्वारे स्थापितानि युष्माकं क्रीडनहेतोः । आगच्छन्तु भवन्तो निर्धावन्त्वस्मान्निवेशनात् । अहं वो यस्य यस्य येनार्थो येन प्रयोजनं भविष्यति, तस्मै तस्मै तत्प्रदास्यामि । आगच्छत शीघ्रं तेषां कारणम्, निर्धावत । अथ खलु ते कुमारकास्तेषां क्रीडनकानां रमणीयकानामर्थाय यथेप्सितानां यथासंकल्पितानामिष्टानां कान्तानां प्रियाणां मनआपानां नामधेयानि श्रुत्वा तस्मादादीप्तादगारात् क्षिप्रमेवारब्धवीर्या बलवता जवेन अन्योन्यमप्रतीक्षमाणाः कः प्रथमं कः प्रथमतरमित्यन्योन्यं संघट्टितकायास्तस्मादादीप्तादगारात् क्षिप्रमेव निर्धाविताः ॥

अथ स पुरुषः क्षेमस्वस्तिना तान् कुमारकान् निर्गतान् दृष्ट्वा अभयप्राप्तानिति विदित्वा आकाशे ग्रामचत्वरे उपविष्टः प्रीतिप्रामोद्यजातो निरुपादानो विगतनीवरणो ऽभयप्राप्तो भवेत् । अथ खलु ते कुमारका येन स पिता तेनोपसंक्रामन्, उपसंक्रम्यैवं वदेयुः - देहि नस्तात तानि विविधानि क्रीडनकानि रमणीयानि । तद्यथा - गोरथकान्यजरथकानि मृगरथकानि । अथ खलु शारिपुत्र स पुरुषस्तेषां स्वकानां पुत्राणां वातजवसंपन्नान् ( वैद्य 53 ) गोरथकानेवानुप्रयच्छेत् सप्तरत्नमयान् सवेदिकान् सकिङ्किणीजालाभिप्रलम्बितानुच्चान् प्रगृहीतानाश्चर्याद्भुतरत्नालंकृतान् रत्नदामकृतशोभान् पुष्पमाल्यालंकृतांस्तूलिकागोणिकास्तरणान् दूष्यपटप्रत्यास्तीर्णानुभयतो लोहितोपधानान् श्वेतैः प्रपाण्डरैः शीघ्रजवैर्गोणैर्योजितान् बहुपुरुषपरिगृहीतान् । सवैजयन्तान् गोरथकानेव वातबलजवसंपन्नानेकवर्णानेकविधानेकैकस्य दारकस्य दद्यात् । तत्कस्य हेतोः? तथा हि शारिपुत्र स पुरुष आढ्यश्च भवेन्महाधनश्च प्रभूतकोष्ठागारश्च । स एवं मन्येत - अलं म एषां कुमारकाणामन्यैर्यानैर्दत्तैरिति । तत्कस्य हेतोः? सर्व एवैते कुमारका ममैव पुत्राः, सर्वे च मे प्रिया मनआपाः । संविद्यन्ते च मे इमान्येवंरूपाणि महायानानि । समं च मयैते कुमारकाः सर्वे चिन्तयितव्या न विषमम् । अहमपि बहुकोषकोष्ठागारः । सर्वसत्त्वानामप्यहमिमान्येवंरूपाणि महायानानि दद्याम्, किमङ्ग पुनः स्वकानां पुत्राणाम् । ते च दारकास्तस्मिन् समये तेषु महायानेष्वभिरुह्य आश्चर्याद्भुतप्राप्ता भवेयुः । तत्किं मन्यसे शारिपुत्र मा हैव तस्य पुरुषस्य मृषावादः स्यात्, येन तेषां दारकाणां पूर्वं त्रीणि यानान्युपदर्शयित्वा पश्चात्सर्वेषां महायानान्येव दत्तानि, उदारयानान्येव दत्तानि?
शारिपुत्र आह - न ह्येतद् भगवन्, न ह्येतत् सुगत । अनेनैव तावद् भगवन् कारणेन स पुरुषो न मृषावादी भवेद् यत्तेन पुरुषेणोपायकौशल्येन ते दारकास्तस्मादादीप्ताद् गृहान्निष्कासिताः, जीवितेन च अभिच्छादिताः । तत्कस्य हेतोः? आत्मभावप्रतिलम्भेनैव भगवन् सर्वक्रीडनकानि लब्धानि भवन्ति । यद्यपि तावद् भगवन् स पुरुषस्तेषां कुमारकाणामेकरथमपि न दद्यात्, तथापि तावद् भगवन् स पुरुषो न मृषावादी भवेत् । तत्कस्य हेतोः? तथा हि भगवंस्तेन पुरुषेण पूर्वमेव एवमनुविचिन्तितम् - उपायकौशल्येन अहमिमान् कुमारकांस्तस्मान्महतो दुःखस्कन्धात् परिमोचयिष्यामीति । अनेनापि भगवन् पर्यायेण तस्य पुरुषस्य न मृषावादो भवेत् । कः पुनर्वादो यत्तेन पुरुषेण प्रभूतकोशकोष्ठागारमस्तीति कृत्वा पुत्रप्रियतामेव मन्यमानेन श्लाघमानेनैकवर्णान्येकयानानि दत्तानि, यदुत महायानानि । नास्ति भगवंस्तस्य पुरुषस्य मृषावादः ॥
एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत् - साधु साधु शारिपुत्र । एवमेतच्छारिपुत्र, एवमेतद् यथा वदसि । एवमेव शारिपुत्र तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वभयविनिवृत्तः सर्वोपद्रवोपायासोपसर्गदुःखदौर्मनस्याविद्यान्धकारतमस्तिमिरपटलपर्यवनाहेभ्यः सर्वेण सर्वं सर्वथा विप्रमुक्तः । तथागतो ज्ञानबलवैशारद्यावेणिकबुद्धधर्मसमन्वागतः ऋद्धिबलेनातिबलवांल्लोकपिताः, महोपायकौशल्यज्ञानपरमपारमिताप्राप्तो महाकारुणिको ऽपरिखिन्नमानसो हितैषी अनुकम्पकः । स त्रैधातुके महता दुःखदौर्मनस्यस्कन्धेन आदीप्तजीर्णपटलशरणनिवेशनसदृश उत्पद्यते सत्त्वानां जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासाविद्यान्धकारतमस्तिमिरपटलपर्यवनाहप्रतिष्ठानां रागद्वेषमोहपरिमोचनहेतोरनुत्तरायां ( वैद्य 54 ) सम्यक्संबोधौ समादापनहेतोः । स उत्पन्नः समानः पश्यति सत्त्वान् दह्यतः पच्यमानांस्तप्यमानान् परितप्यमानान् जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः, परिभोगनिमित्तं च कामहेतुनिदानं च अनेकाविधानि दुःखानि प्रत्यनुभवन्ति । दृष्टधार्मिकं च पर्येष्टिनिदानं परिग्रहनिदानं सांपरायिकं नरकतिर्यग्योनियमलोकेष्वनेकविधानि दुःखानि प्रत्यनुभविष्यन्ति । देवमनुष्यदारिद्र्यमनिष्टसंयोगमिष्टविनाभाविकानि च दुःखानि प्रत्यनुभवन्ति । तत्रैव च दुःखस्कन्धे परिवर्तमानाः क्रीडन्ति रमन्ते परिचारयन्ति नोत्रसन्ति न संत्रसन्ति न संत्रासमापद्यन्ते न बुध्यन्ते न चेतयन्ति नोद्विजन्ति न निःसरणं पर्येषन्ते । तत्रैव च आदीप्तागारसदृशे त्रैधातुके ऽभिरमन्ति, तेन तेनैव विधावन्ति । तेन च महता दुःखस्कन्धेन अभ्याहता न दुःखमनसिकारसंज्ञामुत्पादयन्ति ॥
तत्र शारिपुत्र तथागत एवं पश्यति - अहं खल्वेषां सत्त्वानां पिता । मया ह्येते सत्त्वा अस्मादेवंरूपान्महतो दुःखस्कन्धात् परिमोचयितव्याः, मया चैषां सत्त्वानामप्रमेयमचिन्त्यं बुद्धज्ञानसुखं दातव्यम्, येनैते सत्त्वाः क्रीडिष्यन्ति रमिष्यन्ति परिचारयिष्यन्ति, विक्रीडितानि च करिष्यन्ति ॥
तत्र शारिपुत्र तथागत एवं पश्यति - सचेदहं ज्ञानबलो ऽस्मीति कृत्वा ऋद्धिबलो ऽस्मीति कृत्वा अनुपायेनैषां सत्त्वानां तथागतज्ञानबलवैशारद्यानि संश्रावयेयम्, नैते सत्त्वा एभिर्धर्भैर्निर्यायेयुः । तत्कस्य हेतोः? अध्यवसिता ह्यमी सत्त्वाः पञ्चसु कामगुणेषु त्रैधातुकरत्याम् । अपरिमुक्ता जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः । दह्यन्ते पच्यन्ते तप्यन्ते परितप्यन्ते । अनिर्धावितास्त्रैधातुकादादीप्तजीर्णपटलशरणनिवेशनसदृशात् कथमेते बुद्धज्ञानं परिभोत्स्यन्ते?

तत्र शारिपुत्र तथागतो यद्यथापि नाम स पुरुषो बाहुबलिकः स्थापयित्वा बाहुबलम्, उपायकौशल्येन तान् कुमारकांस्तस्मादादीप्तादगारान्निष्कासयेत्, निष्कासयित्वा स तेषां पश्चादुदाराणि महायानानि दद्यात्, एवमेव शारिपुत्र तथागतो ऽप्यर्हन् सम्यक्संबुद्धस्तथागतज्ञानबलवैशारद्यसमन्वागतः स्थापयित्वा तथागतज्ञानबलवैशारद्यम्, उपायकौशल्यज्ञानेनादीप्तजीर्णपटलशरणनिवेशनसदृशात् त्रैधातुकात् सत्त्वानां निष्कासनहेतोस्त्रीणि यानान्युपदर्शयति यदुत् श्रावकयानं प्रत्येकबुद्धयानं बोधिसत्त्वयानमिति । त्रिभिश्च यानैः सत्त्वांल्लोभयति, एवं चैषां वदति - मा भवन्तो ऽस्मिन्नादीप्तागारसदृशे त्रैधातुके ऽभिरमध्वं हीनेषु रूपशब्दगन्धरसस्पर्शेषु । अत्र हि यूयं त्रैधातुके ऽभिरताः पञ्चकामगुणसहगतया तृष्णया दह्यथ तप्यथ परितप्यथ । निर्धावध्वमस्मात् त्रैधातुकात् । त्रीणि यानान्यनुप्राप्स्यथ यदिदं श्रावकयानं प्रत्येकबुद्धयानं बोधिसत्त्वयानमिति । अहं वो ऽत्र स्थाने प्रतिभूः । अहं वो दास्याम्येतानि त्रीणि यानानि । अभियुज्यध्वे त्रैधातुकान्नि ऽसरणहेतोः । एवं चैतांल्लोभयामि - एतानि भोः सत्त्वा यानि आर्याणि च आर्यप्रशस्तानि च महारमणीयकसमन्वागतानि च । अकृपणमेतैर्भवन्तः क्रीडिष्यथ रमिष्यथ परिचारयिष्यथ । इन्द्रियबलबोध्यङ्गध्यानविमोक्षसमाधिसमापत्तिभिश्च महतीं रतिं प्रत्यनुभविष्यथ । महता च सुखसौमनस्येन समन्वागता भविष्यथ ॥
तत्र शारिपुत्र ये सत्त्वाः पण्डितजातीया भवन्ति, ते तथागतस्य लोकपितुरभिश्रद्दधन्ति । अभिश्रद्दधित्वा च तथागतशासने ऽभियुज्यन्ते उद्योगमापद्यन्ते । तत्र केचित् सत्त्वा परघोषश्रवानुगमनमाकाङ्क्षमाणा आत्मपरिनिर्वाणहेतोश्चतुरार्यसत्यानुबोधाय तथागतशासने ऽभियुज्यन्ते । ते उच्यन्ते श्रावकयानमाकाङ्क्षमाणाः त्रैधातुकान्निर्धावन्ति । तद्यथापि नाम तस्मादादीप्तादगारादन्यतरे दारका मृगरथमाकाङ्क्षमाणा निर्धाविताः । अन्ये सत्त्वा अनाचार्यकं ज्ञानं दमशमथमाकाङ्क्षमाणा आत्मपरिनिर्वाणहेतोर्हेतुप्रत्ययानुबोधाय तथागतशासने ऽभियुज्यन्ते, ते उच्यन्ते प्रत्येकबुद्धयानमाकाङ्क्षमाणास्त्रैधातुकान्निर्धावन्ति । तद्यथापि नाम तस्मादादीप्तादगारादन्यतरे दारका अजरथमाङ्क्षमाणा निर्धाविताः । अपरे पुनः सत्त्वाः सर्वज्ञज्ञानं बुद्धज्ञानं स्वयंभूज्ञानमनाचार्यकं ज्ञानमाकाङ्क्षमाणा बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च सर्वसत्त्वपरिनिर्वाणहेतोस्तथागतज्ञानबलवैशारद्यानुबोधाय तथागतशासने ऽभियुज्यन्ते । ते उच्यन्ते महायानमाकाङ्क्षमाणास्त्रैधातुकान्निर्धावन्ति । तेन कारणेनोच्यन्ते बोधिसत्त्वा महासत्त्वा इति । तद्यथापि नाम तस्मादादीप्तादगारादन्यतरे दारका गोरथमाकाङ्क्षमाणानिर्धाविताः । तद्यथापि नाम शारिपुत्र स पुरुषस्तान् कुमारकांस्तस्मादादीप्तादगारान्निर्धावितान् दृष्ट्वा क्षेमस्वस्तिभ्यां परिमुक्तानभयप्राप्तानिति विदित्वा आत्मानं च महाधनं विदित्वा तेषां दारकाणामेकमेव यानमुदारमनुप्रयच्छेत्, एवमेव शारिपुत्र तथागतो ऽप्यर्हन् सम्यक्संबुद्धो यदा पश्यति - अनेकाः सत्त्वकोटीस्त्रैधातुकात् परिमुक्ता दुःखभयभैरवोपद्रवपरिमुक्तास्तथागतशासनद्वारेण निर्धाविताः परिमुक्ताः सर्वभयोपद्रवकान्तारेभ्यः । निर्वृतिसुखप्राप्ताः निर्वृतिसुखाप्राप्ताः । तानेतान् शारिपुत्र तस्मिन् समये तथागतो ऽर्हन् सम्यक्संबुद्धः प्रभूतो महाज्ञानबलवैशारद्यकोश इति विदित्वा सर्वे चैते ममैव पुत्रा इति ज्ञात्वा बुद्धयानेनैव तान् सत्त्वान् परिनिर्वापयति । न च कस्यचित् सत्त्वस्य प्रत्यात्मिकं परिनिर्वाणं वदति । सर्वांश्च तान् सत्त्वांस्तथागतपरिनिर्वाणेन महापरिनिर्वाणेन
परिनिर्वापयति । ये चापि ते शारिपुत्र सत्त्वास्त्रैधातुकात् परिमुक्ता भवन्ति, तेषां तथागतो ध्यानविमोक्षसमाधिसमापत्तीरार्याणि परमसुखानि क्रीडनकानि रमणीयकानि ददाति, सर्वाण्येतान्येकवर्णानि । तद्यथापि नाम शारिपुत्र तस्य पुरुषस्य न मृषावादो भवेत्, येन त्रीणि यानान्युपदर्शयित्वा तेषां कुमारकाणामेकमेव महायानं सर्वेषां दत्तं सप्तरत्नमयं सर्वालंकारविभूषितमेकवर्णमेव उदारयानमेव सर्वेषामग्रयानमेव दत्तं भवेत् । एवमेव शारिपुत्र तथागतो ऽप्यर्हन् सम्यक्संबुद्धो न मृषावादी भवति, येन पूर्वमुपायकौशल्येन त्रीणि यानान्युपदर्शयित्वा पश्चान्महायानेनैव सत्त्वान् परिनिर्वापयति । तत्कस्य हेतोः? तथागतो हि शारिपुत्र प्रभूतज्ञानबलवैशारद्यकोशकोष्ठागारसमन्वागतः प्रतिबलः सर्वसत्त्वानां सर्वज्ञज्ञानसहगतं ( वैद्य 56 ) धर्ममुपदर्शयितुम् । अनेनापि शारिपुत्र पर्यायेणैवं वेदितव्यम्, यथा उपायकौशल्यज्ञानाभिनिर्हारैस्तथागत एकमेव महायानं देशयति ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
यथा हि पुरुषस्य भवेदगारं जीर्णं महन्तं च सुदुर्बलं च ।
विशीर्ण प्रासादु तथा भवेत स्तम्भाश्च मूलेषु भवेयु पूतिकाः

3.40

गवाक्षहर्म्या गलितैकदेशा विशीर्ण कुडयं कटलेपनं च ।
जीर्णु प्रवृद्धोद्धृतवेदिकं च तृणच्छदं सर्वत ओपतन्तम्

3.41

शतान पञ्चान अनूनकानां आवासु सो तत्र भवेत प्राणिनाम् ।
बहूनि चा निष्कुटसंकटानि उच्चारपूर्णानि जुगुप्सितानि

3.42

गोपानसी विगलित तत्र सर्वा कुडयाश्च भित्तीश्च तथैव स्रस्ताः ।
गृध्राण कोट्यो निवसन्ति तत्र पारावतोलूक तथान्यपक्षिणः

3.43

आशीविषा दारुण तत्र सन्ति देशप्रदेशेषु महाविषोग्राः ।
विचित्रिका वृश्चिकमूषिकाश्च एतान आवासु सुदुष्टप्राणिनाम्

3.44

देशे च देशे अमनुष्य भूयो उच्चारप्रस्रावविनाशितं च ।
कृमिकीटखद्योतकपूरितं च श्वभिः शृगालैश्च निनादितं च

3.45

भेरुण्डका दारुणा तत्र सन्ति मनुष्यकुणपानि च भक्षयन्तः ।
तेषां च निर्याणु प्रतीक्षमाणाः श्वानाः शृगालाश्च वसन्त्यनेके

3.46

ते दुर्बला नित्य क्षुधाभिभूता देशेषु देशेषु विखादमानाः ।
कलहं करोन्ताश्च निनादयन्ति सुभैरवं तद्गृहमेवरूपम्

3.47

सुरौद्रचित्ता पि वसन्ति यक्षा मनुष्यकुणपानि विकड्ढमानाः ।
देशेषु देशेषु वसन्ति तत्र शतापदी गोनसकाश्च व्यालाः

3.48

देशेषु देशेषु च निक्षिपन्ति ते पोतकान्यालयनानि कृत्वा ।
न्यस्तानि न्यस्तानि च तानि तेषां ते यक्ष भूयो परिभक्षयन्ति

3.49

यदा च ते यक्ष भवन्ति तृप्ताः परसत्त्व खादित्व सुरौद्रचित्ताः ।
परसत्त्वमांसैः परितृप्तगात्राः कलहं तदा तत्र करोन्ति तीव्रम्

3.50

विध्वस्तलेनेषु वसन्ति तत्र कुम्भाण्डका दारूणरौद्रचित्ताः ।
वितस्तिमात्रास्तथ हस्तमात्रा द्विहस्तमात्राश्चनुचंक्रमन्ति

3.51

ते चापि श्वानान् परिगृह्य पादैरुत्तानकान् कृत्व तथैव भूमौ ।
ग्रीवासु चोत्पीड्य विभर्त्सयन्तो व्याबाधयन्तश्च रमन्ति तत्र

3.52

नानाश्च कृष्णाश्च तथैव दुर्बला उच्चा महन्ताश्च वसन्ति प्रेताः ।
जिघत्सिता भोजन मार्गमाणा आर्तस्वरं क्रन्दिषु तत्र तत्र

3.53

सूचीमुखा गोणमुखाश्च केचित् मनुष्यमात्रास्तथ श्वानमात्राः ।
प्रकीर्णकेशाश्च करोन्ति शब्दमाहारतृष्णापरिदह्यमानाः

3.54

चतुर्दिशं चात्र विलोकयन्ति गवाक्ष-उल्लोकनकेहि नित्यम् ।
ते यक्ष प्रेताश्च पिशाचकाश्च गृध्राश्च आहार गवेषमाणाः

3.55

एतादृशं भैरवु तद् गृहं भवेत् महन्तमुच्चं च सुदुर्बलं च ।
विजर्जरं दुर्बलमित्वरं च पुरुषस्य एकस्य परिग्रहं भवेत्

3.56

स च बाह्यतः स्यात्पुरुषो गृहस्य निवेशनं तच्च भवेत्प्रदीप्तम् ।
सहसा समन्तेन चतुर्दिशं च ज्वालासहस्रैः परिदीप्यमानम्

3.57

वंशाश्च दारूणि च अग्नितापिताः करोन्ति शब्दं गुरुकं सुभैरवम् ।
प्रदीप्त स्तम्भाश्च तथैव भित्तयो यक्षाश्च प्रेताश्च मुचन्ति नादम्

3.58

ज्वालूषिता गृध्रशताश्च भूयः कुम्भाण्डकाः प्लोष्टमुखा भ्रमन्ति ।
समन्ततो व्यालशताश्च तत्र नदन्ति क्रोशन्ति च दह्यमानाः

3.59

पिशाचकास्तत्र बहू भ्रमन्ति संतापिता अग्निन मन्दपुण्याः ।
दन्तेहि पाटित्व ति अन्यमन्यं रुधिरेण सिञ्चन्ति च दह्यमानाः

3.60

भेरूण्डकाः कालगताश्च तत्र खादन्ति सत्त्वाश्च ति अन्यमन्यम् ।
उच्चार दह्यत्यमनोज्ञगन्धः प्रवायते लोकि चतुर्दिशासु

3.61

शतापदीयो प्रपलायमानाः कुम्भाण्डकास्ताः परिभक्षयन्ति ।
प्रदीप्तकेशाश्च भ्रमन्ति प्रेताः क्षुधाय दाहेन च दह्यमानाः

3.62

एतादृशं भैरव तन्निवेशनं ज्वालासहस्रैर्हि विनिश्चरद्भिः ।
पुरुषश्च सो तस्य गृहस्य स्वामी द्वारस्मि अस्थासि विपश्यमानः

3.63

शृणोति चासौ स्वके अत्र पुत्रान् क्रीडापनैः क्रीडनसक्तबुद्धीन् ।
रमन्ति ते क्रीडनकप्रमत्ता यथापि बाला अविजानमानाः

3.64

श्रुत्वा च सो तत्र प्रविष्टु क्षिप्रं प्रमोचनार्थाय तदात्मजानाम् ।
मा मह्य बाला इमि सर्व दारका दह्येयु नश्येयु च क्षिप्रमेव

3.65

स भाषते तेषमगारदोषान् दुःखं इदं भोः कुलपुत्र दारुणम् ।
विविधाश्च सत्त्वेह अयं च अग्नि महन्तिका दुःखपरंपरा तु

3.66

आशीविषा यक्ष सुरौद्रचित्ताः कुम्भाण्ड प्रेता बहवो वसन्ति ।
भेरुण्डकाः श्वानशृगालसंघा गृध्राश्च आहार गवेषमाणाः

3.67

एतादृशास्मिन् बहवो वसन्ति विनापि चाग्नेः परमं सुभैरवम् ।
दुःखं इदं केवलमेवरूपं समन्ततश्चाग्निरयं प्रदीप्तः

3.68

ते चोद्यमानास्तथ बालबुद्धयः कुमारकाः क्रीडनके प्रमत्ताः ।
न चिन्तयन्ते पितरं भणन्तं न चापि तेषां मनसीकरोन्ति

3.69

पुरुषश्च सो तत्र तदा विचिन्तयेत् सुदुःखितो ऽस्मी इह पुत्रचिन्तया ।
किं मह्य पुत्रेहि अपुत्रकस्य मा नाम दह्येयुरिहाग्निना इमे

3.70

उपायु सो चिन्तयि तस्मि काले लुब्धा इमे क्रीडनकेषु बालाः ।
न चात्र क्रीडा च रती च काचिद् बालान हो यादृशु मूढभावः

3.71

स तानवोचछृणुथा कुमारका नानाविधा यानक या ममास्ति ।
मृगैरजैर्गोणवरैश्च युक्ता उच्चा महन्ता समलंकृता च

3.72

ता बाह्यतो अस्य निवेशनस्य निर्धावथा तेहि करोथ कार्यम् ।
युष्माकमर्थे मय कारितानि निर्याथ तैस्तुष्टमनाः समेत्य

3.73

ते यान एतादृशका निशाम्य आरब्धवीर्यास्त्वरिता हि भूत्वा ।
निर्धावितास्तत्क्षणमेव सर्वे आकाशि तिष्ठन्ति दुखेन मुक्ताः

3.74

पुरुषश्च सो निर्गत दृष्ट्व दारकान् ग्रामस्य मध्ये स्थितु चत्वरस्मिन् ।
उपविश्य सिंहासनि तानुवाच अहो अहं निर्वृतु अद्य मार्षाः

3.75

ये दुःखलब्धा मम ते तपस्विनः पुत्रा प्रिया ओरस विंश बालाः ।
ते दारूणे दुर्गगृहे अभूवन् बहूजन्तूपूर्णे च सुभैरवे च

3.76

आदीप्तके ज्वालसहस्रपूर्णे रता च ते क्रीडरतीषु आसन् ।
मया च ते मोचित अद्य सर्वे येनाहु निर्वाणु समागतो ऽद्य

3.77

सुखस्थितं तं पितरं विदित्वा उपगम्य ते दारक एवमाहुः ।
ददाहि नस्तात यथाभिभाषितं त्रिविधानि यानानि मनोरमाणि

3.78

सचेत्तव सत्यक तात सर्वं यद्भाषितं तत्र निवेशने ते ।
त्रिविधानि यानानि ह संप्रदास्ये ददस्व कालो ऽयमिहाद्य तेषाम्

3.79

पुरुषश्च सो कोशबली भवेत सुवर्णरूप्यामणिमुक्तकस्य ।
हिरण्य दासाश्च अनल्पकाः स्युरुपस्थपे एकविधा स याना

3.80

रत्नामया गोणरथा विशिष्टा सवेदिकाः किङ्किणिजालनद्धाः ।
छत्रध्वजेभिः समलंकृताश्च मुक्तामणीजालिकछादिताश्च

3.81

सुवर्णपुष्पाण कृतैश्च दामैर्देशेषु देशेषु प्रलम्बमानैः ।
बस्त्रैरुदारैः परिसंवृताश्च प्रत्यास्तृता दूष्यवरैश्च शुक्लैः

3.82

मृदुकान् पट्टान तथैव तत्र वरतूलिकासंस्तृत ये ऽपि ते रथाः ।
प्रत्यास्तृताः कोटिसहस्रमूल्यैर्वरैश्च कोच्कैर्बकहंसलक्षणैः

3.83

श्वेताः सुपुष्टा बलवन्त गोणा महाप्रमाणा अभिदर्शनीयाः ।
ये योजिता रत्नरथेषु तेषु परिगृहीताः पुरुषैरनेकैः

3.84

एतादृशान् सो पुरुषो ददाति पुत्राण सर्वाण वरान् विशिष्टान् ।
ते चापि तुष्टात्तमनाश्च तेहि दिशाश्च विदिशाश्च व्रजन्ति क्रीडकाः

3.85

एमेव हं शारिसुता महर्षी सत्त्वान त्राणं च पिता च भोमि ।
पुत्राश्च ते प्राणिन सर्वि मह्यं त्रैधातुके कामविलग्न बालाः

3.86

त्रैधातुकं चो यथ तन्निवेशनं सुभैरवं दुःखशताभिकीर्णम् ।
अशेषतः प्रज्वलितं समन्ताज्जातीजराव्याधिशतैरनेकैः

3.87

अहं च त्रैधातुकमुक्त शान्तो एकान्तस्थायी पवने वसामि ।
त्रैधातुकं चो ममिदं परिग्रहो ये ह्यत्र दह्यन्ति ममैति पुत्राः

3.88

अहं च आदीनव तत्र दर्शयी विदित्व त्राणं अहमेव चैषाम् ।
न चैव मे ते श्रुणि सर्वि बाला यथापि कामेषु विलग्नबुद्धयः

3.89

उपायकौशल्यमहं प्रयोजयी यानानि त्रीणि प्रवदामि चैषाम् ।
ज्ञात्वा च त्रैधातुकि नेकदोषान् निर्धावनार्थाय वदाम्युपायम्

3.90

मां चैव ये निश्रित भोन्ति पुत्राः षडभिज्ञ त्रैविद्य महानुभावाः ।
प्रत्येकबुद्धाश्च भवन्ति ये ऽत्र अविवर्तिका ये चिह बोधिसत्त्वाः

3.91

समान पुत्राण हु तेष तत्क्षणमिमेन दृष्टान्तवरेण पण्डित ।
वदामि एकं इमु बुद्धयानं परिगृह्णथा सर्वि जिना भविष्यथ

3.92

तच्चा वरिष्ठं सुमनोरमं च विशिष्टरूपं चिह सर्वलोके ।
बुद्धान ज्ञानं द्विपदोत्तमानामुदाररूपं तथ वन्दनीयम्

3.93

बलानि ध्यानानि तथा विमोक्षाः समाधिनां कोटिशता च नेका ।
अयं रथो ईदृशको वरिष्ठो रमन्ति येनो सद बुद्धपुत्राः

3.94

क्रीडन्त एतेन क्षपेन्ति रात्रयो दिवसांश्च पक्षानृतवो ऽथ मासान् ।
संवत्सरानन्तरकल्पमेव च क्षपेन्ति कल्पान सहस्रकोट्यः

3.95

रत्नामयं यानमिदं वरिष्ठं गच्छन्ति येनो इह बोधिमण्डे ।
विक्रीडमाना बहुबोधिसत्त्वा ये चो शृणोन्ति सुगतस्य श्रावकाः

3.96

एवं प्रजानाहि त्वमद्य तिष्य नास्तीह यानं द्वितियं कहिंचित् ।
दिशो दशा सर्व गवेषयित्वा स्थापेत्वुपायं पुरुषोत्तमानाम्

3.97

पुत्रा ममा यूयमहं पिता वो मया च निष्कासित यूय दुःखात् ।
परिदह्यमाना बहुकल्पकोटयस्त्रैधातुकातो भयभैरवातः

3.98

एवं च हं तत्र वदामि निर्वृतिमनिर्वृता यूय तथैव चाद्य ।
संसारदुःखादिह यूय मुक्ता बौद्धं तु यानं व गवेषितव्यम्

3.99

ये बोधिसत्त्वाश्च इहास्ति केचिच्छृण्वन्ति सर्वे मम बुद्धनेत्रीम् ।
उपायकौशल्यमिदं जिनस्य येनो विनेती बहुबोधिसत्त्वान्

3.100

हीनेषु कामेषु जुगुप्सितेषु रता यदा भोन्तिमि अत्र सत्त्वाः ।
दुःखं तदा भाषति लोकनायको अनन्यथावादिरिहार्यसत्यम्

3.101

ये चापि दुःखस्य अजानमाना मूलं न पश्यन्तिह बालबुद्धयः ।
मार्गं हि तेषामनुदर्शयामि समुदागमस्तृष्ण दुखस्य संभवः

3.102

तृष्णानिरोधो ऽथ सदा अनिश्रिता निरोधसत्यं तृतियं इदं मे ।
अनन्यथा येन च मुच्यते नरो मार्गं हि भावित्व विमुक्त भोति

3.103

कुतश्च ते शारिसुता विमुक्ता असन्तग्राहातु विमुक्त भोन्ति ।
न च ताव ते सर्वत मुक्त भोन्ति अनिर्वृतांस्तान् वदतीह नायकः

3.104

किकारणं नास्य वदामि मोक्षमप्राप्यिमामुत्तममग्रबोधिम् ।
ममैष छन्दो अहु धर्मराजा सुखापनार्थायिह लोकि जातः

3.105

इय शारिपुत्रा मम धर्ममुद्रा या पश्चिमे कालि मयाद्य भाषिता ।
हिताय लोकस्य सदेवकस्य दिशासु विदिशासु च देशयस्व

3.106

यश्चापि ते भाषति कश्चि सत्त्वो अनुमोदयामीति वदेत वाचम् ।
मूर्ध्नेन चेदं प्रतिगृह्य सूत्रं अविवर्तिकं तं नरु धारयेस्त्वम्

3.107

दृष्टाश्च तेनो पुरिमास्तथागताः सत्कारु तेषां च कृतो अभूषि ।
श्रुतश्च धर्मो अयमेवरूपो य एत सूत्रं अभिश्रद्दधेत

3.108

अहं च त्वं चैव भवेत दृष्टो अयं च सर्वो मम भिक्षुसंघः ।
दृष्टाश्च सर्वे इमि बोधिसत्त्वा ये श्रद्दधे भाषितमेत मह्यम्

3.109

सूत्रं इमं बालजनप्रमोहनमभिज्ञज्ञानान मि एतु भाषितम् ।
विषयो हि नैवास्तिह श्रावकाणां प्रत्येकबुद्धान गतिर्न चात्र

3.110

अधिमुक्तिसारस्तुव शारिपुत्र किं वा पुनर्मह्य इमे ऽन्यश्रावकाः ।
एते ऽपि श्रद्धाय ममैव यान्ति प्रत्यात्मिकं ज्ञानु न चैव विद्यते

3.111

मा चैव त्वं स्तम्भिषु मा च मानिषु मायुक्तयोगीन वदेसि एतत् ।
बाला हि कामेषु सदा प्रमत्ता अजानका धर्मु क्षिपेयु भाषितम्

3.112

उपायकौशल्य क्षिपित्व मह्यं या बुद्धनेत्री सद लोकि संस्थिता ।
भृकुटिं करित्वान क्षिपित्व यानं विपाकु तस्येह शृणोहि तीव्रम्

3.113

क्षिपित्व सूत्रं इदमेवरूपं मयि तिष्ठमाने परिनिर्वृते वा ।
भिक्षूषु वा तेषु खिलानि कृत्वा तेषां विपाकं ममिहं शृणोहि

3.114

च्युत्वा मनुष्येषु अवीचि तेषां प्रतिष्ठ भोती परिपूर्णकल्पात् ।
ततश्च भूयो ऽन्तरकल्प नेकांश्च्युताश्च्युतास्तत्र पतन्ति बालाः

3.115

यदा च नरकेषु च्युता भवन्ति ततश्च तिर्यक्षु व्रजन्ति भूयः ।
सुदुर्बलाः श्वानशृगालभूताः परेष क्रीडापनका भवन्ति

3.116

वर्णेन ते कालक तत्र भोन्ति कल्माषका व्राणिक कण्डुलाश्च ।
निर्लोमका दुर्बल भोन्ति भूयो विद्वेषमाणा मम अग्रबोधिम्

3.117

जुगुप्सिता प्राणिषु नित्य भोन्ति लोष्टप्रहाराभिहता रुदन्तः ।
दण्डेन संत्रासित तत्र तत्र क्षुधापिपासाहत शुष्कगात्राः

3.118

उष्ट्राथ वा गर्दभ भोन्ति भूयो भारं वहन्तः कशदण्डताडिताः ।
आहारचिन्तामनुचिन्तयन्तो ये बुद्धनेत्री क्षिपि बालबुद्धयः

3.119

पुनश्च ते क्रोष्टुक भोन्ति तत्र बीभत्सकाः काणक कुण्ठकाश्च ।
उत्पीडिता ग्रामकुमारकेहि लोष्टप्रहाराभिहताश्च बालाः

3.120

ततश्च्यवित्वान च भूयु बालाः पञ्चाशतीनां सम योजनानाम् ।
दीर्घात्मभावा हि भवन्ति प्राणिनो जडाश्च मूढाः परिवर्तमानाः

3.121

अपादका भोन्ति च क्रोडसक्किनो विखाद्यमाना बहुप्राणिकोटिभिः ।
सुदारुणां ते अनुभोन्ति वेदनां क्षिपित्व सूत्रं इदमेवरूपम्

3.122

पुरुषात्मभावं च यद लभन्ते ते कुण्ठका लङ्गक भोन्ति तत्र ।
कुब्जाथ काणा च जडा जघन्या अश्रद्दधन्ता इम सूत्र मह्यम्

3.123

अप्रत्यनीयाश्च भवन्ति लोके पूती मुखात्तेष प्रवाति गन्धः ।
यक्षग्रहो उक्रमि तेष काये अश्रद्दधन्तानिम बुद्धबोधिम्

3.124

दरिद्रका पेषणकारकाश्च उपस्थायका नित्य परस्य दुर्बलाः ।
आबाध तेषां बहुकाश्च भोन्ति अनाथभूता विहरन्ति लोके

3.125

यस्यैव ते तत्र करोन्ति सेवनामदातुकामो भवती स तेषाम् ।
दत्तं पि चो नश्यति क्षिप्रमेव फलं हि पापस्य इमेवरूपम्

3.126

यच्चापि ते तत्र लभन्ति औषधं सुयुक्तरूपं कुशलेहि दत्तम् ।
तेनापि तेषां रुज भूयु वर्धते सो व्याधिरन्तं न कदाचि गच्छति

3.127

अन्येहि चौर्याणि कृतानि भोन्ति डमराथ डिम्बास्तथ विग्रहाश्च ।
द्रव्यापहाराश्च कृतास्तथान्यैर्निपतन्ति तस्योपरि पापकर्मणः

3.128

न जातु सो पश्यति लोकनाथं नरेन्द्रराजं महि शासमानम् ।
तस्याक्षणेष्वेव हि वासु भोति इमां क्षिपित्वा मम बुद्धनेत्रीम्

3.129

न चापि सो धर्म शृणोति बालो बधिरश्च सो भोति अचेतनश्च ।
क्षिपित्व बोधीमिममेवरूपामुपशान्ति तस्यो न कदाचि भोति

3.130

सहस्र नेका नयुतांश्च भूयः कल्पान कोट्यो यथ गङ्गवालिकाः ।
जडात्मभावो विकलश्च भोति क्षिपित्व सूत्रं इमु पापकं फलम्

3.131

उद्यानभूमी नरको ऽस्य भोति निवेशनं तस्य अपायभूमिः ।
खरसूकरा क्रोष्टुक भूमिसूचकाः प्रतिष्ठितस्येह भवन्ति नित्यम्

3.132

मनुष्यभावत्वमुपेत्य चापि अन्धत्व बधिरत्व जडत्वमेति ।
परप्रेष्य सो भोति दरिद्र नित्यं तत्कालि तस्याभरणानिमानि

3.133

वस्त्राणि चो व्याधयु भोन्ति तस्य व्रणान कोटीनयुताश्च काये ।
विचर्चिका कण्डु तथैव पामा कुष्ठं किलासं तथ आमगन्धः

3.134

सत्कायदृष्टिश्च घनास्य भोति उदीर्यते क्रोधबलं च तस्य ।
संरागु तस्यातिभृशं च भोति तिर्याण योनीषु च सो सदा रमी

3.135

सचेदहं शारिसुताद्य तस्य परिपूर्णकल्पं प्रवदेय दोषान् ।
यो ही ममा एतु क्षिपेत सूत्रं पर्यन्तु दोषाण न शक्य गन्तुम्

3.136

संपश्यमानो इदमेव चार्थं त्वां संदिशामी अहु शारिपुत्र ।
मा हैव त्वं बालजनस्य अग्रतो भाषिष्यसे सूत्रमिमेवरूपम्

3.137

ये तू इह व्यक्त बहुश्रुताश्च स्मृतिमन्त ये पण्डित ज्ञानवन्तः ।
ये प्रस्थिता उत्तममग्रबोधिं तान् श्रावयेस्त्वं परमार्थमेतत्

3.138

दृष्टाश्च येही बहुबुद्धकोट्यः कुशलं च यै रोपितमप्रमेयम् ।
अध्याशयाश्चा दृढ येष चो स्यात्तान् श्रावयेस्त्वं परमार्थमेतत्

3.139

ये वीर्यवन्तः सद मैत्रचित्ता भावेन्ति मैत्रीमिह दीर्घरात्रम् ।
उत्सृष्टकाया तथ जीविते च तेषामिदं सूत्र भणेः समक्षम्

3.140

अन्योन्यसंकल्प सगौरवाश्च तेषां च बालेहि न संस्तवो ऽस्ति ।
ये चापि तुष्टा गिरिकन्दरेषु तान् श्रावयेस्त्वं इद सूत्र भद्रकम्

3.141

कल्याणमित्रांश्च निषेवमाणाः पापांश्च मित्रान् परिवर्जयन्तः ।
यानीदृशान् पश्यसि बुद्धपुत्रांस्तेषामिदं सूत्र प्रकाशयेसि

3.142

अच्छिद्रशीला मणिरत्नसादृशा वैपुल्यसूत्राण परिग्रहे स्थिताः ।
पश्येसि यानीदृश बुद्धपुत्रांस्तेषाग्रतः सूत्रमिदं वदेसि

3.143

अक्रोधना ये सद आर्जवाश्च कृपासमन्वागत सर्वप्राणिषु ।
सगौरवा ये सुगतस्य अन्तिके तेषाग्रतः सूत्रमिदं वदेसि

3.144

यो धर्मु भाषे परिषाय मध्ये असङ्गप्राप्तो वदि युक्तमानसः ।
दृष्टान्तकोटीनयुतैरनेकैस्तस्येद सूत्रं उपदर्शयेसि

3.145

मूर्ध्नाञ्जलिं यश्च करोति बद्ध्वा सर्वज्ञभावं परिमार्गमाणः ।
दशो दिशो यो ऽपि च चंक्रमेत सुभाषितं भिक्षु गवेषमाणः

3.146

वैपुल्यसूत्राणि च धारयेत न चास्य रुच्यन्ति कदाचिदन्ये ।
एकां पि गाथां न च धारये ऽन्यतस्तं श्रावयेस्त्वं वरसूत्रमेतत्

3.147

तथागतस्यो यथ धातु धारयेत्तथैव यो मार्गति कोचि तं नरः ।
एमेव यो मार्गति सूत्रमीदृशं लभित्व यो मूर्धनि धारयेत

3.148

अन्येषु सूत्रेषु न काचि चिन्ता लोकायतैरन्यतरैश्च शास्त्रैः ।
बालान एतादृश भोन्ति गोचरास्तांस्त्वं विवर्जित्व प्रकाशयेरिदम्

3.149

पूर्णं पि कल्पं अहु शारिपुत्र वदेयमाकार सहस्रकोट्यः ।
ये प्रस्थिता उत्तममग्रबोधिं तेषाग्रतः सूत्रमिदं वदेसि

मूल पाठ: Saddharmapuṇḍarīkasūtra · Edition: P.L. Vaidya, Darbhanga : The Mithila Institute, 1960 (Buddhist Sanskrit Texts, 6) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc