सद्धर्मपुण्डरीकसूत्र · अध्याय 11
इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये धर्मभाणकपरिवर्तो नाम दशमः ॥
सद्ध्प्_11: स्तूपसंदर्शनपरिवर्तः ।
अथ खलु भगवतः पुरस्तात्ततः पृथिवीप्रदेशात् पर्षन्मध्यात् सप्तरत्नमयः स्तूपो ऽभ्युद्गतः पञ्चयोजनशतान्युच्चैस्त्वेन तदनुरूपेण च परिणाहेन । अभ्युद्गम्य वैहायसमन्तरीक्षे समवातिष्ठच्चित्रो दर्शनीयः पञ्चभिः पुष्पग्रहणीयवेदिकासहस्रैः स्वभ्यलंकृतो बहुतोरणसहस्रैः प्रतिमण्डितः पताकावैजयन्तीसहस्राभिः प्रलम्बितो रत्नदामसहस्राभिः प्रलम्बितः पट्टघण्टासहस्रैः प्रलम्बितः तमालपत्रचन्दनगन्धं प्रमुञ्चमानः । तेन च गन्धेन सर्वावतीयं लोकधातुः संमूर्च्छिताभूत् । छत्रावली चास्य यावच्चातुर्महाराजकायिकदेवभवनानि समुच्छ्रिताभूत् सप्तरत्नमयी, तद्यथा - सुवर्णस्य रूप्यस्य वैडूर्यस्य मुसारगल्वस्याश्मगर्भस्य लोहितमुक्तेः कर्केतनस्य । तस्मिंश्च स्तूपे त्रायस्त्रिंशत्कायिका देवपुत्रा दिव्यैर्मान्दारवमहामान्दारवैः पुष्पैस्तं रत्नस्तूपमवकिरन्ति अध्यवकिरन्ति अभिप्रकिरन्ति । तस्माच्च रत्नस्तूपादेवंरूपः शब्दो निश्चरति स्म - साधु साधु भगवन् शाक्यमुने । सुभाषितस्ते ऽयं सद्धर्मपुण्डरीको धर्मपर्यायः । एवमेतत् भगवन्, एवमेतत् सुगत ॥
अथ खलु ताश्चतस्रः पर्षदस्तं महान्तं रत्नस्तूपं दृष्ट्वा वैहायसमन्तरीक्षे स्थितं संजातहर्षाः प्रीतिप्रामोद्यप्रसादप्राप्ताः तस्यां वेलायामुत्थाय आसनेभ्यो ऽञ्जलिं प्रगृह्यावस्थिताः ॥
अथ खलु तस्यां वेलायां महाप्रतिभानो नाम बोधिसत्त्वो महासत्त्वः सदेवमानुषासुरं लोकं कौतूहलप्राप्तं विदित्वा भगवन्तमेतदवोचत् - को भगवन् हेतुः, कः प्रत्ययः, अस्यैवंरूपस्य महारत्नस्तूपस्य लोके प्रादुर्भावाय? को वा भगवन् अस्मान्महारत्नस्तूपादेवंरूपं शब्दं निश्चारयति? एवमुक्ते भगवान् महाप्रतिभानं बोधिसत्त्वं महासत्त्वमेतदवोचत् - अस्मिन् महाप्रतिभान महारत्नस्तूपे तथागतस्यात्मभावस्तिष्ठति एकघनः । तस्यैष स्तूपः । स एष शब्दं निश्चारयति । अस्ति महाप्रतिभान अधस्तायां दिशि असंख्येयानि लोकधातुकोटीनयुतशतसहस्राण्यतिक्रम्य रत्नविशुद्धा नाम लोकधातुः । तस्यां प्रभूतरत्नो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो ऽभूत् । तस्यैतद्भगवतः पुर्वप्रणिधानमभूत् - अहं खलु पूर्वं बोधिसत्त्वचर्यां चरमाणो न तावन्निर्यातो ऽनुत्तरायां सम्यक्संबोधौ, यावन्मयायं सद्धर्मपुण्डरीको धर्मपर्यायो बोधिसत्त्वाववादो न श्रुतो ऽभूत् । यदा तु मया अयं सद्धर्मपुण्डरीको धर्मपर्यायः श्रुतः, तदा पश्चादहं परिनिष्पन्नो ऽभूवमनुत्तरायां सम्यक्संबोधौ । तेन खलु पुनर्महाप्रतिभान भगवता प्रभूतरत्नेन तथागतेनार्हता सम्यक्संबुद्धेन परिनिर्वाणकालसमये सदेवकस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः पुरस्तादेवमारोचितम् - मम खलु भिक्षवः परिनिर्वृतस्य अस्य तथागतात्मभावविग्रहस्य एको महारत्नस्तूपः कर्तव्यः । शेषाः पुनः स्तूपा ममोद्दिश्य कर्तव्याः । तस्य खलु पुनर्महाप्रतिभान भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यैतदधिष्ठानमभूत् - अयं मम स्तूपो दशसु दिक्षु सर्वलोकधातुषु येषु बुद्धक्षेत्रेष्वयं ( वैद्य 150 ) सद्धर्मपुण्डरीको धर्मपर्यायः संप्रकाश्येत, तेषु तेष्वयं ममात्मभावविग्रहस्तूपः समभ्युद्गच्छेत् । तैस्तैर्बुद्धैर्भगवद्भिरस्मिन् सद्धर्मपुण्डरीके धर्मपर्याये भाष्यमाणे पर्षन्मण्डलस्योपरि वैहायसं तिष्ठेत् । तेषां च बुद्धानां भगवतामिमं सद्धर्मपुण्डरीकं धर्मपर्यायं भाषमाणानामयं ममात्मभावविग्रहस्तूपः साधुकारं दद्यात् । तदयं महाप्रतिभान तस्य भगवतः प्रभूतरत्नस्य
तथागतस्यार्हतः सम्यक्संबुद्धस्य शरीरस्तूपः । अस्यां सहायां लोकधातौ अस्मिन् सद्धर्मपुण्डरीके धर्मपर्याये मया भाष्यमाणे ऽस्मात् पर्षन्मण्डलमध्यादभ्युद्गम्य उपर्यन्तरीक्षे वैहायसं स्थित्वा साधुकारं ददाति स्म ॥
अथ खलु महाप्रतिभानो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - पश्याम वयं भगवन् एतं तथागतविग्रहं भगवतो ऽनुभावेन । एवमुक्ते भगवान् महाप्रतिभानं बोधिसत्त्वं महासत्त्वमेतदवोचत् - तस्य खलु पुनर्महाप्रतिभान भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रणिधानं गुरुकमभूत् । एतदस्य प्रणिधानम् - यदा खल्वन्येषु बुद्धक्षेत्रेषु बुद्धा भगवन्त इमं सद्धर्मपुण्डरीकं धर्मपर्यायं भाषेयुः, तदायं ममात्मभावविग्रहस्तूपो ऽस्य सद्धर्मपुण्डरीकस्य धर्मपर्यायस्य श्रवणाय गच्छेत् तथागतानामन्तिकम् । यदा पुनस्ते बुद्धा भगवन्तो ममात्मभावविग्रहमुद्धाट्य दर्शयितुकामा भवेयुश्चतसृणां पर्षदाम्, अथ तैस्तथागतैर्दशसु दिक्ष्वन्योन्येषु बुद्धक्षेत्रेषु य आत्मभावनिर्मितास्तथागतविग्रहा अन्यान्यनामधेयाः, तेषु तेषु बुद्धक्षेत्रेषु सत्त्वानां धर्मं देशयन्ति, तान् सर्वान् संनिपात्य तैरात्मभावनिर्मितैस्तथागतविग्रहैः सार्धं पश्चादयं ममात्मभावविग्रहस्तूपः समुद्धाट्य उपदर्शयितव्यश्चतसृणां पर्षदाम् । तन्मयापि महाप्रतिभान बहवस्तथागतविग्रहा निर्मिताः, ये दशसु दिक्ष्वन्योन्येषु बुद्धक्षेत्रेषु लोकधातुसहस्रेषु सत्त्वानां धर्मं देशयन्ति । ते सर्वे खल्विहानयितव्या भविष्यन्ति ॥
अथ खलु महाप्रतिभानो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - तानपि तावद् भगवंस्तथागतात्मभावांस्तथागतनिर्मितान् सर्वान् वन्दामहै ॥
अथ खलु भगवांस्तस्यां वेलायामूर्णाकोशाद्रश्मिं प्रामुञ्चत्, यया रश्म्या समनन्तरप्रमुक्तया पूर्वस्यां दिशि पञ्चाशत्सु गङ्गानदीवालुकासमेषु लोकधातुकोटीनयुतशतसहस्रेषु ये बुद्धा भगवन्तो विहरन्ति स्म, ते सर्वे संदृश्यन्ते स्म । तानि च बुद्धक्षेत्राणि स्फटिकमयानि संदृश्यन्ते स्म, रत्नवृक्षैश्च चित्राणि संदृश्यन्ते स्म, दूष्यपट्टदामसमलंकृतानि बहुबोधिसत्त्वशतसहस्रपरिपूर्णानि वितानविततानि सप्तरत्नहेमजालप्रतिच्छन्नानि । तेषु तेषु बुद्धा भगवन्तो मधुरेण वल्गुना स्वरेण सत्त्वानां धर्मं देशयमानाः संदृश्यन्ते स्म । बोधिसत्त्वशतसहस्रैश्च परिपूर्णानि तानि बुद्धक्षेत्राणि संदृश्यन्ते स्म । एवं पूर्वदक्षिणस्यां दिशि । एवं दक्षिणस्यां दिशि । एवं दक्षिणपश्चिमायां दिशि । एवं पश्चिमायां दिशि । एवं पश्चिमोत्तरायां दिशि । एवमुत्तरायां दिशि । एवमुत्तरपूर्वस्यां दिशि । एवमधस्तायां दिशि । एवमूर्ध्वायां दिशि । एवं समन्ताद्दशसु दिक्षु एकैकस्यां दिशि बहूनि गङ्गानदीवालुकोपमानि बुद्धक्षेत्रकोटीनयुतशतसहस्राणि बहुषु गङ्गानदीवालुकोपमेषु लोकधातुकोटीनयुतशतसहस्रेषु ये बुद्धा भगवन्तस्तिष्ठन्ति, ते सर्वे संदृश्यन्ते स्म ॥
अथ खलु ते दशसु दिक्षु तथागता अर्हन्तः सम्यक्संबुद्धाः स्वान् स्वान् बोधिसत्त्वगणानामन्त्रयन्ति स्म - गन्तव्यं खलु पुनः कुलपुत्रा भविष्यति अस्माभिः सहां लोकधातुम्, भगवतः शाक्यमुनेस्तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिकम्, प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य शरीरस्तूपवन्दनाय । अथ खलु ते बुद्धा भगवन्तः स्वैः स्वैरुपस्थायकैः सार्धमात्मद्वितीया आत्मतृतीया इमां सहां लोकधातुमागच्छन्ति स्म । इति हि तस्मिन् समये इयं सर्वावती लोकधातू रत्नवृक्षप्रतिमण्डिताभूद् वैडूर्यमयी सप्तरत्नहेमजालसंछन्ना महारत्नगन्धधूपनधूपिता मान्दारवमहामान्दारवपुष्पसंस्तीर्णा किङ्किणीजालालंकृता सुवर्णसूत्राष्टापदनिबद्धा अपगतग्रामनगरनिगमजनपदराष्ट्रराजधानी अपगतकालपर्वता अपगतमुचिलिन्दमहामुचिलिन्दपर्वता अपगतचक्रवालमहाचक्रवालपर्वता अपगतसुमेरुपर्वता अपगततदन्यमहापर्वता अपगतमहासमुद्रा अपगतनदीमहानदीपरिसंस्थिताभूत्, अपगतेदवमनुष्यासुरकाया अपगतनिरयतिर्यग्योनियमलोका । इति हि तस्मिन् समये ये ऽस्यां सहायां लोकधातौ षड्गत्युपपन्नाः सत्त्वाः, ते सर्वे ऽन्येषु लोकधातुषूपनिक्षिप्ता अभूवन्, स्थापयित्वा ये तस्यां पर्षदि संनिपतिता अभूवन् । अथ खलु ते बुद्धा भगवन्त उपस्थायकद्वितीया उपस्थायकतृतीया इमां सहां लोकधातुमागच्छन्ति स्म । आगतागताश्च ते तथागता रत्नवृक्षमूले सिंहासनमुपनिश्रित्य विहरन्ति स्म । एकैकश्च रत्नवृक्षः पञ्चयोजनशतान्युच्चैस्त्वेनाभूत् अनुपूर्वशाखापत्रपलाशपरिणाहः पुष्पफलप्रतिमण्डितः । एकैकस्मिंश्च रत्नवृक्षमूले सिंहासनं प्रज्ञप्तमभूत् पञ्चयोजनशतान्युच्चैस्त्वेन महारत्नप्रतिमण्डितम् । तस्मिन्नेकैकस्तथागतः पर्यङ्कं बद्ध्वा निषण्णो ऽभूत् । अनेन पर्यायेण सर्वस्यां त्रिसाहस्रमहासाहस्रायां लोकधातौ सर्वरत्नवृक्षमूलेषु तथागताः पर्यङ्कं बद्ध्वा निषण्णा अभूवन् ॥
तेन खलु पुनः समयेन इयं त्रिसाहस्रमहासाहस्री लोकधातुस्तथागतपरिपूर्णाभूत् । न तावद् भगवतः शाक्यमुनेस्तथागतस्यात्मभावनिर्मिता एकस्मादपि दिग्भागात् सर्व आगता अभूवन् । अथ खलु पुनर्भगवान् शाक्यमुनिस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तेषां तथागतविग्रहाणामागतागतानामवकाशं निर्मिमीते स्म । समन्तादष्टभ्यो दिग्भ्यो विंशतिबुद्धक्षेत्रकोटीनयुतशतसहस्राणि सर्वाणि वैडूर्यमयानि सप्तरत्नहेमजालसंछन्नानि किङ्किणीजालालंकृतानि मान्दारवमहामान्दारवपुष्पसंस्तीर्णानि दिव्यवितानविततानि दिव्यपुष्पदामाभिप्रलम्बितानि दिव्यगन्धधूपनधूपितानि । सर्वाणि च तानि विंशतिबुद्धक्षेत्रकोटीनयुतशतसहस्राण्यपगतग्रामनगरनिगमजनपदराष्ट्रराजधानीनि अपगतकालपर्वतानि अपगतमुचिलिन्दमहामुचिलिन्दपर्वतानि अपगतचक्रवालमहाचक्रवालपर्वतानि अपगतसुमेरुपर्वतानि अपगततदन्यमहापर्वतानि अपगतमहासमुद्राणि अपगतनदीमहानदीनि परिसंस्थापयति अपगतदेवमनुष्यासुरकायानि अपगतनिरयतिर्यग्योनियमलोकानि । तानि च सर्वाणि बहुबुद्धक्षेत्राणि एकमेव बुद्धक्षेत्रमेकमेव पृथिवीप्रदेशं परिसंस्थापयामास समं रमणीयं सप्तरत्नमयैश्च ( वैद्य 152 ) वृक्षैश्चित्रितम् । तेषां च रत्नवृक्षाणां पञ्चयोजनशतान्यारोहपरिणाहो ऽनुपूर्वशाखापत्रपुष्पफलोपेतः । सर्वस्मिंश्च रत्नवृक्षमूले पञ्चयोजनशतान्यारोहपरिणाहं दिव्यरत्नमयं विचित्रं दर्शनीयं सिंहासनं प्रज्ञप्तमभूत् । तेषु रत्नवृक्षमूलेष्वागतागतास्तथागताः सिंहासनेषु पर्यङ्कं बद्ध्वा निषीदन्ते स्म । अनेन पर्यायेण पुनरपराणि विंशतिलोकधातुकोटीनयुतशतसहस्राण्येकैकस्यां दिशि शाक्यमुनिस्तथागतः परिशोधयति स्म तेषां तथागतानामागतानामवकाशार्थम् । तान्यपि विंशतिलोकधातुकोटीनयुतशतसहस्राण्यैकैकस्यां दिशि अपगतग्रामनगरनिगमजनपदराष्ट्रराजधानीनि अपगतकालपर्वतानि अपगतमुचिलिन्दमहामुचिलिन्दपर्वतानि अपगतचक्रवालमहाचक्रवालपर्वतानि अपगतसुमेरुपर्वतानि अपगततदन्यमहापर्वतानि अपगतमहासमुद्राणि अपगतनदीमहानदीनि परिसंस्थापयति अपगतदेवमनुष्यासुरकायानि अपगतनिरयतिर्यग्योनियमलोकानि ।
ते च सर्वसत्त्वा अन्येषु लोकधातुषूपनिक्षिप्ताः । तान्यपि बुद्धक्षेत्राणि वैडूर्यमयानि सप्तरत्नहेमजालप्रतिच्छन्नानि किङ्किणीजालालंकृतानि मान्दारवमहामान्दारवपुष्पसंस्तीर्णानि दिव्यवितानविततानि दिव्यपुष्पदामाभिप्रलम्बितानि दिव्यगन्धधूपनधूपितानि रत्नवृक्षोपशोभितानि । सर्वे च ते रत्नवृक्षाः पञ्चयोजनशतप्रमाणाः । पञ्चयोजनप्रमाणानि च सिंहासनान्यभिनिर्मितानि । ततस्ते तथागता निषीदन्ते स्म पृथक् पृथक् सिंहासनेषु रत्नवृक्षमूलेषु पर्यङ्कं बद्ध्वा ॥
तेन खलु पुनः समयेन भगवता शाक्यमुनिना ये निर्मितास्तथागताः पूर्वस्यां दिशि सत्त्वानां धर्मं देशयन्ति स्म गङ्गानदीवालुकोपमेषु बुद्धक्षेत्रकोटीनयुतशतसहस्रेषु, ते सर्वे समागता दशभ्यो दिग्भ्यः । ते चागता अष्टासु दिक्षु निषण्णा अभूवन् । तेन खलु पुनः समयेनैकैकस्यां दिशि त्रिंशल्लोकधातुकोटीशतसहस्राण्यष्टभ्यो दिग्भ्यः समन्तात्तैस्तथागतैराक्रान्ता अभूवन् । अथ खलु ते तथागताः स्वेषु स्वेषु सिंहासनेषूपविष्टाः स्वान् स्वानुपस्थायकान् संप्रेषयन्ति स्म भगवतः शाक्यमुनेरन्तिकम् । रत्नपुष्पपुटान् दत्वा एवं वदन्ति स्म - गच्छत यूयं गृध्रकूटं पर्वतम् । गत्वा च पुनस्तस्मिंस्तं भगवन्तं शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धं वन्दित्वा अस्मद्वचनादल्पाबाधतां मन्दग्लानतां च बलं च स्पर्शविहारतां च परिपृच्छध्वं सार्धं बोधिसत्त्वगणेन श्रावकगणेन । अनेन च रत्नराशिना अभ्यवकिरध्वम्, एवं च वदध्वम् - ददाति खलु पुनर्भगवांस्तथागतश्छन्दमस्य महारत्नस्तूपस्य समुद्धाटने । एवं ते तथागताः सर्वे स्वान् स्वानुपस्थायकान् संप्रेषयामासुः ॥
अथ खलु भगवान् शाक्यमुनिस्तथागतस्तस्यां वेलायां स्वान्निर्मितानशेषतः समागतान् विदित्वा, पृथक्पृथक् सिंहासनेषु निषण्णांश्च विदित्वा, तांश्चोपस्थायकांस्तेषां तथागतानामर्हतां सम्यक्संबुद्धानामागतान् विदित्वा, छन्दं च तैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरारोचितं विदित्वा, तस्यां वेलायां स्वकाद्धर्मासनादुत्थाय वैहायसमन्तरीक्षे ऽतिष्ठत् । ताश्च सर्वाश्चतस्रः परिषदः उत्थायासनेभ्यो ऽञ्जलीः परिगृह्य भगवतो मुखमुल्लोकयन्त्यस्तस्थुः । अथ खलु भगवांस्तं ( वैद्य 153 ) महान्तं रत्नस्तूपं वैहायसं स्थितं दक्षिणया हस्ताङ्गुल्या मध्ये समुद्धाटयति स्म । समुद्धाट्य च द्वे भित्ती प्रविसारयति स्म । तद्यथापि नाम महानगरद्वारेषु महाकपाटसंपुटावर्गलविमुक्तौ प्रविसार्येते, एवमेव भगवांस्तं महान्तं रत्नस्तूपं वैहायसं स्थितं दक्षिणया हस्ताङ्गुल्या मध्ये समुद्धाट्य अपावृणोति स्म । समनन्तरविवृतस्य खलु पुनस्तस्य महारत्नस्तूपस्य, अथ खलु भगवान् प्रभूतरत्नस्तथागतो ऽर्हन् सम्यक्संबुद्धः सिंहासनोपविष्टः पर्यङ्कं बद्द्वा परिशुष्कगात्रः संघटितकायो यथा समाधिसमापन्नस्तथा संदृश्यते स्म । एवं च वाचमभाषत - साधु साधु भगवन् शाक्यमुने । सुभाषितस्ते ऽयं सद्धर्मपुण्डरीको धर्मपर्यायः । साधु खलु पुनस्त्वं भगवन् शाक्यमुने यस्त्वमिमं सद्धर्मपुण्डरीकं धर्मपर्यायं पर्षन्मध्ये भाषसे । अस्यैवाहं भगवन् सद्धर्मपुण्डरीकस्य धर्मपर्यायस्य श्रवणायेहागतः ॥
अथ खलु ताश्चतस्रः पर्षदस्तं भगवन्तं प्रभूतरत्नं तथागतमर्हन्तं सम्यक्संबुद्धं बहुकल्पकोटीनयुतशतसहस्रपरिनिर्वृतं तथा भाषमाणं दृष्ट्वा आश्चर्यप्राप्ता अद्भुतप्राप्ता अभूवन् । तस्यां वेलायां तं भगवन्तं प्रभूतरत्नं तथागतमर्हन्तं सम्यक्संबुद्ध तं च भगवन्तं शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धं दिव्यमानुष्यकै रत्नराशिभिरभ्यवकिरन्ति स्म । अथ खलु भगवान् प्रभूतरत्नस्तथागतो ऽर्हन् सम्यक्संबुद्धो भगवतः शाक्यमुनेस्तथागतस्यार्हतः सम्यक्संबुद्धस्य तस्मिन्नेव सिंहासने ऽर्धासनमदासीत्, तस्यैव महारत्नस्तूपाभ्यन्तरे, एवं च वदति - इहैव भगवान् शाक्यमुनिस्तथागतो निषीदतु । अथ खलु भगवान् शाक्यमुनिस्तथागतस्तस्मिन्नर्धासने निषसाद तेनैव तथागतेन सार्धम् । उभौ च तौ तथागतौ तस्य महारत्नस्तूपस्य मध्ये सिंहासनोपविष्टौ वैहायसमन्तरीक्षस्थौ संदृश्येते ॥
अथ खलु तासां चतसृणां पर्षदामेतदभवत् - दूरस्था वयमाभ्यां तथागताभ्याम् । यन्नूनं वयमपि तथागतानुभावेन वैहायसमभ्युद्गच्छेम इति । अथ खलु भगवान् शाक्यमुनिस्तथागतस्तासां चतसृणां पर्षदां चेतसैव चेतःपरिवितर्कमाज्ञाय तस्यां वेलायामृद्धिबलेन ताश्चतस्रः पर्षदो वैहायसमुपर्यन्तरीक्षे प्रतिष्ठापयति स्म । अथ खलु भगवान् शाक्यमुनिस्तथागतस्तस्यां वेलायां ताश्चतस्रः पर्षद आमन्त्रयते स्म - को भिक्षवो युष्माकमुत्सहते तस्यां सहायां लोकधातौ इमं सद्धर्मपुण्डरीकं धर्मपर्यायं संप्रकाशयितुम्? अयं स कालः, अयं स समयः । संमुखीभूतस्तथागतः । परिनिर्वायितुकाभो भिक्षवस्तथागत इमं सद्धर्मपुण्डरीकं धर्मपर्यायमुपनिक्षिप्य ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
अयमागतो निर्वृतको महर्षी रतनामयं स्तूप प्रविश्य नायकः ।
श्रवणार्थ धर्मस्य इमस्य भिक्षवः को धर्महेतोर्न जनेत वीर्यम्
बहुकल्पकोटीपरिनिर्वृतो ऽपि सो नाम अद्यापि शृणोति धर्मम् ।
तहिं तहिं गच्छति धर्महेतोः सुदुर्लभो धर्म यमेवरूपः
प्रणिधानमेतस्य विनायकस्य निषेवितं पूर्वभवे यदासीत् ।
परिनिर्वृतो ऽपी इमु सर्वलोकं पर्येषती सर्वदशद्दिशासु
इमे च सर्वे मम आत्मभावाः सहस्रकोट्यो यथ गङ्गवालिकाः ।
ते धर्मकृत्यस्य कृतेन आगताः परिनिर्वृतं च इमु द्रष्टु नाथम्
छोरित्व क्षेत्राणि स्वकस्वकानि तथ श्रावकान्तर मरुतश्च सर्वान् ।
सद्धर्मसंरक्षणहेतु सर्वे कथं चिरं तिष्ठिय धर्मनेत्री
एतेषु बुद्धान निषीदनार्थं बहुलोकधातून सहस्रकोट्यः ।
संक्रामिता मे तथ सर्वसत्त्वा ऋद्धीबलेन परिशोधिताश्च
एतादृशी उत्सुकता इयं मे कथं प्रकाशेदिय धर्मनेत्री ।
इमे च बुद्धा स्थित अप्रमेया द्रुमाण मूले यथ पद्मराशिः
द्रुममूलकोटीय अनल्पकायो सिंहासनस्थेहि विनायकेहि ।
शोभन्ति तिष्ठन्ति च नित्यकालं हुताशनेनेव यथान्धकारम्
गन्धो मनोज्ञो दशसू दिशासु प्रवायते लोकविनायकानाम् ।
येना इमे मूर्च्छित सर्वसत्त्वा वाते प्रवाते इह नित्यकालम्
मयि निर्वृते यो एतं धर्मपर्यायु धारयेत् ।
क्षिप्रं व्याहरतां वाचं लोकनाथान संमुखम्
परिनिर्वृतो हि संबुद्धः प्रभूतरतनो मुनिः ।
सिंहनादं श्रुणे तस्य व्यवसायं करोति यः
अहं द्वितीयो बहवो इमे च ये कोटियो आगत नायकानाम् ।
व्यवसाय श्रोष्यामि जिनस्य पुत्रात् यो उत्सहेद्धर्ममिमं प्रकाशितुम्
अहं च तेन भवि पूजितः सदा प्रभूतरत्नश्च जिनः स्वयंभूः ।
यो गच्छते दिशविदिशासु नित्यं श्रवणाय धर्मं इममेवरूपम्
इमे च ये आगत लोकनाथा विचित्रिता यैरिय शोभिता भूः ।
तेषां पि पूजा विपुल अनल्पका कृता भवेत्सूत्रप्रकाशनेन
अहं च दृष्टो इह आसनस्मिन् भगवांश्च यो ऽयं स्थितु स्तूपमध्ये ।
इमे च अन्ये बहुलोकनाथा ये आगताः क्षेत्रशतैरनेकैः
चिन्तेथ कुलपुत्राहो सर्वसत्वानुकम्पया ।
सुदुष्करमिदं स्थानमुत्सहन्ति विनायकाः
बहुसूत्रसहस्राणि यथा गङ्गाय वालिकाः ।
तानि कश्चित्प्रकाशेत न तद्भवति दुष्करम्
सुमेरुं यश्च हस्तेन अध्यालम्बित्व मुष्टिना ।
क्षिपेत क्षेत्रकोटीयो न तद्भवति दुष्करम्
यश्च इमां त्रिसाहस्रीं पादाङ्गुष्ठेन कम्पयेत् ।
क्षिपेत क्षेत्रकोटीयो न तद्भवति दुष्करम्
भवाग्रे यश्च तिष्ठित्वा धर्मं भाषेन्नरो इह ।
अन्यसूत्रसहस्राणि न तद्भवति दुष्करम्
निर्वृतस्मिंस्तु लोकेन्द्रे पश्चात्काले सुदारुणे ।
य इदं धारयेत् सूत्रं भाषेद्वा तत्सुदुष्करम्
आकाशधातुं यः सर्वामेकमुष्टिं तु निक्षिपेत् ।
प्रक्षिपित्वा च गच्छेत न तद्भवति दुष्करम्
यस्तु ईदृशकं सूत्रं निर्वृतस्मिंस्तदा मयि ।
पश्चात्काले लिखेच्चापि इदं भवति दुष्करम्
पृथिवीधातुं च यः सर्वं नखाग्रे संप्रवेशयेत् ।
प्रक्षिपित्वा च गच्छेत ब्रह्मलोकं पि आरुहेत्
न दुष्करं हि सो कुर्यान्न च वीर्यस्य तत्तकम् ।
तं दुष्करं करित्वान सर्वलोकस्यिहाग्रतः
अतो ऽपि दुष्करतरं निर्वृतस्य तदा मम ।
पश्चात्काले इदं सूत्रं वदेया यो मुहूर्तकम्
न दुष्करमिदं लोके कल्पदाहस्मि यो नरः ।
मध्ये गच्छेददह्यन्तस्तृणभारं वहेत च
अतो ऽपि दुष्करतरं निर्वृतस्य तदा मम ।
धारयित्वा इदं सूत्रमेकसत्त्वं पि श्रावयेत्
धर्मस्कन्धसहस्राणि चतुरशीति धारयेत् ।
सोपदेशान् यथाप्रोक्तान् देशयेत् प्राणिकोटिनाम्
न ह्येतं दुष्करं भोति तस्मिन् कालस्मि भिक्षुणाम् ।
विनयेच्छ्रावकान् मह्यं पञ्चाभिज्ञासु स्थापयेत्
तस्येदं दुष्करतरं इदं सूत्रं च धारयेत् ।
श्रद्दधेदधिमुच्येद्वा भाषेद्वापि पुनः पुनः
कोटीसहस्रान् बहवः अर्हत्त्वे यो ऽपि स्थापयेत् ।
षडभिज्ञान् महाभागान् यथा गङ्गाय वालिकाः
अतो बहुतरं कर्म करोति स नरोत्तमः ।
निर्वृतस्य हि यो मह्यं सूत्रं धारयते वरम्
लोकधातुसहस्रेषु बहु मे धर्म भाषिताः ।
अद्यापि चाहं भाषामि बुद्धज्ञानस्य कारणात्
इदं तु सर्वसूत्रेषु सूत्रमग्रं प्रवुच्यते ।
धारेति यो इदं सूत्रं स धारे जिनविग्रहम्
भाषध्वं कुलपुत्राहो संमुखं वस्तथागतः ।
य उत्सहति वः कश्चित् पश्चात्कालस्मि धारणम्
महत्प्रियं कृतं भोति लोकनाथान सर्वशः ।
दुराधारमिदं सुत्रं धारयेद्यो मुहूर्तकम्
संवर्णितश्च सो भोति लोकनाथेहि सर्वदा ।
शूरः शौटीर्यवांश्चापि क्षिप्राभिज्ञश्च बोधये
धुरावाहश्च सो भोति लोकनाथान औरसः ।
दान्तभूमिमनुप्राप्तः सूत्रं धारेति यो इदम्
चक्षुभूतश्च सो भोति लोके सामरमानुषे ।
इदं सुत्रं प्रकाशित्वा निर्वृते नरनायके
वन्दनीयश्च सो भोति सर्वसत्त्वान पण्डितः ।
पश्चिमे कालि यो भाषेत् सूत्रमेकं मुहूर्तकम्
अथ खलु भगवान् कृत्स्नं बोधिसत्त्वगणं ससुरासुरं च लोकमामन्त्रय एतदवोचत् - भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अहमप्रमेयासंख्येयान् कल्पान् सद्धर्मपुण्डरीकं सूत्रं पर्येषितवानखिन्नो ऽविश्रान्तः । पूर्वं च अहमनेकान् कल्पाननेकानि कल्पशतसहस्राणि राजाभूवमनुत्तरायां सम्यक्संबोधौ कृतप्रणिधानः । न च मे चित्तव्यावृत्तिरभूत् । षण्णां च पारमितानां परिपूर्या उद्युक्तो ऽभूवमप्रमेयदानप्रदः सुवर्णमणिमुक्तावैदूर्यशङ्खशिलाप्रवालजातरूपरजताश्मगर्भम् उसारगल्वलोहितमुक्ताग्रामनगरनिगमजनपदराष्ट्रराजधानीभार्यापुत्रदुहितृदासीदासकर्मकरपौरुषेयहस्त्यश्वरथं यावदात्मशरीरपरित्यागी करचरणशिरोत्तमाङ्गप्रत्यङ्गजीवितदाता । न च मे कदाचिदाग्रहचित्तमुत्पन्नम् । तेन च समयेन अयं लोको दीर्घायुरभत् । अनेकवर्षशतसहस्रजीवितेन च अहं कालेन धर्मार्थं राज्यं कारितवान्, न विषयार्थम् । सो ऽहं ज्येष्ठं कुमारं राज्ये ऽभिषिच्य चतुर्दिशं ज्येष्ठधर्मगवेषणाय उद्युक्तो ऽभूवम् । एवं घण्टया घोषापयितवान् - यो मे ज्येष्ठं धर्ममनुप्रदास्यति, अर्थं चाख्यास्यति, तस्याहं दासो भूयासम् । तेन च कालेन ऋषिरभूत् । स मामेतदवोचत् - अस्ति महाराज सद्धर्मपुण्डरीकं नाम सुत्रं ज्येष्ठधर्मनिर्देशकम् । तद्यदि दास्यमभ्युपगच्छसि, ततस्ते ऽहं तं धर्मं श्रावयिष्यामि । सो ऽहं श्रुत्वा तस्यर्षेर्वचनं हृष्टस्तुष्ट उदग्र आत्तमनाः प्रीतिसौमनस्यजातो येन स ऋषिस्तेनोपेयिवान् । उपेत्यावोचत् - यत्ते दासेन कर्म करणीयं तत्करोमि । सो ऽहं तस्यर्षेर्दासभावमभ्युपेत्य तृणकाष्ठपानीयकन्दमूलफलादीनि प्रेष्यकर्माणि कृतवान्, यावद् द्वाराध्यक्षो ऽप्यहमासम् । दिवसं चैवंविधं कर्म कृत्वा रात्रौ शयानस्य मञ्चके पादान् धारयामि । न च मे कायक्लमो न चेतसि क्लमो ऽभूत् । एवं च मे कुर्वतः परिपूर्णं वर्षासहस्रं गतम् ॥
अथ खलु भगवांस्तस्यां वेलायामेतमेवार्थं परिद्योतयन्निमा गाथा अभाषत -
कल्पानतीतान् समनुस्मरामि यदाहमासं धार्मिको धर्मराजा ।
राज्यं चमे धर्महेतोः कृतं तन्न च कामहेतोर्ज्येष्ठधर्महेतोः
चतुर्दिशं मे कृत घोषणो ऽयं धर्मं वदेद्यस्तस्य दास्यं व्रजेयम् ।
आसीदृषिस्तेन कालेन धीमान् सूत्रस्य सद्धर्मनाम्नः प्रवक्ताः
स मामवोचद्यदि ते धर्मकाङ्क्षा उपेहि दास्यं धर्ममतः प्रवक्ष्ये ।
तुष्टश्चाहं वचनं तं निशाम्य कर्माकरोद्दासयोग्यं तदा यम्
न कायचित्तक्लमथो स्पृशेन्मां सद्धर्महेतोर्दासमागतस्य ।
प्रणिधिस्तदा मे भवि सत्त्वहेतोर्नात्मानमुद्दिश्य न कामहेतोः
स राज आसीत्तदा अब्धवीर्यो अनन्यकर्माणि दशद्दिशासु ।
परिपूर्ण कल्पान सहस्रखिन्नो यावत्सूत्रं लब्धवान् धर्मनामम्
तत्किं मन्यध्वे भिक्षवः अन्यः स तेन कालेन तेन समयेन राजाभूत्? न खलु पुनरेवं द्रष्टव्यम् । तत्कस्य हेतोः? अहं स तेन कालेन तेन समयेन राजाभूवम् । स्यात्खलु पुनर्भिक्षवो ऽन्यः स तेन कालेन तेन समयेनर्षिरभूत्? न खलु पुनरेवं द्रष्टव्यम् । अयमेव स तेन कालेन तेन समयेन देवदत्तो भिक्षुरृषिरभुत् । देवदत्तो हि भिक्षवो मम कल्याणमित्रम् । देवदत्तमेव चागम्य मया षटू पारमिताः परिपूरिताः, महामैत्री महाकरुणा महामुदिता महोपेक्षा । द्वात्रिंशन्महापुरुषलक्षणानि अशीत्यनुव्यञ्जनानि सुवर्णवर्णच्छविता दश बलानि चत्वारि वैशारद्यानि चत्वारि संग्रहवस्तूनि अष्टादशावेणिकबुद्धधर्मा महर्द्धिबलता दशदिक्सत्त्वनिस्तारणता, सर्वमेतद्देवदत्तमागस्य । आरोचयामि वो भिक्षवः, प्रतिवेदयामि - एष देवदत्तो भिक्षुरनागते ऽध्वनि अप्रमेयैः कल्पैरसंख्येयैर्देवराजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो ( वैद्य 159 ) भविष्यति विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च भगवान् देवसोपानायां लोकधातौ । देवराजस्य खलु पुनर्भिक्षवस्तथागतस्य विंशत्यन्तरकल्पानायुष्प्रमाणं भविष्यति । विस्तरेण च धर्मं देशयिष्यति । गङ्गानदीवालुकासमाश्च सत्त्वाः सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यन्ति । अनेके च सत्त्वाः प्रत्येकबोधौ चित्तमुत्पादयिष्यन्ति । गङ्गानदीवालुकासमाश्च सत्त्वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयिष्यन्ति, अवैवर्तिकक्षान्तिप्रतिलब्धाश्च भविष्यन्ति । देवराजस्य खलु पुनर्भिक्षवस्तथागतस्य परिनिर्वृतस्य विंशत्यन्तरकल्पान् सद्धर्मः स्थास्यति । न च शरीरं धातुभेदेन भेत्स्यते । एकघनं चास्य शरीरं भविष्यति सप्तरत्नस्तूपं प्रविष्टम् । स च स्तूपः षष्टियोजनशतान्युच्चैस्त्वेन भविष्यति, चत्वारिंशद्योजनान्यायामेन । सर्वे च तत्र देवमनुष्याः पूजां करिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिर्गाथाभिः । तेन चाभिष्टोष्यन्ति । ये च तं स्तूपं प्रदक्षिणं करिष्यन्ति प्रणामं वा, तेषां केचिदग्रफलमर्हत्त्वं साक्षात्करिष्यन्ति केचित् प्रत्येकबोधिमनुप्राप्स्यन्ते अचिन्त्याचाश्चाप्रमेया देवमनुष्या अनुत्तरायां सम्यक्संबोधौ
चित्तान्युत्पाद्य अविनिवर्तनीया भविष्यन्ति ॥
अथ खलु भगवान् पुनरेव भिक्षुसंघमामन्त्रयते स्म - यः कश्चित् भिक्षवो ऽनागते ऽध्वनि कुलपुत्रो वा कुलदुहिता वा इमं सद्धर्मपुण्डरीकं सूत्रपरिवर्तं श्रोष्यति, श्रुत्वा च न काङ्क्षिष्यति न विचिकित्सिष्यति, विशुद्धचित्तश्चाधिमोक्ष्यते, तेन तिसृणां दुर्गतीनां द्वारं पिथितं भविष्यति ः नरकतिर्यग्योनियमलोकोपपत्तिषु न पतिष्यति । दशदिग्बुद्धक्षेत्रोपपन्नश्चेदमेव सूत्रं जन्मनि जन्मनि श्रोष्यति । देवमनुष्यलोकोपपन्नस्य चास्य विशिष्टस्थानप्राप्तिर्भविष्यति । यस्मिंश्च बुद्धक्षेत्र उपपत्स्यते, तस्मिन्नौपपादुके सप्तरत्नमये पद्मे उपपत्स्यते तथागतस्य संमुखम् ॥
अथ खलु तस्यां वेलायामधस्ताद्दिशः प्रभूतरत्नस्य तथागतस्य बुद्धक्षेत्रादागतः प्रज्ञाकूटो नाम बोधिसत्त्वः । स तं प्रभूतरत्नं तथागतमेतदवोचत् - गच्छामो भगवन् स्वकं बुद्धक्षेत्रम् । अथ खलु भगवान् शाक्यमुनिस्तथागतः प्रज्ञाकूटं बोधिसत्त्वमेतदवोचत् - मुहूर्तं तावत् कुलपुत्र आगमयस्व यावन्मदीयेन बोधिसत्त्वेन मञ्जुश्रिया कुमारभूतेन सार्धं कंचिदेव धर्मविनिश्चयं कृत्वा पश्चात् स्वकं बुद्धक्षेत्रं गमिष्यसि । अथ खलु तस्यां वेलायां मञ्जुश्रीः कुमारभूतः सहस्रपत्रे पद्मे शकटचक्रप्रमाणमात्रे निषण्णो ऽनेकबोधिसत्त्वपरिवृतः पुरस्कृतः समुद्रमध्यात् सागरनागराजभवनादभ्युद्गम्य उपरि वैहायसं खगपथेन गृध्रकूटे पर्वते भगवतो ऽन्तिकमुपसंक्रान्तः । अथ मञ्जुश्रीः कुमारभूतः पद्मादवतीर्य भगवतः शाक्यमुनेः प्रभूतरत्नस्य च तथागतस्य पादौ शिरसाभिवन्दित्वा येन प्रज्ञाकूटो बोधिसत्त्वस्तेनोपसंक्रान्तः । उपसंक्रम्य प्रज्ञाकूटेन बोधिसत्त्वेन सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथामुपसंगृह्य एकान्ते न्यषीदत् । अथ खलु प्रज्ञाकूटो बोधिसत्त्वो मञ्जुश्रियं कुमारभूतमेतदवोचत् - समुद्रमध्यगतेन त्वया मञ्जुश्रीः कियान् सत्त्वधातुर्विनीतः? मञ्जुश्रीराह - अनेकान्यप्रमेयाण्यसंख्येयानि सत्त्वानि विनीतानि । तावदप्रमेयाण्यसंख्येयानि यावद्वाचा न शक्यं विज्ञापयितुं चित्तेन वा चिन्तयितुम् ( वैद्य 160 ) । मुहूर्तं तावत् कुलपुत्र आगमयस्व यावत् पूर्वनिमित्तं द्रक्ष्यसि । समनन्तरभाषिता चेयं मञ्जुश्रिया कुमारभूतेन वाक्, तस्यां वेलायामनेकानि पद्मसहस्राणि समुद्रमध्यादभ्युद्गतानि उपरि वैहायसम् । तेषु च पद्मेष्वनेकानि बोधिसत्त्वसहस्राणि संनिषण्णानि । अथ ते बोधिसत्त्वास्तेनैव खगपथेन येन गृध्रकूटः पर्वतस्तेनोपसंक्रान्ताः । उपसंक्रम्य ततश्चोपरि वैहायसं स्थिताः संदृश्यन्ते स्म । सर्वे च ते मञ्जुश्रिया कुमारभूतेन विनीता अनुत्तरायां सम्यक्संबोधौ । तत्र ये बोधिसत्त्वा महायानसंप्रस्थिताः पूर्वमभूवन्, ते महायानगुणान् षट् पारमिताः संवर्णयन्ति । ये श्रावकपूर्वा बोधिसत्त्वास्ते श्रावकयानमेव संवर्णयन्ति । सर्वे च ते सर्वधर्मान् शून्यानिति
संजानन्ति स्म, महायानगूणांश्च । अथ खलु मञ्जुश्रीः कुमारभूतः प्रज्ञाकूटं बोधिसत्त्वमेतदवोचत् - सर्वो ऽयं कुलपुत्र मया समुद्रमध्यगतेन सत्त्वविनयः कृतः । स चायं संदृश्यते । अथ खलु प्रज्ञाकूटो बोधिसत्त्वो मञ्जुश्रियं कुमारभूतं गाथाभिगीतेन परिपृच्छति -
महाभद्र प्रज्ञया सूरनामन् असंख्येया ये विनीतास्त्वयाद्य ।
सत्त्वा अमी कस्य चायं प्रभावस्तद्बूहि पृष्टो नरदेव त्वमेतत्
कं वा धर्मं देशितवानसि त्वं किं वा सूत्रं बोधिमार्गोपदेशम् ।
यच्छ्रुत्वामी बोधये जातचित्ताः सर्वज्ञत्वे निश्चितं लब्धगाधाः
मञ्जुश्रीराह - समुद्रमध्ये सद्धर्मपुण्डरीकं सूत्रं भाषितवान्, न चान्यत् । प्रज्ञाकूट आह - इदं सूत्रं गम्भीरं सूक्ष्मं दुर्दृशम्, न चानेन सुत्रेण किंचिदन्यत् सूत्रं सममस्ति । अस्ति कश्चित् सत्त्वो य इदं सूत्ररत्नं सत्कुर्यादवबोद्धुमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्? मञ्जुश्रीराह - अस्ति कुलपुत्र सागरस्य नागराज्ञो दुहिता अष्टवर्षा जात्या महाप्रज्ञा तीक्ष्णेन्द्रिया ज्ञानपूर्वंगमेन कायवाङ्मनस्कर्मणा समन्वागता सर्वतथागतभाषितव्यञ्जनार्थोद्ग्रहणे धारणीप्रतिलब्धा सर्वधर्मसत्त्वसमाधानसमाधिसहस्रैकक्षणप्रतिलाभिनी । बोधिचित्ताविनिवर्तिनी विस्तीर्णप्रणिधाना सर्वसत्त्वेष्वात्मप्रेमानुगता गुणोत्पादने च समर्था । न च तेभ्यः परिहीयते । स्मितमुखी परमया शुभवर्णपुष्कलतया समन्वागता मैत्रचित्ता करुणां च वाचं भाषते । सा सम्यक्संबोधिमभिसंबोद्धुं समर्थां । प्रज्ञाकूटो बोधिसत्त्व आह - दृष्टो मया भगवान् शाक्यमुनिस्तथागतो बोधाय घटमानो बोधिसत्त्वभूतो ऽनेकानि पुण्यानि कृतवान् । अनेकानि च कल्पसहस्राणि न कदाचिद् वीर्यं स्रंसितवान् । त्रिसाहस्रमहासाहस्रायां लोकधातौ नास्ति कश्चिदन्तशः सर्षपमात्रो ऽपि पृथिवीप्रदेशः यत्रानेन शरीरं न निक्षिप्तं सत्त्वहितहेतोः । पश्चाद् बोधिमभिसंबुद्ध । क एवं श्रद्दध्यात्, यदनया शक्यं मुहूर्तेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्?( वैद्य 161 )
अथ खलु तस्यां वेलायां सागरनागराजदुहिता अग्रतः स्थिता संदृश्यते स्म । सा भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽस्थात् ।
तस्यां वेलायामिमा गाथा अभाषत -
पुण्यं पुण्यं गभीरं च दिशः स्फुरति सर्वशः ।
सूक्ष्मं शरीरं द्वात्रिंशल्लक्षणैः समलंकृतम्
अनुव्यजनयुक्तं च सर्वसत्त्वनमस्कृतम् ।
सर्वसत्त्वाभिगम्यं च अन्तरापणवद्यथा
यथेच्छया मे संबोधिः साक्षी मे ऽत्र तथागतः ।
विस्तीर्णं देशयिष्यामि धर्मं दुःखप्रमोचनम्
मूल पाठ: Saddharmapuṇḍarīkasūtra · Edition: P.L. Vaidya, Darbhanga : The Mithila Institute, 1960 (Buddhist Sanskrit Texts, 6) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0