भाषा

ENहिગુ
ग्रंथ पाठ

सद्धर्मपुण्डरीकसूत्र · अध्याय 12

12.1

अथ खलु तस्यां वेलायामायुष्मान् शारिपुत्रस्तां सागरनागराजदुहितरमेतदवोचत् - केवलं कुलपुत्रि बोधाय चित्तमुत्पन्नम् । अविवर्त्याप्रमेयप्रज्ञा चासि । सम्यक्संबुद्धत्वं तु दुर्लभम् । अस्ति कुलपुत्रि स्त्री न च वीर्यं स्रंसयति, अनेकानि च कल्पशतान्यनेकानि च कल्पसहस्राणि पुण्यानि करोति, षट् पारमिताः परिपूरयति, न चाद्यापि बुद्धत्वं प्राप्नोति । किं कारणम्? पञ्च स्थानानि स्त्री अद्यापि न प्राप्नोति । कतमानि पञ्च? प्रथमं ब्रह्मस्थानं द्वितीयं शक्रस्थानं तृतीयं महाराजस्थानं चतुर्थं चक्रवर्तिस्थानं पञ्चममवैवर्तिकबोधिसत्त्वस्थानम् ॥
अथ खलु तस्यां वेलायां सागरनागराजदुहितुरेको मणिरस्ति, यः कृत्स्नां महासाहस्रां लोकधातुं मूल्यं क्षमते । स च मणिस्तया सागरनागराजदुहित्रा भगवते दत्तः । स भगवता च अनुकम्पामुपादाय प्रतिगृहीतः । अथ सागरनागराजदुहिता प्रज्ञाकूटं बोधिसत्त्वं स्थविरं च शारिपुत्रमेतदवोचत् - यो ऽयं मणिर्मया भगवतो दत्तः, स च भगवता शीर्घ्रं प्रतिगृहीतो वेति? स्थविर आह - त्वया च शीघ्रं दत्तो भगवता च शीघ्रं प्रतिगृहीतः । सागरनागराजदुहिता आह - यद्यहं भदन्त शारिपुत्र महर्द्धिकी स्याम्, शीघ्रतरं सम्यक्संबोधिमभिसंबुध्येयम् । न चास्य मणेः प्रतिग्राहकः स्यात् ॥
अथ तस्यां वेलायां सागरनागराजदुहिता सर्वलोकप्रत्यक्षं स्थविरस्य च शारिपुत्रस्य प्रत्यक्षं तत् स्त्रीन्द्रियमन्तर्हितं पुरुषेन्द्रियं च प्रादुर्भूतं बोधिसत्त्वभूतं चात्मानं संदर्शयति । तस्यां वेलायां दक्षिणां दिशं प्रक्रान्तः । अथ दक्षिणस्यां दिशि विमला नाम लोकधातुः । तत्र सप्तरत्नमये बोधिवृक्षमूले निषण्णमभिसंबुद्धमात्मानं संदर्शयति स्म, द्वात्रिंशल्लक्षणधरं सर्वानुव्यजनरूपं प्रभया च दशदिशं स्फुरित्वा धर्मदेशनां कुर्वाणम् । ये च सहायां लोकधातौ सत्त्वाः, ते सर्वे तं तथागतं पश्यन्ति स्म, सर्वैश्च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमनुष्यामनुष्यैर्नमस्यमानं धर्मदेशनां च कुर्वन्तम् । ये च सत्त्वास्तस्य तथागतस्य धर्मदेशनां शृण्वन्ति, सर्वे ते ऽविनिवर्तनीया भवन्त्यनुत्तरायां सम्यक्संबोधौ । सा च विमला लोकधातुः, इयं च सहा लोकधातुः षड्विकारं प्राकम्पत् । भगवतश्च शाक्यमुनेः पर्षन्मण्डलानां त्रयाणां प्राणिसहस्राणामनुत्पत्तिकधर्मक्षान्तिप्रतिलाभो ऽभूत् । त्रयाणां च प्राणिशतसहस्राणामनुत्तरायां सम्यक्संबोधौ व्याकरणप्रतिलाभो ऽभूत् । अथ प्रज्ञाकूटो बोधिसत्त्वो महासत्त्वः स्थविरश्च शारिपुत्रस्तूष्णीमभूताम् ॥
इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये स्तूपसंदर्शनपरिवर्तो नामैकादशमः ॥
सद्ध्प्_12: उत्साहपरिवर्तः ।
अथ खलु भैषज्यराजो बोधिसत्त्वो महासत्त्वो महाप्रतिभानश्च बोधिसत्त्वो महासत्त्वो विंशतिबोधिसत्त्वशतसहस्रपरिवारो भगवतः संमुखमिमां वाचमभाषेताम् - अल्पोत्सुको भगवान् भवत्वस्मिन्नर्थे । वयमिमं भगवन् धर्मपर्यायं तथागतस्य परिनिर्वृतस्य सत्त्वानां देशयिष्यामः संप्रकाशयिष्यामः । किंचापि भगवन् शठकाः सत्त्वास्तस्मिन् काले भविष्यन्ति, परीत्तकुशलमूला अधिमानिका लाभसत्कारसंनिश्रिता अकुशलमूलप्रतिपन्ना दुर्दमा अधिमुक्तिविरहिता अनधिमुक्तिबहुलाः, अपि तु खलु पुनर्वयं भगवन् क्षान्तिबलमुपदर्शयित्वा तस्मिन् काले इदं सूत्रमुद्देक्ष्यामो धारयिष्यामो देशयिष्यामो लिखिष्यामः सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । कायजीवितं च वयं भगवन् उत्सृज्य इदं सूत्रं प्रकाशयिष्यामः । अल्पोत्सुको भगवान् भवत्विति ॥
अथ खलु तस्यां पर्षदि शैक्षाशैक्षाणां भिक्षूणां पञ्चमात्राणि भिक्षुशतानि भगवन्त मेतदूचुः - वयमपि भगवन् उत्सहामहे इमं धर्मपर्यायं संप्रकाशयितुम्, अपि तु खलु पुनर्भगवन् अन्यासु लोकधातुष्विति । अथ खलु यावन्तस्ते भगवतः श्रावकाः शैक्षाशैक्षा भगवता व्याकृता अनुत्तरायां सम्यक्संबोधौ, अष्टौ भिक्षुसहस्राणि, सर्वाणि तानि येन भगवांस्तेनाञ्जलिं प्रणमय्य भगवन्तमेतदूचुः - अल्पोत्सुको भगवान् भवतु । वयमपीमं धर्मपर्यायं संप्रकाशयिष्यामस्तथागतस्य परिनिर्वृतस्य पश्चिमे काले पश्चिमे समये अपि त्वन्यासु लोकधातुषु । तत्कस्य हेतोः? अस्यां भगवन् सहायां लोकधातौ अधिमानिकाः सत्त्वा अल्पकुशलमूला नित्यं व्यापन्नचित्ताः शठा वङ्कजातीयाः ॥
अथ खलु महाप्रजापती गौतमी भगवतो मातृभगिनी षड्भिर्भिक्षुणीसहस्रैः सार्धं शैक्षाशैक्षाभिर्भिक्षुणीभिः उत्थायासनाद् येन भगवांस्तेनाञ्जलिं प्रणमय्य भगवन्तमुल्लोकयन्ती स्थिताभूत् । अथ खलु भगवांस्तस्यां वेलायां महाप्रजापतीं गौतमीमामन्त्रयामास - किं त्वं गौतमि दुर्मनस्विनी स्थिता तथागतं व्यवलोकयसि? नाहं परिकीर्तिता व्याकृता च अनुत्तरायां सम्यक्संबोधौ । अपि तु खलु पुनर्गौतमि सर्वपर्षद्वयाकरणेन व्याकृतासि । अपि तु खलु पुनस्त्वं गौतमि इत उपादाय अष्टात्रिंशतां बुद्धकोटीनियुतशतसहस्राणामन्तिके सत्कारं गुरुकारं माननां पूजनामर्चनामपचायनां कृत्वा बोधिसत्त्वा महासत्त्वो धर्मभाणको भविष्यसि । इमान्यपि षड् भिक्षुणीसहस्राणि शैक्षाशैक्षाणां भिक्षुणीनां त्वयैव सार्धं तेषां तथागतानामर्हतां सम्यक्संबुद्धानामन्तिके बोधिसत्त्वा धर्मभाणका भविष्यन्ति । ततः परेण परतरेण बोधिसत्त्वचर्यां परिपूर्य सर्वसत्त्वप्रियदर्शनो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके भविष्यसि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । स च गौतमि सर्वसत्त्वप्रियदर्शनस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तानि षड् बोधिसत्त्वसहस्राणि परंपराव्याकरणेन व्याकरिष्यत्यनुत्तरायां सम्यक्संबोधौ ॥
अथ खलु राहुलमातुर्यशोधराया भिक्षुण्या एतदभवत् - न मे भगवता नामधेयं परिकीर्तितम् । अथ खलु भगवान् यशोधराया भिक्षुण्याश्चेतसैव चेतःपरिवितर्कमाज्ञाय यशोधरां भिक्षुणीमेतदवोचत् - आरोचयामि ते यशोधरे, प्रतिवेदयामि ते । त्वमपि दशानां बुद्धकोटीसहस्राणामन्तिके सत्कारं गुरुकारं माननां पूजनामर्चनामपचायनां कृत्वा बोधिसत्त्वो धर्मभाणको भविष्यसि । बोधिसत्त्वचर्यां च अनुपूर्वेण परिपूर्य रश्मिशतसहस्रपरिपूर्णध्वजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके भविष्यसि विधाचरणसंपन्नः सुगतोलोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् भद्रायां लोकधातौ । अपरिमितं च तस्य भगवतो रश्मिशतसहस्रपरिपूर्णध्वजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यायुष्प्रमाणं भविष्यति ॥

अथ खलु महाप्रजापती गौतमी भिक्षुणी षड्भिक्षुणीसहस्रपरिवारा यशोधरा च भिक्षुणी चतुर्भिक्षुणीसहस्रपरिवारा भगवतो ऽन्तिकात् स्वकं व्याकरणं श्रुत्वा अनुत्तरायां सम्यक्संबोधौ आश्चर्यप्राप्ता अद्भुतप्राप्ताश्च तस्यां वेलायामिमां गाथामभाषन्त -
भगवन् विनेतासि विनायको ऽसि शास्तासि लोकस्य सदेवकस्य ।
आश्वासदाता नरदेवपूजितो वयं पि संतोषित अद्य नाथ

12.2

अथ खलु ता भिक्षुण्यः इमां गाथां भाषित्वा भगवन्तमेतदूचुः - वयमपि भगवन् समुत्सहामहे इमं धर्मपर्यायं संप्रकाशयितुं पश्चिमे काले पश्चिमे समये, अपि त्वन्यासु लोकधातुष्विति ॥
अथ खलु भगवान् येन तान्यशीतिबोधिसत्त्वकोटीनयुतशतसहस्राणि धारणीप्रतिलब्धानां बोधिसत्त्वानामवैवर्तिकधर्मचक्रप्रवर्तकानां तेनावलोकयामास । अथ खलु ते बोधिसत्त्वा महासत्त्वाः समनन्तरावलोकिता भगवता उत्थायासनेभ्यो येन भगवांस्तेनाञ्जलिं प्रणाम्यैवं चिन्तयामासुः - अस्माकं भगवान् अध्येषति अस्य धर्मपर्यायस्य संप्रकाशनतायै । ते खल्वेवमनुविचिन्त्य संप्रकम्पिताः परस्परमूचुः - कथं वयं कुलपुत्राः करिष्यामो यद् भगवानध्येषति अस्य धर्मपर्यायस्यानागते ऽध्वनि संप्रकाशनतायै? अथ खलु ते कुलपुत्रा भगवतो गौरवेण आत्मनश्च पुर्वचर्याप्रणिधानेन भगवतो ऽभिमुखं सिंहनादं नदन्ते स्म - वयं भगवन् अनागते ऽध्वनि इमं धर्मपर्यायं तथागते परिनिर्वृते दशसु दिक्षु गत्वा सर्वसत्त्वांल्लेखयिष्यामः पाठयिष्यामश्चिन्तापयिष्यामः प्रकाशयिष्यामो भगवत एवानुभावेन । भगवांश्च अस्माकमन्यलोकधातुस्थितो रक्षावरणगुप्तिं करिष्यति ॥
अथ खलु ते बोधिसत्त्वा महासत्त्वाः समसंगीत्या भगवन्तमाभिर्गाथाभिरध्यभाषन्त -( वैद्य 164 )
अल्पोत्सुकस्त्वं भगवन् भवस्व वयं तदा ते परिनिर्वृतस्य ।
स्वं पश्चिमे कालि सुभैरवस्मिन् प्रकाशयिष्यामिद सूत्रमुत्तमम्

12.3

आक्रोशांस्तर्जनांश्चैव दण्ड-उद्गूरणानि च ।
बालानां संसहिष्यामो ऽधिवासिष्याम नायक

12.4

दुर्बुद्धिनश्च वङ्काश्च शठा बालाधिमानिनः ।
अप्राप्ते प्राप्तसंज्ञी च घोरे कालस्मि पश्चिमे

12.5

अरण्यवृत्तकाश्चैव कन्थां प्रावरियाण च ।
संलेखवृत्तिचारि स्म एवं वक्ष्यन्ति दुर्मती

12.6

रसेषु गृद्ध सक्ताश्च गृहीणां धर्म देशयी ।
सत्कृताश्च भविष्यन्ति षडभिज्ञा यथा तथा

12.7

रौद्रचित्ताश्च दुष्टाश्च गृहवित्तविचिन्तकाः ।
अरण्यगुप्तिं प्रविशित्वा अस्माकं परिवादकाः

12.8

अस्माकं चैव वक्ष्यन्ति लाभसत्कारनिश्रिताः ।
तीर्थिका बतिमे भिक्षू स्वानि काव्यानि देशयुः

12.9

स्वयं सूत्राणि ग्रन्थित्वा लाभसत्कारहेतवः ।
पर्षाय मध्ये भाषन्ते अस्माकमनुकुट्टकाः

12.10

राजेषु राजपुत्रेषु राजामात्येषु वा तथा ।
विप्राणां गृहपतीनां च अन्येषां चापि भिक्षुणाम्

12.11

वक्ष्यन्त्यवर्णमस्माकं तीर्थ्यवादं च कारयी ।
सर्वं वयं क्षमिष्यामो गौरवेण महर्षिणाम्

12.12

ये चास्मान् कुत्सयिष्यन्ति तस्मिन् कालस्मि दुर्मती ।
इमे बुद्धा भविष्यन्ति क्षमिष्यामथ सर्वशः

12.13

कल्पसंक्षोभमीष्मस्मिन् दारुणस्मि महाभये ।
यक्षरूपा बहु भिक्षू अस्माकं परिभाषकाः

12.14

गौरवेणेह लोकेन्द्रे उत्सहाम सुदुष्करम् ।
क्षान्तीय कक्ष्यां बन्धित्वा सूत्रमेतं प्रकाशये

12.15

अनर्थिकाः स्म कायेन जीवितेन च नायक ।
अर्थिकाश्च स्म बोधीय तव निक्षेपधारकाः

12.16

भगवानेव जानीते यादृशाः पापभिक्षवः ।
पश्चिमे कालि भेष्यन्ति संधाभाष्यमजानकाः

12.17

भृकुटी सर्व सोढव्या अप्रज्ञप्तिः पुनः पुनः ।
निष्कासनं विहारेभ्यो बन्धकुट्टी बहूविधा

12.18

आज्ञप्तिं लोकनाथस्य स्मरन्ता कालि पश्चिमे ।
भाषिष्याम इदं सूत्रं पर्षन्मध्ये विशारदाः

12.19

नगरेष्वथ ग्रामेषु ये भेष्यन्ति इहार्थिकाः ।
गत्वा गत्वास्य दास्यामो निक्षेपं तव नायक

12.20

प्रेषणं तव लोकेन्द्र करिष्यामो महामुने ।
अल्पोत्सुको भव त्वं हि शान्तिप्राप्तो सुनिर्वृतः

12.21

सर्वे च लोकप्रद्योता आगता ये दिशो दश ।
सत्यां वाचं प्रभाषामो अधिमुक्तिं विजानसि

मूल पाठ: Saddharmapuṇḍarīkasūtra · Edition: P.L. Vaidya, Darbhanga : The Mithila Institute, 1960 (Buddhist Sanskrit Texts, 6) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc