सद्धर्मलङ्कावतारसूत्र · अध्याय 7
इति लङ्कावतारे क्षणिकपरिवर्तः षष्ठः ॥
स्तर्त् परिवर्त 7
नैर्माणिकपरिवर्तो नाम सप्तमः ।
अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत् - अर्हन्तः पुनर्भगवता व्याकृता अनुत्तरायां सम्यक्संबोधौ । अपरिनिर्वाणधर्मकाश्च सत्त्वास्तथागतत्वे । यस्यां च रात्रौ तथागतो ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धो यस्यां च रात्रौ परिनिर्वृतः, एतस्मिन्नन्तरे भगवता एकमप्यक्षरं नोदाहृतं न प्रव्याहृतम् । सदा समाहिताश्च तथागता न वितर्कयन्ति न व्यवचारयन्ति । निर्माणानि च निर्माय तैस्तथागतकृत्यं कुर्वन्ति । किं कारणं च विज्ञानानां क्षणपरंपराभेदलक्षणं निर्दिश्यते? वज्रपाणिश्च सततसमितं नित्यानुबद्धः । पूर्वा च कोटिर्न प्रज्ञायते । निर्वृतिश्च प्रज्ञाप्यते । माराश्च मारकर्माणि च कर्मप्लोतयश्च । चञ्चामाणविका सुन्दरिका प्रव्राजिका यथा धौतपात्रादीनि च भगवन् कर्मावरणानि दृश्यन्ते । तत्कथं भगवता सर्वाकारज्ञता प्राप्ता अप्रहीणैर्दोषैः? भगवानाह - तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु । भाषिष्ये ऽहं ते । साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत् । भगवांस्तस्यैतदवोचत् - निरुपधिशेषं निर्वाणधातुं संधाय बोधिसत्त्वचर्यां च चरितवतां प्रोत्साहनार्थम् । सन्ति हि महामते बोधिसत्त्वचर्याचारिणः इह अन्येषु च बुद्धक्षेत्रेषु । येषां श्रावकयाननिर्वाणाभिलाषस्तेषां श्रावकयानरुचिव्यावर्तनार्थं महायानगतिप्रोत्साहनार्थं च तन्निर्मितश्रावकान्निर्माणकायैर्व्याकरोति, न च धर्मताबुद्धैः । एतत्संधाय महामते श्रावकव्याकरणं निर्दिष्टम् । न हि महामते श्रावकप्रत्येकबुद्धानां क्लेशावरणप्रहाणविशेषो विमुक्त्येकरसतया । नात्र ज्ञेयावरणप्रहाणम् । ज्ञेयावरणं पुनर्महामते धर्मनैरात्म्यदर्शनविशेषाद्विशुध्यते । क्लेशावरणं तु पुद्गलनैरात्म्यदर्शनाभ्यासपूर्वकं प्रहीयते, मनोविज्ञाननिवृत्तेः । धर्मावरणविनिर्मुक्तिः पुनरालयविज्ञानवासनाविनिवृत्तेर्विशुध्यति । पूर्वधर्मस्थितितां संधाय अपूर्वचरमस्य चाभावात्पूर्वप्रहिणैरेवाक्षरैस्तथागतो न वितर्क्य न विचार्य धर्मं देशयति । संप्रजानकारित्वादमुषितस्मृतित्वाच्च
न वितर्कयति न विचारयति, चतुर्वासनाभूमिप्रहीणत्वाच्च्युतिद्वयविगमात्क्लेशज्ञेयावरणद्वयप्रहाणाच्च ॥
सप्त महामते मनोमनोविज्ञानचक्षुर्विज्ञानादयः क्षणिकाः वासनाहेतुत्वात्कुशलानास्रवपक्षरहिताः न संसारिणः । तथागतगर्भः पुनर्महामते संसरति निर्वाणसुखदुःखहेतुकः । न च बालपृथग्जना अवबुध्यन्ते शून्यताविक्षिप्तमतयः । निर्मितनैर्माणिकानां महामते तथागतानां वज्रपाणिः पार्श्वानुगतो न मौलानां तथागतानामर्हतां सम्यक्संबुद्धानाम् । मौलो हि महामते तथागतः सर्वप्रमाणेन्द्रियविनिवृत्तः सर्वबालश्रावकप्रत्येकबुद्धतीर्थ्यानाम् । दृष्टधर्मसुखविहारिणस्तमागच्छन्त्यभिसमयधर्मज्ञानक्षान्त्या । अतो वज्रपाणिस्तान्नानुबध्नाति । सर्वे हि निर्मितबुद्धा न कर्मप्रभवाः । न तेषु तथागतो न चान्यत्र तेभ्यस्तथागतः । कुम्भकारालम्बनादिप्रयोगेणेव सत्त्वकृत्यानि करोति, लक्षणोपेतं च देशयति, न तु स्वनयप्रत्यवस्थानकथां स्वप्रत्यात्मार्यगतिगोचरम् । पुनरपरं महामते षण्णां विज्ञानकायानां निरोधादुच्छेददृष्टिमाश्रयन्ति ( वैद्य 99 ) बालपृथग्जनाः, आलयानवबोधाच्छाश्वतदृष्टयो भवन्ति । स्वमतिविकल्पस्य महामते पूर्वा कोटिर्न प्रज्ञायते । स्वमतिविकल्पस्यैव विनिवृत्तेर्मोक्षः प्रज्ञायते । चतुर्वासनाप्रहाणात्सर्वदोषप्रहाणम् ॥
तत्रेदमुच्यते -
त्रीणि यानान्ययानं च बुद्धानां नास्ति निर्वृतिः ।
बुद्धत्वे व्याकृताः सर्वे वीतदेषाश्च देशिताः
अभिसमयान्तिकं ज्ञानं निरुपादिगतिस्तथा ।
प्रोत्साहना च लीनानामेतत्संघाय देशितम्
बुद्धैरुत्पादितं ज्ञानं मार्गस्तैरेव देशितः ।
यान्ति तेनैव नान्येन अतस्तेषां न निर्वृतिः
भवकामरूपदृष्टीनां वासना वै चतुर्विधा ।
मनोविज्ञानसंभूता आलयं च मनःस्थिताः
मनोविज्ञाननेत्राद्यैरुच्छेदश्चाप्यनित्यतः ।
शाश्वतं च अनाद्येन निर्वाणमतिदृष्टिनाम्
मूल पाठ: Saddharmalaṅkāvatārasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1963, (Buddhist Sanskrit Texts, 3) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0