सद्धर्मलङ्कावतारसूत्र · अध्याय 6
इति लङ्कावतारे तथागतनित्यानित्यत्वप्रसङ्गपरिवर्तः पञ्चमः ॥
स्तर्त् परिवर्त 6
क्षणिकपरिवर्तो नाम षष्ठः ।
अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमध्येषते स्म - देशयतु मे भगवान्, देशयतु मे सुगतः स्कन्धधात्वायतनानां प्रवृत्तिनिवृत्तिम् । असत्यात्मनि कस्य प्रवृत्तिर्वा निर्वृत्तिर्वा? बालाश्च प्रवृत्तिनिवृत्त्याश्रिता दुःखक्षयानवबोधान्निर्वाणं न प्रजानन्ति । भगवानाह - तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु । भाषिष्ये ऽहं ते । साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत् ॥
भगवांस्तस्यैतदवोचत् - तथागतगर्भो महामते कुशलाकुशलहेतुकः सर्वजन्मगतिकर्ता प्रवर्तते नटवद्गतिसंकट आत्मात्मीयवर्जितः । तदनवबोधात्रिसंगतिप्रत्ययक्रियायोगः प्रवर्तते । न च तीर्थ्या अवबुध्यन्ते कारणाभिनिवेशाभिनिविष्टाः । अनादिकालविविधप्रपञ्चदौष्ठुल्यवासनावासितः आलयविज्ञानसंशब्दितो ऽविद्यावासनभूमिजैः सप्तभिर्विज्ञानैः सह महोदधितरंगवन्नित्यमव्युच्छिन्नशरीरः प्रवर्तते अनित्यतादोषरहित आत्मवादविनिवृत्तो ऽत्यन्तप्रकृतिपरिशुद्धः । तदन्यानि विज्ञानान्युत्पन्नापवर्गानि मनोमनोविज्ञानप्रभृतीनि क्षणिकानि, सप्ताप्यभूतपरिकल्पहेतुजनितसंस्थानाकृतिविशेषसमवायावलम्बीनि नामनिमित्ताभिनिविष्टानि स्वचित्तदृश्यरूपलक्षणाअवबोधकानि सुखदुःखाप्रतिसंवेदकानि अमोक्षकारणानि नामनिमित्तपर्युत्थानरागजनितजनकतद्धेत्वालम्बानि । तेषां चोपात्तानामिन्द्रियाख्यानां परिक्षयनिरोधे समन्तरानुत्पत्तेरन्येषां स्वमतिविकल्पसुखदुःखाप्रतिसंवेदिनां संज्ञावेदितनिरोधसमापत्तिसमापन्नानां चतुर्ध्यानसत्यविमोक्षकुशलानां योगिनां विमोक्षबुद्धिर्भवत्यप्रवृत्तेः ॥
अपरावृत्ते च तथागतगर्भशब्दसंशब्दिते आलयविज्ञाने नास्ति सप्तानां प्रवृत्तिविज्ञानानां निरोधः । तत्कस्य हेतोः? तद्धेत्वालम्बनप्रवृत्तत्वाद्विज्ञानानाम्, अविषयत्वाच्च सर्वश्रावकप्रत्येकबुद्धतीर्थ्ययोगयोगिनां स्वपुद्गलनैरात्म्यावबोधात्स्वसामान्यलक्षणपरिग्रहात्स्कन्धधात्वायतनानां प्रवर्तते तथागतगर्भः । पञ्चधर्मस्वभावधर्मनैरात्म्यदर्शनान्निवर्तते भूमिक्रमानुसंधिपरावृत्त्या । नान्यतीर्थ्यमार्गदृष्टिभिर्विचारयितुं शक्यते । ततो ऽचलायां भूमौ बोधिसत्त्वभूमौ प्रतिष्ठितो दशसमाधिसुखमुखमार्गान् प्रतिलभते । समाधिबुद्धैः संधार्यमाणो ऽचिन्त्यबुद्धधर्मस्वप्रणिधानव्यवलोकनतया समाधिसुखभूतकोट्या विनिवार्य प्रत्यात्मार्यगतिगम्यैः सर्वश्रावकप्रत्येकबुद्धतीर्थकरासाधारणैर्योगमार्गैर्दशार्यगोत्रमार्गं प्रतिलभते, कायं च ज्ञानमनोमयं समाध्यभिसंस्काररहितम् । तस्मात्तर्हि महामते तथागतगर्भः आलयविज्ञानसंशब्दितो विशोधयितव्यो विशेषार्थिभिर्बोधिसत्त्वैर्महासत्त्वैः ॥
यदि हि महामते आलयविज्ञानसंशब्दितस्तथागतगर्भो ऽत्र न स्यादिति असति महामते तथागतगर्भे आलयविज्ञानसंशब्दिते न प्रवृत्तिर्न निवृत्तिः स्यात् । भवति च महामते प्रवृत्तिर्निवृत्तिश्च बालार्याणाम् । स्वप्रत्यात्मार्यगतिदृष्टधर्मसुखविहारेण च विहरन्ति योगिनो ऽनिक्षिप्तधुरा दुष्प्रतिवेधाश्च । महामते अयं तथागतगर्भालयविज्ञानगोचरः सर्वश्रावकप्रत्येकबुद्धतीर्थ्यवितर्कदर्शनानां ( वैद्य 91 ) प्रकृतिपरिशुद्धो ऽपि सन् अशुद्ध इवागन्तुक्लेशोपक्लिष्टतया तेषामाभाति न तु तथागतानाम् । तथागतानां पुनर्महामते करतलामलकवत्प्रत्यक्षगोचरो भवति । एतदेव महामते मया श्रीमालां देवीमधिकृत्य देशनापाठे अन्यांश्च सूक्ष्मनिपुणविशुद्धबुद्धीन् बोधिसत्त्वानधिष्ठाय तथागतगर्भ आलयविज्ञानसंशब्दितः सप्तभिर्विज्ञानैः सह प्रवृत्त्यभिनिविष्टानां श्रावकाणां धर्मनैरात्म्यप्रदर्शनार्थं श्रीमालां देवीमधिष्ठाय तथागतविषयो देशितो न श्रावकप्रत्येकबुद्धान्यतीर्थकरतर्कविषयो ऽन्यत्र महामते तथागतविषय एव तथागतगर्भ आलयविज्ञानविषयस्त्वत्सदृशानां च सूक्ष्मनिपुणमतिबुद्धिप्रभेदकानां बोधिसत्त्वानां महासत्त्वानामर्थप्रतिशरणानां नो तु यथारुतदेशनापाठाभिनिविष्टानां सर्वान्यतीर्थ्यश्रावकप्रत्येकबुद्धानाम् । तस्मात्तर्हि महामते त्वया अन्यैश्च बोधिसत्त्वैर्महासत्त्वैः सर्वतथागतविषये ऽस्मिंस्तथागतगर्भालयविज्ञानपरिज्ञाने योगः करणीयः । न श्रुतमात्रसंतुष्टैर्भवितव्यम् ॥
तत्रेदमुच्यते -
गर्भस्तथागतानां हि विज्ञानैः सप्तभिर्युतः ।
प्रवर्तते ऽद्वयो ग्राहात्परिज्ञानान्निवर्तते
बिम्बवद्दृश्यते चित्तमनादिमतिभावितम् ।
अर्थाकारो न चार्थो ऽस्ति यथाभूतं विपश्यतः
अङ्गुल्यग्रं यथा बालो न गृह्णाति निशाकरम् ।
तथा ह्यक्षरसंसक्तस्तत्त्वं वेत्ति न मामकम्
नटवन्नृत्यते चित्तं मनो विदूषसादृशम् ।
विज्ञानं पञ्चभिः सार्धं दृश्यं कल्पेति रङ्गवत्
अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमध्येषते स्म - देशयतु मे भगवान्, देशयतु मे सुगतः पञ्चधर्मस्वभावविज्ञाननैरात्म्यद्वयप्रभेदगतिलक्षणम्, येन नैरात्म्यद्वयप्रभेदगतिलक्षणेन अहं च अन्ये च बोधिसत्त्वा महासत्त्वाः सर्वभूमिक्रमानुसंधिष्वेतान् धर्मान् विभावयेम, यथा तैर्धर्मैः सर्वबुद्धधर्मानुप्रवेशो भवेत् । सर्वबुद्धधर्मानुप्रवेशाच्च यावत्तथागतस्वप्रत्ययात्मभूमिप्रवेशः स्यादिति । भगवानाह - तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु । भाषिष्ये ऽहं ते । साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत् । भगवांस्तस्यैतदवोचत् - पञ्चधर्मस्वभावविज्ञाननैरात्म्यद्वयप्रभेदगतिलक्षणं ते महामते देशयिष्यामि । यदुत नाम निमित्तं विकल्पः सम्यग्ज्ञानं तथता च तथागतप्रत्यात्मार्यगतिप्रवेशः शाश्वतोच्छेदसदसद्दृष्टिविवर्जितो दृष्टधर्मसुखसमापत्तिसुखविहार आमुखीभवति योगयोगिनाम् । तत्र महामते पञ्चधर्मस्वभावविज्ञाननैरात्म्यद्वयस्वचित्तदृश्यबाह्यभावाभावानवबोधाद्विकल्पः प्रवर्तते बालानां न त्वार्याणाम् ॥
महामतिराह - कथं पुनर्भगवन् बालानां विकल्पः प्रवर्तते, न त्वार्याणाम्? भगवानाह - नामसंज्ञासंकेताभिनिवेशेन महामते बालाश्चित्तमनुसरन्ति । अनुसरन्तो विविधलक्षणोपचारेण आत्मात्मीयदृष्टिपतिताशया वर्णपुष्कलतामभिनिविशन्ते । अभिनिविशन्तश्च अज्ञानावृताः संरज्यन्ते । संरक्ता रागद्वेषमोहजं कर्माभिसंस्कुर्वन्ति । अभिसंस्कृत्य पुनः पुनः कोशकारकीटका इव स्वविकल्पपरिवेष्टितमतयो गतिसमुद्रकान्तारप्रपतिता घटियन्त्रवन्नातिप्रवर्तन्ते । न च प्रजानन्ति मोहान्मायामरीच्युदकचन्द्रस्वभावकल्पनात्मात्मीयरहितान् सर्वधर्मानभूतविकल्पोदितांल्लक्ष्यलक्षणापगतान् भङ्गोत्पादस्थितिगतिविनिवृत्तान् स्वचित्तदृश्यविकल्पप्रभवानीश्वरकालाणुप्रधानप्रभवान् । नामनिमित्तानुप्लवेन महामते बाला निमित्तमनुसरन्ति ॥
तत्र निमित्तं पुनर्महामते यच्चक्षुर्विज्ञानस्याभासमागच्छति रूपसंज्ञकम् । एवं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानानां शब्दगन्धरसस्प्रष्टव्यधर्मसंज्ञकमेतन्निमित्तमिति वदामि । तत्र विकल्पः पुनर्महामते येन नाम समुदीरयति । निमित्तव्यञ्जकमिदम् - एवमिदं नान्यथेति हस्त्यश्वरथपदातिस्त्रीपुरुषादिकसंज्ञकं तद्विकल्पः प्रवर्तते । सम्यग्ज्ञानं पुनर्महामते येन नामनिमित्तयोरनुपलब्धिः । अन्योन्यागन्तुकत्वादप्रवृत्तिर्विज्ञानस्य अनुच्छेदाशाश्वततः सर्वतीर्थकरश्रावकप्रत्येकबुद्धभूम्यपातनत्वात्सम्यग्ज्ञानमित्युच्यते । पुनरपरं महामते येन सम्यग्ज्ञानेन बोधिसत्त्वो महासत्त्वो न नाम भावीकरोति, न च निमित्तमभावीकरोति । समारोपापवादान्तद्वयकुदृष्टिविवर्जितं नामनिमित्तार्थयोरप्रवृत्तिविज्ञानम् । एवमेतां तथतां वदामि । तथताव्यवस्थितश्च महामते बोधिसत्त्वो महासत्त्वो निराभासगोचरप्रतिलाभित्वात्प्रमुदितां बोधिसत्त्वभूमिं प्रतिलभते ॥
स प्रतिलभ्य प्रमुदितां बोधिसत्त्वभूमिं व्यावृत्तः सर्वतीर्थ्यापायगतिभ्यो भवति लोकोत्तरधर्मगतिसमवसृतः लक्षणपरिचयान्मायादिपूर्वकां सर्वधर्मगतिं विभावयन् स्वप्रत्यात्मार्यधर्मगतिलक्षणं तर्कदृष्टिविनिवृत्तकौतुको ऽनुपूर्वेण यावद्धर्ममेघा भूमिरिति । धर्ममेघानन्तरं यावत्समाधिबलवशिताभिज्ञाकुसुमितां तथागतभूमिं प्रतिलभते । स प्रतिलभ्य सत्त्वपरिपाचनतया विचित्रैर्निर्माणकिरणैर्विराजते जलचन्द्रवत् । अष्टापदसुनिबद्धधर्मा नानाधिमुक्तिकतया सत्त्वेभ्यो धर्मं देशयति । कायं मनोविज्ञप्तिरहितम् । एतन्महामते तथताप्रवेशात्प्रतिलभन्ते बोधिसत्त्वा महासत्त्वाः ॥
पुनरपि महामतिराह - किं पुनर्भगवन् पञ्चसु धर्मेष्वन्तर्गतास्त्रयः, स्वभावा उत स्वलक्षणसिद्धाः? भगवानाह - अत्रैव महामते त्रयः स्वभावा अन्तर्गताः, अष्टौ च विज्ञानानि, द्वे च नैरात्म्ये । तत्र नाम च निमित्तं च परिकल्पितः स्वभावो वेदितव्यः । यः पुनर्महामते तदाश्रयप्रवृत्तो विकल्पश्चित्तचैत्तसंशब्दितो युगपत्कालोदित आदित्य इव रश्मिसहितो विचित्रलक्षणस्वभावो विकल्पाधारकः, स महामते स्वभावः परतन्त्र इत्युच्यते । सम्यग्ज्ञानं तथता च महामते अविनाशत्वात्स्वभावः परिनिष्पन्नो वेदितव्यः ॥
पुनरपरं महामते स्वचित्तदृश्यमभिनिविश्यमानं विकल्पो ऽष्टधा भिद्यते । निमित्तस्याभूतलक्षणपरिकल्पितत्वादात्मात्मीयग्राहद्वयव्युपशमान्नैरात्म्यद्वयमाजायते । एषु महामते पञ्चसु धर्मेषु सर्वबुद्धधर्मा अन्तर्गताः, भूमिविभागानुसंधिश्च श्रावकप्रत्येकबुद्धबोधिसत्त्वानाम्, तथागतानां च प्रत्यात्मार्यज्ञानप्रवेशः ॥
पुनरपरं महामते पञ्चधर्माः - निमित्तं नाम विकल्पस्तथता सम्यग्ज्ञानं च । तत्र महामते निमित्तं यत्संस्थानाकृतिविशेषाकाररूपादिलक्षणं दृश्यते तन्निमित्तम् । यत्तस्मिन्निमित्ते घटादिसंज्ञाकृतकम् - एवमिदं नान्यथेति, तन्नाम । येन तन्नाम समुदीरयति निमित्ताभिव्यञ्जकं समधर्मेति वा, स महामते चित्तचैत्तसंशब्दितो विकल्पः । यन्नामनिमित्तयोरत्यन्तानुपलब्धिता बुद्धिप्रलयादन्योन्याननुभूतापरिकल्पितत्वादेषां धर्माणां सा तथतेति । तत्त्वं भूतं निश्चतो निष्ठा प्रकृतिः स्वभावो ऽनुपलब्धिस्तत्तथालक्षणम् । मया अन्यैश्च तथागतैरनुगम्य यथावद्देशितं प्रज्ञप्तं विवृतमुत्तानीकृतम्, यत्रानुगम्य सम्यगवबोधानुच्छेदाशाश्वततो विकल्पस्याप्रवृत्तिः स्वप्रत्यात्मार्यज्ञानानुकूलं तीर्थकरपक्षपरपक्षश्रावकप्रत्येकबुद्धागतिलक्षणं तत्सम्यग्ज्ञानम् । एते च महामते पञ्च धर्माः । एतेष्वेव त्रयः स्वभावाः, अष्टौ च विज्ञानानि, द्वे च नैरात्म्ये, सर्वबुद्धधर्माश्चान्तर्गताः । अत्र ते महामते स्वमतिकौशलं करणीयम्, अन्यैश्च कारयितव्यम् । न परप्रणेयेन भवितव्यम् ॥
तत्रेदमुच्यते -
पञ्च धर्माः स्वभावश्च विज्ञानान्यष्ट एव च ।
द्वे नैरात्म्ये भवेत्कृत्स्नो महायानपरिग्रहः
नामनिमित्तसंकल्पाः स्वभावद्वयलक्षणम् ।
सम्यग्ज्ञानं तथात्वं च परिनिष्पन्नलक्षणम्
अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत् - यत्पुनरेतदुक्तं भगवता देशनापाठे यथा गङ्गानदीवालुकासमास्तथागता अतीता अनागता वर्तमानाश्च । तत्किमिदं भगवन् यथारुतार्थग्रहणं कर्तव्यम्, आहोस्विदन्यः कश्चिदर्थान्तरविशेषो ऽस्तीति? तदुच्यतां भगवन् । भगवानाह - न महामते यथारुतार्थग्रहणं कर्तव्यम् । न च महामते गङ्गानदीवालुकाप्रमाणतया त्र्यध्वकबुद्धप्रमाणता भवति । तत्कस्य हेतोः? यदुत लोकातिशयातिक्रान्तत्वान्महामते दृष्टान्तो ऽदृष्टान्तः सदृशासदृशत्वात् । न च महामते तथागता अर्हन्तः सम्यक्संबुद्धाः सदृशासदृशं लोकातिशयातिक्रान्तं दृष्टान्तं प्राविष्कुर्वन्ति । अन्यत्र उपमामात्रमेतन्महामते मयोपन्यस्तम्, तैश्च तथागतैः । यथा गङ्गानदीवालुकासमास्तथागता अर्हन्तः सम्यक्संबुद्धा इति नित्यानित्याभिनिवेशाभिनिविष्टानां बालपृथग्जनानां तीर्थकराशयकुदृष्टियुक्तानां संसारभवचक्रानुसारिणामुद्वेजनार्थम् - कथमेते उद्विग्ना भवगतिचक्रसंकटाद्विशेषार्थिनो विशेषमारभेरन्निति सुलभबुद्धत्वप्रदर्शनार्थं न नोदुम्बरपुष्पतुल्यस्तथागतानामुत्पाद ( वैद्य 94 ) इति कृत्वा वीर्यमारप्स्यन्ते । देशनापाठे तु मया वैनेयजनतापेक्षया उदुम्बरपुष्पसुदुर्लभप्रादुर्भावास्तथागता इति देशितम् । न च महामते उदुम्बरपुष्पं केनचिद्दृष्टपूर्वं न द्रक्ष्यते । तथागताः पुनर्महामते लोके दृष्टाः, दृश्यन्ते चैतर्हि । न स्वनयप्रत्यवस्थानकथामधिकृत्य उदुम्बरपुष्पसुदुर्लभप्रादुर्भावास्तथागता इति । स्वनयप्रत्यवस्थानकथायां महामते निर्दिश्यमानायां लोकातिशयातिक्रान्ता दृष्टान्ता युक्ताः क्रियन्ते ऽश्रद्धेयत्वात् । अश्रद्धेयं स्याद्बालपृथग्जनानां च । स्वप्रत्यात्मार्यज्ञानगोचरे न दृष्टान्ता न प्रवर्तन्ते । तत्त्वं च तथागताः । अतस्तेषु दृष्टान्ता नोपन्यस्यन्ते ॥
किं तु उपमामात्रमेतन्महामते कृतं यदुत गङ्गानदीवालुकासमास्तथागताः समा न विषमा अकल्पाविकल्पनतः । तद्यथा महामते गङ्गायां नद्यां वालुका मीनकच्छपशिशुमारनक्रमहिषसिंहहस्त्यादिभिः संक्षोभ्यमाणा न कल्पयन्ति न विकल्पयन्ति - संक्षोभ्यामहे न वेति निर्विकल्पाः स्वच्छा मलव्यपेताः । एवमेव महामते तथागतानामर्हतां सम्यक्संबुद्धानां स्वप्रत्यात्मार्यज्ञानगङ्गामहानदीबलाभिज्ञावशितावालुकाः सर्वतीर्थकरबालमीनपरप्रवादिभिः संक्षोभ्यमाणा न कल्पयन्ति न विकल्पयन्ति । तथागतपूर्वप्रणिहितत्वात्सर्वसुखसमापत्तिपरिपूर्या सत्त्वानां न कल्पयन्ति न विकल्पयन्ति । अतस्ते गङ्गानदीवालुकासमास्तथागता निर्विशिष्टा अनुनयप्रतिघापगतत्वात् ॥
तद्यथा महामते गङ्गायां नद्यां वालुका पृथिवीलक्षणस्वभावत्वात्पृथिवी, कल्पोद्दाहे दह्यमानापि न पृथिवीस्वभावं विजहाति । न च महामते पृथिवी दह्यते तेजोधातुप्रतिबद्धत्वादन्यत्र बालपृथग्जना वितथतापतितया संतत्या दह्यमानां कल्पयन्ति, न च दह्यते तदग्निहेतुभूतत्वात् । एवमेव महामते तथागतानां धर्मकायो गङ्गानदीवालुकासमो ऽविनाशी । तद्यथा महामते नद्यां गङ्गायां वालुका अप्रमाणाः, एवमेव महामते तथागतानां रश्म्यालोको ऽप्रमाणः सत्त्वपरिपाकसंचोदनमुपादाय सर्वबुद्धपर्षन्मण्डलेषु प्रसर्प्यते तथागतैः । तद्यथा महामते गङ्गायां नद्यां वालुका न वालुकास्वभावान्तरमारभन्ते, वालुकावस्था एव वालुकाः, एवमेव महामते तथागतानामर्हतां सम्यक्संबुद्धानां संसारे न प्रवृत्तिर्न निवृत्तिः, भवप्रवृत्त्युच्छिन्नहेतुत्वात् । तद्यथा महामते गङ्गायां नद्यां वालुका अपकृष्टा अपि न प्रज्ञायन्ते, प्रक्षिप्ता अपि न प्रज्ञायन्ते, महामते एवमेव तथागतानां ज्ञानं सत्त्वपरिपाकयोगेन न क्षीयते न वर्धते, अशरीरत्वाद्धर्मस्य । शरीरवतां हि महामते नाशो भवति नाशरीरवताम् । धर्मश्चाशरीरः । तद्यथा महामते गङ्गायां नद्यां वालुका निष्पीड्यमाना घृततैलार्थिभिर्घृततैलादिविरहिताः, एवमेव महामते तथागताः सत्त्वदुःखैर्निष्पीड्यमाना धर्मधात्वीश्वरप्रणिधानसुखं न विजहति महामते महाकरुणोपेतत्वात्, यावत्सर्वसत्त्वा न निर्वाप्यन्ते तथागतैः । तद्यथा महामते गङ्गायां नद्यां वालुकाः प्रवाहानुकूलाः प्रवहन्ति नानुदके, एवमेव महामते तथागतानां सर्वबुद्धधर्मदेशना निर्वाणप्रवाहानुकूला संवर्तते । तेन गङ्गानदीवालुकासमास्तथागता इत्युच्यन्ते । नायं महामते गत्यर्थस्तथागतेषु प्रवर्तते । विनाशो ( वैद्य 95 ) महामते गत्यर्थो भवति । न च महामते संसारस्य पूर्वा कोटिः प्रज्ञायते । अप्रज्ञायमाना कथं गत्यर्थेन निर्देक्ष्यामि? गत्यर्थो महामते उच्छेदः । न च बालपृथग्जनाः संप्रजानन्ति ॥
महामतिराह - तद्यदि भगवन् पूर्वा कोटिर्न प्रज्ञायते सत्त्वानां संसरताम्, तत्कथं मोक्षः प्रज्ञायते प्राणिनाम्? भगवानाह - अनादिकालप्रपञ्चदौष्ठुल्यविकल्पवासनाहेतुविनिवृत्तिर्महामते स्वचित्तदृश्यबाह्यार्थपरिज्ञानाद्विकल्पस्याश्रयपरावृत्तिर्महामते मोक्षो न नाशः । अतो नानन्तकथा महामते किंचित्कारी भवति । विकल्पस्यैव महामते पर्यायो ऽनन्तकोटिरिति । न चात्र विकल्पादन्यत्किंचित्सत्त्वान्तरमस्ति, अध्यात्मं वा बहिर्धा वा परीक्ष्यमाणं बुद्ध्या । ज्ञानज्ञेयविविक्ता हि महामते सर्वधर्माः । अन्यत्र स्वचित्तविकल्पापरिज्ञानाद्विकल्पः प्रवर्तते, तदवबोधान्निवर्तते ॥
तत्रेदमुच्यते -
गङ्गायां वालुकासमान् ये पश्यन्ति विनायकान् ।
अनाशगतिनिष्ठान् वै ते पश्यन्ति तथागतान्
गङ्गायां वालुका यद्वत्सर्वदोषैर्विवर्जिताः ।
वाहानुकूला नित्याश्च तथा बुद्धस्य बुद्धता
अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत् - देशयतु भगवान्, देशयतु मे सुगतस्तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वधर्माणां क्षणभङ्गं भेदलक्षणं चैषाम् । तत्कथं भगवन् सर्वधर्माः क्षणिकाः? भगवानाह - तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु । भाषिष्ये ऽहं ते । साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत् । भगवांस्तस्यैतदवोचत् - सर्वधर्माः सर्वधर्मा इति महामते यदुत कुशलाकुशलाः संस्कृतासंस्कृता लौकिकलोकोत्तराः सावद्यानवद्याः सास्रवानास्रवा उपात्तानुपात्ताः । संक्षेपेण महामते पञ्चोपादानस्कन्धाश्चित्तमनोमनोविज्ञानवासनाहेतुकाश्चित्तमनोमनोविज्ञानवासनापुष्टैर्बालपृथग्जनैः कुशलाकुशलेन परिकल्प्यन्ते । समाधिसुखसमापत्तयो महामते दृष्टधर्मसुखविहारभावेन आर्याणां कुशलानास्रवा इत्युच्यन्ते । कुशलाकुशलाः पुनर्महामते यदुत अष्टौ विज्ञानानि । कतमान्यष्टौ? यदुत तथागतगर्भ आलयविज्ञानसंशब्दितो मनो मनोविज्ञानं च पञ्च च विज्ञानकायास्तीर्थ्यानुवर्णिताः । तत्र महामते पञ्च विज्ञानकाया मनोविज्ञानसहिता कुशलाकुशलक्षणपरंपराभेदभिन्नाः संततिप्रबन्धनाभिन्नशरीराः प्रवर्तमानाः प्रवर्तन्ते । प्रवृत्य च विनश्यन्ति । स्वचित्तदृश्यानवबोधात्समनन्तरनिरोधे ऽन्यद्विज्ञानं प्रवर्तते । संस्थानाकृतिविशेषग्राहकं मनोविज्ञानं पञ्चभिर्विज्ञानकायैः सह संप्रयुक्तं प्रवर्तते क्षणकालानवस्थायि । तत्क्षणिकमिति वदामि । क्षणिकं पुनर्महामते आलयविज्ञानं तथागतगर्भसंशब्दितं मनःसहितं प्रवृत्तिविज्ञानवासनाभिः क्षणिकमनास्रववासनाभिरक्षणिकम् । न च बालपृथग्जना अवबुध्यन्ते क्षणिकवादाभिनिविष्टा क्षणिकाक्षणिकतामिमां सर्वधर्माणाम् । तदनवबोधादुच्छेददृष्ट्या असंस्कृतानपि धर्मान्नाशयिष्यन्ति । ( वैद्य 96 ) असंसारिणो महामते पञ्च विज्ञानकाया अननुभूतसुखदुःखा अनिर्वाणहेतवः । तथागतगर्भः पुनर्महामते अनुभूतसुखदुःखहेतुसहितः
प्रवर्तते निवर्तते च चतसृभिर्वासनाभिः संमूर्च्छितः । न च बाला अवबुध्यन्ते क्षणिकदृष्टिविकल्पवासितमतयः ॥
पुनरपरं महामते समधारणं कल्पस्थिताः सुवर्णवज्रजिनधातुप्राप्तिविशेषा अभङ्गिनः । यदि पुनर्महामते अभिसमयप्राप्तिः क्षणिका स्यात्, अनार्यत्वमार्याणां स्यात् । न च अनार्यत्वमार्याणां भवति । सुवर्णं वज्रं च महामते समधारणं कल्पस्थिता अपि तुल्यमाना न हीयन्ते न वर्धन्ते । तत्कथं बालैः क्षणिकार्थे विकल्प्यते आध्यात्मिकबाह्यानां सर्वधर्माणामसंधाभाष्यकुशलैः?
पुनरपि महामतिराह - यत्पुनरेतदुक्तं भगवता - षट्पारमितां परिपूर्य बुद्धत्वमवाप्यत इति । तत्कतमास्ताः षट्पारमिताः? कथं च परिपूरिं गच्छन्ति? भगवानाह - त्रय एते महामते पारमिताभेदाः । कतमे त्रयः? यदुत लौकिकलोकोत्तरलोकोत्तरतमाः । तत्र महामते लौकिक्यः पारमिता आत्मात्मीयग्राहाभिनिवेशाभिनिविष्टाः । अन्तद्वयग्राहिणो विचित्रभवोपपत्त्यायतनार्थं रूपादिविषयाभिलाषिणो दानपारमितां परिपूरयन्ति । एवं शीलक्षान्तिवीर्यध्यानप्रज्ञापारमितां महामते परिपूरयन्ति बालाः । अभिज्ञाश्चाभिनिर्हरन्ति ब्रह्मत्वाय । तत्र लोकोत्तराभिः पारमिताभिः श्रावकप्रत्येकबुद्धा निर्वाणग्राहपतिताशया दानादिषु प्रयुज्यन्ते यथैव बाला आत्मसुखनिर्वाणाभिलाषिणः । लोकोत्तरतमाः पुनर्महामते स्वचित्तदृश्यविकल्पमात्रग्रहणात्स्वचित्तद्वयावबोधादप्रवृत्तेर्विकल्पस्य उपादानग्रहणाभावात्स्वचित्तरूपलक्षणानभिनिवेशाद्दानपारमिता सर्वसत्त्वहितसुखार्थमाजायते बोधिसत्त्वानां महासत्त्वानां परमयोगयोगिनाम् । यत्तत्रैवालम्बने विकल्पस्याप्रवृत्तिं शीलयन्ति, तच्छीलं पारमिता च सा । या तस्यैव विकल्पस्याप्रवृत्तिक्षमणता ग्राह्यग्राहकपरिज्ञया, सा क्षान्तिपारमिता । येन वीर्येण पूर्वरात्रापररात्रं घटते योगानुकूलदर्शनाद्विकल्पस्य व्यावृत्तेः, सा वीर्यपारमिता । यद्विकल्पनिवृत्तेस्तीर्थ्यनिर्वाणग्राहापतनं सा ध्यानपारमिता । तत्र प्रज्ञापारमिता यदा स्वचित्तविकल्पाभावादाबुद्धिप्रविचयात्प्रतिविचिन्वन् अन्तद्वये न पतति आश्रयपरावृत्तिपूर्वकर्मविनाशतः, स्वप्रत्यात्मार्यगतिप्रतिलम्भाय प्रयुज्यते, सा प्रज्ञापारमिता । एता महामते पारमिताः । एष पारमितार्थः । तत्रेदमुच्यते -
शून्यमनित्यं क्षणिकं बालाः कल्पेन्ति संस्कृतम् ।
नदीदीपबीजदृष्टान्तैः क्षणिकार्थो विकल्प्यते
निर्व्यापारं क्षणिकं विविक्तं क्षयवर्जितम् ।
अनुत्पत्तिश्च धर्माणां क्षणिकार्थं वदाम्यहम्
उत्पत्त्यनन्तरं भङ्गं न वै देशेमि बालिशान् ।
नैरन्तर्येण भावानां विकल्पः स्पन्दते गतौ
सा विद्या कारणं तेषां चित्तानां संप्रवर्तिकम् ।
अन्तरा किमवस्थासौ यावद्रूपं न जायते
समनन्तरप्रध्वस्तं चित्तमन्यत्प्रवर्तते ।
रूपं न तिष्ठते काले किमालम्ब्य प्रवर्त्स्यते
यस्माद्यत्र प्रवर्तते चित्तं वितथहेतुकम् ।
न प्रसिद्धं कथं तस्य क्षणभङ्गो ऽवधार्यते
योगिनां हि समापत्तिः सुवर्णं जिनधातवः ।
आभास्वरविमानाश्च अभेद्या लोककारणात्
स्थितयः प्राप्तिधर्माश्च बुद्धानां ज्ञानसंपदः ।
भिक्षुत्वं समयप्राप्तिर्दृष्टा वै क्षणिकाः कथम्
गन्धर्वपुरमायाद्या रूपा वै क्षणिका न किम् ।
अभूतिकाश्च भूताश्च भूताः केचित्करागताः
मूल पाठ: Saddharmalaṅkāvatārasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1963, (Buddhist Sanskrit Texts, 3) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0