सद्धर्मलङ्कावतारसूत्र · अध्याय 8
इति लङ्कावतारसूत्रे नैर्माणिकपरिवर्तः सप्तमः ॥
स्तर्त् परिवर्त 8
मांसभक्षणपरिवर्तो नामाष्टमः ।
अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वो भगवन्तं गाथाभिः परिपृच्छय पुनरप्यध्येषते स्म - देशयतु मे भगवांस्तथागतो ऽर्हन् सम्यक्संबुद्धो मांसभक्षणे गुणदोषम्, येन अहं च अन्ये च बोधिसत्त्वा महासत्त्वा अनागतप्रत्युत्पन्नकाले सत्त्वानां क्रव्यादसत्त्वगतिवासनावासितानां मांसभोजगृद्धाणां रसतृष्णाप्रहाणाय धर्मं देशयाम, यथा च ते क्रव्यादभोजिनः सत्त्वा विराग्य रसतृष्णां धर्मरसाहारकाङ्क्षया सर्वसत्त्वैकपुत्रकप्रेमानुगताः परस्परं महामैत्रीं प्रतिलभेरन् । प्रतिलभ्य सर्वबोधिसत्त्वभूमिषु कृतयोग्याः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्येरन् । श्रावकप्रत्येकबुद्धभूम्या वा विश्रम्य अनुत्तरां ताथागतीं भूमिमुपसर्पयेयुः । दुराख्यातधर्मैरपि तावद्भगवन्नन्यतीर्थिकैर्लोकायतदृष्ट्यभिनिविष्टैः सदसत्पक्षोच्छेदशाश्वतवादिभिर्मासं निवार्यते भक्ष्यमाणम् । स्वयं च न भक्ष्यते, प्रागेव कृपैकरसे सम्यक्संबुद्धे प्रणीते लोकनाथे । तव शासने मांसं स्वयं च भक्ष्यते, भक्ष्यमाणं च न निवार्यते । तत्साधु भगवान् सर्वलोकानुकम्पकः सर्वसत्त्वैपुत्रकसमदर्शी महाकारुणिको ऽनुकम्पामुपादाय मांसभक्षणे गुणदेषान् देशयतु मे, यथा अहं च अन्ये च बोधिसत्त्वास्तथत्वाय सत्त्वेभ्यो धर्मं देशयेम । भगवानाह - तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु । भाषिष्ये ऽहं ते । साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत् ॥
भगवांस्तस्यैतदवोचत् - अपरिमितैर्महामते कारणैर्मांसं सर्वमभक्ष्यं कृपात्मनो बोधिसत्त्वस्य । तेभ्यस्तूपदेशमात्रं वक्ष्यामि । इह महामते अनेन दीर्घेणाध्वना संसरतां प्राणिनां नास्त्यसौ कश्चित्सत्त्वः सुलभरूपो यो न माताभूत्पिता वा भ्राता वा भगिनी वा पुत्रो वा दुहिता वा अन्यतरान्यतरो वा स्वजनबन्धुबन्धूभूतो वा । तस्य अन्यजन्मपरिवृत्ताश्रयस्य मृगपशुपक्षियोन्यन्तर्भूतस्य बन्धोर्बन्धुभूतस्य वा सर्वभूतात्मभूतानुपागन्तुकामेन सर्वजन्तुप्राणिभूतसंभूतं मांसं कथमिव भक्ष्यं स्याद्बुद्धधर्मकामेन बोधिसत्त्वेन महासत्त्वेन? राक्षसस्यापि महामते तथागतानामिमां धर्मसुधर्मतामुपश्रुत्य उपगतरक्षभावाः कृपालवा भवन्ति मांसभक्षणविनिवृत्ताः, किमुत धर्मकामा जनाः । एवं तावन्महामते तेषु तेषु जातिपरिवर्तेषु सर्वसत्त्वाः स्वजनबन्धुभावसंज्ञाः सर्वसत्त्वैकपुत्रकसंज्ञाभावनार्थं मांसं सर्वमभक्ष्यम् । कृपात्मनो बोधिसत्त्वस्याभक्ष्यं मांसम् । व्यभिचारादपि महामते मांसं सर्वमभक्ष्यं चारित्रवतो बोधिसत्त्वस्य । श्वखरोष्ट्राश्वबलीवर्दमानुषमांसादीनि हि महामते लोकस्याभक्ष्याणि मांसानि । तानि च महामते वीथ्यन्तरेष्वौरभ्रिका भक्ष्याणीति कृत्वा मूल्यहेतोर्विक्रीयन्ते यतः, ततो ऽपि महामते मांसमभक्ष्यं बोधिसत्त्वस्य ॥
शुक्रशोणितसंभवादपि महामते शुचिकामतामुपादाय बोधिसत्त्वस्य मांसमभक्ष्यम् । उद्वेजनकरत्वादपि महामते भूतानां मैत्रीमिच्छतो योगिनो मांसं सर्वमभक्ष्यं बोधिसत्त्वस्य । ( वैद्य 101 ) तद्यथापि महामते डोम्बचाण्डालकैवर्तादीन् पिशिताशिनः सत्त्वान् दूरत एव दृष्ट्वा श्वानः प्रभयन्ति भयेन, मरणप्राप्ताश्चैके भवन्ति - अस्मानपि मारयिष्यन्तीति । एवमेव महामते अन्ये ऽपि खभूजलसंनिश्रितान् सूक्ष्मजन्तवो ये मांसाशिनो दर्शनाद्दूरादेव पटुना घ्राणेनाघ्राय गन्धं राक्षसस्येव मानुषा द्रुतमपसर्पन्ति, मरणसंदेहाश्चैके भवन्ति । तस्मादपि च महामते उद्वेजनकरत्वान्महामैत्रीविहारिणो योगिनो मांसमभक्ष्यं बोधिसत्त्वस्य अनार्यजनजुष्टं दुर्गन्धम् । अकीर्तिकरत्वादपि महामते आर्यजनविवर्जितत्वाच्च मांसमभक्ष्यं बोधिसत्त्वस्य । ऋषिभोजनाहारो हि महामते आर्यजनो न मांसरुधिराहारः, इत्यतो ऽपि बोधिसत्त्वस्य मांसमभक्ष्यम् ॥
बहुजनचित्तानुरक्षणतयापि अपवादपरिहारं चेच्छतः शासनस्य महामते मांसमभक्ष्यं कृपात्मनो बोधिसत्त्वस्य । तद्यथा महामते भवन्ति लोके शासनापवादवक्तारः । किंचित्तेषां श्रामण्यम्, कुतो वा ब्राह्मण्यम्? यन्नामैते पूर्वर्षिभोजनान्यपास्य क्रव्यादा इवामिषाहाराः परिपूर्णकुक्षयः खभूमिजलसंनिश्रितान् सूक्ष्मांस्त्रासयन्तो जन्तून् समुत्रासयन्त इमं लोकं समन्ततः पर्यटन्ति । निहतमेषां श्रामण्यम्, ध्वस्तमेषां ब्राह्मण्यम्, नास्त्येषां धर्मो न विनयः, इत्यनेकप्रकारप्रतिहतचेतसः शासनमेवापवदन्ति । तस्माद्बहुजनचित्तानुरक्षणतयापि अपवादपरिहारं चेच्छतः शासनस्य महामते मांसंं सर्वमभक्ष्यं कृपात्मनो बोधिसत्त्वस्य ॥
मृतशवदुर्गन्धप्रतिकूलसामान्यादपि महामते मांसमभक्ष्यं बोधिसत्त्वस्य । मृतस्यापि हि महामते मनुष्यस्य मांसे दह्यमाने तदन्यप्राणिमांसे च, न कश्चिद्गन्धविशेषः । सममुभयमांसयोर्दह्यमानयोर्दौर्गन्ध्यम् । अतो ऽपि महामते शुचिकामस्य योगिनः सर्वं मांसमभक्ष्यं बोधिसत्त्वस्य ॥
श्मशानिकानां च महामते अरण्यवनप्रस्थान्यमनुष्यावचराणि प्रान्तानि शयनासनान्यध्यावसतां योगिनां योगाचाराणां मैत्रीविहारिणां विद्याधराणां विद्यां साधयितुकामानां विद्यासाधनमोक्षविघ्नकरत्वान्महायानसंप्रस्थितानां कुलपुत्राणां कुलदुहितॄणां च सर्वयोगसाधनान्तरायकरमित्यपि समनुपश्यतां महामते स्वपरात्महितकामस्य मांसं सर्वमभक्ष्यं बोधिसत्त्वस्य । रूपालम्बनविज्ञानप्रत्ययास्वादजनकत्वादपि सर्वभूतात्मभूतस्य कृपात्मनः सर्वं मांसमभक्ष्यं बोधिसत्त्वस्य । देवता अपि चैनं परिवर्जयन्तीति कृत्वा महामते कृपात्मनः सर्वं मांसमभक्ष्यं बोधिसत्त्वस्य । मुखं चास्य परमदुर्गन्धि इहैव तावज्जन्मनि, इत्यपि कृत्वा महामते कृपात्मनः सर्वं मांसमभक्ष्यं बोधिसत्त्वस्य । दुःखं स्वपिति, दुःखं प्रतिबुध्यते । पापकांश्च रोमहर्षणान् स्वप्नान् पश्यन्ति । शून्यागारस्थितस्य चैकाकिनो रहोगतस्य विहरतो ऽस्यामनुष्यास्तेजो हरन्ति । उत्रस्यन्त्यपि, कदाचित्संत्रस्यन्त्यपि, संत्रासमकस्माच्चापद्यन्ते, आहारे च मात्रां न जानाति नाप्यशितपीतखादिताखादितस्य सम्यग्रसपरिणामपुष्ट्यादि समासादयति, क्रिमिजन्तुप्रचुरकुष्ठनिदानकोष्ठश्च भवति व्याधिबहुलम्, न च प्रतिकूलसंज्ञां प्रतिलभते । ( वैद्य 102 ) पुत्रमांसभैषज्यवदाहारं देशयंश्चाहं महामते कथमिव अनार्यजनसेवितमार्यजनविवर्जितमेवमनेकदोषावहमनेकगुणविवर्जितमनृषिभोजनप्रणीतमकल्प्यं मांसरुधिराहारं शिष्येभ्यो ऽनुज्ञाप्यामि?
अनुज्ञातवान् पुनरहं महामते सर्वार्यजनसेवितमनार्यजनविवर्जितमनेकगुणवाहकमनेकदोषविवर्जितं सर्वपूर्वर्षिप्रणीतं भोजनम्, यदुत शालियवगोधूममुद्गमाषमसूरादिसर्पिस्तैलमधुफाणितगुडखण्डमत्स्यण्डिकादिषु समुपपद्यमानं भोजनं कल्प्यमिति कृत्वा । न च महामते अनागते ऽध्वनि एकेषां मोहपुरुषाणां विविधविनयविकल्पवादिनां क्रव्यादकुलवासितावासितानां रसतृष्णाव्यवसितानामिदं प्रणीतं भोजनं प्रतिभाष्यते । न तु महामते पूर्वजिनकृताधिकाराणामवरोपितकुशलमूलानां श्राद्धानामविकल्पानां बहुलानां शाक्यकुलकुलीनानां कुलपुत्राणां कुलदुहितॄणां कायजीवितभोगानध्यवसितानामरसगृध्राणामलोलुपानां कृपालूनां सर्वभूतात्मभूततामुपगन्तुकामानां सर्वसत्त्वैकपुत्रकप्रियदर्शिनां बोधिसत्त्वानां महासत्त्वानमिति वदामि ॥
भूतपूर्वं महामते अतीते ऽध्वनि राजाभूत्सिंहसौदासो नाम । स मांसभोजनाहारातिप्रसङ्गेन प्रतिसेवमानो रसतृष्णाध्यवसानपरमतया मांसानि मानुष्याण्यपि भक्षितवान् । तन्निदानं च मित्रामात्यज्ञातिबन्धुवर्गेणापि परित्यक्तः, प्रागेव पौरजानपदैः । स्वराज्यविषयपरित्यागाच्च महद्वयसनमासादितवान् मांसहेतोः ॥
इन्द्रेणापि च महामते देवाधिपत्यं प्राप्तेन (पूर्वाभूत्वा) पूर्वजन्ममांसादवासनादोषाच्छ्येनरूपमास्थाय कपोतवेषरूपधारी विश्वकर्मा समभिद्रुतो ऽभूत् । तुलायां चात्मानमारोपित आसीत् । यस्माद्राजा अनपराधिभूतानुकम्पकः शिबी दुःखेन महता लम्भितः । तदेवमनेकजन्माभ्यस्तमपि महामते देवेन्द्रभूतस्य शक्रस्यापि सतः स्वपरदोषावहनमभूत्, प्रागेव तदन्येषाम् ॥
अन्येषां च महामते नरेन्द्रभूतानां सतामश्वेनापहृतानामटव्यां पर्यटमानानां सिंह्या सह मैथुनं गतवतां जीवितभयादपत्यानि चोत्पादितवन्तः सिंहसंवासान्वयात्कल्माषपादप्रभृतयो नृपपुत्राः पूर्वजन्ममांसाददोषवासनतया मनुष्येन्द्रभूता अपि सन्तो मांसादा अभूवन् । इहैव च महामते जन्मनि सप्तकुटीरके ऽपि ग्रामे प्रचुरमांसलौल्यादतिप्रसङ्गेन निषेवमाना मानुषमांसादा घोरा डाका वा डाकिन्यश्च संजायन्ते । जातिपरिवर्ते च महामते तथैव मांसरसाध्यवसानतया सिंहव्याघ्रद्वीपिवृकतरक्षुमार्जारजम्बुकोलूकादिप्रचुरमांसादयोनिषु प्रचुरतरपिशिताशना राक्षसादिघोरतरयोनिषु विनिपात्यन्ते । यत्र विनिपतितानां दुःखेन मानुष्ययोनिरपि समापद्यते, प्रागवे निर्वृतिः । इत्येवमादयो महामते मांसाददोषाः प्रागेव निषेवमानानां समुपजायन्ते, विपर्ययाच्च भूयांसो गुणाः । न च महामते बालपृथग्जना ( वैद्य 103 ) एतांश्चान्यांश्च गुणदोषानवबुध्यन्ते । एवमादिगुणदोषदर्शनान्महामते मांसं सर्वमभक्ष्यं कृपात्मनो बोधिसत्त्वस्येति वदामि ॥
यदि च महामते मांसं न कथंचन केचन भक्षयेयुः, न तन्निदानं घातेरन् । मूल्यहेतोर्हि महामते प्रायः प्राणिनो निरपराधिनो वध्यन्ते स्वल्पादन्यहेतोः । कष्टं महामते रसतृष्णायामतिसेवतां मांसानि मानुषान्यपि मानुषैर्भक्ष्यन्ते, किं पुनरितरमृगपक्षिप्राणिसंभूतमांसानि । प्रायो महामते मांसरसतृष्णार्तैरिदं तथा तथा जालयन्त्रमाविद्धं मोहपुरुषैः, यच्छाकुनिकौरभ्रककैवर्तादयः खेचरभूचरजलचरान् प्राणिनो ऽनपराधिनो ऽनेकप्रकारं मूल्यहेतोर्विशसन्ति । न चैषां महामते किंकनीकृतरूक्षचेतसां राक्षसानामिव गतघृणानां कदाचिदपि प्राणिषु प्राणिसंज्ञया घातयतां भक्षयतां न घृणोत्पद्यते ॥
न च महामते अकृतकमकारितमसंकल्पितं नाम मांसं कल्प्यमस्ति यदुपादाय अनुजानीयां श्रावकेभ्यः । भविष्यन्ति तु पुनर्महामते अनागते ऽध्वनि ममैव शासने प्रव्रजित्वा शाक्यपुत्रीयत्वं प्रतिजानानाः काषायध्वजधारिणो मोहपुरुषा मिथ्यावितर्कोपहतचेतसो विविधविनयविकल्पवादिनः सत्कायदृष्टियुक्ता रसतृष्णाध्यवसितास्तां तां मांसभक्षणहेत्वाभासां ग्रन्थयिष्यन्ति । मम चाभूताभ्याख्यानं दातव्यं मंस्यन्ते । तत्तदर्थोत्पत्तिनिदानं कल्पयित्वा वक्ष्यन्ति - इयमर्थोत्पत्तिरस्मिन्निदाने, भगवता मांसभोजनमनुज्ञातं कल्प्यमिति । प्रणीतभोजनेषु चोक्तम्, स्वयं च किल तथागतेन परिभुक्तमिति । न च महामते कुत्रचित्सूत्रे प्रतिसेवितव्यमित्यनुज्ञातम्, प्रणीतभोजनेषु वा देशितं कल्प्यमिति ॥
यदि तु महामते अनुज्ञातुकामता मे स्यात्, कल्प्यं वा मे श्रावकाणां प्रतिसेवितुं स्यात्, नाहं मैत्रीविहारिणां योगिनां योगाचाराणां श्मशानिकानां महायानसंप्रस्थितानां कुलपुत्राणां कुलदुहितॄणां च सर्वसत्त्वैकपुत्रकसंज्ञाभावनार्थं सर्वामांसभक्षणप्रतिषेधं कुर्याम्, कृतवांश्च । अस्मिन् महामते धर्मकामानां कुलपुत्राणां कुलदुहितॄणां च सर्वयानसंप्रस्थितानां श्मशानिकानां मैत्रीविहारिणामारण्यकानां योगिनां योगाचाराणां सर्वयोगसाधनाय सर्वसत्त्वैकपुत्रकसंज्ञाभावनार्थं सर्वमांसप्रतिषेधम् ॥
तत्र तत्र देशनापाठे शिक्षापदानामनुपूर्वीबन्धं निःश्रेणीपदविन्यासयोगेन त्रिकोटिं बद्ध्वा न तदुद्दिश्य कृतानि प्रतिषिद्धानि । ततो दशप्रकृतिमृतान्यपि मांसानि प्रतिषिद्धानि । इह तु सूत्रे सर्वेण सर्वं सर्वथा सर्वं निरुपायेन सर्वं प्रतिषिद्धम् । यतो ऽहं महामते मांसभोजनं न कस्यचिदनुज्ञातवान्, नानुजानामि, नानुज्ञास्यामि । अकल्प्यं महामते प्रव्रजितानां मांसभोजनमिति वदामि । यदपि च महामते ममाभ्याख्यानं दातव्यं मंस्यन्ते तथागतेनापि परिभुक्तमिति, तदन्येषां महामते मोहपुरुषाणां स्वकर्मदोषावरणावृतानां दीर्घरात्रमनर्थायाहिताय संवर्तकं भविष्यति । न हि महामते आर्यश्रावकाः प्राकृतमनुष्याहारमाहरन्ति, ( वैद्य 104 ) कुत एव मांसरुधिराहारमकल्प्यम् । धर्माहारा हि महामते मम श्रावकाः प्रत्येकबुद्धा बोधिसत्त्वाश्च नामिषाहाराः, प्रागेव तथागताः । धर्मकाया हि महामते तथागता धर्माहारस्थितयो नामिषकाया न सर्वामिषाहारस्थितयो वान्तसर्वभवोपकरणतृष्णैषणावासनाः सर्वक्लेशदोषवासनापगताः सुविमुक्तचित्तप्रज्ञाः सर्वज्ञाः सर्वदर्शिनः सर्वसत्त्वैकपुत्रकसमदर्शिनो महाकारुणिकाः । सो ऽहं महामते सर्वसत्त्वैकपुत्रकसंज्ञी सन् कथमिव स्वपुत्रमांसमनुज्ञास्यामि परिभोक्तुं श्रावकेभ्यः, कुत एव स्वयं परिभोक्तुम्? अनुज्ञातवानस्मि श्रावकेभ्यः स्वयं वा परिभुक्तवानिति महामते नेदं स्थानं विद्यते ॥
तत्रेदमुच्यते -
मद्यं मांसं पलाण्डुं न भक्षयेयं महामुने ।
बोधिसत्त्वैर्महासत्त्वैर्भाषद्भिर्जिनपुंगवैः
अनार्यजुष्टदुर्गन्धमकीर्तिकरमेव च ।
क्रव्यादभोजनं मांसं ब्रूह्यभक्ष्यं महामुने
भक्ष्यमाणे च ये देषा अभक्ष्ये तु गुणाश्च ये ।
महामते निबोध त्वं ये दोषा मांसभक्षणे
स्वाजन्याद्व्यभिचाराच्च शुक्रशोणितसंभवात् ।
उद्वेजनीयं भूतानां योगी मांसं विवर्जयेत्
मांसानि च पलाण्डूंश्च मद्यानि विविधानि च ।
गृञ्जनं लशुनं चैव योगी नित्यं विवर्जयेत्
म्रक्षणं वर्जयेत्तैलं शल्यविद्धेषु न स्वपेत् ।
छिद्राच्छिद्रेषु सत्त्वानां यच्च स्थानं महद्भयम्
आहाराज्जायते दर्पः संकल्पो दर्पसंभवः ।
संकल्पजनितो राजस्तस्मादपि न भक्षयेत्
संकल्पाज्जायते रागश्चित्तं रागेण मुह्यते ।
मूढस्य संगतिर्भवति जायते न च मुच्यते
लाभार्थं हन्यते सत्त्वो मांसार्थं दीयते धनम् ।
उभौ तौ पापकर्माणौ पच्येते रौरवादिषु
यो ऽतिक्रम्य मुनेर्वाक्यं मांसं भक्षति दुर्मतिः ।
लोकद्वयविनाशार्थं दीक्षितः शाक्यशासने
ते यान्ति परमं घोरं नरकं पापकर्मिणः ।
रौरवादिषु रौद्रेषु पच्यन्ते मांसखादकाः
त्रिकोटिशुद्धमांसं वै अकल्पितमयाचितम् ।
अचोदितं च नैवास्ति तस्मान्मांसं न भक्षयेत्
मांसं न भक्षयेद्योगी मया बुद्धैश्च गर्हितम् ।
अन्योन्यभक्षणाः सत्त्वाः क्रव्यादकुलसंभवाः
दुर्गन्धिः कुत्सनीयश्च उन्मत्तश्चापि जायते ।
चण्डालपुक्कसकुले डोम्बेषु च पुनः पुनः
डाकिनीजातियोन्याश्च मांसादे जायते कुले ।
राक्षसीमार्जारयोनौ च जायते ऽसौ नरो ऽधमः
हस्तिकक्ष्ये महामेधे निर्वाणाङ्गुलिमालिके ।
लङ्कावतारसूत्रे च मया मांसं विवर्जितम्
बुद्धैश्च बोधिसत्त्वैश्च श्रावकैश्च विगर्हितम् ।
खादते यदि नैर्लज्ज्यादुन्मत्तो जायते सदा
ब्राह्मणेषु च जायेत अथ वा योगिनां कुले ।
प्रज्ञावान् धनवांश्चैव मांसाद्यानां विवर्जनात्
दृष्टश्रुतविशङ्काभिः सर्वं मांसं विवर्जयेत् ।
तार्किका नावबुध्यन्ते क्रव्यादकुलसंभवाः
यथैव रागो मोक्षस्य अन्तरायकरो भवेत् ।
तथैव मांसमद्याद्या अन्तरायकरो भवेत्
वक्ष्यन्त्यनागते काले मांसादा मोहवादिनः ।
कल्पिकं निरवद्यं च मांसं बुद्धानुवर्णितम्
भैषज्यं मांसमाहारं पुत्रमांसोपमं पुनः ।
मात्रया प्रतिकूलं च योगी पिण्डं समाचरेत्
मैत्रीविहारिणां नित्यं सर्वथां गर्हितं मया ।
सिंहव्याघ्रवृकाद्यैश्च सह एकत्र संभवेत्
तस्मान्न भक्षयेन्मांसमुद्वेजनकरं नृणाम् ।
मोक्षधर्मविरुद्धत्वादार्याणामेष वै ध्वजः
मूल पाठ: Saddharmalaṅkāvatārasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1963, (Buddhist Sanskrit Texts, 3) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0