सद्धर्मलङ्कावतारसूत्र · अध्याय 5
इति लङ्कावतारे अभिसमयपरिवर्तश्चतुर्थः ॥
स्तर्त् परिवर्त 5
तथागतनित्यानित्यप्रसङ्गपरिवर्तो नाम पञ्चमः ।
अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत् - किं भगवंस्तथागतो ऽर्हन् सम्यक्संबुद्धो नित्य उताहो ऽनित्यः? भगवानाह - न महामते तथागतो नित्यो नानित्यः । तत्कस्यः हेतोः? यदुत उभयदोषप्रसङ्गात् । उभयथा हि महामते दोषप्रसङ्गः स्यात् । नित्ये सति कारणप्रसङ्गः स्यात् । नित्यानि हि महामते सर्वतीर्थकराणां कारणान्यकृतकानि च । अतो न नित्यस्तथागतो ऽकृतकनित्यत्वात् । अनित्ये सति कृतकप्रसङ्गः स्यात् । स्कन्धलक्ष्यलक्षणाभावात्स्कन्धविनाशादुच्छेदः स्यात् । न चोच्छेदो भवति तथागतः । सर्वं हि महामते कृतकमनित्यं घटपटतृणकाष्ठेष्टकादि । सर्वानित्यत्वप्रसङ्गात् सर्वज्ञज्ञानसंभारवैयर्थ्यं भवेत्कृतकत्वात् । सर्वं हि कृतकं तथागतः स्याद्विशेषहेत्वभावात् । अत एतस्मात्कारणान्महामते न नित्यो नानित्यस्तथागतः ॥
पुनरपि महामते न नित्यस्तथागतः । कस्मात्? आकाशसंभारवैयर्थ्यप्रसङ्गात् । तद्यथा महामते आकाशं न नित्यं नानित्यं नित्यानित्यव्युदासादेकत्वान्यत्वोभयत्वानुभयत्वनित्यानित्यत्वदोषैरवचनीयः ॥
पुनरपरं महामते शशहयखरोष्ट्रमण्डूकसर्पमक्षिकामीनविषाणतुल्यः स्यादनुत्पादनित्यत्वात् । अतो ऽनुत्पादनित्यत्वप्रसङ्गान्न नित्यस्तथागतः ॥
पुनरपरं महामते अस्त्यसौ पर्यायो येन नित्यस्तथागतः । तत्कस्य हेतोः? यदुत अभिसमयाधिगमज्ञाननित्यत्वान्नित्यस्तथागतः । अभिसमयाधिगमज्ञानं हि महामते नित्यं तथागतानामर्हतां सम्यक्संबुद्धानाम् । उत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैवैषा धर्मता धर्मनियामता धर्मस्थितिता सर्वश्रावकप्रत्येकबुद्धतीर्थकराभिसमयेषु । न तु गगने धर्मस्थितिर्भवति । न व बालपृथग्जना अवबुध्यन्ते । अधिगमज्ञानं च महामते तथागतानां प्रज्ञाज्ञानप्रभावितम् । न महामते तथागता अर्हन्तः सम्यक्संबुद्धाश्चित्तमनोमनोविज्ञानस्कन्धधात्वायतनाविद्यावासनाप्रभाविताः । सर्वं हि महामते त्रिभवमभूतविकल्पप्रभवम् । न च तथागता अभूतविकल्पप्रभवाः । द्वये हि सति महामते नित्यता चानित्यता च भवति, नाद्वयात् । द्वयं हि महामते विविक्तमद्वयानुत्पादलक्षणात्सर्वधर्माणाम् । अत एतस्मात्कारणान्महामते तथागता अर्हन्तः सम्यक्संबुद्धा न नित्या नानित्याः । यावन्महामते वाग्विकल्पः प्रवर्तते, तावन्नित्यानित्यदोषः प्रसज्यते । विकल्पबुद्धिक्षयान्महामते नित्यानित्यग्राहो निवार्यते बालानां न तु विविक्तदृष्टिबुद्धिक्षयात् ॥
तत्रेदमुच्यते -
नित्यानित्यविनिर्मुक्तान् नित्यानित्यप्रभावितान् ।
ये पश्यन्ति सदा बुद्धान् न ते दृष्टिवशं गताः
समुदागमवैयर्थ्यं नित्यानित्ये प्रसज्यते ।
विकल्पबुद्धिवैकल्यान्नित्यानित्यं निवार्यते
यावत्प्रतिज्ञा क्रियते तावत्सर्वं ससंकरम् ।
स्वचित्तमात्रं संपश्यन् न विवादं समारभेत्
मूल पाठ: Saddharmalaṅkāvatārasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1963, (Buddhist Sanskrit Texts, 3) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0