भाषा

ENहिગુ
ग्रंथ पाठ

सद्धर्मलङ्कावतारसूत्र · अध्याय 4

4.1

इति लङ्कावतारे महायानसूत्रे अनित्यतापरिवर्तस्तृतीयः ॥
स्तर्त् परिवर्त 4
अभिसमयपरिवर्तो नाम चतुर्थः ।
अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत् - देशयतु मे भगवान् सर्वबोधिसत्त्वश्रावकप्रत्येकबुद्धनिरोधक्रमानुसंधिलक्षणकौशल्यं येन क्रमानुसंधिलक्षणकौशल्येन अहं च अन्ये च बोधिसत्त्वा महासत्त्वा निरोधसुखसमापत्तिमुखेन न प्रतिमुह्येम, न च श्रावकप्रत्येकबुद्धतीर्थ्यकरव्यामोहे प्रपतेम । भगवानाह - तेन महामते शृणु, साधु च सुष्ठु च मनसिकुरु । भाषिष्ये ऽहं ते । साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत् ॥
भगवांस्तस्यैतदवोचत् - षष्ठीं महामते भूमिमुपादाय बोधिसत्त्वा महासत्त्वाः सर्वश्रावकप्रत्येकबुद्धाश्च निरोधं समापद्यन्ते । सप्तम्यां भूमौ पुनश्चित्तक्षणे चित्तक्षणे बोधिसत्त्वा महासत्त्वाः सर्वभावस्वभावलक्षणव्युदासात्समापद्यन्ते, न तु श्रावकप्रत्येकबुद्धाः । तेषां हि श्रावकप्रत्येकबुद्धानामाभिसंस्कारिकी ग्राह्यग्राहकलक्षणपतिता च निरोधसमापत्तिः । अतस्ते सप्तम्यां भूमौ चित्तक्षणे चित्तक्षणे समापद्यन्ते - मा सर्वधर्माणामविशेषलक्षणप्राप्तिः स्यादिति । विचित्रलक्षणाभावश्च । कुशलाकुशलस्वभावलक्षणानवबोधात्सर्वधर्माणां समापत्तिर्भवति । अतः सप्तम्यां भूमौ चित्तक्षणे चित्तक्षणे समापत्तिकौशल्यं नास्ति येन समापद्येरन् ॥
अष्टम्यां महामते भूमौ बोधिसत्त्वानां महासत्त्वानां श्रावकप्रत्येकबुद्धानां च चित्तमनोमनोविज्ञानविकल्पसंज्ञाव्यावृत्तिर्भवति । प्रथमषष्ठ्यां भूमौ चित्तमनोमनोविज्ञानमात्रं त्रैधातुकं समनुपश्यति आत्मात्मीयविगतं स्वचित्तविकल्पोद्भवम्, न च बाह्यभावलक्षणवैचित्र्यपतितमन्यत्र स्वचित्तमेव । द्विधा बालानां ग्राह्यग्राहकभावेन परिणाम्य स्वज्ञानं न चावबोध्यन्ते अनादिकालदौष्ठुल्यविकल्पप्रपञ्चवासनावासिताः ॥
अष्टम्यां महामते निर्वाणं श्रावकप्रत्येकबुद्धबोधिसत्त्वानाम् । बोधिसत्त्वाश्च समाधिबुद्धैर्विधार्यन्ते तस्मात्समाधिसुखाद्, येन न परिनिर्वान्ति अपरिपूर्णत्वात्तथागतभूमेः । सर्वकार्यप्रतिप्रस्रम्भणं च स्यात्, यदि न संघारयेत्, तथागतकुलवंशोच्छेदश्च स्यात् । अचिन्त्यबुद्धमाहात्म्यं च देशयन्ति ते बुद्धा भगवन्तः । अतो न परिनिर्वान्ति । श्रावकप्रत्येकबुद्धास्तु समाधिसुखेनापह्रियन्ते । अतस्तेषां तत्र परिनिर्वाणबुद्धिर्भवति ॥
सप्तसु महामते भूमिषु चित्तमनोमनोविज्ञानलक्षणपरिचयकौशल्यात्मात्मीयग्राह्यग्राहधर्मपुद्गलनैरात्म्यप्रवृत्तिनिवृत्तिस्वसामान्य - लक्षणपरिचयचतुःप्रतिसंविद्विनिश्चयकौशल्यवशितास्वादसुखभूमिक्रमानुप्रवेशबोधिपाक्षिकधर्मविभागः क्रियते मया - मा बोधिसत्त्वा महासत्त्वाः स्वसामान्यलक्षणानवबोधाद्भूमिक्रमानुसंध्यकुशलास्तीर्थकरकुदृष्टिमार्गे प्रपतेयुः, इत्यतो भूमिक्रमव्यवस्था क्रियते । न तु महामते अत्र कश्चित्प्रवर्तते वा निवर्तते वा अन्यत्र स्वचितदृश्यमात्रमिदं यदुत भूमिक्रमानुसंधिस्त्रैधातुकविचित्रोपचारश्च । न च बाला अवबुध्यन्ते । अनवबोधाद्बालानां भूमिक्रमानुसंधिव्यपदेशं त्रैधातुकविचित्रोपचारश्च व्यवस्थाप्यते बुद्धधर्मालया च ॥
पुनरपरं महामते श्रावकप्रत्येकबुद्धा अष्टम्यां बोधिसत्त्वभूमौ निरोधसमापत्तिसुखमदमत्ताः स्वचित्तदृश्यमात्राकुशलाः स्वसामान्यलक्षणावरणवासनापुद्गलधर्मनैरात्म्यग्राहकदृष्टिपतिता विकल्पनिर्वाणमतिबुद्धयो भवन्ति, न विविक्तधर्ममतिबुद्धयः । बोधिसत्त्वाः पुनर्महामते निरोधसमाधिसुखमुखं दृष्ट्वा पूर्वप्रणिधानकृपाकरुणोपेता निष्ठपदगतिविभागज्ञा न परिनिर्वान्ति । परिनिर्वृताश्च ते विकल्पस्याप्रवृत्तत्वात् । ग्राह्यग्राहकविकल्पस्तेषां विनिवृत्तः । स्वचित्तदृश्यमात्रावबोधात् सर्वधर्माणां विकल्पो न प्रवर्तते । चित्तमनोमनोविज्ञानबाह्यभावस्वभावलक्षणाभिनिवेशं विकल्पयति । तेन पुनर्बुद्धधर्महेतुर्न प्रवर्तते, ज्ञानपूर्वकः प्रवर्तते तथागतस्वप्रत्यात्मभूम्यधिगमनतया स्वप्नपुरुषौघोत्तरणवत् ॥
तद्यथा पुनर्महामते कश्चिच्छयितः स्वप्नान्तरे महाव्यायामौत्सुक्येन महौघादात्मानमुत्तारयेत् । स चानुत्तीर्ण एव प्रतिबुध्येत । प्रतिबुद्धश्च सन्नेवमुपपरीक्षेत - किमिदं सत्यमुत मिथ्येति । स एवं समनुपश्येत् - नेदं सत्यं न मिथ्या अन्यत्र दृष्टश्रुतमतविज्ञातानुभूतविकल्पवासनाविचित्ररूपसंस्थानानादिकालविकल्पपतिता नास्त्यस्तिदृष्टिविकल्पपरिवर्जिता मनोविज्ञानानुभूताः स्वप्ने दृश्यन्ते । एवमेव महामते बोधिसत्त्वा महासत्त्वा अष्टम्यां बोधिसत्त्वभूमौ विकल्पस्याप्रवृत्तिं दृष्ट्वा प्रथमसप्तमीभूमिसंचारात्सर्वधर्माभिसमयान्मायादिधर्मसमतया सर्वधर्मौत्सुक्यग्राह्यग्राहकविकल्पोपरतं चित्तचैतसिकविकल्पप्रसरं दृष्ट्वा बुद्धधर्मेषु प्रयुज्यन्ते । अनधिगतानामधिगमाय प्रयोग एष महामते निर्वाणं बोधिसत्त्वानां न विनाशः चित्तमनोमनोविज्ञानविकल्पसंज्ञाविगमाच्च अनुत्पत्तिकधर्मक्षान्तिप्रतिलम्भो भवति । न चात्र महामते परमार्थे क्रमो न क्रमानुसंधिर्निराभासविकल्पविविक्तधर्मोपदेशात् ॥
तत्रेदमुच्यते -
चित्तमात्रे निराभासे विहारा बुद्धभूमि च ।
एतद्धि भाषितं बुद्धैर्भाषन्ते भाषयन्ति च

4.2

चित्तं हि भूमयः सप्त निराभासा त्विहाष्टमी ।
द्वे हि भूमी विहारो ऽत्र शेषा भूमिर्ममात्मिका

4.3

प्रत्यात्मवेद्या शुद्धा च भूमिरेषा ममात्मिका ।
माहेश्वरं परं स्थानमकनिष्ठो विराजते

4.4

हुताशनस्य हि यथा निश्चेरुस्तस्य रश्मयः ।
चित्रा मनोहराः सौम्यास्त्रिभवं निर्मिणन्ति ते

4.5

निर्माय त्रिभवं किंचित्किंचिद्वै पूर्वनिर्मितम् ।
तत्र देशेमि यानानि एषा भूमिर्ममात्मिका

4.6

दशमी तु भवेत्प्रथमा प्रथमा चाष्टमी भवेत् ।
नवमी सप्तमी चापि सप्तमी चाष्टमी भवेत्

4.7

द्वितीया च तृतीया स्याच्चतुर्थी पञ्चमी भवेत् ।
तृतीया च भवेत्षष्ठी निराभासे क्रमः कुतः

मूल पाठ: Saddharmalaṅkāvatārasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1963, (Buddhist Sanskrit Texts, 3) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc