सद्धर्मलङ्कावतारसूत्र · अध्याय 3
इति लङ्कावतारे षट्त्रिंशत्साहस्रसर्वधर्मसमुच्चयो नाम द्वितीयः परिवर्तः ॥
स्तर्त् परिवर्त 3
अनित्यतापरिवर्तो नाम तृतीयः ।
अथ खलु भगवान् पुनरपि महामतिं बोधिसत्त्वं महासत्त्वमेतदवोचत् - मनोमयकायगतिप्रभेदनयलक्षणं महामते उपदेक्ष्यामि । तच्छृणु, साधु च सुष्ठु च मनसिकुरु । भाषिष्ये ऽहं ते । साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत् । भगवांस्तस्यैतदवोचत् - त्रिप्रकारो महामते कायो मनोमयः । कतमस्त्रिप्रकारः? यदुत समाधिसुखसमापत्तिमनोमयो धर्मस्वभावावबोधमनोमयो निकायसहजसंस्कारक्रियामनोमयश्च । प्रथमोत्तरोत्तरभूमिलक्षणपरिज्ञानादधिगच्छन्ति योगिनः । तत्र कतमो महामते समाधिसुखसमापत्तिमनोमयः कायः? यदुत त्रिचतुर्थपञ्चम्यां भूमौ स्वचित्तविविधविवेकविहारेणचित्तोदधिप्रवृत्तितरंगविज्ञानलक्षणसुखसमापत्तिमनसो ऽप्रवृत्तिः स्वचित्तदृश्यविषयाभावाभावपरिज्ञानान्मनसो मनोमयः काय इत्युच्यते । तत्र धर्मस्वभावावबोधमनोमयः कायः कतमः? यदुत अष्टम्यां भूमौ मायादिधर्मनिराभासप्रविचयावबोधेन चित्ताश्रयपरावृत्तस्य मायोपमसमाधिप्रतिलम्भादन्येषां च समाधिमुखानां प्रतिलम्भादनेकलक्षणवशिताभिज्ञाकुसुमितं मनोजवसदृशं मायास्वप्नबिम्बप्रख्यमभौतिकं भूतभौतिकसदृशं सर्वरूपविचिअत्राङ्गसमुदितं सर्वबुद्धक्षेत्रपर्षन्मण्डलानुगतं कायं धर्मस्वभावगतिंगतत्वान्मनोमय इत्युच्यते । तत्र निकायसहजसंस्कारक्रियामनोमयः कायः कतमः? यदुत सर्वबुद्धधर्मप्रत्यात्माधिगमसुखलक्षणावबोधान्निकायसहजसंस्कारक्रियामनोमय इत्युच्यते । अत्र ते महामते कायत्रयलक्षणप्रविचयावबोधे योगः करणीयः ॥
तत्रेदमुच्यते -
न मे यानं महायानं न घोषो न च अक्षराः ।
न सत्या न विमोक्षा वै न निराभासगोचरम्
किं तु यानं महायानं समाधिवशवर्तिता ।
कायो मनोमयश्चित्रो वशितापुष्पमण्डितः
अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत् - पञ्चानन्तर्याणि भगवता निर्दिष्टानि । कतमानि तानि भगवन् पञ्चानन्तर्याणि यान्यध्यापद्य कुलपुत्रो वा कुलदुहिता वा अवीचिको भवति? भगवानाह - तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु । भाषिष्ये ऽहं ते । साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत् । भगवानेतदवोचत् - तत्र महामते पञ्चानन्तर्याणि कतमानि? यदुत मातृपित्रर्हद्वधसंघभेदास्तथागतकाये दुष्टचित्तरुधिरोत्पादश्च ॥
तत्र महामते माता कतमा सत्त्वानाम्? यदुत तृष्णा पौनर्भविकी नन्दीरागसहगता मातृत्वेनोत्तिष्ठते । अविद्या पितृत्वेनायतनग्रामस्योत्पत्तये । अनयोरुभयोर्मातापित्रोरत्यन्तमूलोपच्छेदान्मातृपितृवधो ( वैद्य 57 ) भवति । तत्र अनुशयानामरिप्रख्याणां मूषिकाविषवत्प्रकोपधर्मिणामत्यन्तसमुद्धातादर्हद्वधो भवति । तत्र संधभेदः कतमः? यदुत भिन्नान्योन्यलक्षणस्य स्कन्धसंघातस्यात्यन्तमूलोपघातात्संघभेद इत्युच्यते । स्वसामान्यबाह्यस्वचित्तदृश्यमात्रावबोधकानां महामते अष्टानां विज्ञानकायानां विमोक्षत्रयानास्रवदुष्टविकल्पेनात्यन्तोपघाताद्विज्ञानबुद्धस्य दुष्टचित्तरुधिरोत्पादनादानन्तर्यकारीत्युच्यते । एतानि महामते आध्यात्मिकानि पञ्चानन्तर्याणि यान्यध्यापद्य कुलपुत्रो वा कुलदुहिता वा आनन्तर्यकारी भवत्यभिसमितधर्मः ॥
पुनरपरं महामते बाह्यानि ते आनन्तर्याण्युपदेक्ष्यामि, यैरुपदिष्टैस्त्वं च अन्ये च बोधिसत्त्वा अनागते ऽध्वनि संमोहं न गमिष्यन्ति । तत्र कतमानि तानि? यदुत यानि देशनापाठे ऽनुसंवर्णितान्यानन्तर्याणि, यान्यध्यापद्य तिसॄणां विमुक्तीनामन्यतरान्यतरस्यां नाभिसमेता भवन्ति अन्यत्र निर्मिताधिष्ठानाभिसमयात् । निर्मिताधिष्ठानश्रावको हि महामते बोधिसत्त्वाधिष्ठानेन वा तथागताधिष्ठानेन वा । यस्य कस्यचिदन्यस्यानन्तर्यकारिणः कौकृत्यं तस्य कौकृत्यदृष्टिविनिवर्तनार्थं निक्षिप्तधुरस्य कौकृत्यदृष्ट्यभावार्थम् । पुनरपि प्रोत्साहनां करिष्यत इति कृत्वा निर्मिताधिष्ठानाभिसमयः प्रदर्श्यते मया । नास्त्येकान्तेन महामते आनन्तर्यकारिणो ऽभिसमयः अन्यत्र स्वचित्तदृश्यभावनामात्रतावबोधाद्देहभोगप्रतिष्ठागतिविकल्पात्मात्मीयग्राहविविक्तदर्शनात्कदा - चित्कर्हिचित्कल्याणमित्रमासाद्य अन्यगतिसंधौ स्वविकल्पदोषैर्विमुच्यते ॥
तत्रेदमुच्यते -
तृष्णा हि माता इत्युक्ता अविद्या च पिता तथा ।
विषयावबोधाद्विज्ञानं बुद्ध इत्युपदिश्यते
अर्हन्तो ह्यनुशयाः पञ्च संघाः स्कन्धकदम्बकः ।
निरन्तरान्तरच्छेदात्कर्मस्यानन्तरं भवेत्
पुनरपि महामतिराह - देशयतु मे भगवान् बुद्धानां भगवतां कथं भगवन् बुद्धानां बुद्धता भवति? भगवानाह - धर्मपुद्गलनैरात्म्यावबोधान्महामते आवरणद्वयपरिज्ञानावबोधाच्च च्युतिद्वयाधिगमात्क्लेशद्वयप्रहाणाच्च महामते बुद्धानां भगवतां बुद्धता भवति । एतेषामेव महामते धर्माणामधिगमाच्छ्रावकप्रत्येकबुद्धसंबुद्धता भवति । अत एतस्मान्महामते एकयानं देशयामि ॥
तत्रेदमुच्यते -
नैरात्म्यस्य द्वयं क्लेशास्तथैवावरणद्वयम् ।
अचिन्त्यपरिणामिन्याश्च्युतेर्लाभात्तथागतः
अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत् - किं संधाय भगवता पर्षन्मध्यगतेन वाग्भाषिता - अहमेव सर्वबुद्धा ये ऽतीता जातकोपपत्तिवैचित्र्यं च । अहमेव च तेन कालेन तेन समयेन राजा मांधाता । गजः शुक इन्द्रो व्यासः सुनेत्रः, ( वैद्य 58 ) इत्येवमाद्यानि भगवता जातकशतसहस्राण्युपदिष्टानि? भगवानाह - चतुर्विधां समतां संघाय महामते तथागता अर्हन्तः सम्यक्संबुद्धाः पर्षन्मध्यगता वाचं निश्चारयन्ति यदुत अहमेव तेन कालेन तेन समयेन क्रकुच्छन्दः कनकमुनिः काश्यपश्चाभवम् । कतमां चतुर्विधसमतां संधाय? यदुत अक्षरसमतां वाक्समतां धर्मसमतां कायसमतां च । इमां महामते चतुर्विधां समतां संघाय तथागता अर्हन्तः सम्यक्संबुद्धाः पर्षन्मध्यगता वाचं निश्चारयन्ति । तत्र महामते कतमा अक्षरसमता? यदुत यैरक्षरैर्मम नाम बुद्ध इति, तैरेवाक्षरैस्तेषां बुद्धानां भगवतां तान्यक्षराणि महामते निर्विशिष्टान्यक्षराण्यक्षरस्वभावत्वेन । इयं महामते अक्षरसमता । तत्र महामते कतमा वाक्समता तथागतानामर्हता सम्यक्संबुद्धानाम्? यदुत ममापि चतुष्षष्ट्याकारो ब्रह्मस्वररुतघोषवाग्विकल्पः प्रवर्तते, तेषामपि महामते तथागतानामर्हतां सम्यक्संबुद्धानामेवमेव चतुष्षष्ट्याकारो ब्रह्मस्वररुतघोषो वाग्विकल्पः प्रवर्तते ऽनूनानधिका निर्विशिष्टाः कलविङ्कब्रह्मस्वररुतघोषस्वभावेन । तत्र कतमा कायसमता? यदुत अहं च ते च तथागता अर्हन्तः सम्यक्संबुद्धा धर्मकायेन च रूपलक्षणानुव्यञ्जनकायेन च समा निर्विशिष्टा अन्यत्र वैनेयवशमुपादाय । तत्र तत्र सत्त्वगतिविशेषेण तथागता रूपवैचित्र्यमादर्शयन्ति । तत्र धर्मसमता महामते कतमा? यदुत ते च अहं च सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणामधिगन्तारः । इमां महामते चतुर्विधां समतां संधाय तथागता अर्हन्तः सम्यक्संबुद्धाः पर्षन्मध्यगता वाचं निश्चारयन्ति ॥
तत्रेदमुच्यते -
काश्यपः क्रकुछन्दश्च कोनाकमुनिरप्यहम् ।
भाषामि जिनपुत्राणां समतायां समुद्गतः
पुनरपि महामतिराह - यदिदमुक्तं भगवता - यां च रात्रिं तथागतो ऽभिसंबुद्धो यां च रात्रिं परिनिर्वास्यति, अत्रान्तरे एकमप्यक्षरं तथागतेन नोदाहृतम्, न प्रव्याहरिष्यति, अवचनं बुद्धवचनमिति, तत्किमिदं संधायोक्तं तथागतेनार्हता सम्यक्संबुद्धेन अवचनं बुद्धवचनमिति? भगवानाह - धर्मद्वयं महामते संधाय मयैतदुक्तम् । कतमद्धर्मद्वयम्? यदुत प्रत्यात्मधर्मतां च संधाय पौराणस्थितिधर्मतां च । इदं महामते धर्मद्वयं संधायेदमुक्तं मया । तत्र स्वप्रत्यात्मधर्मतानुसंधिः कतमः? यत्तैस्तथागतैरधिगतं तन्मयाप्यधिगतमनूनमनधिकं स्वप्रत्यात्मगतिगोचरं वाग्विकल्परहितमक्षरगतिद्वयविनिर्मुक्तम् । तत्र पौराणस्थितिधर्मता कतमा? यदुत पौराणमिदं महामते धर्मतावन्मे हिरण्यरजतमुक्ताकरवन्महामते धर्मधातुस्थितिता - उत्पादाद्वा तथागतानामनुत्पादाद्वा तथागतानां स्थितैवैषां धर्माणां धर्मता धर्मस्थितिता धर्मनियामता । पौराणनगरपथवन्महामते । तद्यथा महामते कश्चिदेव पुरुषो ऽटव्यां पर्यटन् पौराणं नगरमनुपश्येदविकलपथप्रवेशम् । स तं नगरमनुप्रविशेत् । तत्र प्रविश्य प्रतिनिविश्य ( वैद्य 59 ) नगरं नगरक्रियासुखमनुभवेत् । तत्किं मन्यसे महामते अपि नु तेन पुरुषेण स पन्था उत्पादितो येन पथा तं नगरमनुप्रविष्टो नगरवैचित्र्यं च (अनुभूतम्)? आह - नो भगवन् । भगवानाह - एवमेव महामते यन्मया तैश्च तथागतैरधिगतम् - स्थितैवैषा धर्मता धर्मस्थितिता धर्मनियामता तथता भूतता सत्यता । अत एतस्मात्कारणान्महामते मयेदमुक्तम् - यां च रात्रिं तथागतो ऽभिसंबुद्धो यां च रात्रिं परिनिर्वास्यति, अत्रान्तरे एकमप्यक्षरं तथागतेन नोदाहृतं नोदाहरिष्यति ॥
तत्रेदमुच्यते -
यस्यां च रात्र्यां धिगमो यस्यां च परिनिर्वृतः ।
एतस्मिन्नन्तरे नास्ति मया किंचित्प्रकाशितम्
प्रत्यात्मधर्मस्थितितां संधाय कथितं मया ।
तैश्च बुद्धैर्मया चैव न च किंचिद्विशेषितम्
अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमध्येषते स्म - देशयतु मे भगवान्नास्त्यस्तित्वलक्षणं सर्वधर्माणां यथा अहं च अन्ये च बोधिसत्त्वा महासत्त्वा नास्त्यस्तित्ववर्जिताः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्येरन् । भगवानाह - तेन हि महामते शृणु, साधु च सुष्ठु च मनसि कुरु । भाषिष्ये ऽहं ते । साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत् । भगवानेतदवोचत् - द्वयनिश्रितो ऽयं महामते लोको यदुत अस्तित्वनिश्रितश्च नास्तित्वनिश्रितश्च । भावाभावच्छन्ददृष्टिपतितश्च अनिःशरणे निःशरणबुद्धिः । तत्र महामते कथमस्तित्वनिश्रितो लोकः? यदुत विद्यमानैर्हेतुप्रत्ययैर्लोक उत्पद्यते नाविद्यमानैः, विद्यमानं चोत्पद्यमानमुत्पद्यते नाविद्यमानम् । स चैवं ब्रुवन् महामते भावानामस्तित्वहेतुप्रत्ययानां लोकस्य च हेत्वस्तिवादी भवति । तत्र महामते कथं नास्तित्वनिश्रितो भवति? यदुत रागद्वेषमोहाभ्युपगमं कृत्वा पुनरपि रागद्वेषमोहभावाभावं विकल्पयति । यश्च महामते भावानामस्तित्वं नाभ्युपैति भावलक्षणविविक्तत्वात्, यश्च बुद्धश्रावकप्रत्येकबुद्धानां रागद्वेषमोहान्नाभ्युपैति भावलक्षणविनिर्मुक्तत्वाद्विद्यन्ते नेति । कतमो ऽत्र महामते वैनाशिको भवति? महामतिराह - य एष भगवन् अभ्युपगम्य रागद्वेषमोहान् न पुनरभ्युपैति । भगवानाह - साधु साधु महामते, साधु खलु पुनस्त्वं महामते, यस्त्वमेवं प्रभाषितः । केवलं महामते न रागद्वेषमोहभावाभावाद्वैनाशिको भवति । बुद्धश्रावकप्रत्येकबुद्धवैनाशिको ऽपि भवति । तत्कस्य हेतोः? यदुत अध्यात्मबहिर्धानुपलब्धित्वाच्च क्लेशानाम् । न हि महामते रागद्वेषमोहा अध्यात्मबहिर्धोपलभ्यन्ते ऽशरीरत्वात् । अनभ्युपगमत्वाच्च महामते रागद्वेषमोहाभावानां बुद्धश्रावकप्रत्येकबुद्धवैनाशिको भवति । प्रकृतिविमुक्तास्ते बुद्धश्रावकप्रत्येकबुद्धा बन्ध्यबन्धहेत्वभावात् । बन्ध्ये सति महामते बन्धो भवति बन्धहेतुश्च । एवमपि ब्रुवन् महामते वैनाशिको भवति । इदं महामते नास्त्यस्तित्वस्य लक्षणम् । इदं च महामते संधायोक्तं मया - वरं खलु सुमेरुमात्रा
पुद्गलदृष्टिर्न त्वेव नास्त्यस्तित्वाभिमानिकस्य शून्यतादृष्टिः । नास्त्यस्तित्वाभिमानिको हि महामते वैनाशिको ( वैद्य 60 ) भवति । स्वसामान्यलक्षणदृष्टिपतिताशयः स्वचित्तदृश्यमात्राभावान्न प्रतिजानन्, अप्रतिज्ञानाद्बाह्यभावान्नित्यदर्शनात्क्षणपरंपराभेदभिन्नानि स्कन्धधात्वायतनानि संततिप्रबन्धेन विनिवृत्य विनिवर्तन्त इति कल्पाक्षररहितानि प्रतिविकल्पयन् पुनरपि वैनाशिको भवति ॥
तत्रेदमुच्यते -
अस्तिनास्तीत्युभावन्तौ यावच्चित्तस्य गोचरः ।
गोचरेण निरुद्धेन सम्यक्चित्तं निरुध्यते
विषये ग्रहणाभावान्निरोधो न च नास्ति च ।
विद्यते तथतावस्तु आर्याणां गोचरो यथा
अभूत्वा यस्य उत्पादो भूत्वा वापि विनश्यति ।
प्रत्ययैः सदसच्चापि न ते मे शासने स्थिताः
न तीर्थकैर्न बुद्धैश्च न मया न च केनचित् ।
प्रत्ययैः साध्यते ऽस्तित्वं कथं नास्ति भविष्यति
केन प्रसाधितास्तित्वं प्रत्ययैर्यस्य नास्तिता ।
उत्पादवाददुर्दृष्ट्या नास्त्यस्तीति विकल्प्यते
यस्य नोत्पद्यते किंचिन्न च किंचिन्निरुध्यते ।
तस्यास्तिनास्ति नोपैति विविक्तं पश्यतो जगत्
अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमध्येषते - देशयतु मे भगवान्, देशयतु मे सुगतः, देशयतु मे तथागतो ऽर्हन् सम्यक्संबुद्धो वदतां वरिष्ठः सिद्धान्तनयलक्षणम्, येन सिद्धान्तनयलक्षणेन सुप्रतिविभागविद्धेन अहं च अन्ये च बोधिसत्त्वा महासत्त्वाः सिद्धान्तनयलक्षणगतिंगताः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते, अपरप्रणेयाश्च भविष्यन्ति सर्वतार्किकतीर्थकराणाम् । भगवानाह - तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु । भाषिष्ये ऽहं ते । साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत् । भगवांस्तस्यैतदवोचत् - द्विविधं महामते सिद्धान्तनयलक्षणं सर्वश्रावकप्रत्येकबुद्धबोधिसत्त्वानां यदुत सिद्धान्तनयश्च देशनानयश्च । तत्र सिद्धान्तनयो महामते यदुत प्रत्यात्माधिगमविशेषलक्षणं वाग्विकल्पाक्षररहितमनास्रवधातुगतिप्रापकं प्रत्यात्मगतिभूमिगतिस्वलक्षणं सर्वतर्कतीर्थ्यमारवर्जितम् । विनिहत्य च तांस्तीर्थ्यमारान् प्रत्यात्मगतिर्विराजते । एतन्महामते सिद्धान्तनयलक्षणम् । तत्र देशनानयः कतमः? यदुत नवाङ्गशासनविचित्रोपदेशो ऽन्यानन्यसदसत्पक्षवर्जितः उपायकुशलविधिपूर्वकः सत्त्वेषु दर्शनावतारः । यद्येनाधिमुच्यते तत्तस्य देशयेत् । एतन्महामते देशनानयलक्षणम् । अत्र महामते त्वया अन्यैश्च बोधिसत्त्वैर्महासत्त्वैर्योगः करणीयः ॥
तत्रेदमुच्यते -
सिद्धान्तश्च नयश्चापि प्रत्यात्मशासनं च वै ।
ये पश्यन्ति विभागज्ञा न ते तर्कवशं गताः
न भावो विद्यते सत्यं यथा बालैर्विकल्प्यते ।
अभावेन तु वै मोक्षं कथं नेच्छन्ति तार्किकाः
उत्पादभङ्गसंबद्धं संस्कृतं प्रतिपश्यतः ।
दृष्टिद्वयं प्रपुष्णन्ति न पश्यन्ति विपर्ययात्
एकमेव भवेत्सत्यं निर्वाणं मनवर्जितम् ।
कदलीस्कन्धमायाभं लोकं पश्येद्विकल्पितम्
रागो न विद्यते द्वेषो मोहश्चापि न पुद्गलः ।
तृष्णाया ह्युदिताः स्कन्धा विद्यन्ते स्वप्नसादृशाः
अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमध्येषते स्म - देशयतु मे भगवान्, देशयतु मे सुगतः अभूतपरिकल्पस्य लक्षणम् । कथं किं केन कस्य भगवन् अभूतपरिकल्पः प्रवर्तमानः प्रवर्तते? अभूतपरिकल्पो ऽभूतपरिकल्प इति भगवन्नुच्यते । कतमस्यैतद्भगवन् धर्मस्याधिवचनं यदुत अभूतपरिकल्प इति? किं वा प्रतिविकल्पयन् अभूतपरिकल्पो भवति? भगवानाह - साधु साधु महामते । साधु खलु पुनस्त्वं महामते, यत्त्वमेतमर्थमध्येषितव्यं मन्यसे । बहुजनहिताय त्वं महामते प्रतिपन्नो बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च । तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु । भाषिष्ये ऽहं ते । साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत् । भगवांस्तस्यैतदवोचत् - अर्थविविधवैचित्र्याभूतपरिकल्पाभिनिवेशान्महामते विकल्पः प्रवर्तमानः प्रवर्तते । नृणां ग्राह्यग्राहकाभिनिवेशाभिनिविष्टानां च महामते स्वचित्तदृश्यमात्रानवधारितमतीनां च सदसद्दृष्टिपक्षपतितानां च महामते तीर्थकरदृष्टिप्रतिविकल्पवासनाप्रतिपुष्टानां बाह्यविचित्रार्थोपलम्भाभिनिवेशाच्चित्तचैत्तकलापो विकल्पसंशब्दितः प्रवर्तमानः प्रवर्तते आत्मात्मीयाभिनिवेशात् । महामतिराहतद्यदि भगवन्नर्थविविधवैचित्र्याभूतपरिकल्पाभिनिवेशान्नृणां विकल्पः प्रवर्तमानः प्रवर्तते सदसद्दृष्टिपक्षपतितानां ग्राह्यग्राहकतीर्थकरदृष्टिप्रतिविकल्पपुष्टानां बाह्यविचित्रार्थोपलम्भाभिनिवेशाच्चित्तचैत्तकलापो विकल्पसंशब्दितः स्वचित्तदृश्यमात्रानवबोधात्सन्तासन्तविचित्रभावाभिनिवेशात्प्रवर्तमानः प्रवर्तते । तद्यथैव भगवन् बाह्यार्थविचित्रलक्षणः सदसत्पक्षपतितलक्षणो भावाभावविविक्तो दृष्टिलक्षणविनिवृत्तः, तथैव भगवन् परमार्थप्रमाणेन्द्रियावयवदृष्टान्तहेतुलक्षणविनिवृत्तः । तत्कथं भगवन्नेकत्र विचित्रविकल्पो ऽभूतार्थविचित्रभावाभिनिवेशं प्रतिविकल्पयन् प्रवर्तते, न पुनः परमार्थलक्षणाभिनिवेशं प्रतिविकल्पयन् प्रवर्तते विकल्पः? ननु भगवन् विषमहेतुवादस्तव
प्रसज्यते एकत्र प्रवर्तते एकत्र नेति ब्रुवतः, सदसत्पक्षाश्रयाभिनिवेशश्च अभूतप्रतिविकल्पदृष्टिप्रवृत्तिं ब्रुवतो विविधमायाङ्गपुरुषवैचित्र्यान्निष्पन्नैकरूपवत्प्रतिविकल्पयन् विकल्पेन लक्षणवैचित्र्यभावाभावं च विकल्पस्य विनिवृत्तेर्लोकायतिकदृष्ट्याशयपतितश्च । ( वैद्य 62 ) भगवानाह - न हि महामते विकल्पः प्रवर्तते निवर्तते वा । तत्कस्य हेतोः? यदुत सदसतो विकल्पस्याप्रवृत्तित्वाद्बाह्यदृश्यभावाभावात्स्वचित्तदृश्यमात्रावबोधान्महामते विकल्पो न प्रवर्तते न निवर्तते । अन्यत्र महामते बालानां स्वचित्तवैचित्र्यविकल्पकल्पितत्वात् । क्रियाप्रवृत्तिपूर्वको विकल्पो वैचित्र्यभावलक्षणाभिनिवेशात्प्रवर्तत इति वदामि । कथं खलु महामते बालपृथग्जनाः स्वविकल्पचित्तमात्रावबोधादात्मात्मीयाभिविनिवृत्तदृष्टयः कार्यकारणप्रत्ययविनिवृत्तदोषाः स्वचित्तमात्रावबोधात्परावृत्तचित्ताश्रयाः सर्वासु भूमिषु कृतविद्यास्तथागतस्वप्रत्यात्मगतिगोचरं पञ्चधर्मस्वभाववस्तुदृष्टिविकल्पविनिवृत्तिं प्रतिलभेरन्? अत एतस्मात्कारणान्महामते इदमुच्यते मया - विकल्पो ऽभूतार्थवैचित्र्यादभिनिवेशात्प्रवर्तते, स्वविकल्पवैचित्र्यार्थयथाभूतार्थपरिज्ञानाद्विमुच्यत इति ॥
तत्रेदमुच्यते -
कारणैः प्रत्ययैश्चापि येषां लोकः प्रवर्तते ।
चातुष्कोटिकया युक्ता न ते मन्नयकोविदाः
असन्न जायते लोको न सन्न सदसन् क्वचित् ।
प्रत्ययैः कारणैश्चापि यथा बालैर्विकल्प्यते
न सन्नासन्न सदसद्यदा लोकं प्रपश्यति ।
तदा व्यावर्तते चित्तं नैरात्म्यं चाधिगच्छति
अनुत्पन्नाः सर्वभावा यस्मात्प्रत्ययसंभवाः ।
कार्यं हि प्रत्ययाः सर्वे न कार्याज्जायते भवः
कार्यान्न जायते कार्यं द्वित्वं कार्ये प्रसज्यते ।
न च द्वित्वप्रसङ्गेन कार्याद्भावोपलभ्यते
आलम्बालम्ब्यविगतं यदा पश्यति संस्कृतम् ।
निश्चितं चित्तमात्रं हि चित्तमात्रं वदाम्यहम्
मात्रा स्वभावसंस्थानं प्रत्ययैर्भाववर्जितम् ।
निष्ठाभावः परं ब्रह्म एतां मात्रां वदाम्यहम्
प्रज्ञप्तिसत्यतो ह्यात्मा द्रव्यसन्न हि विद्यते ।
स्कन्धानां स्कन्धता तद्वत्प्रज्ञप्त्या न तु द्रव्यतः
चतुर्विधा वै समता लक्षणं हेतुभावजम् ।
नैरात्म्यसमता चैव चतुर्थं योगयोगिनाम्
व्यावृत्तिः सर्वदृष्टीनां कल्प्यकल्पनवर्जिता ।
अनुपलम्भो ह्यजातिश्च चित्तमात्रं वदाम्यहम्
न भावं नापि चाभावं भावाभावविवर्जितम् ।
तथता चित्तविनिर्मुक्तं चित्तमात्रं वदाम्यहम्
तथताशून्यताकोटि निर्वाणं धर्मधातुकम् ।
कायं मनोमयं चित्रं चित्तमात्रं वदाम्यहम्
विकल्पवासनाबद्धं विचित्रं चित्तसंभवम् ।
बहिराख्यायते नृणां चित्तमात्रं हि लौकिकम्
दृश्यं न विद्यते बाह्यं चित्तं चित्रं हि दृश्यते ।
देहभोगप्रतिष्ठानं चित्तमात्रं वदाम्यहम्
अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - यत्पुनरेतदुक्तं भगवता - यथारुतार्थग्रहणं न कर्तव्यं बोधिसत्त्वेन महासत्त्वेन अन्यैश्चेति । कथं न भगवन् बोधिसत्त्वो महासत्त्वो यथारुतार्थग्राही न भवति? किं च रुतम्? को ऽर्थः? भगवानाह - तेन हि महामते शृणु, साधु च सुष्ठु न च मनसि कुरु । भाषिष्ये ऽहं ते । साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत् । भगवांस्तस्यैतदवोचत् - तत्र रुतं महामते कतमत्? यदुत वागक्षरसंयोगविकल्पो दन्तहनुतालुजिह्वौष्ठपुटविनिःसृतपरस्परजल्पो विकल्पवासनाहेतुको रुतमित्युच्यते । तत्र अर्थः पुनर्महामते कतमः? यदुत श्रुतचिन्ताभावनामय्या प्रज्ञया एको रहोगतो निर्वाणपुरगामिमार्गः स्वबुद्ध्या वासनाश्रयपरावृत्तिपूर्वकः स्वप्रत्यात्मगतिगोचरभूमिस्थानान्तरविशेषार्थलक्षणगतिं प्रविचारयन् बोधिसत्त्वो महासत्त्वो ऽर्थकुशलो भवति ॥
पुनरपरं महामते रूतार्थकुशलो बोधिसत्त्वो महासत्त्वो रुतमर्थादन्यन्नान्यदिति समनुपश्यति, अर्थं च रुतात् । यदि च पुनर्महामते अर्थो रुतादन्यः स्यात्, अरुतार्थाभिव्यक्तिहेतुकः स्यात् । स चार्थो रुतेनानुप्रविश्यते प्रदीपेनेव धनम् । तद्यथा महामते कश्चिदेव पुरुषः प्रदीपं गृहीत्वा धनमवलोकयेत् - इदं मे धनमेवंविधमस्मिन् प्रदेशे इति । एवमेव महामते वाग्विकल्परुतप्रदीपेन बोधिसत्त्वा महासत्त्वा वाग्विकल्परहिताः स्वप्रत्यात्मार्यगतिमनुप्रविशन्ति ॥
पुनरपरं महामते अनिरुद्धा अनुत्पन्नाः प्रकृतिपरिनिर्वृतास्त्रियानमेकयानं च पञ्चचित्तस्वभावादिषु यथारुतार्थाभिनिवेशं प्रतीत्य अभिनिवेशतः समारोपापवाददृष्टिपतितो भवति । अन्यथा व्यवस्थितानन्यथा प्रतिविकल्पयन् मायावैचित्र्यदर्शनविकल्पनवत् । तद्यथा महामते अन्यथा हि मायावैचित्र्यं द्रष्टव्यमन्यथा प्रतिकल्प्यते बालैर्न त्वार्यैः ॥
तत्रेदमुच्यते -
यथारुतं विकल्पित्वा समारोपेन्ति धर्मताम् ।
ते च वै तत्समारोपात्पतन्ति नरकालये
न ह्यात्मा विद्यते स्कन्धैः स्कन्धाश्चैव हि नात्मनि ।
न ते यथा विकल्प्यन्ते न च ते वै न सन्ति च
अस्तित्वं सर्वभावानां यथा बालैर्विकल्प्यते ।
यदि ते भवेद्यथादृष्टाः सर्वे स्युस्तत्त्वदर्शिनः
अभावात्सर्वधर्माणां संक्लेशो नास्ति शुद्धितः ।
न ते तथा यथा दृष्टा न च ते वै न सन्ति च
पुनरपरं महामते ज्ञानविज्ञानलक्षणं ते उपदेक्ष्यामि, येन ज्ञानविज्ञानलक्षणेन सुप्रतिविभागविद्धेन त्वं च अन्ये च बोधिसत्त्वा महासत्त्वा ज्ञानविज्ञानलक्षणगतिंगताः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते । तत्र महामते त्रिप्रकारं ज्ञानं लौकिकं लोकोत्तरं च लोकोत्तरतमं च । तत्रोत्पन्नप्रध्वंसि विज्ञानम् । अनुत्पन्नप्रध्वंसि ज्ञानम् । पुनरपरं महामते निमित्तानिमित्तपतितं विज्ञानं नास्त्यस्तिवैचित्र्यलक्षणहेतुकं च । निमित्तानिमित्तव्यतिक्रान्तलक्षणं ज्ञानम् । पुनरपरं महामते उपचयलक्षणं विज्ञानम् । अपचयलक्षणं ज्ञानम् । तत्र त्रिविधं ज्ञानं स्वसामान्यलक्षणावधारकं च उत्पादव्ययावधारकं च अनुत्पादानिरोधावधारकं च । तत्र लौकिकं ज्ञानं सदसत्पक्षाभिनिविष्टानां सर्वतीर्थकरबालपृथग्जनानां च । तत्र लोकोत्तरं ज्ञानं सर्वश्रावकप्रत्येकबुद्धानां च स्वसामान्यलक्षणपतिताशयाभिनिविष्टानाम् । तत्र लोकोत्तरतमं ज्ञानं बुद्धबोधिसत्त्वानां निराभासधर्मप्रविचयादनिरोधानुत्पाददर्शनात्सदसत्पक्षविगतं तथागतभूमिनैरात्म्याधिगमात्प्रवर्तते ॥
पुनरपरं महामते असङ्गलक्षणं ज्ञानम्, विषयवैचित्र्यसङ्गलक्षणं च विज्ञानम् । पुनरपरं महामते त्रिसङ्गक्षयोत्पादयोगलक्षणं विज्ञानमसङ्गस्वभावलक्षणं ज्ञानम् । पुनरपरं महामते अप्राप्तिलक्षणं ज्ञानं स्वप्रत्यात्मार्यज्ञानगतिगोचरमप्रवेशानिर्गमत्वादुदकचन्द्रवज्जले ॥
तत्रेदमुच्यते -
चित्तेन चीयते कर्म ज्ञानेन च विधीयते ।
प्रज्ञया च निराभासं प्रभावं चाधिगच्छति
चित्तं विषयसंबद्धं ज्ञानं तर्के प्रवर्तते ।
निराभासे विशेषे च प्रज्ञा वै संप्रवर्तते
चित्तं मनश्च विज्ञानंसंज्ञावैकल्पवर्जिताः ।
विकल्पधर्मतां प्राप्ताः श्रावका न जिनात्मजाः
शान्ते क्षान्तिविशेषे वै ज्ञानं ताथागतं शुभम् ।
संजायते विशेषार्थं समुदाचारवर्जितम्
प्रज्ञा हि त्रिविधा मह्यं आर्या येन प्रभाविता ।
लक्षणं कल्प्यते येन यश्च भावान् वृणोति च
यानद्वयविसंयुक्ता प्रज्ञा ह्यभाववर्जिता ।
सद्भावाभिनिवेशेन श्रावकाणां प्रवर्तते ।
चित्तमात्रावतारेण प्रज्ञा ताथागती मता
पुनरपरं महामते नवविधा परिणामवादिनां तीर्थकराणां परिणामदृष्टिर्भवति यदुत संस्थानपरिणामो लक्षणपरिणामो हेतुपरिणामो युक्तिपरिणामो दृष्टिपरिणाम उत्पादपरिणामो भावपरिणामः प्रत्ययाभिव्यक्तिपरिणामः क्रियाभिव्यक्तिपरिणामः । एता महामते नव परिणामदृष्टयः, याः संधाय सर्वतीर्थकराः सदसत्पक्षोत्पादपरिणामवादिनो भवन्ति ॥
तत्र महामते संस्थानपरिणामो यदुत संस्थानस्यान्यथाभावदर्शनात्, सुवर्णस्य भूषणविकृतिवैचित्र्यदर्शनवत् । तद्यथा महामते सुवर्णं कटकरुचकस्वस्त्यादिपरिणामेन परिणाम्यमानं विचित्रसंस्थानपरिणतं दृश्यते । न सुवर्णं भावतः परिणमति । एवमेव महामते सर्वभावानां परिणामः कैश्चित्तीर्थकरैर्विकल्प्यते अन्यैश्च कारणतः । न च ते तथा, न चान्यथा परिकल्पमुपादाय । एवं सर्वपरिणामभेदो द्रष्टव्यो दधिक्षीरमद्यफलपाकवत् । तद्यथा महामते एवं दधिक्षीरमद्यफलादीनामेकैकस्य परिणामो विकल्पस्य परिणामो विकल्प्यते तीर्थकरैः, न चात्र कश्चित्परिणमति सदसतोः स्वचित्तदृश्यबाह्यभावाभावात्, एवमेव महामते बालपृथग्जनानां स्वचित्तविकल्पभावनाप्रवृत्तिर्द्रष्टव्या । नात्र महामते कश्चिद्धर्मः प्रवर्तते वा निवर्तते वा, मायास्वप्नप्रवृत्तरूपदर्शनवत् । तद्यथा महामते स्वप्ने प्रवृत्तिनिवृत्ती उपलभ्येते वन्ध्यापुत्रमृतजन्मवत् ॥
तत्रेदमुच्यते -
परिणामं कालसंस्थानं भूतभावेन्द्रियेषु च ।
अन्तराभवसंग्राह्यो ये कल्पेन्ति न ते बुधाः
न प्रतीत्यसमुत्पन्नं लोकं कल्पेन्ति वै जिनाः ।
किं तु प्रत्यय एवेदं लोकं गन्धर्वसंनिभम्
अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तं सर्वधर्मसंध्यर्थपरिमोचनार्थमध्येषते स्म - देशयतु मे भगवान्, देशयतु मे तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वधर्माणां संध्यसंधिलक्षणम्, येन संध्यसंधिलक्षणेन सुप्रतिविभागाभिविद्धेन अहं च अन्ये च बोधिसत्त्वा महासत्त्वाः सर्वसंध्यसंध्युपायकुशला यथारुतार्थाभिनिवेशसंधौ न प्रपतेयुः । सर्वधर्माणां संध्यसंधिकौशलेन वागक्षरप्रतिविकल्पनं च विनिहत्य बुद्ध्या सर्वबुद्धक्षेत्रपर्षच्चारिणो बलवशिताभिज्ञाधारणीमुद्रासुमुद्रिता विचित्रैर्निर्माणकिरणैर्दशनिष्ठापादे
सुनिबद्धबुद्धयो ऽनाभोगचन्द्रसूर्यमणिमहाभूतचर्यागतिसमाः सर्वभूमिषु स्वविकल्पलक्षणविनिवृत्तदृष्टयः स्वप्नमायादिसर्वधर्मानुदर्शनाद्बुद्धभूम्याश्रयानुप्रविष्टाः सर्वसत्त्वधातुं यथार्हत्त्वधर्मदेशनया ( वैद्य 66 ) आकृष्य स्वप्नमायादिसर्वधर्मसदसत्पक्षवर्जिते भङ्गोत्पादविकल्परहिते रुतान्यथापर्यायवृत्त्याश्रयतया प्रतिष्ठापयेयुः । भगवानाह - साधु साधु महामते । तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु । भाषिष्ये ऽहं ते । साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत् । भगवांस्तस्यैतदवोचत् - अपरिमितो महामते सर्वधर्माणां यथारुतार्थाभिनिवेशसंधिः, लक्षणाभिनिवेशसंधिः, प्रत्ययाभिनिवेशसंधिः, भावाभावाभिनिवेशसंधिः, उत्पादानुत्पादविकल्पाभिनिवेशसंधिः, निरोधानिरोधाभिनिवेशप्रतिविकल्पसंधिः, यानायानाभिनिवेशप्रतिविकल्पसंधिः, संस्कृतासंस्कृतप्रतिविकल्पाभिनिवेशसंधिः, भूम्यभूमिस्वलक्षणविकल्पाभिनिवेशसंधिः, स्वविकल्पाभिसमयविकल्पसंधिः, सदसत्पक्षतीर्थ्याश्रयप्रतिविकल्पसंधिः, त्रियानैकयानाभिसमयविकल्पसंधिः । एते चान्ये च महामते बालपृथग्जनानां स्वविकल्पसंधयः, यां संधिं संधाय बालपृथग्जनाः प्रतिविकल्पयमानाः कौशेयक्रिमय इव स्वविकल्पदृष्टिसंधिसूत्रेण आत्मानं परांश्च स्वविकल्पदृष्टिसंधिसूत्ररोचनतया परिवेष्टयन्ति भावाभावसंधिलक्षणाभिनिवेशाभिनिविष्टाः । न चात्र महामते कश्चित्संधिर्न संधिलक्षणं विविक्तदर्शनात्सर्वधर्माणाम् । विकल्पस्याप्रवृत्तत्वान्महामते बोधिसत्त्वो महासत्त्वः सर्वधर्मेषु विविक्तदर्शी विहरति ॥
पुनरपरं महामते बाह्यभावाभावस्वचित्तदृश्यलक्षणावबोधान्निराभासचित्तमात्रानुसारित्वात्सदसतोः सर्वभावविकल्पसंधिविविक्तदर्शनान्न संधिर्नासंधिलक्षणं सर्वधर्माणाम् । नात्र कश्चिन्महामते बध्यते न च मुच्यते, अन्यत्र वितथपतितया बुद्ध्या बन्धमोक्षौ प्रज्ञायेते । तत्कस्य हेतोः? यदुत सदसतोः संध्यनुपलब्धित्वात्सर्वधर्माणाम् ॥
पुनरपरं महामते त्रयः संधयो बालानां पृथग्जनानां यदुत रागो द्वेषो मोहश्च । तृष्णा च पौनर्भविकी नन्दीरागसहगता यां संधाय गतिसंधयः प्रजायन्ते । तत्र संधिसंधानं सत्त्वानां गतिपञ्चकं संधेर्व्युच्छेदान्महामते नसंधिर्नासंधिलक्षणं प्रज्ञायते । पुनरपरं महामते त्रिसंगतिप्रत्ययक्रियायोगाभिनिवेशाय संधिः । विज्ञानानां नैरन्तर्यात्प्रवृत्तियोगेनाभिनिवेशतो भवसंधिर्भवति । त्रिसंगतिप्रत्ययव्यावृत्तेर्विज्ञानानां विमोक्षत्रयानुदर्शनात्सर्वसंधयो न प्रवर्तन्ते ॥
तत्रेदमुच्यते -
अभूतपरिकल्पो हि संधिलक्षणमुच्यते ।
तस्य भूतपरिज्ञानात्संधिजालं प्रसीदति
भावज्ञानरुतग्राहात्कौशेयक्रिमयो यथा ।
बध्यन्ते स्वविकल्पेन बालाः संध्यविपश्चितः
पुनरपि महामतिराह - यत्पुनरेतदुक्तं भगवता - येन येन विकल्पेन ये ये भावा विकल्प्यन्ते, न हि स तेषां स्वभावो भवति । परिकल्पित एवासौ । तद्यदि भगवन् परिकल्पित ( वैद्य 67 ) एवासौ न भावस्वभावलक्षणावधारणम्, ननु ते भगवन् एवं ब्रुवतः संक्लेशव्यवदानाभावः प्रसज्यते परिकल्पितस्वभावभावितत्वात्सर्वधर्माणाम् । भगवानाह - एवमेतन्महामते यथा वदसि । न महामते यथा बालपृथग्जनैर्भावस्वभावो विकल्प्यते, तथा भवति । परिकल्पित एवासौ महामते, न भावस्वभावलक्षणावधारणम् । किं तु यथा महामते आर्यैर्भावस्वभावो ऽवधार्यते आर्येण ज्ञानेन आर्येण दर्शनेन आर्येण प्रज्ञाअचक्षुषा तथा भावस्वभावो भवति ॥
महामतिराह - तद्यदि भगवन् यथा आर्यैरार्येण ज्ञानेन आर्येण दर्शनेन आर्येण प्रज्ञाचक्षुषा न दिव्यमांसचक्षुषा भावस्वभावो ऽवधार्यते तथा भवति, न तु यथा बालपृथग्जनैर्विकल्प्यते भावस्वभावः, तत्कथं भगवन् बालपृथग्जनानां विकल्पव्यावृत्तिर्भविष्यति आर्यभाववस्त्वनवबोधात्? न च ते भगवन् विपर्यस्ताः नाविपर्यस्ताः । तत्कस्य हेतोः? यदुत आर्यवस्तुस्वभावानवबोधात्सदसतोर्लक्षणस्य वृत्तिदर्शनात् । आर्यैरपि भगवन् यथा वस्तु विकल्प्यते, न तथा भवति स्वलक्षणविषयागोचरत्वात् । स तेषामपि भगवन् भावस्वभावलक्षणः परिकल्पितस्वभाव एव ख्यायते हेत्वहेतुव्यपदेशात् । यदुत भावस्वलक्षणदृष्टिपतितत्वादन्येषां गोचरो भवति न यथा तेषाम् । इत्येवमनवस्था प्रसज्यते भगवन् भावस्वभावलक्षणानवबोधात् । न च भगवन् परिकल्पितस्वभावहेतुको भावस्वभावलक्षणः । स च कथं परिकल्पेन प्रतिविकल्प्यमानो न तथा भविष्यति यथा परिकल्प्यते? अन्यदेव भगवन् प्रतिविकल्पस्य लक्षणम्, अन्यदेव स्वभावलक्षणम् । विसदृशहेतुके च भगवन् विकल्पस्वभावलक्षणे । ते च परस्परं परिकल्प्यमाने बालपृथग्जनैर्न तथा भविष्यतः । किं तु सत्त्वानां विकल्पव्यावृत्त्यर्थमिदमुच्यते । यथा प्रतिविकल्पेन विकल्प्यन्ते तथा न विद्यन्ते ॥
किमिदं भगवन् सत्त्वानां त्वया नास्त्यस्तित्वदृष्टिं विनिवार्य वस्तुस्वभावाभिनिवेशेन आर्यज्ञानगोचरविषयाभिनिवेशान्नास्तित्वदृष्टिः पुनर्निपात्यते, विविक्तधर्मोपदेशाभावश्च क्रियते आर्यज्ञानस्वभाववस्तुदेशनया? भगवानाह - न मया महामते विविक्तधर्मोपदेशाभावः क्रियते, न चास्तित्वदृष्टिर्निपात्यते आर्यवस्तुस्वभावनिर्देशेन । किं तु उत्रासपदविवर्जनार्थं सत्त्वानां महामते मया अनादिकालभावस्वभावलक्षणाभिनिविष्टानामार्यज्ञानवस्तुस्वभावाभिनिवेशलक्षणदृष्ट्या विविक्तधर्मोपदेशः क्रियते । न मया महामते भावस्वभावोपदेशः क्रियते । किं तु महामते स्वयमेवाधिगतयाथातथ्यविविक्तधर्मविहारिणो भविष्यन्ति । भ्रान्तेर्निर्निमित्तदर्शनात् स्वचित्तदृश्यमात्रमवतीर्य बाह्यदृश्यभावाभावविनिवृत्तदृष्टयो विमोक्षत्रयाधिगतयाथातथ्यविविक्तधर्मविहारिणो भविष्यन्ति । भ्रान्तेर्निर्निमित्तदृष्टयो विमोक्षत्रयाधिगतयाथातथ्यमुद्रासुमुद्रिता भावस्वभावेषु प्रत्यात्माधिगतया बुद्ध्या प्रत्यक्षविहारिणो भविष्यन्ति नास्त्यस्तित्ववस्तुदृष्टिविवर्जिताः ॥
पुनरपरं महामते अनुत्पन्नाः सर्वधर्मा इति बोधिसत्त्वेन महासत्त्वेन प्रतिज्ञा न करणीया । तत्कस्य हेतोः? प्रतिज्ञायाः सर्वस्वभावभावित्वात्तद्धेतुप्रवृत्तिलक्षणत्वाच्च । अनुत्पन्नान् ( वैद्य 68 ) सर्वधर्मान् प्रतिज्ञाय प्रतिब्रुवन् महामते बोधिसत्त्वो महासत्त्वः प्रतिज्ञाया हीयते । या प्रतिज्ञा - अनुत्पन्नाः सर्वधर्मा इति, सास्य प्रतिज्ञा हीयते, प्रतिज्ञायास्तदपेक्षोत्पत्तित्वात् । अथ सापि प्रतिज्ञा अनुत्पन्ना सर्वधर्माभ्यन्तरादनुत्पन्नलक्षणानुत्पत्तित्वात्प्रतिज्ञायाः, अनुत्पन्नाः सर्वधर्मा इति स वादः प्रहीयते । प्रतिज्ञावयवकारणेन सदसतो ऽनुत्पत्तिः प्रतिज्ञायाः । सा हि महामते प्रतिज्ञा सर्वभावाभ्यन्तरा सदसतोरनुत्पत्तिलक्षणात् । यदि महामते तया प्रतिज्ञया अनुत्पन्नया अनुत्पन्नाः सर्वभावा इति प्रतिज्ञां कुर्वन्ति, एवमपि प्रतिज्ञाहानिः प्रसज्यते । प्रतिज्ञायाः सदसतोरनुत्पत्तिभावलक्षणत्वात्प्रतिज्ञा न करणीया । अनुत्पन्नस्वभावलक्षणा हि महामते तेषां प्रतिज्ञा भवति । अतस्ते महामते प्रतिज्ञा न करणीया । बहुदोषदुष्टत्वादवयवानां परस्परहेतुविलक्षणकृतकत्वाच्च अवयवानां प्रतिज्ञा न करणीया - यदुत अनुत्पन्नाः सर्वधर्माः । एवं शून्या अस्वभावाः सर्वधर्मा इति महामते बोधिसत्त्वेन महासत्त्वेन प्रतिज्ञा न करणीया । किं तु महामते बोधिसत्त्वेन महासत्त्वेन मायास्वप्नवत्सर्वभावोपदेशः करणीयो दृश्यादृश्यलक्षणत्वात् । दृष्टिबुद्धिमोहनत्वाच्च सर्वधर्माणां मायास्वप्नवद्भावोपदेशः करणीयो ऽन्यत्र बालानामुत्रासपदविवर्जनतया । बालाः पृथग्जना हि महामते । नास्त्यस्तित्वदृष्टिपतितानां तेषामुत्रासः स्यान्मा इति । उत्रास्यमाना महामते दूरीभवन्ति महायानात् ॥
तत्रेदमुच्यते -
न स्वभावो न विज्ञप्तिर्न वस्तु न च आलयः ।
बालैर्विकल्पिता ह्येते शवभूतैः कुतार्किकैः
अनुत्पन्नाः सर्वधर्माः सर्वतीर्थ्यप्रसिद्धये ।
न हि कस्यचिदुत्पन्ना भावा वै प्रत्ययान्विताः
अनुत्पन्नाः सर्वधर्माः प्रज्ञया न विकल्पयेत् ।
तद्धेतुमत्त्वात्तत्सिद्धेर्बुद्धिस्तेषां प्रहीयते
केशोण्डुकं यथा मिथ्या गृह्यते तैमिरैर्जनैः ।
तथा भावविकल्पो ऽयं मिथ्या बालैर्विकल्प्यते
प्रज्ञप्तिमात्रात्रिभवं नास्ति वस्तुस्वभावतः ।
प्रज्ञप्तिवस्तुभावेन कल्पयिष्यन्ति तार्किकाः
निमित्तं वस्तु विज्ञप्तिं मनोविस्पन्दितं च तत् ।
अतिक्रम्य तु पुत्रा मे निर्विकल्पाश्चरन्ति ते
अजले च जलग्राहो मृगतृष्णा यथा नभे ।
दृश्यं तथा हि बालानामार्याणां च विशेषतः
आर्याणां दर्शनं शुद्धं विमोक्षत्रयसंभवम् ।
उत्पादभङ्गनिर्मुक्तं निराभासप्रचारिणाम्
निराभासो हि भावानामभावे नास्ति योगिनाम् ।
भावाभावसमत्वेन आर्याणां जायते फलम् ।
कथं ह्यभावो भावानां कुरुते समतां कथम्
यदा चित्तं न जानाति बाह्यमाध्यात्मिकं चलम् ।
तदा तु कुरुते नाशं समताचित्तदर्शनम्
पुनरपि महामतिराह - यत्पुनरिदमुक्तं भगवता - यदा त्वालम्ब्यमर्थं नोपलभते ज्ञानं तदा विज्ञप्तिमात्रव्यवस्थानं भवति । विज्ञप्तेर्ग्राह्याभावाद्ग्राहकस्याप्यग्रहणं भवति । तदग्रहणान्न प्रवर्तते ज्ञानं विकल्पसंशब्दितम् । तत्किं पुनर्भगवन् भावानां स्वसामान्यलक्षणानन्यवैचित्र्यानवबोधान्नोपलभते ज्ञानम्? अथ स्वसामान्यलक्षणवैचित्र्यभावस्वभावाभिभवान्नोपलभते ज्ञानम् । अथ कुड्यकटवप्रप्राकारभूजलपवनाग्निव्यवहितातिदूरसामीप्यान्नोपलभते ज्ञानं ज्ञेयम् । अथ बालान्धवृद्धयोगादिन्द्रियाणां ज्ञेयार्थं नोपलभते ज्ञानम् । तद्यदि भगवन् स्वसामान्यलक्षणानन्यवैचित्र्यानवबोधान्नोपलभते ज्ञानम्, न तर्हि भगवन् ज्ञानं वक्तव्यम् । अज्ञानमेतद्भगवन् यद्विद्यमानमर्थं नोपलभते । अथ स्वसामान्यलक्षणवैचित्र्यभावस्वभावाभिभवान्नोपलभते ज्ञानम्, तदज्ञानमेव भगवन् न ज्ञानम् । ज्ञेये सति भगवन् ज्ञानं प्रवर्तते नाभावात् । तद्योगाच्च ज्ञेयस्य ज्ञानमित्युच्यते । अथ कुड्यकटवप्रप्राकारभूजलपवनाग्निव्यवहितातिदूरसामीप्यान्नोपलभते बालवृद्धान्धयोगवद्वैकल्यादिन्द्रियाणां ज्ञानं नोपलभते । तद्यदेवं नोपलभते, न तद्भगवन् ज्ञानम् । अज्ञानमेव तद्विद्यमानमर्थं बुद्धिवैकल्यात् ॥
भगवानाह - न हि तन्महामते एवमज्ञानं भवति । ज्ञानमेव तन्महामते, नाज्ञानम् । न चैतत्संधायोक्तं मया - यदा त्वालम्ब्यमर्थं नोपलभते ज्ञानं तदा विज्ञप्तिमात्रव्यवस्थानं भवतीति । किं तु स्वचित्तदृश्यमात्रावबोधात्सदसतोर्बाह्यभावाभावाज्ज्ञानमप्यर्थं नोपलभते । तदनुपलम्भाज्ज्ञानज्ञेययोरप्रवृत्तिः । विमोक्षत्रयानुगमाज्ज्ञानस्याप्यनुपलब्धिः । न च तार्किका अनादिकालभावाभावप्रपञ्चवासितमतय एवं प्रजानन्ति । ते चाप्रजानन्तो बाह्यद्रव्यसंस्थानलक्षणभावाभावं कृत्वा विकल्पस्याप्रवृत्तिं चित्तमात्रतां निर्देक्ष्यन्ति । आत्मात्मीयलक्षणग्राहाभिनिवेशाभिनिविष्टाः स्वचित्तदृश्यमात्रानवबोधाज्ज्ञानं ज्ञेयं प्रतिविकल्पयन्ति । ते च ज्ञानज्ञेयप्रतिविकल्पनया बाह्यभावाभावप्रविचयानुपलब्धेरुच्छेददृष्टिमाश्रयन्ते ॥
तत्रेदमुच्यते -
विद्यमानं हि आलम्ब्यं यदि ज्ञानं न पश्यति ।
अज्ञानं तद्धि न ज्ञानं तार्किकाणामयं नयः
अनन्यलक्षणाभावाज्ज्ञानं यदि न पश्यति ।
व्यवधानदूरसामीप्यं मिथ्याज्ञानं तदुच्यते
बालवृद्धान्धयोगाच्च ज्ञानं यदि न जायते ।
विद्यमानं हि तज्ज्ञेयं मिथ्याज्ञानं तदुच्यते
पुनरपरं महामते बालपृथग्जना अनादिकालप्रपञ्चदौष्ठुल्यस्वप्रतिविकल्पना नाटके नृत्यन्तः स्वसिद्धान्तनयदेशनायामकुशलाः स्वचित्तदृश्यबाह्यभावलक्षणाभिनिविष्टा उपायदेशनापाठमभिनिविशन्ते, न स्वसिद्धान्तनयं चातुष्कोटिकनयविशुद्धं प्रतिविभावयन्ति । महामतिराह - एवमेतद्भगवन् यथा वदसि । देशयतु मे भगवान् देशनासिद्धान्तनयलक्षणं येन अहं च अन्ये च बोधिसत्त्वा महासत्त्वा अनागते ऽध्वनि देशनासिद्धान्तनयकुशला न विप्रलभ्येरन् कुतार्किकैस्तीर्थकरश्रावकप्रत्येकबुद्धयानिकैः । भगवानाह - येन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु । भाषिष्ये ऽहं ते । साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत् । भगवांस्तस्यैतदवोचत् - द्विप्रकारो महामते अतीतानागतप्रत्युत्पन्नानां तथागतानामर्हतां सम्यक्संबुद्धानां धर्मनयो यदुत देशनानयश्च सिद्धान्तप्रत्यवस्थाननयश्च । तत्र देशनापाठनयो महामते यदुत विचित्रसंभारसूत्रोपदेशः । यथाचित्ताधिमुक्तिकतया देशयन्ति सत्त्वेभ्यः । तत्र सिद्धान्तनयः पुनर्महामते कतमः? येन योगिनः स्वचित्तदृश्यविकल्पव्यावृत्तिं कुर्वन्ति यदुत एकत्वान्यत्वोभयत्वानुभयत्वपक्षापतनताचित्तमनोमनोविज्ञानातीतं स्वप्रत्यात्मार्यगतिगोचरं हेतुयुक्तिदृष्टिलक्षणविनिवृत्तमनालीढं सर्वकुतार्किकैस्तीर्थकरश्रावकप्रत्येकबुद्धयानिकैर्नास्त्यस्तित्वान्तद्वयपतितैः, तमहं सिद्धान्त इति वदामि । एतन्महामते सिद्धान्तनयदेशनालक्षणं यत्र त्वया च अन्यैश्च बोधिसत्त्वैर्महासत्त्वैर्योगः करणीयः ॥
तत्रेदमुच्यते -
नयो हि द्विविधो मह्यं सिद्धान्तो देशना च वै ।
देशेमि या बालानां सिद्धान्तं योगिनामहम्
अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत् - उक्तमेतद्भगवंस्तथागतेनार्हता सम्यक्संबुद्धेन एकस्मिन् काले एकस्मिन् समये यथा लोकायतिको विचित्रमन्त्रप्रतिभानो न सेवितव्यो न भक्तव्यो न पर्युपासितव्यः, यं च सेवमानस्य लोकामिषसंग्रहो भवति न धर्मसंग्रह इति । किं कारणं पुनर्भगवतेदमुक्तं लोकायतिको विचित्रमन्त्रप्रतिभानः, यं च सेवमानस्य लोकामिषसंग्रहो भवति न धर्मसंग्रहः? भगवानाह - विचित्रमन्त्रप्रतिभानो महामते लोकायतिको विचित्रैर्हेतुपदव्यञ्जनैर्बालान् व्यामोहयति न युक्तियुक्तं नार्थोपसंहितम् । अथ यावदेव यत्किंचिद्बालप्रलापं देशयति । एतेन महामते कारणेन लोकायतिको विचित्रमन्त्रप्रतिभान इत्युच्यते । अक्षरवैचित्र्यसौष्ठवेन बालानाकर्षति, न तत्त्वनयप्रवेशेन प्रविशति । स्वयं सर्वधर्मानवबोधादन्तद्वयपतितया दृष्ट्या बालान् व्यामोहयति, स्वात्मानं च क्षिणोति । गतिसंध्यप्रमुक्तत्वात्स्वचित्तदृश्यमात्रानवबोधाद्बाह्यभावस्वभावाभिनिवेशाद्विकल्पस्य व्यावृत्तिर्न भवति । अत एतस्मात्कारणान्महामते लोकायतिको ( वैद्य 71 ) विचित्रमन्त्रप्रतिभानो ऽपरिमुक्त एव जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासादिभ्यो विचित्रैः पदव्यञ्जनैर्हेतुदृष्टान्तोपसंहारैर्बालान् व्यामोहयति ॥
इन्द्रो ऽपि महामते अनेकशास्त्रविदग्धबुद्धिः स्वशब्दशास्त्रप्रणेता । तच्छिष्येण नागवेशरूपधारिणा स्वर्गे इन्दसभायां प्रतिज्ञां कृत्वा तव वा सहस्रारो रथो भज्यतां मम वा एकैकनागभावस्य फणाच्छेदो भवत्विति । सहधर्मेण च नागवेशधारिणा लोकायतिकशिष्येण देवानामिन्द्रं विजित्य सहस्रारं रथं भङ्क्त्वा पुनरपीमं लोकमागतः । एवमिदं महामते लोकायतिकविचित्रहेतुदृष्टान्तोपनिबद्धं येन तिर्यञ्चो ऽप्यधीत्य देवासुरलोकं विचित्रपदव्यञ्जनैर्व्यामोहयति । आयव्ययदृष्टाभिनिवेशेनाभिनिवेशयति किमङ्ग पुनर्मानुषान् । अत एतस्मात्कारणान्महामते लोकायतिकः परिवर्जितव्यो दुःखजन्महेतुवाहकत्वात्, न सेवितव्यो न भजितव्यो न पर्युपासितव्यः । शरीरबुद्धिविषयोपलब्धिमात्रं हि महामते लोकायतिकैर्देश्यते विचित्रैः पदव्यञ्जनैः । शतसहस्रं महामते लोकायतम् । किं तु पश्चिमे लोके पश्चिमायां पञ्चाशत्यां भिन्नसंहितं भविष्यति कुतर्कहेतुदृष्टिप्रणीतत्वात् । भिन्नसंहितं भविष्यत्यशिष्यपरिग्रहात् । एवदेव महामते लोकायतं भिन्नसंहितं विचित्रहेतूपनिबद्धं तीर्थकरैर्देश्यते स्वकारणाभिनिवेशाभिनिविष्टैः, न स्वनयः । न च महामते कस्यचित्तीर्थकरस्य स्वशास्त्रनयः । अन्यत्र लोकायतमेव अनेकैराकारैः कारणमुखशतसहस्रैर्देशयन्ति । न स्वनयं च न प्रजानन्ति मोहोहाल्लोकायतमिदमिति ॥
महामतिराह - यदि भगवन् सर्वतीर्थकरा लोकायतमेव विचित्रैः पदव्यञ्जनैर्दृष्टान्तोपसंहारैर्देशयन्ति, न स्वनयं स्वकारणाभिनिवेशाभिनिविष्टाः, अथ किं भगवानपि लोकायतमेव देशयति आगतागतानां नानादेशसंनिपतितानां देवासुरमनुष्याणां विचित्रैः पदव्यञ्जनैः, न स्वमतं सर्वतीर्थ्यमतोपदेशाभ्यन्तरत्वात्? भगवानाह - नाहं महामते लोकायतं देशयामि न चायव्ययम् । किं तु महामते अनायव्ययं देशयामि । तत्र आयो नाम महामते उत्पादराशिः समूहागमादुत्पद्यते । तत्र व्ययो नाम महामते विनाशः । अनायव्यय इत्यनुत्पादस्यैतदधिवचनम् । नाहं महामते सर्वतीर्थकरविकल्पाभ्यन्तरं देशयामि । तत्कस्य हेतोः? यदुत बाह्यभावाभावादनभिनिवेशात्स्वचित्तदृश्यमात्रावस्थानाद्दिधावृत्तिनो ऽप्रवृत्तेर्विकल्पस्य । निमित्तगोचराभावात्स्वचित्तदृश्यमात्रावबोधनात्स्वचित्तदृश्यविकल्पो न प्रवर्तते । अप्रवृत्तिविकल्पस्यानिमित्तशून्यताप्रणिहितविमोक्षत्रयावतारान्मुक्त इत्युच्यते ॥
अभिजानाम्यहं महामते अन्यतरस्मिन् पृथिवीप्रदेशे विहरामि । अथ येनाहं तेन लोकायतिको ब्राह्मण उपसंक्रान्तः । उपसंक्रम्य अकृतावकाश एव मामेवमाह - सर्वं भो गौतम कृतकम् । तस्याहं महामते एवमाह - सर्वं भो ब्राह्मण यदि कृतकम्, इदं प्रथमं लोकायतम् । सर्वं भो गौतम अकृतकम् । यदि ब्राह्मण सर्वमकृतकम् , इदं द्वितीयं लोकायतम् । एवं सर्वमनित्यं सर्वं नित्यं सर्वमुत्पाद्यं सर्वमनुत्पाद्यम् । इदं ब्राह्मण षष्ठं ( वैद्य 72 ) लोकायतम् । पुनरपि महामते मामेवमाह ब्राह्मणो लोकायतिकः - सर्वं भो गौतम एकत्वं सर्वमन्यत्वं सर्वमुभयत्वं सर्वमनुभयत्वं सर्वं कारणाधीनं विचित्रहेतूइपपत्तिदर्शनात् । इदमपि ब्राह्मण एकादशं लोकायतम् । पुनरपि भो गौतम सर्वमव्याकृतं सर्वं व्याकृतम्, अस्त्यात्मा नास्त्यात्मा, अस्त्ययं लोको नास्त्ययं लोकः,अस्ति परो लोको नास्ति परो लोकः, नास्त्यस्ति च परो लोकः, अस्ति मोक्षो नास्ति मोक्षः, सर्वं क्षणिकं सर्वमक्षणिकम्, आकाशमप्रतिसंख्यानिरोधो निर्वाणं भो गौतम कृतकमकृतकम्, अस्त्यन्तराभवो नास्त्यन्तराभव इति । तस्यैतदुक्तं महामते महा - यदि भो ब्राह्मण एवम्, इदमपि ब्राह्मण लोकायतमेव भवतीति, न मदीयम् । त्वदीयमेतद्ब्राह्मण लोकायतम् । अहं भो ब्राह्मण अनादिकालप्रपञ्चविकल्पवासनादौष्ठुल्यहेतुकं त्रिभवं वर्णयामि । स्वचित्तदृश्यमात्रानवबोधाद्ब्राह्मण विकल्पः प्रवर्तते न बाह्यभावोपलम्भात् । यथा तीर्थकराणामात्मेन्द्रियार्थसंनिकर्षात्रयाणां न तथा मम । अहं भे ब्राह्मण न हेतुवादी नाहेतुवादी अन्यत्र विकल्पमेव ग्राह्यग्राहकभावेन प्रज्ञाप्य प्रतीत्यसमुत्पादं देशयामि । न च त्वादृशा अन्ये वा बुध्यन्ते आत्मग्राहपतितया संतत्या । निर्वाणाकाशनिरोधानां महामते तत्त्वमेव नोपलभ्यते संख्यायाम्, कुतः पुनः कृतकत्वम् ॥
पुनरपि महामते लोकायतिको ब्राह्मण एवमाह - अज्ञानतृष्णाकर्महेतुकमिदं भो गौतम त्रिभवम्, अथाहेतुकम्? द्वयमप्येतद्ब्राह्मण लोकायतम् । स्वसामान्यलक्षणपतिता भो गौतम सर्वभावाः । इदमपि ब्राह्मण लोकायतमेव भवति । यावद्ब्राह्मण मनोविस्पन्दितं बाह्यार्थाभिनिवेशविकल्पस्य तावल्लोकायतम् ॥
पुनरपरं महामते लोकायतिको ब्राह्मणो मामेतदवोचत् - अस्ति भो गौतम किंचिद्यन्न लोकायतम्? मदीयमेव भो गौतम सर्वतीर्थकरैः प्रसिद्धं विचित्रैः पदव्यञ्जनैर्हेतुदृष्टान्तोपसंहारैर्देश्यते । अस्ति भो ब्राह्मण यन्न त्वदीयं न च न प्रसिद्धं देश्यते न च न विचित्रैः पदव्यञ्जनैर्न च नार्थोपसंहितमेव । किं तदलोकायतं यन्न प्रसिद्धं देश्यते च? अस्ति च भो ब्राह्मण अलोकायतं यत्र सर्वतीर्थकराणां तव च बुद्धिर्न गाहते बाह्यभावादसद्भूतविकल्पप्रपञ्चाभिनिविष्टानाम् । यदुत विकल्पस्याप्रवृत्तिः सदसतः स्वचित्तदृश्यमात्रावबोधाद्विकल्पो न प्रवर्तते । बाह्यविषयग्रहणाभावाद्विकल्पः स्वस्थाने ऽवतिष्ठते दृश्यते । तेनेदमलोकायतं मदीयं न च त्वदीयम् । स्वस्थाने ऽवतिष्ठत इति न प्रवर्तत इत्यर्थः । अनुत्पत्तिविकल्पस्याप्रवृत्तिरित्युच्यते । एवमिदं भो ब्राह्मण यन्न लोकायतम् । संक्षेपतो ब्राह्मण यत्र विज्ञानस्यागतिर्गतिश्च्युतिरुपपत्तिः प्रार्थनाभिनिवेशाभिष्वङ्गो दर्शनं दृष्टिः स्थानं परामृष्टिर्विचित्रलक्षणाभिनिवेशः संगतिः सत्त्वानां तृष्णायाः कारणाभिनिवेशश्च । एतद्भो ब्राह्मण त्वदीयं लोकायतं न मदीयम् । एवमहं महामते पृष्टो लोकायतिकेन ब्राह्मणेनागत्य । स च मयैवं विसर्जितस्तूष्णीभावेन प्रक्रान्तः ॥
अथ खलु कृष्णपक्षिको नागराजो ब्राह्मणरूपेणागत्य भगवन्तमेतदवोचत् - तेन हि गौतम परलोक एव न संविद्यते । तेन हि माणव कुतस्त्वमागतः? इहाहं गौतम श्वेतद्वीपादागतः । स एव ब्राह्मण परो लोकः । अथ माणवो निष्प्रतिभानो निगृहीतो ऽन्तर्हितो ऽपृष्ट्वैव मां स्वनयप्रत्यवस्थानकथां चिन्तयन् शाक्यपुत्रो मन्नयबहिर्धा वराको ऽप्रवृत्तिलक्षणहेतुवादी स्वविकल्पदृश्यलक्षणावबोधाद्विकल्पस्याप्रवृत्तिं वर्णयति । त्वं चैतर्हि महामते मां पृच्छसि - किं कारणं लोकायतिकविचित्रमन्त्रप्रतिभानं सेव्यमानस्यामिषसंग्रहो भवति न धर्मसंग्रह इति । महामतिराह - अथ धर्मामिषमिति भगवन् कः पदार्थः? भगवानाह - साधु साधु महामते । पदार्थद्वयं प्रति मीमांसा प्रवृत्ता अनागतां जनतां समालोक्य । तेन हि महामते शृणु, साधु च सुष्ठु च मनसि कुरु । भाषिष्ये ऽहं ते । साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत् ॥
भगवांस्तस्यैतदवोचत् - तत्र आमिषं महामते कतमत्? यदुत आमिषमामृशमाकर्षणं निर्मृषं परामृष्टिः स्वादो बाह्यविषयाभिनिवेशो ऽन्तद्वयप्रवेशः । कुदृष्ट्या पुनः स्कन्धप्रादुर्भावो जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासप्रवृत्तिस्तृष्णायाः पौनर्भविक्या आदिं कृत्वा । आमिषमिदमित्युच्यते मया च अन्यैश्च बुद्धैर्भगवद्भिः । एष महामते आमिषसंग्रहो न धर्मसंग्रहो यं लोकायतिकं सेवमानो लभते लोकायतम् ॥
तत्र महामते धर्मसंग्रहः कतमः? यदुत स्वचित्तधर्मनैरात्म्यद्वयाव - बोधाद्धर्मपुद्गलनैरात्म्यलक्षणदर्शनाद्विकल्पस्याप्रवृत्तिः, भूम्युत्तरोपरिज्ञानाच्चित्तमनोमनोविज्ञानव्यावृत्तिः, सर्वबुद्धज्ञानाभिषेकगतिः अनधिष्ठापदपरिग्रहः सर्वधर्मानाभोगवशवर्तिता धर्म इत्युच्यते, सर्वदृष्टिप्रपञ्चविकल्पभावान्तद्वयापतनतया । प्रायेण हि महामते तीर्थकरवादो बालानन्तद्वये पातयति न तु विदुषाम्, यदुत उच्छेदे च शाश्वते च । अहेतुवादपरिग्रहाच्छाश्वतदृष्टिर्भवति, कारणविनाशहेत्वभावादुच्छेददृष्टिर्भवति । किं तु उत्पादस्थितिभङ्गदर्शनाद्धर्म इत्येवं वदामि । एष महामते धर्मामिषनिर्णयः, यत्र त्वया अन्यैश्च बोधिसत्त्वैर्महासत्त्वैः शिक्षितव्यम् ॥
तत्रेदमुच्यते -
संग्रहैश्च दमेत्सत्त्वान् शीलेन च वशीकरेत् ।
प्रज्ञया नाशयेद्दृष्टिं विमोक्षैश्च विवर्धयेत्
लोकायतमिदं सर्वं यत्तीर्थ्यैर्देश्यते मृषा ।
कार्यकारणसद्दृष्ट्या स्वसिद्धान्तो न विद्यते
अहमेकः स्वसिद्धान्तं कार्यकारणवर्जितम् ।
देशेमि शिष्यवर्गस्य लोकायतविवर्जितम्
चित्तमात्रं न दृश्यो ऽस्ति द्विधा चित्तं हि दृश्यते ।
ग्राह्यग्राहकभावेन शाश्वतोच्छेदवर्जितम्
यावत्प्रवर्तते चित्तं तावल्लोकायतं भवेत् ।
अप्रवृत्तिर्विकल्पस्य स्वचित्तं पश्यते जगत्
आयं कार्यार्थनिर्वृत्तिं व्ययं कार्यस्य दर्शनम् ।
आयव्ययपरिज्ञानाद्विकल्पो न प्रवर्तते
नित्यमनित्यं कृतकमकृतकं परापरम् ।
एवमाद्यानि सर्वाणि लोकायतनयं भवेत्
अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत् - निर्वाणं निर्वाणमिति भगवन्नुच्यते । कस्यैतदधिवचनं यदुत निर्वाणमिति यत्सर्वतीर्थकरैर्विकल्प्यते? भगवानाह - तेन हि महामते शृणु, साधु व सुष्ठु च मनसिकुरु । भाषिष्ये ऽहं ते । यथा तीर्थकरा निर्वाणं विकल्पयन्ति, न च भवति तेषां विकल्पानुरुपं निर्वाणम् । साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत् । भगवांस्तस्यैतदवोचत् - तत्र केचित्तावन्महामते तीर्थकराः स्कन्धधात्वायतननिरोधाद्विषयवैराग्यान्निवैधर्म्यादर्शनाच्चित्तचैत्तकलापो न प्रवर्तते । अतीतानागतप्रत्युत्पन्नविषयाननुस्मरणाद्दीपबीजानलवदुपादानोपरमादप्रवृत्तिर्विकल्पस्येति वर्णयन्ति । अतस्तेषां तत्र निर्वाणबुद्धिर्भवति । न च महामते विनाशदृष्ट्या निर्वायते ॥
अन्ये पुनर्देशान्तरस्थानगमनं मोक्ष इति वर्णयन्ति विषयविकल्पोपरमादिषु पवनवत् । अन्ये पुनर्वर्णयन्ति तीर्थकराः बुद्धिबोद्धव्यदर्शनविनाशान्मोक्ष इति । अन्ये विकल्पस्याप्रवृत्तेर्नित्यानित्यदर्शनान्मोक्षं कल्पयन्ति । अन्ये पुनर्वर्णयन्ति विविधनिमित्तविकल्पो दुःखजन्मवाहक इति स्वचित्तदृश्यमात्राकुशलाः । निमित्तभयभीता निमित्तदर्शनात्सुखाभिलाषनिमित्ते निर्वाणबुद्धयो भवन्ति । अन्ये पुनरध्यात्मबाह्यानां सर्वधर्माणां स्वसामान्यलक्षणावबोधादविनाशतो ऽतीतानागतप्रत्युत्पन्नभावास्तितया
निर्वाणं कल्पयन्ति । अन्ये पुनरात्मसत्त्वजीवपोषपुरुषपुद्गलसर्वधर्माविनाशतश्च निर्वाणं कल्पयति । अन्ये पुनर्महामते तीर्थकरा दुर्विदग्धबुद्धयः प्रकृतिपुरुषान्तरदर्शनाद्गुणपरिणामकर्तृत्वाच्च निर्वाणं कल्पयन्ति । अन्ये पुण्यापुण्यपरिक्षयात् । अन्ये क्लेशक्षयाज्ज्ञानेन च । अन्ये ईश्वरस्वतन्त्रकर्तृत्वदर्शनाज्जगतो निर्वाणं कल्पयन्ति । अन्ये अन्योन्यप्रवृत्तो ऽयं संभवो जगत इति न कारणतः । स च कारणाभिनिवेश एव, न चावबुध्यन्ते मोहात्, तदनवबोधान्निर्वाणं कल्पयन्ति । अन्ये पुनर्महामते तीर्थकराः सत्यमार्गाधिगमान्निर्वाणं कल्पयन्ति । अन्ये गुणगुणिनोरभिसंबद्धादेकत्वान्यत्वोभयत्वानुभयत्वदर्शनान्निर्वाणबुद्धयो भवन्ति । अन्ये स्वभावतः प्रवृत्तितो मयूरवैचित्र्यविविधरत्नाकरकण्टकतैक्ष्ण्यवद्भावानां स्वभावं दृष्ट्वा निर्वाणं विकल्पयन्ति । अन्ये पुनर्महामते पञ्चविंशतितत्त्वावबोधात्, अन्ये प्रजापालेन षाड्गुण्योपदेशग्रहणान्निर्वाणं ( वैद्य 75 ) कल्पयन्ति । अन्ये कालकर्तृदर्शनात्कालायत्ता लोकप्रवृत्तिरिति तदवबोधान्निर्वाणं कल्पयन्ति । अन्ये पुनर्महामते भवेन, अन्ये ऽभवेन, अन्ये भवाभवपरिज्ञया, अन्ये भवनिर्वाणाविशेषदर्शनेन निर्वाणं कल्पयन्ति । अन्ये पुनर्महामते वर्णयन्ति सर्वज्ञसिंहनादनादिनो यथा स्वचित्तदृश्यमात्रावबोधाद्बाह्यभावाभावानभिनिवेशाच्चातुष्कोटिकरहिताद् यथाभूतावस्थानदर्शनात्स्वचित्तदृश्यविकल्पस्यान्तद्वयापतनतया ग्राह्यग्राहकानुपलब्धेः सर्वप्रमाणाग्रहणाप्रवृत्तिदर्शनात्तत्त्वस्य व्यामोहकत्वादग्रहणं तत्त्वस्य, तद्व्युदासात्स्वप्रत्यात्मार्यधर्माधिगमान्नैरात्म्यद्वयावबोधात्क्लेशद्वयविनिवृत्तेरावरणद्वयविशुद्धत्वाद्भूम्युत्तरोत्तरतथागतभूमिमायादिविश्वसमाधिचित्तमनोमनोविज्ञानव्यावृत्तेर्निर्वाणं कल्पयन्ति । एवमन्यान्यपि यानि तार्किकैः कुतीर्थ्यप्रणीतानि तान्ययुक्तियुक्तानि विद्वद्भिः परिवर्जितानि । सर्वे ऽप्येते महामते अन्तद्वयपतितया संतत्या निर्वाणं कल्पयन्ति । एवमादिभिर्विकल्पैर्महामते सर्वतीर्थकरैर्निर्वाणं परिकल्प्यते । न चात्र कश्चित्प्रवर्तते वा निवर्तते वा । एकैकस्य महामते तीर्थकरस्य
निर्वाणं तत्स्वशास्त्रमतिबुद्ध्या परीक्ष्यमाणं व्यभिचरति । तथा न तिष्ठते यथा तैर्विकल्प्यते । मनस आगतिगतिविस्पन्दनान्नास्ति कस्यचिन्निर्वाणम् । अत्र त्वया महामते शिक्षित्वा अन्यैश्च बोधिसत्त्वैर्महासत्त्वैः सर्वतीर्थकरनिर्वाणदृष्टिर्व्यावर्तनीया ॥
तत्रेदमुच्यते -
निर्वाणदृष्टयस्तीर्थ्या विकल्पेन्ति पृथक्पृथक् ।
कल्पनामात्रमेवैषां मोक्षोपायो न विद्यते
बन्ध्यबन्धननिर्मुक्ता उपायैश्च विवर्जिताः ।
तीर्थ्या मोक्षं विकल्पेन्ति न च मोक्षो हि विद्यते
अनेकभेदभिन्नो हि तीर्थ्यानां दृश्यते नयः ।
अतस्तेषां न मोक्षो ऽस्ति कस्मान्मूढैर्विकल्प्यते
कार्यकारणदुर्दुष्ट्या तीर्थ्याः सर्वे विमोहिताः ।
अतस्तेषां न मोक्षो ऽस्ति सदसत्पक्षवादिनाम्
जल्पप्रपञ्चाभिरता हि बालास्तत्त्वे न कुर्वन्ति मतिं विशालाम् ।
जल्पो हि त्रैधातुकदुःखयोनिस्तत्त्वं हि दुःखस्य विनाशहेतुः
यथा हि दर्पणे रूपं दृश्यते न च विद्यते ।
वासनादर्पणे चित्तं द्विधा दृश्यति बालिशैः
चित्तदृश्यापरिज्ञानाद्विकल्पो जायते द्विधा ।
चित्तदृश्यपरिज्ञानाद्विकल्पो न प्रवर्तते
चित्तमेव भवेच्चित्रं लक्ष्यलक्षणवर्जितम् ।
दृश्याकारं न दृश्यो ऽस्ति यथा बालैर्विकल्प्यते
विकल्पमात्रं त्रिभवं बाह्यमर्थं न विद्यते ।
विकल्पं दृश्यते चित्रं न च बालैर्विभाव्यते
सूत्रे सूत्रे विकल्पोक्तं संज्ञानामान्तरेण च ।
अभिधानविनिर्मुक्तमभिधेयं न लक्ष्यते
अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - देशयतु मे भगवांस्तथागतो ऽर्हन् सम्यक्संबुद्धः स्वबुद्धबुद्धताम्, येन अहं च अन्ये च बोधिसत्त्वा महासत्त्वास्तथागतस्वकुशलाः स्वमात्मानं परांश्चावबोधयेयुः । भगवानाह - तेन हि महामते त्वमेव परिपृच्छ । यथा ते क्षमते, तथा विसर्जयिष्यामि । महामतिराह - किं पुनर्भगवन् तथागतो ऽर्हन् सम्यक्संबुद्धो ऽकृतकः कृतकः कार्यं कारणं लक्ष्यं लक्षणमभिधानमभिधेयं बुद्धिर्बोद्धव्यः, एवमाद्यैः पदनिरुक्तैः किं भगवानन्यो ऽनन्यः?
भगवानाह - न महामते तथागतो ऽर्हन् सम्यक्संबुद्ध एवमाद्यैः पदनिरुक्तैरकृतको न कृतकं न कार्यं न कारणम् । तत्कस्य हेतोः? यदुत उभयदोषप्रसङ्गात् । यदि हि महामते तथागतः कृतकः स्यात्, अनित्यत्वं स्यात् । अनित्यत्वात्सर्वं हि कार्यं तथागतः स्यात् । अनिष्टं चैतन्मम च अन्येषां च तथागतानाम् । अथाकृतकः स्यात्, अलब्धात्मकत्वात्समुदागतसंभारवैयर्थ्यं स्यात्, शशविषाणवद्वन्ध्यापुत्रतुल्यश्च स्यादकृतकत्वात् । यच्च महामते न कार्यं न कारणं तन्न सन्नासत् । यच्च न सन्नासत्, तच्चातुष्कोटिकबाह्यम् । चातुष्कोटिकं च महामते लोकव्यवहारः । यच्च चातुष्कोटिकबाह्यं तद्वाग्मात्रं प्रसज्यते वन्ध्यापुत्रवत् । वन्ध्यापुत्रो हि महामते वाग्मात्रं न चातुष्कोटिकपतितः । अपतितत्वादप्रमाणं विदुषाम् । एवं सर्वतथागतपदार्था विद्वद्भिः प्रत्यवगन्तव्याः । यदप्युक्तं मया निरात्मानः सर्वधर्मा इति, तस्याप्यर्थं निबोद्धव्यं महामते । निरात्मभावो महामते नैरात्म्यम् । स्वात्मना सर्वधर्मा विद्यन्ते न परात्मना गोश्ववत् । तद्यथा महामते न गोभावो ऽश्वात्मको न चाश्वभावो गवात्मकः, न सन्नासत्, न च तौ स्वलक्षणतो न, विद्येते एव तौ स्वलक्षणतः, एवमेव महामते सर्वधर्मा न च स्वलक्षणेन न संविद्यन्ते । विद्यन्त एव । तेन च बालपृथग्जनैर्निरात्मार्थता अवबुध्यते विकल्पमुपादाय, न त्वविकल्पम् । एवं शून्यानुत्पादास्वाभाव्यं सर्वधर्मणां प्रत्यवगन्तव्यम् । एवं स्कन्धेभ्यो नान्यो नानन्यस्तथागतः । यद्यनन्यः स्कन्धेभ्यः स्यात्, अनित्यः स्यात् कृतत्वात्स्कन्धानाम् । अथान्यः स्यात्, द्वये सत्यन्यथा भवति गोविषाणवत् ॥
तत्र सादृश्यदर्शनादनन्यत्वं ह्रस्वदीर्घदर्शनादन्यत्वं सर्वभावानाम् । दक्षिणं हि महामते गोविषाणं वामस्यान्यद्भवति, वाममपि दक्षिणस्य । एवं ह्रस्वदीर्घत्वयोः परस्परतः । ( वैद्य 77 ) एवं वर्णवैचित्र्यतश्च । अतश्चापरस्परतो ऽन्यः । न चान्यस्तथागतः स्कन्धधात्वायनेभ्यः । एवं विमोक्षात्तथागतो नान्यो नानन्यः । तथागत एव मोक्षशब्देन देश्यते । यदि अन्यः स्यान्मोक्षात्तथागतः, रूपलक्षणयुक्तः स्यात् । रूपलक्षणयुक्तत्वादनित्यः स्यात् । अथानन्यः स्यात्, प्राप्तिलक्षणविभागो न स्याद्योगिनाम् । दृष्टश्च महामते विभागो योगिभिः । अतो नान्यो नानन्यः । एवं ज्ञानं ज्ञेयान्नान्यन्नानन्यत् । यद्धि महामते न नित्यं नानित्यं न कार्यं न कारणं न संस्कृतं नासंस्कृतं न बुद्धिर्न बोद्धव्यं न लक्ष्यं न लक्षणं न स्कन्धा न स्कन्धेभ्यो ऽन्यत् नाभिधेयं नाभिधानं नैकत्वान्यत्वोभयत्वानुभयत्वसंबद्धम्, तत्सर्वप्रमाणविनिवृत्तम् । यत्सर्वप्रमाणविनिवृत्तं तद्वाङ्भात्रं संपद्यते । यद्वाङ्भात्रं तदनुत्पन्नम् । यदनुत्पन्नं तदनिरुद्धम् । यदनिरुद्धं तदाकाशसमम् । आकाशं च महामते न कार्यं न कारणम् । यच्च न कार्यं न कारणं तन्निरालम्ब्यम् । यन्निरालम्ब्यं तत्सर्वप्रपञ्चातीतम् । यत्सर्वप्रपञ्चातीतं स तथागतः । एतद्धि महामते सम्यक्संबुद्धत्वम् । एषा सा बुद्धबुद्धता सर्वप्रमाणेन्द्रियविनिवृत्ता ॥
तत्रेदमुच्यते -
प्रमाणेन्द्रियनिर्मुक्तं न कार्यं नापि कारणम् ।
बुद्धिबोद्धव्यरहितं लक्ष्यलक्षणवर्जितम्
स्कन्धान् प्रतीत्य संबुद्धो न दृष्टः केनचित्क्वचित् ।
यो न दृष्टः क्वचित्केनचित्कथं तस्य विभावना
न कृतको नाकृतको न कार्यं नापि कारणम् ।
न च स्कन्धा न चास्कन्धा न चाप्यन्यत्र संकरात्
न हि यो येन भावेन कल्प्यमानो न दृश्यते ।
न तं नास्त्येव गन्तव्यं धर्माणामेव धर्मता
अस्तित्वपूर्वकं नास्ति अस्ति नास्तित्वपूर्वकम् ।
अतो नास्ति न गन्तव्यमस्तित्वं न च कल्पयेत्
आत्मनैरात्म्यसंमूढाद्धोषमात्रावलम्बिनः ।
अन्तद्वयनिमग्नास्ते नष्टा नाशेन्ति बालिशान्
सर्वदोषविनिर्मुक्तं यदा पश्यन्ति मन्नयम् ।
तदा सम्यक्प्रपश्यन्ति न ते दूषेन्ति नायकान्
अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत् - देशयतु मे भगवान्, देशयतु सुगतः, यद्देशनापाठे भगवता अनिरोधानुत्पादग्रहणं कृतम् । उक्तं च त्वया यथा तथागतस्यैतदधिवचनमनिरोधानुत्पाद इति । तत्किमयं भगवन् अभावो ऽनिरोधानुत्पादः, उत तथागतस्यैतत्पर्यायान्तरम्? यद्भगवानेवमाह - अनिरुद्धा अनुत्पन्नाश्च भगवता ( वैद्य 78 ) सर्वधर्मा देश्यन्ते सदसत्पक्षादर्शनात् । यद्यनुत्पन्नाः सर्वधर्मा इति भगवन् धर्मग्रहणं न प्राप्नोति, अजातत्वात्सर्वधर्माणाम् । अथ पर्यायान्तरमेतत्कस्यचिद्धर्मस्य, तदुच्यतां भगवन् । भगवानाह - तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु । भाषिष्ये ऽहं ते । साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत् । भगवांस्तस्यैतदवोचत् - न हि महामते अभावस्तथागतो न च सर्वधर्माणामनिरोधानुत्पादग्रहणम् । न प्रत्ययो ऽपेक्षितव्यो न च निरर्थकमनुत्पादग्रहणं क्रियते मया । किं तु महामते मनोमयधर्मकायस्य तथागतस्यैतदधिवचनं यत्र सर्वतीर्थकरश्रावकप्रत्येकबुद्धसप्तभूमिप्रतिष्ठितानां च बोधिसत्त्वानामविषयः । सो ऽनुत्पादस्तथागतस्य । एतन्महामते पर्यायवचनम् । तद्यथा महामते इन्द्रः शक्रः पुरंदरः, हस्यः करः पाणिः, तनुर्देहं शरीरम्, पृथिवी भूमिर्वसुंधरा, खमाकाशं गगनम् । इत्येवमाद्यानां भावानामेकैकस्य भावस्य बहवः पर्यायवाचकाः शब्दा भवन्ति विकल्पिताः । न चैषां नामबहुत्वाद्भावबहुत्वं विकल्प्यते । न च स्वभावो न भवति । एवं महामते अहमपि सहायां लोकधातौ त्रिभिर्नामासंख्येयशतसहस्रैर्बालानां श्रवणावभासमागच्छामि । तैश्चाभिलपन्ति माम्, न च प्रजानन्ति तथागतस्यैते नामपर्याया इति । तत्र केचिन्महामते तथागतमिति मां संप्रजानन्ति । केचित्स्वयंभुवमिति । नायकं विनायकं परिणायकं बुद्धमृषिं वृषभं ब्रह्माणं विष्णुमीश्वरं प्रधानं कपिलं भूतान्तमरिष्टनेमिनं सोमं भास्करं रामं व्यासं शुकमिन्द्रं बलिं वरुणमिति चैके संजानन्ति । अपरे अनिरोधानुत्पादं
शून्यतां तथतां सत्यतां भूततां भूतकोटिं धर्मधातुं निर्वाणं नित्यं समतामद्वयमनिरोधमनिमित्तं प्रत्ययं बुद्धहेतूपदेशं विमोक्षं मार्गसत्यानि सर्वज्ञं जिनं मनोमयमिति चैके संजानन्ति । एवमादिभिर्महामते परिपूर्णं त्रिभिर्नामासंख्येयशतसहस्रैरनूनैरनधिकैरिहान्येषु च लोकधातुषु मां जनाः संजानन्ते उदकचन्द्र इवाप्रविष्टनिर्गतम् । न च बाला अवबुध्यन्ते द्वयान्तपतितया संतत्या । अथ च सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति च मां पदार्थनिरुक्त्यकुशला अभिन्नसंज्ञाः, न स्वनयं प्रजानन्तिं देशनारुतपाठाभिनिविष्टाः । अनिरोधानुत्पादमभावं कल्पयिष्यन्ति न च तथागतनामपदपर्यायान्तरमिन्द्रशक्रपुरंदरं न स्वनयप्रत्यवस्थानपाठमधिमोक्षन्ति, यथारुतार्थपाठानुसारित्वात्सर्वधर्माणाम् । एवं च महामते वक्ष्यन्ति ते मोहपुरुषाः - यथारुत एवार्थः, अनन्यो ऽर्थो रुतादिति । तत्कस्य हेतोः? यदुत अर्थस्याशरीरत्वाद्रुतादन्यो ऽर्थो न भवति । किं तु रुतमेवार्थ इति रुतस्वभावापरिज्ञानादविदग्धबुद्धयः । न त्वेवं ज्ञास्यन्ति महामते यथा रुतमुत्पन्नप्रध्वंसि, अर्थो ऽनुत्पन्नप्रध्वंसी । रुतं महामते अक्षरपतितम्, अर्थो ऽनक्षरपतितः । भावाभावविवर्जितत्वादजन्माशरीरम् । न च महामते तथागता अक्षरपतितं धर्मं देशयन्ति । अक्षराणां सदसतो ऽनुपलब्धेः । अन्यत्र अक्षरपतिताशयः पुनर्महामते यो ऽक्षरपतितं धर्मं देशयति, स च प्रलपति, निरक्षरत्वाद्धर्मस्य । अत एतस्मात्कारणान्महामते उक्तं देशनापाठे मया अन्यैश्च बुद्धबोधिसत्त्वैः यथैकमप्यक्षरं तथागता नोदाहरन्ति न प्रत्याहरन्तीति । तत्कस्य ( वैद्य 79 ) हेतोः? यदुत अनक्षरत्वाद्धर्माणाम् । न च नार्थोपसंहितमुदाहरन्ति । उदाहरन्त्येव विकल्पमुपादाय । अनुपादानान्महामते सर्वधर्माणां शासनलोपः स्यात् । शासनानां लोपाच्च बुद्धप्रत्येकबुद्धश्रावकबोधिसत्त्वानामभावः स्यात् । तदभावात्किं कस्य देश्येत? अत एतस्मात्कारणान्महामते बोधिसत्त्वेन महासत्त्वेन देशनापाठरुतानभिनिविष्टेन भवितव्यम् । स व्यभिचारी महामते
देशनापाठः । सत्त्वाशयप्रवृत्तत्वान्नानाधिमुक्तिकानां सत्त्वानां धर्मदेशना क्रियते चित्तमनोमनोविज्ञानव्यावृत्त्यर्थं मया अन्यैश्च तथागतैरर्हद्भिः सम्यक्संबुद्धैः, न स्वप्रत्यात्मार्यज्ञानाधिगमप्रत्यवस्थानात् सर्वधर्मनिराभाअसस्वचित्तदृश्यमात्रावबोधाद्द्विधाविकल्पस्य व्यावृत्तितः । अर्थप्रतिशरणेन महामते बोधिसत्त्वेन महासत्त्वेन भवितव्यं न व्यञ्जनप्रतिशरणेन । व्यञ्जनानुसारी महामते कुलपुत्रो वा कुलदुहिता वा स्वात्मानं च नाशयति, परार्थांश्च नावबोधयति । कुदृष्टिपतितया संतत्या स्वपक्षं विभ्राम्यते कुतीर्थकैः सर्वधर्मभूमिस्वलक्षणाकुशलैः पदनिरुक्त्यनभिज्ञैः ॥
अथ सर्वधर्मभूमिस्वलक्षणकुशला भवन्ति पदपर्यायनिरुक्तिगतिंगता भावार्थयुक्तिकुशलाः । ततः स्वात्मानं च सम्यगनिमित्तसुखेन प्रीणयन्ति, परांश्च सम्यङ्महायाने प्रतिष्ठापयन्ति । महायाने च महामते सम्यक्परिगृह्यमाणे बुद्धश्रावकप्रत्येकबुद्धबोधिसत्त्वानां परिग्रहः कृतो भवति । बुद्धबोधिसत्त्वश्रावकप्रत्येकबुद्धपरिग्रहात्सर्वसत्त्वपरिग्रहः कृतो भवति । सर्वसत्त्वपरिग्रहात्सद्धर्मपरिग्रहः कृतो भवति । सद्धर्मपरिग्रहाच्च महामते बुद्धवंशस्यानुपच्छेदः कृतो भवति । बुद्धवंशस्यानुपच्छेदादायतनविशेषप्रतिलम्भाः प्रज्ञायन्ते । अतस्तेषु विशिष्टायतनप्रतिलम्भेषु बोधिसत्त्वा महासत्त्वा उपपत्तिं परिगृह्य महायाने प्रतिष्ठापनतया दशवशिताविचित्ररूपवेशधारिणो भूत्वा सत्त्वविशेषानुशयलक्षणगतिभूतास्तथात्वाय धर्मं देशयन्ति ॥
तत्र तथात्वमनन्यथात्वं तत्त्वम् । अनायूहानिर्यूहलक्षणं सर्वप्रपञ्चोपशमं तत्त्वमित्युच्यते । तेन न महामते कुलपुत्रेण वा कुलदुहित्रा वा यथारुतार्थाभिनिवेशकुशलेन भवितव्यम् । निरक्षरत्वात्तत्त्वस्य । न चाङ्गुलिप्रेक्षकेण भवितव्यम् । तद्यथा महामते अङ्गुल्या कश्चित्कस्यचित्किंचिदादर्शयेत् । स चाङ्गुल्यग्रमेव प्रतिसेरद्वीक्षितुम् । एवमेव महामते बालजातीया इव बालपृथग्जनवर्गा यथारुताङ्गुल्यग्राभिनिवेशाभिनिविष्टा एव कालं करिष्यन्ति, न यथारुताङ्गुल्यग्रार्थं हित्वा परमार्थमागमिष्यन्ति । तद्यथा महामते अन्नं भोज्यं बालानां च कश्चिदनभिसंस्कृतं परिभोक्तुम् । अथ कश्चिदनभिसंस्कृतं परिभुञ्जीत, स उन्मत्त इति विकल्प्येत अनुपूर्वसंस्कारानवबोधादन्नस्य, एवमेव महामते अनुत्पादो ऽनिरोधो नानभिसंस्कृतः शोभते । अवश्यमेवात्राभिसंस्कारेण भवितव्यम्, न चात्मानमङ्गुल्यग्रग्रहणार्थदर्शनवत् । अत एतेन कारणेन महामते अर्थाभियोगः करणीयः । अर्थो महामते विविक्तो निर्वाणहेतुः । रुतं विकल्पसंबद्धं संसारावाहकम् । अर्थश्च महामते बहुश्रुतानां ( वैद्य 80 ) सकाशाल्लभ्यते । बाहुश्रुत्यं च नाम महामते यदुत अर्थकौशल्यं न रुतकौशल्यम् । तत्रार्थकौशल्यं यत्सर्वतीर्थकरवादासंसृष्टं दर्शनम् । यथा स्वयं च न पतति परांश्च न पातयति । एवं सत्यर्थे महामते बाहुश्रुत्यं भवति । तस्मादर्थकामेन ते सेवनीयाः । अतो विपरीता ये यथारुतार्थाभिनिविष्टास्ते वर्जनीयास्तत्त्वान्वेषिणा ॥
पुनरपरं महामतिर्बुद्धाधिष्ठानाधिष्ठित एवमाह - न भगवता अनिरोधानुत्पाददर्शनेन किंचिद्विशिष्यते । तत्कस्य हेतोः? सर्वतीर्थकराणामपि भगवन् कारणान्यनुत्पन्नान्यनिरुद्धानि । तवापि भगवन् आकाशमप्रतिसंख्यानिरोधो निर्वाणधातुश्चानिरोधो ऽनुत्पन्नः । तीर्थकरा अपि भगवन् कारणप्रत्ययहेतुकीं जगत उत्पत्तिं वर्णयन्ति । भगवानपि अज्ञानतृष्णाकर्मविकल्पप्रत्ययेभ्यो जगत उत्पत्तिं वर्णयति । तस्यैव कारणस्य संज्ञान्तरविशेषमुत्पाद्य प्रत्यया इति । एवं बाह्यैः प्रत्ययैर्बाह्यानाम् । ते च त्वं च भावानामुत्पत्तये । अतो निर्विशिष्टो ऽयं भगवन् वादस्तीर्थकरवादेन भवति । अणुप्रधानेश्वरप्रजापतिप्रभृतयो नवद्रव्यसहिता अनिरुद्धा अनुत्पन्नाः । तवापि भगवन् सर्वभावा अनुत्पन्नानिरुद्धाः सदसतो ऽनुपलब्धेः । भूताविनाशाच्च स्वलक्षणं नोत्पद्यते, न निरुध्यते । यां तां गतिं गत्वा भूतो भूतस्वभावं न विजहाति । भूतविकल्पविकारो ऽयं भगवन् सर्वतीर्थकरैर्विकल्प्यते त्वया च । अत एतेन कारणेन अविशिष्टो ऽयं वादः । विशेषो वात्र वक्तव्यो येन तथागतवादो विशेष्यते, न सर्वतीर्थकरवादः । अविशिष्यमाणे भगवन् स्ववादे तीर्थकराणामपि बुद्धप्रसङ्गः स्यादनिरोधानुत्पादहेतुत्वात् । अस्थानमनवकाशं चोक्तं भगवता यदेकत्र लोकधातौ बहवस्तथागता उत्पद्येरन्निति । प्राप्तं चैतत्तथागतबहुत्वं सदसत्कार्यपरिग्रहाच्चाविशिष्यमाणे स्ववादे ॥
भगवानाह - न मम महामते अनिरोधानुत्पादस्तीर्थकरानुत्पादानिरोधवादेन तुल्यो नाप्युत्पादानित्यवादेन । तत्कस्य हेतोः? तीर्थकराणां हि महामते भावस्वभावो विद्यत एवानुत्पन्नाविकरलक्षणप्राप्तः । न त्वेवं मम सदसत्पक्षपतितः । मम तु महामते सदसत्पक्षविगत उत्पादभङ्गविरहितो न भावो नाभाअवः, मायास्वरूपवैचित्र्यदर्शनवन्नाभावः । कथं न भावः? यदुत रूपस्वभावलक्षणग्रहणाभावाद्दृश्यादृश्यतो ग्रहणाग्रहणतः । अत एतस्मात्कारणात्सर्वभावा न भावा नाभावाः । किं तु स्वचित्तदृश्यमात्रावबोधाद्विकल्पस्याप्रवृत्तेः स्वस्थो लोको निष्क्रियः । बालाः क्रियावन्तं कल्पयन्ति, न त्वार्याः । अभूतार्थविकल्पार्थविभ्रम् एष महामते गन्धर्वनगरमायापुरुषवत् । तद्यथा महामते कश्चिद्गन्धर्वनगरे बालजातीयो मायापुरुषसत्त्वसार्थवैचित्र्यं प्रविअशन्तं वा निर्गच्छन्तं वा कल्पयेत् - अमी प्रविष्टा अमी निर्गताः । न च तत्र कश्चित्प्रविष्टो वा निर्गतो वा । अथ यावदेव विकल्पविभ्रमभाव एषः, तेषामेवमेव महामते उत्पादानुत्पादविभ्रम एष बालानाम् । न चात्र कश्चित्संस्कृतो ऽसंस्कृतो वा मायापुरुषोत्पत्तिवत् । न च मायापुरुष उत्पद्यते वा निरुध्यते वा भावाभावाकिंचित्करत्वात् । एवमेव सर्वधर्मा भङ्गोत्पादवर्जिताः । अन्यत्र वितथपतितया संज्ञया बाला उत्पादनिरोधं कल्पयन्ति न त्वार्याः । तत्र वितथमिति महामते न तथा यथा भावस्वभावः कल्प्यते । ( वैद्य 81 ) नाप्यन्यथा । अन्यथा कल्प्यमाने सर्वभावस्वभावाभिनिवेश एव स्यात् । न विविक्तदर्शनाविविक्तदर्शनाद्विकल्पस्य व्यावृत्तिरेव न स्यात् । अत एतस्मात्कारणान्महामते अनिमित्तदर्शनमेव श्रेयो न निमित्तदर्शनम् । निमित्तं पुनर्जन्महेतुत्वादश्रेयः । अनिमित्तमिति महामते विकल्पस्याप्रवृत्तिरनुत्पादो निर्वाणमिति वदामि । तत्र निर्वाणमिति महामते यथाभूतार्थस्थानदर्शनं विकल्पचित्तचैत्तकलापस्य परावृत्तिपूर्वकम् । तथागतस्वप्रत्यात्मार्यज्ञानाधिगमं निर्वाणमिति वदामि ॥
तत्रेदमुच्यते -
उत्पादविनिवृत्त्यर्थमनुत्पादप्रसाधकम् ।
अहेतुवादं देशेमि न च बालैर्विभाव्यते
अनुत्पन्नमिदं सर्वं न च भावा न सन्ति च ।
गन्धर्वस्वप्नमायाख्या भावा विद्यन्त्यहेतुकाः
अनुत्पन्नस्वभावाश्च शून्याः केन वदाहि मे ।
समवायाद्विनिर्मुक्तो बुद्ध्या भावो न गृह्यते ।
तस्माच्छून्यमनुत्पन्नं निःस्वभावं वदाम्यहम्
समवायस्तथैकैकं दृश्याभावान्न विद्यते ।
न तीर्थ्यदृष्ट्यप्रलयात्समवायो न विद्यते
स्वप्न केशोण्डुकं माया गन्धर्वं मृगतृष्णिका ।
अहेतुकानि दृश्यन्ते तथा लोकविचित्रता
निगृह्याहेतुवादेन अनुत्पादं प्रसाधयेत् ।
अनुत्पादे प्रसाध्यन्ते मम नेत्री न नश्यति ।
अहेतुवादे देश्यन्ते तीर्थ्यानां जायते भयम्
कथं केन कुतः कुत्र संभवो ऽहेतुको भवेत् ।
नाहेतुको न हेतुभ्यो यदा पश्यन्ति संस्कृतम् ।
तदा व्यावर्तते दृष्टिर्विभङ्गोत्पादवादिनी
किमभावो ह्यनुत्पाद उत प्रत्ययवीक्षणम् ।
अथ भावस्य नामेदं निरर्थं वा ब्रवीहि मे
न चाभावो ह्यनुत्पादो न च प्रत्ययवीक्षणम् ।
न च भावस्य नामेदं न च नाम निरर्थकम्
यत्र श्रावकप्रत्येकबुद्धानां तीर्थ्यानां च अगोचरः ।
सप्तभूमिगतानां च तदनुत्पादलक्षणम्
हेतुप्रत्ययव्यावृत्तिं कारणस्य निरोधनम् ।
चित्तमात्रव्यवस्थानमनुत्पादं वदाम्यहम्
अहेतुवृत्तिर्भावानां कल्प्यकल्पनवर्जितम् ।
सदसत्पक्षनिर्मुक्तमनुत्पादं वदाम्यहम्
चित्तं दृश्यविनिर्मुक्तं स्वभावद्वयवर्जितम् ।
आश्रयस्य परावृत्तिमनुत्पादं वदाम्यहम्
न बाह्यभावं नाभावं नापि चित्तपरिग्रहः ।
स्वप्नं केशोण्डुकं माया गन्धर्वं मृगतृष्णिका ।
सर्वदृष्टिप्रहाणं च तदनुत्पादलक्षणम्
एवं शून्यास्वभावाद्यान् पदान् सर्वान् विभावयेत् ।
न जातु शून्यया शून्या किं त्वनुत्पादशून्यया
कलापः प्रत्ययानां च प्रवर्तते निवर्तते ।
कलापाच्च पृथग्भूतं न जातं न निरुध्यते
भावो न विद्यते ऽन्यो ऽन्यः कलापाच्च पृथक् क्वचित् ।
एकत्वेन पृथक्त्वेन यथा तीर्थ्यैर्विकल्प्यते
असन्न जायते भावो नासन्न सदसत्क्वचित् ।
अन्यत्र हि कलापो ऽयं प्रवर्तते निवर्तते
संकेतमात्रमेवेदमन्योन्यापेक्षसंकला ।
अन्यमर्थं न चैवास्ति पृथक्प्रत्ययसंकलात्
जन्याभावादनुत्पादं तीर्थ्यदोषविवर्जितम् ।
देशेमि संकलामात्रं न च बालैर्विभाव्यते
यस्य जन्यो भवेद्भावः संकलायाः पृथक् क्वचित् ।
अहेतुवादी विज्ञेयः संकलाया विनाशकः
प्रदीपो द्रव्यजातीनां व्यञ्जकः संकला भवेत् ।
यस्य भावो भवेत्कश्चित्संकलायाः पृथक् क्वचित्
अस्वभावा ह्यनुत्पन्नाः प्रकृत्या गगनोपमाः ।
संकलायाः पृथग्भूता ये धर्माः कल्पिताबुधैः
अन्यमन्यमनुत्पादमार्याणां प्राप्तिधर्मता ।
यस्य जातिनमुत्पादं तदनुत्पादे क्षान्तिः स्यात्
यदा सर्वमिमं लोकं संकलामेव पश्यति ।
संकलामात्रमेवेदं तदा चित्तं समाध्यते
अज्ञानतृष्णाकर्मादिः संकलाध्यात्मिको भवेत् ।
खेजमृद्भाण्डचक्रादि बीजभूतादि बाहिरम्
परतो यस्य वै भावः प्रत्ययैर्जायते क्वचित् ।
न संकलामात्रमेवेदं न ते युक्त्यागमे स्थिताः
यदि जन्यो न भावो ऽस्ति स्याद्बुद्धिः कस्य प्रत्ययात् ।
अन्योन्यजनका ह्येते तेनैते प्रत्ययाः स्मृताः
उष्णद्रवचलकठिना धर्मा बालैर्विकल्पिताः ।
कलापो ऽयं न धर्मो ऽस्ति अतो वै निःस्वभावता
वैद्या यथातुरवशात्क्रियाभेदं प्रकुर्वते ।
न तु शास्त्रस्य भेदो ऽस्ति दोषभेदात्तु भिद्यते
तथाहं सत्त्वसंतानं क्लेशदोषैः सदूषितैः ।
इन्द्रियाणां बलं ज्ञात्वा नयं देशेमि प्राणिनाम्
न क्लेशेन्द्रियभेदेन शासनं भिद्यते मम ।
एकमेव भवेद्यानं मार्गमष्टाङ्गिकं शिवम्
अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत् - अनित्यता अनित्यतेति भगवन् सर्वतीर्थकरैर्विकल्प्यते । त्वया च सर्वदेशनापाठे देश्यते - अनित्या बत संस्कारा उत्पादव्ययधर्मिण इति । तत्किमियं भगवंस्तथ्या मिथ्येति? कतिप्रकारा भगवन् अनित्यता? भगवानाह - अष्टप्रकारा हि महामते सर्वतीर्थकरैरनित्यता कल्प्यते, न तु मया । कतमाष्टप्रकारा? तत्र केचित्तावन्महामते आहुः - प्रारम्भविनिवृत्तिरनित्यतेति । प्रारम्भो नाम महामते उत्पादो ऽनुत्पादो ऽनित्यता । अन्ये संस्थानविनिवृत्तिमनित्यतां वर्णयन्ति । अन्ये रूपमेवानित्यमिति । अन्ये रूपस्य विकारान्तरमनित्यताम् । नैरन्तर्यप्रबन्धेन स्वरसभङ्गभेदं सर्वधर्माणां क्षीरदधिपरिणामविकारान्तरवददृष्टनष्टा सर्वभावेषु प्रवर्तते न नित्यतेति । अन्ये पुनर्भावमनित्यतां कल्पयन्ति । अन्ये भावाभावमनित्यतां कल्पयन्ति । अन्ये अनुत्पादानित्यतां सर्वधर्माणामनित्यतायाश्च तदन्तर्गतत्वात् । तत्र महामते भावाभावानित्यता नाम यदुत भूतभौतिकस्वलक्षणविनाशानुपलब्धिरप्रवृत्तिर्भूतस्वभावस्य । तत्र अनुत्पादानित्यता नाम यदुत नित्यमनित्यं सदसतोरप्रवृत्तिः सर्वधर्माणामदर्शनं परमाणुप्रविचयाददर्शनम् । अनुत्पादस्यैतदधिवचनं नोत्पादस्य । एतद्धि महामते अनुत्पादानित्यताया लक्षणं यस्यानवबोधात्सर्वतीर्थकरा उत्पादानित्यतावादे प्रपतन्ति ॥
पुनरपरं महामते यस्य भावो नित्यता, तस्य स्वमतिविकल्पेनैव नित्यता नानित्यता भावः । तत्कस्य हेतोः? यदुत स्वयमविनाशित्वादनित्यतायाः । इह महामते सर्वभावानामभावो ऽनित्यतायाः कार्यम् । न चानित्यतामन्तरेण सर्वभावाभाव उपलभ्यते दण्डशिलामुद्गरान्यतरभेद्यभेदकवत् । अन्योन्याविशेषदर्शनं दृष्टम् । अतो ऽनित्यता कारणं सर्वभावाभावः कार्यम् । न च कार्यकारणयोर्विशेषो ऽस्ति इयमनित्यता इदं कार्यमिति । अविशेषात्कार्यकारणयोर्नित्याः सर्वभावा अहेतुकत्वाद्भाअवस्य । सर्वभावाभावो हि महामते अहेतुकः । न ( वैद्य 84 ) च बालपृथग्जना अवबुध्यन्ते । न च कारणं विसदृशं कार्यं जनयति । अथ जनयेत्, तेषामनित्यता सर्वभावानां विसदृशं कार्यं स्यात्, कार्यकारणविभागो न स्यात् । दृष्टश्च कार्यकारणविभागस्तेषाम् । यदि वा अनित्यता अभावः स्यात्, क्रियाहेतुभावलक्षणपतितश्च स्यात्, एकभावेन वा परिसमाप्तः स्यात्सएर्वभावेषु । क्रियाहेतुभावलक्षणपतितत्वाच्च स्वयमेवानित्यता नित्या स्यात्, अनित्यत्वादयः सर्वभावा नित्याः स्युर्नित्या एव भवेयुः ॥
अथ सर्वभावान्तर्गता अनित्यता, तेन त्र्यध्वपतिता स्यात् । तत्र यदतीतं रूपं तत्तेन सह विनष्टम् । अनागतमपि नोत्पन्नम् । रूपानुत्पत्तितया वर्तमानेनापि रूपेण सहाभिन्नलक्षणम् । रूपं च भूतानां संनिवेशविशेषः । भूतानां भौतिकस्वभावो न विनश्यते अन्यानन्यविवर्जितत्वात् । सर्वतीर्थकराणामविनाशात्सर्वभूतानां सर्वं त्रिभवं भूतभौतिकं यत्रोत्पादस्थितिविकारः प्रज्ञप्यते । किमन्यदनित्यं भूतभौतिकविनिर्मुक्तं यस्यानित्यता कल्प्यते तीर्थकरैः? भूतानि च न प्रवर्तन्ते न निवर्तन्ते स्वभावलक्षणाभिनिवेशात् ॥
तत्र प्रारम्भविनिवृत्तिर्नाम अनित्यता - न पुनर्भूतानि भूतान्तरमारभन्ते परस्परविलक्षणस्वलक्षणान्न विशेषः प्रारभ्यते । तदविशेषात्तेषामपुनरारम्भाद्द्विधायोगादनारम्भस्यानित्यताबुद्धयो भवन्ति ॥
तत्र संस्थानविनिवृत्तिर्नाम अनित्यता - यदुत न भूतभौतिकं विनश्यति आ प्रलयात् । प्रलयो नाम महामते आ परमाणोः प्रविचयपरीक्षा विनाशो भूतभौतिकस्य संस्थानस्यान्यथाभूतदर्शनाद्दीर्घह्रस्वानुलब्धिः । न परमाणुभूतेषु विनाशाद्भूतानां संस्थानविनिवृत्तिदर्शनात्सांख्यवादे प्रपतन्ति ॥
तत्र संस्थानानित्यता नाम - यदुत यस्य रूपमेवानित्यं तस्य संस्थानस्यानित्यता न भूतानाम् । अथ भूतानामनित्यता स्यात्, लोकसंव्यवहाराभावः स्यात् । लोकसंव्यवहाराभावाल्लोकायतिकदृष्टिपतितः स्यात्, वाग्मात्रत्वात्सर्वभावानाम् । न पुनः स्वलक्षणोत्पत्तिदर्शनात् ॥
तत्र विकारानित्यता नाम - यदुत रूपस्यान्यथाभूतदर्शनं न भूतानां सुवर्णसंस्थानभूषणविकारदर्शनवत् । न सुवर्णं भावाद्विनश्यति किं तु भूषणसंस्थानविनाशो भवति ॥
ये चान्ये विकारपतिताः, एवमाद्यादिभिः प्रकारैस्तीर्थकरैरनित्यतादृष्टिर्विकल्प्यते । भूतानि हि दह्यमानान्यग्निना स्वलक्षणत्वान्न दह्यन्ते । अन्योन्यतः स्वलक्षणविगमान्महाभूतभौतिकभावोच्छेदः स्यात् ॥
मम तु महामते न नित्या नानित्या । तत्कस्य हेतोः? यदुत बाह्यभावानभ्युपगमात्रिभवचित्तमात्रोपदेशाद्विचित्रलक्षणानुपदेशान्न प्रवर्तते न निवर्तते महाभूतसंनिवेशविशेषः । न भूतभौतिकत्वाद्विकल्पस्य द्विधा प्रवर्तते ग्राह्यग्राहकालक्षणता । विकल्पस्य प्रवृत्तिद्वयपरिज्ञानाद्बाह्यभावाभावदृष्टिविगमात्स्वचित्तमात्रावबोधाद्विकल्पो विकल्पाभिसंस्कारेण प्रवर्तते नानभिसंस्कुर्वतः । चित्तविकल्पभावाभावविगमाल्लौकिकलोकोत्तरतमानां सर्वधर्माणां ( वैद्य 85 ) न नित्यता नानित्यता । स्वचित्तदृश्यमात्रानवबोधात्कुदृष्ट्यान्तद्वयपतितया संतत्या सर्वतीर्थकरैः स्वविकल्पानवबोधात्कथापुरुषैरसिद्धपूर्वैरनित्यता कल्प्यते । त्रिविधं च महामते सर्वतीर्थकरलौइकिकलोकोत्तरतमानां सर्वधर्माणां लक्षणं वाग्विकल्पविनिःसृतानाम् । न च बालपृथग्जना अवबुध्यन्ते ॥
तत्रेदमुच्यते -
प्रारम्भविनिवृत्तिं च संस्थानस्यान्यथात्वताम् ।
भावमनित्यतां रूपं तीर्थ्याः कल्पेन्ति मोहिताः
भावानां नास्ति वै नाशं भूता भूतात्मना स्थिताः ।
नानादृष्टिनिमग्नास्ते तीर्थ्याः कल्पेन्ति नित्यताम्
कस्यचिन्न हि तीर्थ्यस्य विनाशो न च संभवः ।
भूता भूतात्मना नित्याः कस्य कल्पेन्त्यनित्यताम्
चित्तमात्रमिदं सर्वं द्विधा चित्तं प्रवर्तते ।
ग्राह्यग्राहकभावेन आत्मात्मीयं न विद्यते
ब्रह्मादिस्थानपर्यन्तं चित्तमात्रं वदाम्यहम् ।
चित्तमात्रविनिर्मुक्तं ब्रह्मादिर्नोपलभ्यते
मूल पाठ: Saddharmalaṅkāvatārasūtra · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1963, (Buddhist Sanskrit Texts, 3) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0