भाषा

ENहिગુ
ग्रंथ पाठ

सभिकसौगतशासनप्रव्रज्याव्रतचरणपरिवर्त · श्लोक 81-100

81

तत्र सर्वसभामध्ये संवदिष्यामहे मिथः ।
मया चेन् निर्जिता त्वं स्त्री तदा लोके न निन्दिता

82

किम् आश्चर्यं जिता बाला पुंसा सतेति वक्ष्यते ।
यदि तत्र सभामध्ये निर्जितो ऽहं त्वया स्त्रिया

83

तदा लोके भविष्यामि निन्द्यमानः समन्ततः ।
पुमान् अपि द्विजः प्राज्ञो बालयापि स्त्रिया जितः

84

इति हास्यपथं यास्ये विद्याकरो ऽतिविश्रुतः ।
इति त्वया तदा तत्र संवादे नौ प्रवर्तिते

85

अन्ते प्रत्युत्तरं नैव दातव्यम् अपि किंचन ।
तथा जित्वा मया त्वं स्त्री शिष्यापि मे भवेस् तदा

86

एवं समागमं नौ स्याद् वावज् जीवं सुखं महत् ।
इति तदुक्तम् आकर्ण्य सा कामरागदाहिता

87

तथेति पतिभाषित्वा ब्राह्मणं तं व्यनोदयत् ।
एवं स ब्राह्मणस् तत्र कृत्वाभिसमयं तया ।
लोकासमीक्ष्यमाणश् च स्वालये प्राचरन् मुदा

88

ततो ऽन्यस्मिन् दिने प्रातः विद्वान् कामसमुत्सुकः ।
महाजनसभामध्ये गत्वामन्त्र्यैवम् अब्रवीत्

89

भवन्तो ऽद्य तया सार्धं परिव्राजिकया सह ।
संवादं कर्तुम् इच्छामि तद् आनयन्तु तां द्रुतं

90

इति तेनोदितं श्रुत्वा सर्वे ऽपि ते महाजनाः ।
तथेति समुपामन्त्र्य तां यतिम् एवम् अब्रुवन्

91

भवति यद् अयं विप्रः सर्वशास्त्रविचक्षणः ।
भवत्या सह संवादं कर्तुम् अद्य समिच्छति

92

तद् भवन्ती सहानेन विवदितुं यदीच्छति ।
तत्र रंगे सभामध्ये समागत्याभितिष्ठतु

93

इति तदुक्तम् आकर्ण्य सा परिव्राजिका मुदा ।
तं भर्तारम् अभीच्छन्ती रंगभूम्यां समाश्रयत्

94

विद्याकरो ऽपि आगत्य तत्र रंगे सभाश्रये ।
महाधीमुखैन् आलोक्य प्रमनाः समुपाश्रयत्

95

तत्र रंगे सभामध्ये ताव् उभौ समुपाश्रितौ ।
दृष्ट्वा श्रुत्वापि ते सर्वे महाजना उपाश्रयन्

96

तद् द्रष्टुं कौतुकाक्रान्तं विप्राश् च ब्रह्मचारिणः ।
नृपतिप्रमुखा लोकाः सर्वे तत्र समागताः

97

तथान्ये ऽपि जनाः सन्तः शिल्पिवणिक्प्रजादयः ।
सर्वे ऽत्र समुपायातास् तद् द्रष्टुं समुपाश्रयन् ॥ स्व्प्_*96* ॥
तान् द्रष्टुं समुपासीनान् सर्वांल् लोकान् समीक्ष्य सः ।
ब्राह्मण उत्थितः पश्यन् साञ्जलिर् एवम् अब्रवीत्

98

भवन्तो ऽत्र यद् अस्माभिः स्वम् अतिमदमानिकं ।
कृतं वटुकचापल्यं कर्तुम् अर्हन्तु तत् क्षमां

99

यदि मया विवादे ऽत्र नारीयं निर्जिता तदा ।
किम् आश्चर्यं वदेल् लोकः पुंसा नारी जितेति च

100

यद्य् एतया स्त्रियाप्य् अत्र विवादे ऽहं विनिर्जितः ।
पुमान् अपि जितो नार्या हीति स्यां सर्वनिन्दितः

मूल पाठ: Sabhikasaugataśāsanapravrajyāvratacaraṇaparivarta · Edition: Tilak Raj Chopra. "BHS triyantara and Hindi teṃtara ḥ Notes on a Folk-belief in the Mahāvastu and Some Other Buddhist Sanskrit Texts (Supplement: Text of the Sabhika-Parivarta, edited for the First Time from Manuscripts)". In: Frank-Richard Hamm Memorial Volume, October 8, 1990, ed. H. Eimer. Bonn 1990 (Indica et Tibetica, 21), pp. 19-46. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc