सभिकसौगतशासनप्रव्रज्याव्रतचरणपरिवर्त · श्लोक 101-120
तद् अत्र समयं कृत्वा विवादं कर्तुम् उत्सहे ।
तद् भवन्तो ऽपि मध्यस्था द्रष्टुम् अर्हन्तु साधवः
यद्य् एषात्र विवादे मां पराजेतुं हि शक्नुयात् ।
अस्याः शिष्यत्वम् आसाद्य भवेयाहं सदानुगः
यद्य् अत्राहम् इमां जित्वा जयश्रियं समाप्नुयां ।
मम शिष्यत्वम् आसाद्य भवेद् एषा सदानुगा
इति संप्रार्थ्य विप्रो ऽसौ तां परिव्राजिकां सतीं ।
पश्यन् व्याकरणपृश्नं पृष्ट्वा समभ्यचोदयत्
तत्प्रत्युत्तरम् उद्दिश्य सा परिव्राजिका सुधीः ।
ब्राह्मणं तं विनिर्जित्य व्यस्माययन् सभाजनान्
तच् छ्रुत्वा ते जनाः सर्वे विस्मयापन्नमानसाः ।
प्राज्ञेयं यतिर् इत्य् उक्त्वा स्वस्वालयम् उपाचरम्
तत् परेद्युस् तथा तत्र सा परिव्राजिकागता ।
ते ऽपि सन्तो जनाः सर्वे समागत्य समाश्रयन्
ततः स ब्राह्मणस् तत्र सभामध्ये समाश्रितः ।
तां परिव्राजिकां पश्यञ् च्छास्त्रार्थं पर्यपृच्छत
तच् छास्त्रार्थं समाख्याय युवतिर् अपि सा सुधीः ।
विद्वांसम् अपि तं जित्वा सर्वान् सतो ऽन्वमोदयत्
एवं च तृतीये ऽप्य् अह्नि सा योषिद् अपि सन्मतिः ।
सर्वकलाभिसंवादे विस्पष्टार्थम् उदाहरत्
एवं तुर्यदिने चापि पञ्चमे दिवसे तथा ।
षष्ठे ऽपि वासरे सैवं यथार्थं समुपादिशत्
एवं स ब्राह्मणस् तत्र सप्तमे ऽह्नि समाश्रिते ।
क्रियाबन्धं तय कृत्वा रंगभूमिम् उपासरत्
त्रपाकुलचित्त इव जनान् आह सुचातुरः ।
अद्याप्य् अहं यदि जितस् तस्याः स्याम् अनुगो ननु
जेष्यति प्रत्यहं सैवम् एकस्मिन्न् अप्य् अहं किमु ।
वाणीच्छलाज् जिता सा तु यतो योषित् सरस्वती
इति प्रोक्त्वा द्विजः कामी कामातुरीं महाधियं ।
प्रगल्भवचसा नारिं वेदान्तं समपृच्छत
तत्र विज्ञापि सा साध्वी स्मृत्वाभिसमयं सुधीः ।
अपि प्रत्युत्तरं किञ्चिद् असमर्थैव नो ददौ
ततः स ब्राह्मणः पश्यन् महाजनान् सभाश्रितान् ।
सानन्दसुप्रसन्नास्यः साञ्जलिर् एवम् अब्रवीत्
भवन्तो दृश्यताम् अत्र लभते को जयश्रियं ।
इति समीक्ष्य प्राख्यातुम् अर्हन्ति मान्यथा खलु
इति तत् प्रार्थितं श्रुत्वा सर्वे ऽपि ते सभाजनाः ।
विद्यानिधिं महाप्राज्ञं संप्रशंस्यैवम् अब्रुवन्
कोविदात्र भवाञ् जेता यतिर् एषा पराजिता ।
तद् इयं भवतः शिष्या भवेत सर्वदानुगा
मूल पाठ: Sabhikasaugataśāsanapravrajyāvratacaraṇaparivarta · Edition: Tilak Raj Chopra. "BHS triyantara and Hindi teṃtara ḥ Notes on a Folk-belief in the Mahāvastu and Some Other Buddhist Sanskrit Texts (Supplement: Text of the Sabhika-Parivarta, edited for the First Time from Manuscripts)". In: Frank-Richard Hamm Memorial Volume, October 8, 1990, ed. H. Eimer. Bonn 1990 (Indica et Tibetica, 21), pp. 19-46. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0