भाषा

ENहिગુ
ग्रंथ पाठ

सभिकसौगतशासनप्रव्रज्याव्रतचरणपरिवर्त · श्लोक 61-80

61

तां परिव्राजिकां साध्वीं समामन्त्र्यैवम् अब्रुवन् ।
भो भद्रे ब्राह्मणो विद्वान् भवतीं द्रष्टुम् इच्छति

62

तद् भवती तम् आमन्त्र्य संदर्शयतु सादरं ।
इति तदुक्तम् आकर्ण्य सा परिव्राजिका मुदा

63

तं विद्वांसं समामन्त्र्य पुरतः समुपाश्रयत् ।
तां परिव्राजिकां कान्तां मनोरमातिसुन्दरीं

64

समीक्ष्य सुचिरं तस्थौ रागाग्निज्वलिताशयः ।
सा परिव्राजिका चापि दृष्ट्वा तं सुन्दरं द्विजं

65

संरागव्याकुलस्वान्ता पश्यन्त्य् एव समाश्रयत् ।
तयोर् द्वयोर् दैवयोगाद् रागवह्निः समुत्थितः

66

तेनाभिद्रवितस्वान्तौ स्नेहरक्तौ बभूवतुः ।
ततः स ब्राह्मणः कान्तो युवा रागाकुलेन्द्रियः

67

तां कान्तां यौवनीं रामां संपश्यन् रह अब्रवीत् ।
अयि भद्रे सुभद्रांगि त्वां दृष्ट्वा मम मानसं

68

रागाग्निर् दीप्यते दग्धुं तच् छमीकर्तुम् अर्हति ।
यदि ते ऽस्ति दया भद्रे ब्राह्मणे ऽस्मिन् विचक्षणे

69

तत् सुदृष्ट्या समालोक्य माम् आश्वास्याभिनन्दय ।
इति तदुक्तम् आकर्ण्य सा परिव्राजिका अपि

70

कामरागाविलस्वान्ता तस्थौ संमोहिता यथा ।
एवं संमोहितस्वान्तां तां वीक्ष्य ब्राह्मणो ऽपि सः

71

आलिंग्य सुदृशापश्यन् समाश्वास्यैवम् अब्रवीत् ।
अयि भद्रे यदि ते ऽस्ति स्नेहमैत्रमनो मयि

72

श्रुत्वा मे ऽभिहितं वाक्यं चित्तं समभिनन्दय ।
सुमते यन् मया सार्धं विवादं कर्तुम् इच्छसि

73

अहम् अपि त्वया सार्धं विवादं कर्तुम् उत्सहे ।
तद् यदि ते मयि स्नेहस् तन् मे हितं वचः शृणु

74

तन् मनसा समाधाय समभिकर्तुम् अर्हति ।
इति तदुक्तम् आकर्ण्य कामातुरा महासुधीः

75

विद्याकरं समालोक्य विहसंत्य् एवम् अब्रवीत् ।
भो द्विजेन्द्र महाप्राज्ञ समादिष्टं त्वया यथा

76

तथाहं कर्तुम् इच्छामि सत्यम् इति प्रवक्ष्यतां ।
इति तया समाख्यातं श्रुत्वासौ चातुरो मुदा

77

तां स्मिताननः प्राह मनोजरसविह्वलः ।
यद्य् एवं क्रियते रामे तथावयोः समागमं

78

यावज् जीवं सुखं भुक्त्वा रममाणौ चरेमहि ।
तद् अभिसमयं कृत्वा गुप्तम् आवां विधाय तत्

79

एवं तत्र सभामध्ये संलपिष्यावहे किल ।
यो ऽत्र विवादिते जेता तस्य स हतमानिकः

80

शरणे प्राप्य शिष्यत्वं संचरेत सदानुगः ।
इत्य् अभिसमयं कृत्वा साक्षीकृत्वा महाजनान्

मूल पाठ: Sabhikasaugataśāsanapravrajyāvratacaraṇaparivarta · Edition: Tilak Raj Chopra. "BHS triyantara and Hindi teṃtara ḥ Notes on a Folk-belief in the Mahāvastu and Some Other Buddhist Sanskrit Texts (Supplement: Text of the Sabhika-Parivarta, edited for the First Time from Manuscripts)". In: Frank-Richard Hamm Memorial Volume, October 8, 1990, ed. H. Eimer. Bonn 1990 (Indica et Tibetica, 21), pp. 19-46. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc