सभिकसौगतशासनप्रव्रज्याव्रतचरणपरिवर्त · श्लोक 41-60
भो भवन्तस् तया सार्धं संवादं कर्तुम् उत्सहे ।
तद् एनां समुपानीय दर्शयन्तु पुरो मम
इति तेन समाख्यातं श्रुत्वा तथेति ते जनाः ।
सहसा तत्राश्रमे गत्वा तस्या यतेर् उपाश्रयन्
तान् वीक्ष्य समुपासीनान् सा परिव्राजिका मुदा ।
किमर्थम् आगता यूयम् इति संपर्यपृच्छत
तच् छ्रुत्वा ते जनाः सर्वे नत्वा सांजलयो मुदा ।
तां महाधियम् आपश्यन् माथुरा एवम् अब्रुवन्
एको ऽत्र ब्राह्मणो विद्वान् सर्वशास्त्रविचक्षणः ।
वेदान्तपारगो विज्ञो दक्षिणातः समागतः
तत् तेन सह संवादं कर्तुं यदि त्वम् इच्छसि ।
सर्वलोकसभामध्ये स्वगुणं संप्रकाशय
शक्नोसि यदि विज्ञेन संवादं कुरु मानिनि ।
पराजिता चेत् तेन त्वं वयम् अप्य् उपहास्यतां
इति तैर् उक्तम् आकर्ण्य सा परिव्राजिका सुधीः ।
वाढम् इच्छामि संवादं कर्तुं तेन द्विजेन हि
सर्वलोकसभामध्ये दर्शयिष्यामि मद्गुणं ।
इति तया समुदितं श्रुत्वा सर्वे सविस्मयाः
सर्वेमे तत् प्रवृत्तान्तं राज्ञः पुरो न्यवेदयन् ।
तत् समाकर्ण्य राजा स यथामूभ्यां प्रभाषितं
कारयत तथा यूयम् इति तान् अवदज् जनान् ।
तदनुज्ञां समासाद्य सर्वे ते मुदिता जनाः
आमन्त्र्य तज्जनान् एतद् वृत्तं प्रोक्त्वैवम् ऊचिरे ।
परिव्राजिकया सार्धम् अमुयाप्य् अतिविज्ञया
अमुको ब्राह्मणो विद्वान् संवादं कर्तुम् इच्छति ।
तच् छ्रोतुं ये ऽभिवाञ्च्छन्ति ज्ञातुं चैतद् विशेषतां
सर्वे तत्र समायान्तु पुरे ऽतः सप्तमे दिने ।
इति राज्ञा समादिष्टं प्रभाषन्तः समन्ततः
घण्टाघोषं समुच्चार्य चोदयत सतो जनान् ।
इति तत्कथितं श्रुत्वा सर्वे ऽपि सज्जना मुदा
तत्र ते मुदिताः सर्वे यथादिष्टं महीभृता ।
तथा घण्टां समुन्नाद्य सर्वांल् लोकान् व्यनोदयन् ॥ स्व्प्_*55* ॥
तथाहीति प्रतिज्ञाय घण्टाघोषम् अचारयन् ।
तत् समाकर्ण्य सर्वे ऽपि सज्जना मथुराश्रिताः
तद्विवादं समिच्छन्तः श्रोतुं द्रष्टुं प्रचेरिरे ।
तदा विद्याकरो मानी मनसैवं व्यचिन्तयत्
सा परिव्राजिका विज्ञा कीदृग्विद्याविचक्षणा ।
इति विचिन्त्य सत्रस्थस् तां परिव्राजिकां सतीं
द्रष्टुं तत्राश्रमे गत्वा लोकान् एवम् अपृच्छत ।
या परिव्राजिका प्राज्ञा सा का कुहसमाश्रिता
तां भवन्तः समामन्त्र्य संदर्शयन्तु मे द्रुतं ।
इति तत् कथितं श्रुत्वा तत्रान्तिकसमाश्रिताः
मूल पाठ: Sabhikasaugataśāsanapravrajyāvratacaraṇaparivarta · Edition: Tilak Raj Chopra. "BHS triyantara and Hindi teṃtara ḥ Notes on a Folk-belief in the Mahāvastu and Some Other Buddhist Sanskrit Texts (Supplement: Text of the Sabhika-Parivarta, edited for the First Time from Manuscripts)". In: Frank-Richard Hamm Memorial Volume, October 8, 1990, ed. H. Eimer. Bonn 1990 (Indica et Tibetica, 21), pp. 19-46. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0