भाषा

ENहिગુ
ग्रंथ पाठ

सभिकसौगतशासनप्रव्रज्याव्रतचरणपरिवर्त · श्लोक 21-40

21

तत् प्रदत्तां समादाय सधात्रीं सोपचारिकां ।
दत्वा भद्राशिषं तस्मै शिरी नामा ततो ऽचरत्*

22

तत्र सा स्वाश्रमे गत्वा सधात्रीं तां प्रमोदिता ।
स्वात्मजाम् इव संपाल्य सहसा समपोषयत्

23

एवं संपाल्यमाना सा दिने दिने ऽभिवर्धिता ।
परिपुष्टेन्द्रिया कान्ता सर्वमनोहराभवत्

24

ततस् तयानुशासिन्या प्रव्राजिता यथाविधिं ।
सा यतिसंवरं धृत्वा काषायचीवराचरत्

25

ततः सा सुमती कन्या सर्वा लिपीर् अशिक्षत ।
ततः क्रमेण सर्वाणि शास्त्राणि समशिक्षत

26

एवम् अधीत्य सा विज्ञा सर्वविद्यान्तपारगा ।
महाधीर् इति नामाभूत् सुबुद्धित्वात् त्रियन्त्रिका

27

क्रमेण कुटिलांगी सा शालप्रोच्चाभवत् सुधीः ।
निजधर्मानुभावेन पूर्वपापक्षयं गते

28

चतुःषष्टि कलाधीता वेदाध्ययनचातुरी ।
सर्ववादिमनोत्रासं संहरन्ती व्यराजत

29

सर्वे ऽपि वादिनो विज्ञास् तां जेतुं नैव शेकिरे ।
सैव प्रवादिनः सर्वान् विनिर्जित्याभ्यराजत

30

तत् कीर्तिसुरभिस् तस्याः समन्ततः प्रसारिता ।
तत् सुमतिं समकर्ण्य सर्वे ऽतिविस्मयं ययुः

31

तदा तत्र द्विजो विद्वान् सर्ववेदान्तपारगः ।
विद्याकराभिधो मानी दक्षिणातः समागतः

32

स पार्श्वं ताम्रपट्टेन वेष्टयित्वा समुन्मनाः ।
उल्काम् उज्वालितां धृत्वा पुरे तत्र मुदाविशत्

33

यो मया सह संवादं कर्तुम् अत्र समिच्छति ।
तस्याहम् उपगच्छेयम् इति मानी मुदाचरत्

34

तम् आयातं समालोक्य माथुरिका महाजनाः ।
तं द्विजं समुपामन्त्र्य सर्वे प्य् एवं बभाषिरे

35

साधो मात्र समागच्छ धृत्वोल्कां ज्वलिताम् इमां ।
या परिव्राजिका साध्वी सा प्राज्ञा विद्यते सती

36

इति तैर् गदितं श्रुत्वा विद्याकरो ऽतिमानिकः ।
माथुरिकान् उपासृत्य साहंकारः समब्रवीत्

37

का परिव्राजिका प्राज्ञा विद्यते ऽत्र कुहाश्रिता ।
ताम् अहं द्रष्टुम् इच्छामि तद् दर्शयितुम् अर्हथः

38

इति तदुक्तम् आकर्ण्य सर्वे ऽपि ते महाजनाः ।
ब्राह्मणं तं समालोक्य संप्रष्टुम् एवम् अब्रवीत्

39

साधो यदि तया सार्धं संवादं कर्तुम् इच्छसि ।
तां कान्तां सुमतिं विज्ञां दर्शयिष्यामहे वयं

40

इति सर्वैर् अपि प्रोक्तं श्रुत्वा स ब्राह्मणो मुदा ।
संपश्यन्स् तान् जनान् सर्वान् पुरः स्थित्वैवम् अब्रवीत्

मूल पाठ: Sabhikasaugataśāsanapravrajyāvratacaraṇaparivarta · Edition: Tilak Raj Chopra. "BHS triyantara and Hindi teṃtara ḥ Notes on a Folk-belief in the Mahāvastu and Some Other Buddhist Sanskrit Texts (Supplement: Text of the Sabhika-Parivarta, edited for the First Time from Manuscripts)". In: Frank-Richard Hamm Memorial Volume, October 8, 1990, ed. H. Eimer. Bonn 1990 (Indica et Tibetica, 21), pp. 19-46. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc