सभिकसौगतशासनप्रव्रज्याव्रतचरणपरिवर्त · श्लोक 1-20
सभिकसौगतशासनप्रव्रज्याव्रतचरणपरिवर्त
(सम् 4ओब्4: अद्दितिओनल् वेर्सेस्)
अथाशोको महाराजः श्रोतुं सुभाषितं पुनः ।
उपगुप्तं यतिं नत्वा साञ्जलिर् एवम् अब्रवीत् ॥ स्व्प्_*1* ॥
भदन्त श्रोतुम् इच्छामि पुनस् तस्य जगद्गुरोः ।
मुनीन्द्रस्यानुभावत्वं तत् समादेष्टुम् अर्हति ॥ स्व्प्_*2* ॥
इति संप्रार्थितं राज्ञा श्रुत्वा सो ऽर्हन् यतिः सुधीः ।
तं नरेन्द्रं समामन्त्र्य संपश्यन्न् एवम् आदिशत् ॥ स्व्प्_*3* ॥
(सम् 40ब्6; ब्क च् 99ब्4; ब्क त् 71ब्8)
अथ शृणु समाधाय यथा मे गुरुणोदितं ।
तथाहं संप्रवक्ष्यामि तव पुण्यप्रवृद्धये
तद् यथाभून् महापुर्यां मथुरायां महाजनः ।
साधुभोगाभिधः श्रेष्ठी सर्वद्रव्यसमृद्धिमान्
तस्य भार्या सुभद्रांगी सुन्दरी रतिसंनिभा ।
साध्वी श्रीसदृशाकारा प्रियंवदाभिधा वरा
तस्यास् त्रियंत्रिका जाता दारिका व्यंगिकाश्रया ।
तां दृष्ट्वा दारिकां माता बभूव व्याहताशया
जनको ऽपि समालोक्य दारिकां तां त्रियन्त्रिकां ।
लज्जाविदरितस्वान्तस् तस्थौ निश्वासतत्परः
ततः स जनकः श्रेष्ठी निमित्तज्ञान् विचक्षणान् ।
तीर्थिकान् सहसामन्त्र्य दारिकां ताम् अदर्शयत्
त्रियन्त्रितां शिशुं दृष्ट्वा निमित्तज्ञः स तीर्थिकः ।
दारिकेयम् अभद्रेति श्रेष्ठिनो ऽग्रे न्यवेदयत्
तच् छ्रुत्वा जनकः श्रेष्ठी दुःखशंकाकुलाशयः ।
स्नेहशोकाग्नितप्तात्मा तस्थौ संमोहितेन्द्रियः
तां दृष्ट्वा सा सती भार्या श्रुत्वा तत् तीर्थिकोदितं ।
स्नेहशोकाग्निसंतप्ता बभूव व्याहताशया
तस्मिन् कणे सुपुण्यात्मा सर्वविद्याविचक्षणा ।
सा परिव्राजिका तत्र श्रेष्ठिगृह उपाचरत्
तां दृष्ट्वा समुपायातां श्रेष्ठी स सहसोत्थितः ।
सादरं समुपामन्त्र्य शुद्धासने न्यवेशयत्
साधुभोगस् ततः श्रेष्ठी तां परिव्राजिकां मुदा ।
अभ्यर्च्य भोजयित्वा च संप्रसाद्यैवम् अब्रवीत्
भद्रिके दारिका जाता ममात्मजा त्रियन्त्रिका ।
इमां ते दातुम् इच्छामि समन्वाहर्तुम् अर्हसि
इति निवेद्य स श्रेष्ठी समादाय निजां सुतां ।
तां तस्याः पुरतः स्थाप्य बहु द्रव्यं च प्रब्रवीत्
इयं मे दारिका भद्रे भवत्यै संकल्पिता मया ।
तद् भवत्या समादाय संपाल्या स्वात्मजा यथा
त्वं पुत्रपुत्रीहीनासि निर्भर्तृका निराकुला ।
तस्मात् त्वया पालनीया स्वात्मजेव शिशुर् इयं
इति निवेद्य स श्रेष्ठी सधात्रीं तां सुतां मुदा ।
बहुद्रव्यान्वितां तस्यै दत्वैवं पुनर् अब्रवीत्
यदेयं संप्रवृद्धा स्यात् तदा ते दासिका भवेत् ।
तस्माद् यावद् इयं बाला तावत् पाल्या त्वया सदा
ततः प्रव्राज्य स्वे धर्मे संचारयस्व सन्मते ।
अध्यापय च सर्वाणि शास्त्राण्य् अपि यथाक्रमं
इत्य् उक्त्वा स पिता पुत्रीं वस्त्रालंकारमण्डिताम् ।
तां तस्यै ब्रह्मचारिण्यै संकल्प्य प्रददौ मुद
मूल पाठ: Sabhikasaugataśāsanapravrajyāvratacaraṇaparivarta · Edition: Tilak Raj Chopra. "BHS triyantara and Hindi teṃtara ḥ Notes on a Folk-belief in the Mahāvastu and Some Other Buddhist Sanskrit Texts (Supplement: Text of the Sabhika-Parivarta, edited for the First Time from Manuscripts)". In: Frank-Richard Hamm Memorial Volume, October 8, 1990, ed. H. Eimer. Bonn 1990 (Indica et Tibetica, 21), pp. 19-46. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0