सभिकसौगतशासनप्रव्रज्याव्रतचरणपरिवर्त · श्लोक 182-202
यतयो योगिनश् चापि कथं केनापि कर्मतः ।
एतत् कर्म समाख्याय संबोधयतु मे मनः
इति संप्रार्थितं तेन उत्तरो विप्रभिक्षुकः ।
तं सभिकं समालोक्य विहसन्न् एवम् आदिशत्
ये च शुद्धात्मनो ऽहिंसा धर्माश्रितास् तपस्विनः ।
शुद्धसंवरसंधाना योगाभ्यासे सुचातुराः
साधु शृणु समाधाय यद् एतत् प्रष्टुम् इच्छसि ।
तत् ते मनोऽभितुष्टये वक्ष्याम्य् अहं समासतः ॥ स्व्प्_*184अ* ॥
यो विश्वं सृजति ब्रह्मा स्वयंभूर् वेदभृद् विधिः ।
तस्यात्मजहाः समाचारः सात्विका निर्मलेन्द्रियाः ॥ स्व्प्_*184ब्* ॥
स्वपरात्मसमाचाराश् चतुर्ब्रह्मविहारिणः ।
वेदधर्मार्थभर्तारः सन्तस् ते ब्राह्मणाः स्मृताः
स्नात्वा तीर्थेषु नित्यं ये शुद्धशीला जितेन्द्रियाः ।
ब्रह्मव्रतं चरन्तस् ते निष्कांक्षाः स्नातकाः स्मृताः
संस्कारपरिशुद्धा ये वेदधर्मसमाचराः ।
ब्रह्मचर्याव्रतं धृत्वा चरन्ते ते द्विजाः स्मृताः
शुद्धशीलाः समाचारा वेदधर्मार्थसाधकाः ।
ब्रह्मवृत्तिसमाधाना धीरास् ते वैदिकाः स्मृताः
ये ब्रह्मसंवरं धृत्वा संचरन्तः सदा शुभे ।
सद्विधेः पूरयन्त्य् अर्थं ते विप्राः कथिता बुधैः
ये सुधीरा महावीराः सर्वसत्वहितोद्यताः ।
वेदभद्रार्थभर्तारः प्राज्ञास् ते श्रोत्रियाः स्मृताः
सर्वेषाम् इन्द्रियाणां यत् क्षेत्रम् आत्मा समाश्रयेत् ।
तद्विशुद्धिं विजानीते स तु क्षेत्रज्ञ उच्यते
ये मैत्रीमुदितात्मानः कारुण्यार्द्रितमानसाः ।
उपेक्ष्य संचरन्ते ऽर्थे भद्र ते ब्रह्मचारिनः ॥ स्व्प्_ल्92 ॥
संसारविरतोत्साहा निर्वृतिसुखलालसाः ।
प्रव्रज्याव्रतसंचारास् ते परिव्राजकाः स्मृताः
ये च ब्रह्मसमाचारा महासत्वा महर्धिकाः ।
ऋषयस् ते समाख्याता स्वर्गाभिपदसाधिनः
ये भवगतिसंचारनिःसंगाः सुस्थितेन्द्रियाः ।
मौनचर्यासमाचाराः सन्तस् ते मुनयः स्मृताः
निरपेक्षाः स्वकाये ऽपि ये चरन्ते तपोव्रतं ।
तपस्विनस् त आख्याता भद्रश्रीसद्गुणार्थिनः
ये मायारतिनिष्कांक्ष निष्क्लेशा विजितेन्द्रियाः ।
निर्ममाः संयतात्मानो यतयस् ते निरञ्जनाः
ये विश्वाससमाचारा निर्विकल्पा निराश्रयाः ।
समाधिनिहितात्मानो योगिनस् ते निरञ्जनाः
एते भवविनिर्मुक्ताः प्रव्रज्याव्रतचारिणः ।
परिशुद्धेन्द्रियात्मानः संयायुः परमां गतिं
एतत् स्वल्पतरार्थे ऽपि कथं न ज्ञायते त्वया ।
विद्याभिमानिना सर्वाञ् जेष्यामीति मदोद्धतः
मानं त्यज त्वं सभिक भजैनं शास्त्रपारगं ।
बोधिं चर मोक्षकामिन् प्रव्रज्याव्रतम् आदध
इत्य् उक्त्वा निजवृत्तान्तं कथयामास विस्तरं ।
नालकस्यानुजस्यापि सर्वज्ञस्यानुभावतां
मूल पाठ: Sabhikasaugataśāsanapravrajyāvratacaraṇaparivarta · Edition: Tilak Raj Chopra. "BHS triyantara and Hindi teṃtara ḥ Notes on a Folk-belief in the Mahāvastu and Some Other Buddhist Sanskrit Texts (Supplement: Text of the Sabhika-Parivarta, edited for the First Time from Manuscripts)". In: Frank-Richard Hamm Memorial Volume, October 8, 1990, ed. H. Eimer. Bonn 1990 (Indica et Tibetica, 21), pp. 19-46. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0