भाषा

ENहिગુ
ग्रंथ पाठ

सभिकसौगतशासनप्रव्रज्याव्रतचरणपरिवर्त · श्लोक 203-219

203

अयम् एव त्रिलोकेषु सर्वविद्याधिपः सुधीः ।
सर्वधर्माधिपः शास्ता सर्ववादिमदापहः

205

यस्य स्मरणमात्रेण ममानुजो महासुधीः ।
सर्ववादिविजेताभूच् छ्रुतिधरः सुपारगः ॥204 ॥
एतादृशस्य सर्वज्ञस्य दर्शने श्रवणे पुनः ।
का कथा चर तस्मात् त्वं शासने ऽस्य सुसंवरं

206

इत्य् उत्तरगिरं श्रुत्वा सभिकः सो ऽतिसाहसः ।
प्रव्रज्याव्रतम् आधातुं समभूत् प्रमनाः कृती

207

इति तेन जगच्छास्त्रा समादिष्टं निशम्य सः ।
सभिकः सुप्रसन्नात्मा प्राभ्यनन्दत् प्रबोधितः ॥ स्व्प्_*206* ॥
ततः स सभिको विज्ञः संबुद्धगुणलालसः ।
तं मुनीन्द्रं मुदा नत्वा साञ्जलिर् एवम् अब्रवीत्

208

भगवन् सर्वविद् विज्ञ सर्वविद्यान्तपारग ।
क्षमस्व मे ऽपराधं यन् मदोत्थित दयानिधे

209

त्वम् एव भगवान् नाथः सर्वधर्माधिपो जिनः ।
भवान् एव जगच्छास्ता महाभिज्ञो मुनीश्वरः

210

चतुर्मारविनिर्जेता विनायकस् तथागतः ।
विराजते भवान् एव त्रैधातुकाधिपेश्वरः

211

क्लेशध्वान्ताभिनिर्हन्ता सद्धर्मज्ञानभास्करः ।
यद् अहं भगवन् पातुं धर्मामृतं समुत्सहे

212

तद् भवान् मां समालोक्य समन्वाहर्तुम् अर्हति ।
सदाहं भवता शास्तः शरणे समुपस्थितः

213

धृत्वानुज्ञां समाधाद्य चरिष्ये सौगतं पदं ।
तद् भवान् सौगते धर्मे भद्रश्रीबोधिसाधने

214

कृपाय मां समायुज्य संचारयितुम् अर्हति ।
इति संप्रार्थितं तेन श्रुत्वा स करुणाम्बुधिः

215

अपमदं परिव्राजं तं समीक्ष्यैवम् आदिशत् ।
एहि भद्रास्ति ते वांच्छा सौगते संवरे यदि

216

बोधिचर्यां समाधाय निष्क्लेशं संचर व्रतं ।
इत्य् आदिश्य स संबुद्धो दक्षिणपाणिना स्वयं

217

शिरसि संस्पृशन्स् तस्य त्रिकायम् अभ्यशोधयत् ।
भगवता शिरः स्पृष्टे मुण्डितः स जितेन्द्रियः

218

खिष्खिरीपात्रभृद् भिक्षुर् बभूव चीवरावृतः ।
ततः स सुप्रसन्नात्मा प्राप्यानुज्ञां जगद्गुरोः

219

बोधिचर्याव्रतं धृत्वा समाचरत् समाहितः ।
ततः समाधिशुद्धात्मा परिशुद्धत्रिमण्डलः ।
ब्रह्मचारी महाभिज्ञो बभूव सौगतो यतिः

मूल पाठ: Sabhikasaugataśāsanapravrajyāvratacaraṇaparivarta · Edition: Tilak Raj Chopra. "BHS triyantara and Hindi teṃtara ḥ Notes on a Folk-belief in the Mahāvastu and Some Other Buddhist Sanskrit Texts (Supplement: Text of the Sabhika-Parivarta, edited for the First Time from Manuscripts)". In: Frank-Richard Hamm Memorial Volume, October 8, 1990, ed. H. Eimer. Bonn 1990 (Indica et Tibetica, 21), pp. 19-46. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc