भाषा

ENहिગુ
ग्रंथ पाठ

सभिकसौगतशासनप्रव्रज्याव्रतचरणपरिवर्त · श्लोक 162-181

162

तत्र स समुपाश्रित्य तस्य शास्तुर् महामुनेः ।
प्रणत्वा चरणाम्भोजे साञ्जलिः समुपाश्रयत्

163

तत्र स सुप्रसन्नात्मा साञ्जलिः स पुरः स्थितः ।
संबुद्धं तं महाभिज्ञं संपश्यन्न् एवम् अब्रवीत्

164

भगवन्स् तद् विजानीयाद् यदर्थे ऽहम् इहाव्रजे ।
तद् भवान् मे मनोवाञ्छां संपूरयितुम् अर्हति

165

इति संप्रार्थितं तेन श्रुत्वा स भग्वाञ् जिनः ।
तं सभिकं समालोक्य विहसन्न् एवम् आदिशत्

166

शृणु साधो महाभाग यदर्थे त्वम् इहागतः ।
तत् ते संपूरयिष्यामि समाख्याहि समीहितं

167

इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स सभिको मुदा ।
भगवन्तं तम् आलोक्य साञ्जलिर् एवम् अब्रवीत्

168

भगवन् भवता प्राप्तं किं ज्ञानं किं च ते व्रतं ।
यत् संबुद्धो भवान् ख्यात एतद् आदेष्टुम् अर्हति

169

इति तत् प्रार्थितं श्रुत्वा सर्वमानिमदापहः ।
भगवान् सभिकं द्र्ष्ट्वा तद् उत्तरम् उपादिशत्

170

उत्तरं प्रतिपृच्छस्व तदर्थं सभिक मदी ।
शिष्याणाम् अग्रतो ऽज्ञो ऽयं स्वल्पशिक्षापरिग्रहात्

171

इति सर्वज्ञवचनं श्रुत्वा सभिक मानिकः ।
निर्मद उत्तरं विज्ञं पप्रच्छ साञ्जलिः स्मितः

172

भगवताज्ञपितस् त्वं तदर्थं मे समादिश ।
विनयाद् अर्थितस् तेन तदर्थम् उत्तरादिशत्

173

कथम् अज्ञो ऽसि सभिक सर्वविद्याविचक्षण ।
श्रूयतां कथयिष्यामि संक्षेपात् सावधानतः

174

बोधिचर्याव्रतं धृत्वा संप्राप्य बोधिम् उत्तमां ।
संबोधयति यः सर्वं स संबुद्धो निगद्यते

175

माराश्रयं गृहं त्यक्त्वा निष्क्लेशो विजितेन्द्रियः ।
सर्वसत्वहितार्थेन चरते यस् तपोव्रतं

176

सो ऽर्हन् भिक्षुर् विशुद्धात्मा चतुर्ब्रह्मविहारिकः ।
सद्धर्मश्रावकः संघः स योगी यतिर् उच्यते

177

मायाभवं जगन् मत्वा स्वपरात्महितार्थभृत् ।
बोधिचर्याव्रतं धृत्वा चरते यो जगद्धिते

178

स श्रमणो महाभिज्ञो भद्रश्रीसद्गुणाश्रयः ।
बोधिसत्वो महासत्वः सर्वधर्मार्थभृत् स्मृतः

179

इत्य् उत्तरेण संदिष्टं श्रुत्वा स सभिकः पुनः ।
साश्चर्य उत्तरं विज्ञं प्रणत्वा च न्यवेदयत्

180

उत्तरब्राह्मणाः के च स्नातकाश् च कथं द्विजाः ।
वैदिकाश् च कथं विप्राः श्रोत्रियाश् चापि ते कथं

181

क्षेत्रज्ञाश् च कथं ते ऽपि कथं च ब्रह्मचारिनः ।
ऋषयश् च परिव्राजा मुनयश् च तपस्विनः

मूल पाठ: Sabhikasaugataśāsanapravrajyāvratacaraṇaparivarta · Edition: Tilak Raj Chopra. "BHS triyantara and Hindi teṃtara ḥ Notes on a Folk-belief in the Mahāvastu and Some Other Buddhist Sanskrit Texts (Supplement: Text of the Sabhika-Parivarta, edited for the First Time from Manuscripts)". In: Frank-Richard Hamm Memorial Volume, October 8, 1990, ed. H. Eimer. Bonn 1990 (Indica et Tibetica, 21), pp. 19-46. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc