भाषा

ENहिગુ
ग्रंथ पाठ

सभिकसौगतशासनप्रव्रज्याव्रतचरणपरिवर्त · श्लोक 142-161

142

यत् सभायां प्रजातो ऽयं तेनास्य नन्दनस्य मे ।
सभिक इति विख्यातं नाम भवतु सर्वतः

143

इत्य् आख्याय पिता तस्य दारकस्य यथार्थतः ।
सभिक इति प्रख्यातं नाम कृत्वात्यसारयत्

144

ततः स दारको मात्रा पित्रापि संप्रपालितः ।
परिपुष्टेन्द्रियो वृद्धो बभूवाशु मनोहरः

145

ततः स सभिको धीमान् अशिक्षत लिपीः क्रमात् ।
सर्वशास्त्राण्य् अधीत्याशु महावादित्वम् आययौ

146

एवं स वादिजिद् विज्ञः सर्वविद्याविचक्षणः ।
विद्याभिमानिनः सर्वान् पराजेतुं समैच्छत

147

ततो ऽनुज्ञां समासाद्य पित्रोः सो ऽत्यतिमानिकः ।
प्रव्रजित्वा गुरोर् आज्ञां धृत्वाचरद् यतिव्रतं

148

यस्य माता महाप्राज्ञा विद्याकरः पिता तथा ।
अतो ऽतिमानी सभिकः स्वयं विद्याविचक्षणः

149

ततः स मानिनो जेतुं समुद्रान्तिक आश्रमे ।
महर्षीन् ब्राह्मणान् विज्ञान् संद्रष्टुं समुपाचरत्

150

तत्र स वादिनः सर्वान् सर्वशास्त्रप्रवादिते ।
जित्वा विजयम् आसाद्य समभ्यानन्दितो ऽचरत्

151

ततो ऽन्यत्राश्रमे गत्वा स सभिको व्यलोकयत् ।
तथा प्रवादिनः सर्वाञ् जित्वा जयं समाययौ

152

एवं स सभिको गत्वा षोडशनगरेष्व् अपि ।
सर्वान् प्रवादिनो जित्वा जयकीर्तिश्रियं ययौ

153

ततः स सभिकः सर्वविद्यामदाभिमानिकः ।
सर्वान् प्रवादिनो जेतुं मनसैवं व्यचिन्तयत्

154

संबुद्धो ऽसौ महाभिज्ञः सर्वज्ञो ऽर्हन् मुनीश्वरः ।
सर्ववादिविजेतेति प्रथितं सर्वतो ऽधुना

155

तद् अहं तस्य मुनीन्द्रस्य जगच्छास्तुर् महामतेः ।
प्रज्ञाविशेषम् आज्ञातुं गमिष्यामि तदाश्रमे

156

जेतुं न शक्यते बुद्धः क्षत्रियात्मज एव सः ।
रणकाले तु वीरास् ते क्षत्रियाः शास्त्रवैमुखाः

157

विद्याकरो मम पिता महाधीर् जननी पुनः ।
स्वयं विद्याब्धिपारश् च सर्ववादिमदापहः

138

इति स सभिको ध्यात्वा वाराणस्यां जिनाश्रमे ।
मृगदावे भ्रमन् गत्वा समीक्ष्य समुपाचरत्

159

तत्र सभासनासीनं सर्वलोकसमावृतं ।
ददर्श स मुनीन्द्रं तं पूर्णेन्दुम् इव भास्करं

160

तं दृष्ट्वा स महामानी विस्मयाक्रान्तमानसः ।
विभिन्नवदनस् तस्थौ पश्यन् निश्चलितेन्द्रियः

161

ततो धैर्यं समालम्ब्य मदमानं विहाय सः ।
प्रणत्वा साञ्जलिस् तत्र संपश्यन् समुपाचरत्

मूल पाठ: Sabhikasaugataśāsanapravrajyāvratacaraṇaparivarta · Edition: Tilak Raj Chopra. "BHS triyantara and Hindi teṃtara ḥ Notes on a Folk-belief in the Mahāvastu and Some Other Buddhist Sanskrit Texts (Supplement: Text of the Sabhika-Parivarta, edited for the First Time from Manuscripts)". In: Frank-Richard Hamm Memorial Volume, October 8, 1990, ed. H. Eimer. Bonn 1990 (Indica et Tibetica, 21), pp. 19-46. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc