भाषा

ENहिગુ
ग्रंथ पाठ

सभिकसौगतशासनप्रव्रज्याव्रतचरणपरिवर्त · श्लोक 121-141

121

एकस्मिन्न् एव दिवसे महाधीस् तेन निर्जिता ।
कथम् अत्र संदेह इति सर्वे सविस्मयाः

122

इति सर्वैः समाख्यातं श्रुत्वा स ब्राह्मणो मुदा ।
तां परिव्राजिकां पश्यन् विहसन्न् एवम् अब्रवीत्

123

अयि भद्रे समायाहि यथाभिसमयं कृतम् ।
तथानुगत्वम् आसाद्य चर धर्मं ममानुगा

124

इति तदुक्तम् आकर्ण्य सा परिव्राजिका स्मिता ।
लज्जाभिहतचित्तेव तस्थाव् अभिनतानना

125

ततः स मुदितो विप्रो दण्डं च्छत्रम् उपानहं ।
दत्वा तां सहसामन्त्र्य समाश्वास्यैवम् अब्रवीत्

126

अयि भद्रे तथा सिद्धं यथा मया समीहितं ।
तत् त्वं मुदा मया सार्धं सुखं चर समाव्रज

127

इति तत् कथितं श्रुत्वा सा परिव्राजिका ततः ।
दण्डम् उपानहौ च्छत्रं गृहीत्वा प्रस्थिता शनैः

128

ततः स ब्राह्मणो धृत्वा तां परिव्राजिकां मुदा ।
विजयश्रीमहोत्साहैर् वासालयम् उपाचरत्

129

तत्र वासे समाश्रित्य विद्वान् सो ऽत्यभिनन्दितः ।
तया सार्धं यथाकामं भुंजमानो ऽरमत् सुखं

130

तत्रैवं रम्यमाणासौ तेन भर्त्रातिरागिना ।
काल आपन्नसत्वाभूत् प्रावृषीव घनो ऽम्बुभृत्

131

ततः क्रमेण सा नारी संप्रवर्धितगर्भिणी ।
कृशांगी पाण्डुवर्णाभून् मृदुवाग् मन्दगामिनी

132

गर्भिणी सा परिज्ञाय निन्द्यमाना महाजनैः ।
लज्जासंकोचितस्वान्ता भर्तारम् आह तं द्विजं

133

स्वामिन् भवान् विजानातु यद् अहं गर्भिणी भवे ।
तल् लोकैर् निन्द्यमानात्र कथं चरेय सांप्रतं

134

तद् अन्यविषये गत्वा स्थातुम् इच्छति मे मनः ।
यदीच्छसि मया सार्धं रन्तुं प्रेहि व्रजेवहि

136

इति तया समाख्यातं श्रुत्वा स ब्राह्मणस् तथा ।
अन्यत्र विषये गन्तुं तया सार्धं समैच्छत ॥135 ॥
ततस् तौ मथुरां त्यक्त्वा जग्मतुर् दक्षिणापथं ।
जनपदचारिकां तत्र चरित्वा सुखम् आपतुः

137

तत्र श्वेतवलाकाख्ये पुरे तौ दम्पती मुदा ।
गत्वा रात्रौ समाश्रित्य न्यूषतुः परिखेदितौ

138

तत्र सा नवमासानाम् अत्ययात् समयागते ।
मठे लोकसभोनान्ते प्रासूत लघुदारकम्

139

आत्मजं तं समालोक्य सुवर्णम् अभिसुन्दरं ।
सा माता विस्मितस्वान्ता तस्थौ लज्जानतानना

140

जनकोऽ पि तम् आलोक्य विज्ञो ऽयं हि भवेद् अपि ।
इति मत्वा चिरं पश्यन्स् तस्थौ संहर्षिताशयः

141

ततः स जनकस् तस्य कृत्वा जातिमहं स्वयं ।
नामास्य किं करिष्ये ऽहम् इति ध्यात्वैवम् अब्रवीत्

मूल पाठ: Sabhikasaugataśāsanapravrajyāvratacaraṇaparivarta · Edition: Tilak Raj Chopra. "BHS triyantara and Hindi teṃtara ḥ Notes on a Folk-belief in the Mahāvastu and Some Other Buddhist Sanskrit Texts (Supplement: Text of the Sabhika-Parivarta, edited for the First Time from Manuscripts)". In: Frank-Richard Hamm Memorial Volume, October 8, 1990, ed. H. Eimer. Bonn 1990 (Indica et Tibetica, 21), pp. 19-46. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc