ऋग्वेद · अध्याय 9.111
अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति स्वयुग्वभिः सूरो न स्वयुग्वभिः ।
धारा सुतस्य रोचते पुनानो अरुषो हरिः ।
विश्वा यद् रूपा परियात्य् ऋक्वभिः सप्तास्येभिर् ऋक्वभिः ॥
त्वं त्यत् पणीनां विदो वसु सम् मातृभिर् मर्जयसि स्व आ दम ऋतस्य धीतिभिर् दमे ।
परावतो न साम तद् यत्रा रणन्ति धीतयः ।
त्रिधातुभिर् अरुषीभिर् वयो दधे रोचमानो वयो दधे ॥
पूर्वाम् अनु प्रदिशं याति चेकितत् सं रश्मिभिर् यतते दर्शतो रथो दैव्यो दर्शतो रथः ।
अग्मन्न् उक्थानि पौंस्येन्द्रं जैत्राय हर्षयन् ।
वज्रश् च यद् भवथो अनपच्युता समत्स्व् अनपच्युता ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0