ऋग्वेद · अध्याय 9.110
पर्य् ऊ षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः ।
द्विषस् तरध्या ऋणया न ईयसे ॥
अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये ।
वाजाँ अभि पवमान प्र गाहसे ॥
अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः ।
गोजीरया रंहमाणः पुरंध्या ॥
अजीजनो अमृत मर्त्येष्व् आँ ऋतस्य धर्मन्न् अमृतस्य चारुणः ।
सदासरो वाजम् अच्छा सनिष्यदत् ॥
अभ्य्-अभि हि श्रवसा ततर्दिथोत्सं न कं चिज् जनपानम् अक्षितम् ।
शर्याभिर् न भरमाणो गभस्त्योः ॥
आद् ईं के चित् पश्यमानास आप्यं वसुरुचो दिव्या अभ्य् अनूषत ।
वारं न देवः सविता व्य् ऊर्णुते ॥
त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियं दधुः ।
स त्वं नो वीर वीर्याय चोदय ॥
दिवः पीयूषम् पूर्व्यं यद् उक्थ्यम् महो गाहाद् दिव आ निर् अधुक्षत ।
इन्द्रम् अभि जायमानं सम् अस्वरन् ॥
अध यद् इमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना ।
यूथे न निष्ठा वृषभो वि तिष्ठसे ॥
सोमः पुनानो अव्यये वारे शिशुर् न क्रीळन् पवमानो अक्षाः ।
सहस्रधारः शतवाज इन्दुः ॥
एष पुनानो मधुमाँ ऋतावेन्द्रायेन्दुः पवते स्वादुर् ऊर्मिः ।
वाजसनिर् वरिवोविद् वयोधाः ॥
स पवस्व सहमानः पृतन्यून् सेधन् रक्षांस्य् अप दुर्गहाणि ।
स्वायुधः सासह्वान् सोम शत्रून् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0