भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.109

9.109.01

परि प्र धन्वेन्द्राय सोम स्वादुर् मित्राय पूष्णे भगाय ॥

9.109.02

इन्द्रस् ते सोम सुतस्य पेयाः क्रत्वे दक्षाय विश्वे च देवाः ॥

9.109.03

एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः ॥

9.109.04

पवस्व सोम महान् समुद्रः पिता देवानां विश्वाभि धाम ॥

9.109.05

शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजायै ॥

9.109.06

दिवो धर्तासि शुक्रः पीयूषः सत्ये विधर्मन् वाजी पवस्व ॥

9.109.07

पवस्व सोम द्युम्नी सुधारो महाम् अवीनाम् अनु पूर्व्यः ॥

9.109.08

नृभिर् येमानो जज्ञानः पूतः क्षरद् विश्वानि मन्द्रः स्वर्वित् ॥

9.109.09

इन्दुः पुनानः प्रजाम् उराणः करद् विश्वानि द्रविणानि नः ॥

9.109.10

पवस्व सोम क्रत्वे दक्षायाश्वो न निक्तो वाजी धनाय ॥

9.109.11

तं ते सोतारो रसम् मदाय पुनन्ति सोमम् महे द्युम्नाय ॥

9.109.12

शिशुं जज्ञानं हरिम् मृजन्ति पवित्रे सोमं देवेभ्य इन्दुम् ॥

9.109.13

इन्दुः पविष्ट चारुर् मदायापाम् उपस्थे कविर् भगाय ॥

9.109.14

बिभर्ति चार्व् इन्द्रस्य नाम येन विश्वानि वृत्रा जघान ॥

9.109.15

पिबन्त्य् अस्य विश्वे देवासो गोभिः श्रीतस्य नृभिः सुतस्य ॥

9.109.16

प्र सुवानो अक्षाः सहस्रधारस् तिरः पवित्रं वि वारम् अव्यम् ॥

9.109.17

स वाज्य् अक्षाः सहस्ररेता अद्भिर् मृजानो गोभिः श्रीणानः ॥

9.109.18

प्र सोम याहीन्द्रस्य कुक्षा नृभिर् येमानो अद्रिभिः सुतः ॥

9.109.19

असर्जि वाजी तिरः पवित्रम् इन्द्राय सोमः सहस्रधारः ॥

9.109.20

अञ्जन्त्य् एनम् मध्वो रसेनेन्द्राय वृष्ण इन्दुम् मदाय ॥

9.109.21

देवेभ्यस् त्वा वृथा पाजसे ऽपो वसानं हरिम् मृजन्ति ॥

9.109.22

इन्दुर् इन्द्राय तोशते नि तोशते श्रीणन्न् उग्रो रिणन्न् अपः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc