ऋग्वेद · अध्याय 9.108
पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः ।
महि द्युक्षतमो मदः ॥
यस्य ते पीत्वा वृषभो वृषायते ऽस्य पीता स्वर्विदः ।
स सुप्रकेतो अभ्य् अक्रमीद् इषो ऽच्छा वाजं नैतशः ॥
त्वं ह्य् अ1ङ्ग दैव्या पवमान जनिमानि द्युमत्तमः ।
अमृतत्वाय घोषयः ॥
येना नवग्वो दध्यङ्ङ् अपोर्णुते येन विप्रास आपिरे ।
देवानां सुम्ने अमृतस्य चारुणो येन श्रवांस्य् आनशुः ॥
एष स्य धारया सुतो ऽव्यो वारेभिः पवते मदिन्तमः ।
क्रीळन्न् ऊर्मिर् अपाम् इव ॥
य उस्रिया अप्या अन्तर् अश्मनो निर् गा अकृन्तद् ओजसा ।
अभि व्रजं तत्निषे गव्यम् अश्व्यं वर्मीव धृष्णव् आ रुज ॥
आ सोता परि षिञ्चताश्वं न स्तोमम् अप्तुरं रजस्तुरम् ।
वनक्रक्षम् उदप्रुतम् ॥
सहस्रधारं वृषभम् पयोवृधम् प्रियं देवाय जन्मने ।
ऋतेन य ऋतजातो विवावृधे राजा देव ऋतम् बृहत् ॥
अभि द्युम्नम् बृहद् यश इषस् पते दिदीहि देव देवयुः ।
वि कोशम् मध्यमं युव ॥
आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर् न विश्पतिः ।
वृष्टिं दिवः पवस्व रीतिम् अपां जिन्वा गविष्टये धियः ॥
एतम् उ त्यम् मदच्युतं सहस्रधारं वृषभं दिवो दुहुः ।
विश्वा वसूनि बिभ्रतम् ॥
वृषा वि जज्ञे जनयन्न् अमर्त्यः प्रतपञ् ज्योतिषा तमः ।
स सुष्टुतः कविभिर् निर्णिजं दधे त्रिधात्व् अस्य दंससा ॥
स सुन्वे यो वसूनां यो रायाम् आनेता य इळानाम् ।
सोमो यः सुक्षितीनाम् ॥
यस्य न इन्द्रः पिबाद् यस्य मरुतो यस्य वार्यमणा भगः ।
आ येन मित्रावरुणा करामह एन्द्रम् अवसे महे ॥
इन्द्राय सोम पातवे नृभिर् यतः स्वायुधो मदिन्तमः ।
पवस्व मधुमत्तमः ॥
इन्द्रस्य हार्दि सोमधानम् आ विश समुद्रम् इव सिन्धवः ।
जुष्टो मित्राय वरुणाय वायवे दिवो विष्टम्भ उत्तमः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0