भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.107

9.107.01

परीतो षिञ्चता सुतं सोमो य उत्तमं हविः ।
दधन्वाँ यो नर्यो अप्स्व् अ1न्तर् आ सुषाव सोमम् अद्रिभिः ॥

9.107.02

नूनम् पुनानो ऽविभिः परि स्रवादब्धः सुरभिंतरः ।
सुते चित् त्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिर् उत्तरम् ॥

9.107.03

परि सुवानश् चक्षसे देवमादनः क्रतुर् इन्दुर् विचक्षणः ॥

9.107.04

पुनानः सोम धारयापो वसानो अर्षसि ।
आ रत्नधा योनिम् ऋतस्य सीदस्य् उत्सो देव हिरण्ययः ॥

9.107.05

दुहान ऊधर् दिव्यम् मधु प्रियम् प्रत्नं सधस्थम् आसदत् ।
आपृच्छ्यं धरुणं वाज्य् अर्षति नृभिर् धूतो विचक्षणः ॥

9.107.06

पुनानः सोम जागृविर् अव्यो वारे परि प्रियः ।
त्वं विप्रो अभवो ऽङ्गिरस्तमो मध्वा यज्ञम् मिमिक्ष नः ॥

9.107.07

सोमो मीढ्वान् पवते गातुवित्तम ऋषिर् विप्रो विचक्षणः ।
त्वं कविर् अभवो देववीतम आ सूर्यं रोहयो दिवि ॥

9.107.08

सोम उ षुवाणः सोतृभिर् अधि ष्णुभिर् अवीनाम् ।
अश्वयेव हरिता याति धारया मन्द्रया याति धारया ॥

9.107.09

अनूपे गोमान् गोभिर् अक्षाः सोमो दुग्धाभिर् अक्षाः ।
समुद्रं न संवरणान्य् अग्मन् मन्दी मदाय तोशते ॥

9.107.10

आ सोम सुवानो अद्रिभिस् तिरो वाराण्य् अव्यया ।
जनो न पुरि चम्वोर् विशद् धरिः सदो वनेषु दधिषे ॥

9.107.11

स मामृजे तिरो अण्वानि मेष्यो मीळ्हे सप्तिर् न वाजयुः ।
अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिर् ऋक्वभिः ॥

9.107.12

प्र सोम देववीतये सिन्धुर् न पिप्ये अर्णसा ।
अंशोः पयसा मदिरो न जागृविर् अच्छा कोशम् मधुश्चुतम् ॥

9.107.13

आ हर्यतो अर्जुने अत्के अव्यत प्रियः सूनुर् न मर्ज्यः ।
तम् ईं हिन्वन्त्य् अपसो यथा रथं नदीष्व् आ गभस्त्योः ॥

9.107.14

अभि सोमास आयवः पवन्ते मद्यम् मदम् ।
समुद्रस्याधि विष्टपि मनीषिणो मत्सरासः स्वर्विदः ॥

9.107.15

तरत् समुद्रम् पवमान ऊर्मिणा राजा देव ऋतम् बृहत् ।
अर्षन् मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतम् बृहत् ॥

9.107.16

नृभिर् येमानो हर्यतो विचक्षणो राजा देवः समुद्रियः ॥

9.107.17

इन्द्राय पवते मदः सोमो मरुत्वते सुतः ।
सहस्रधारो अत्य् अव्यम् अर्षति तम् ई मृजन्त्य् आयवः ॥

9.107.18

पुनानश् चमू जनयन् मतिं कविः सोमो देवेषु रण्यति ।
अपो वसानः परि गोभिर् उत्तरः सीदन् वनेष्व् अव्यत ॥

9.107.19

तवाहं सोम रारण सख्य इन्दो दिवे-दिवे ।
पुरूणि बभ्रो नि चरन्ति माम् अव परिधीँर् अति ताँ इहि ॥

9.107.20

उताहं नक्तम् उत सोम ते दिवा सख्याय बभ्र ऊधनि ।
घृणा तपन्तम् अति सूर्यम् परः शकुना इव पप्तिम ॥

9.107.21

मृज्यमानः सुहस्त्य समुद्रे वाचम् इन्वसि ।
रयिम् पिशङ्गम् बहुलम् पुरुस्पृहम् पवमानाभ्य् अर्षसि ॥

9.107.22

मृजानो वारे पवमानो अव्यये वृषाव चक्रदो वने ।
देवानां सोम पवमान निष्कृतं गोभिर् अञ्जानो अर्षसि ॥

9.107.23

पवस्व वाजसातये ऽभि विश्वानि काव्या ।
त्वं समुद्रम् प्रथमो वि धारयो देवेभ्यः सोम मत्सरः ॥

9.107.24

स तू पवस्व परि पार्थिवं रजो दिव्या च सोम धर्मभिः ।
त्वां विप्रासो मतिभिर् विचक्षण शुभ्रं हिन्वन्ति धीतिभिः ॥

9.107.25

पवमाना असृक्षत पवित्रम् अति धारया ।
मरुत्वन्तो मत्सरा इन्द्रिया हया मेधाम् अभि प्रयांसि च ॥

9.107.26

अपो वसानः परि कोशम् अर्षतीन्दुर् हियानः सोतृभिः ।
जनयञ् ज्योतिर् मन्दना अवीवशद् गाः कृण्वानो न निर्णिजम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc