भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.106

9.106.01

इन्द्रम् अच्छ सुता इमे वृषणं यन्तु हरयः ।
श्रुष्टी जातास इन्दवः स्वर्विदः ॥

9.106.02

अयम् भराय सानसिर् इन्द्राय पवते सुतः ।
सोमो जैत्रस्य चेतति यथा विदे ॥

9.106.03

अस्येद् इन्द्रो मदेष्व् आ ग्राभं गृभ्णीत सानसिम् ।
वज्रं च वृषणम् भरत् सम् अप्सुजित् ॥

9.106.04

प्र धन्वा सोम जागृविर् इन्द्रायेन्दो परि स्रव ।
द्युमन्तं शुष्मम् आ भरा स्वर्विदम् ॥

9.106.05

इन्द्राय वृषणम् मदम् पवस्व विश्वदर्शतः ।
सहस्रयामा पथिकृद् विचक्षणः ॥

9.106.06

अस्मभ्यं गातुवित्तमो देवेभ्यो मधुमत्तमः ।
सहस्रं याहि पथिभिः कनिक्रदत् ॥

9.106.07

पवस्व देववीतय इन्दो धाराभिर् ओजसा ।
आ कलशम् मधुमान् सोम नः सदः ॥

9.106.08

तव द्रप्सा उदप्रुत इन्द्रम् मदाय वावृधुः ।
त्वां देवासो अमृताय कम् पपुः ॥

9.106.09

आ नः सुतास इन्दवः पुनाना धावता रयिम् ।
वृष्टिद्यावो रीत्यापः स्वर्विदः ॥

9.106.10

सोमः पुनान ऊर्मिणाव्यो वारं वि धावति ।
अग्रे वाचः पवमानः कनिक्रदत् ॥

9.106.11

धीभिर् हिन्वन्ति वाजिनं वने क्रीळन्तम् अत्यविम् ।
अभि त्रिपृष्ठम् मतयः सम् अस्वरन् ॥

9.106.12

असर्जि कलशाँ अभि मीळ्हे सप्तिर् न वाजयुः ।
पुनानो वाचं जनयन्न् असिष्यदत् ॥

9.106.13

पवते हर्यतो हरिर् अति ह्वरांसि रंह्या ।
अभ्यर्षन् स्तोतृभ्यो वीरवद् यशः ॥

9.106.14

अया पवस्व देवयुर् मधोर् धारा असृक्षत ।
रेभन् पवित्रम् पर्य् एषि विश्वतः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc