ऋग्वेद · अध्याय 9.105
तं वः सखायो मदाय पुनानम् अभि गायत ।
शिशुं न यज्ञैः स्वदयन्त गूर्तिभिः ॥
सं वत्स इव मातृभिर् इन्दुर् हिन्वानो अज्यते ।
देवावीर् मदो मतिभिः परिष्कृतः ॥
अयं दक्षाय साधनो ऽयं शर्धाय वीतये ।
अयं देवेभ्यो मधुमत्तमः सुतः ॥
गोमन् न इन्दो अश्ववत् सुतः सुदक्ष धन्व ।
शुचिं ते वर्णम् अधि गोषु दीधरम् ॥
स नो हरीणाम् पत इन्दो देवप्सरस्तमः ।
सखेव सख्ये नर्यो रुचे भव ॥
सनेमि त्वम् अस्मद् आँ अदेवं कं चिद् अत्रिणम् ।
साह्वाँ इन्दो परि बाधो अप द्वयुम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0