ऋग्वेद · अध्याय 9.104
सखाय आ नि षीदत पुनानाय प्र गायत ।
शिशुं न यज्ञैः परि भूषत श्रिये ॥
सम् ई वत्सं न मातृभिः सृजता गयसाधनम् ।
देवाव्य1म् मदम् अभि द्विशवसम् ॥
पुनाता दक्षसाधनं यथा शर्धाय वीतये ।
यथा मित्राय वरुणाय शंतमः ॥
अस्मभ्यं त्वा वसुविदम् अभि वाणीर् अनूषत ।
गोभिष् टे वर्णम् अभि वासयामसि ॥
स नो मदानाम् पत इन्दो देवप्सरा असि ।
सखेव सख्ये गातुवित्तमो भव ॥
सनेमि कृध्य् अ1स्मद् आ रक्षसं कं चिद् अत्रिणम् ।
अपादेवं द्वयुम् अंहो युयोधि नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0