ऋग्वेद · अध्याय 9.098
अभि नो वाजसातमं रयिम् अर्ष पुरुस्पृहम् ।
इन्दो सहस्रभर्णसं तुविद्युम्नं विभ्वासहम् ॥
परि ष्य सुवानो अव्ययं रथे न वर्माव्यत ।
इन्दुर् अभि द्रुणा हितो हियानो धाराभिर् अक्षाः ॥
परि ष्य सुवानो अक्षा इन्दुर् अव्ये मदच्युतः ।
धारा य ऊर्ध्वो अध्वरे भ्राजा नैति गव्ययुः ॥
स हि त्वं देव शश्वते वसु मर्ताय दाशुषे ।
इन्दो सहस्रिणं रयिं शतात्मानं विवाससि ॥
वयं ते अस्य वृत्रहन् वसो वस्वः पुरुस्पृहः ।
नि नेदिष्ठतमा इषः स्याम सुम्नस्याध्रिगो ॥
द्विर् यम् पञ्च स्वयशसं स्वसारो अद्रिसंहतम् ।
प्रियम् इन्द्रस्य काम्यम् प्रस्नापयन्त्य् ऊर्मिणम् ॥
परि त्यं हर्यतं हरिम् बभ्रुम् पुनन्ति वारेण ।
यो देवान् विश्वाँ इत् परि मदेन सह गच्छति ॥
अस्य वो ह्य् अवसा पान्तो दक्षसाधनम् ।
यः सूरिषु श्रवो बृहद् दधे स्व1र् ण हर्यतः ॥
स वां यज्ञेषु मानवी इन्दुर् जनिष्ट रोदसी ।
देवो देवी गिरिष्ठा अस्रेधन् तं तुविष्वणि ॥
इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे ।
नरे च दक्षिणावते देवाय सदनासदे ॥
ते प्रत्नासो व्युष्टिषु सोमाः पवित्रे अक्षरन् ।
अपप्रोथन्तः सनुतर् हुरश्चितः प्रातस् ताँ अप्रचेतसः ॥
तं सखायः पुरोरुचं यूयं वयं च सूरयः ।
अश्याम वाजगन्ध्यं सनेम वाजपस्त्यम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0