भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 9.097

9.097.01

अस्य प्रेषा हेमना पूयमानो देवो देवेभिः सम् अपृक्त रसम् ।
सुतः पवित्रम् पर्य् एति रेभन् मितेव सद्म पशुमान्ति होता ॥

9.097.02

भद्रा वस्त्रा समन्या3 वसानो महान् कविर् निवचनानि शंसन् ।
आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर् देववीतौ ॥

9.097.03

सम् उ प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे ।
अभि स्वर धन्वा पूयमानो यूयम् पात स्वस्तिभिः सदा नः ॥

9.097.04

प्र गायताभ्य् अर्चाम देवान् सोमं हिनोत महते धनाय ।
स्वादुः पवाते अति वारम् अव्यम् आ सीदाति कलशं देवयुर् नः ॥

9.097.05

इन्दुर् देवानाम् उप सख्यम् आयन् सहस्रधारः पवते मदाय ।
नृभिः स्तवानो अनु धाम पूर्वम् अगन्न् इन्द्रम् महते सौभगाय ॥

9.097.06

स्तोत्रे राये हरिर् अर्षा पुनान इन्द्रम् मदो गच्छतु ते भराय ।
देवैर् याहि सरथं राधो अच्छा यूयम् पात स्वस्तिभिः सदा नः ॥

9.097.07

प्र काव्यम् उशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति ।
महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्य् एति रेभन् ॥

9.097.08

प्र हंसासस् तृपलम् मन्युम् अच्छामाद् अस्तं वृषगणा अयासुः ।
आङ्गूष्य1म् पवमानं सखायो दुर्मर्षं साकम् प्र वदन्ति वाणम् ॥

9.097.09

स रंहत उरुगायस्य जूतिं वृथा क्रीळन्तम् मिमते न गावः ।
परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर् ददृशे नक्तम् ऋज्रः ॥

9.097.10

इन्दुर् वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन् मदाय ।
हन्ति रक्षो बाधते पर्य् अरातीर् वरिवः कृण्वन् वृजनस्य राजा ॥

9.097.11

अध धारया मध्वा पृचानस् तिरो रोम पवते अद्रिदुग्धः ।
इन्दुर् इन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय ॥

9.097.12

अभि प्रियाणि पवते पुनानो देवो देवान् स्वेन रसेन पृञ्चन् ।
इन्दुर् धर्माण्य् ऋतुथा वसानो दश क्षिपो अव्यत सानो अव्ये ॥

9.097.13

वृषा शोणो अभिकनिक्रदद् गा नदयन्न् एति पृथिवीम् उत द्याम् ।
इन्द्रस्येव वग्नुर् आ शृण्व आजौ प्रचेतयन्न् अर्षति वाचम् एमाम् ॥

9.097.14

रसाय्यः पयसा पिन्वमान ईरयन्न् एषि मधुमन्तम् अंशुम् ।
पवमानः संतनिम् एषि कृण्वन्न् इन्द्राय सोम परिषिच्यमानः ॥

9.097.15

एवा पवस्व मदिरो मदायोदग्राभस्य नमयन् वधस्नैः ।
परि वर्णम् भरमाणो रुशन्तं गव्युर् नो अर्ष परि सोम सिक्तः ॥

9.097.16

जुष्ट्वी न इन्दो सुपथा सुगान्य् उरौ पवस्व वरिवांसि कृण्वन् ।
घनेव विष्वग् दुरितानि विघ्नन्न् अधि ष्णुना धन्व सानो अव्ये ॥

9.097.17

वृष्टिं नो अर्ष दिव्यां जिगत्नुम् इळावतीं शंगयीं जीरदानुम् ।
स्तुकेव वीता धन्वा विचिन्वन् बन्धूँर् इमाँ अवराँ इन्दो वायून् ॥

9.097.18

ग्रन्थिं न वि ष्य ग्रथितम् पुनान ऋजुं च गातुं वृजिनं च सोम ।
अत्यो न क्रदो हरिर् आ सृजानो मर्यो देव धन्व पस्त्यावान् ॥

9.097.19

जुष्टो मदाय देवतात इन्दो परि ष्णुना धन्व सानो अव्ये ।
सहस्रधारः सुरभिर् अदब्धः परि स्रव वाजसातौ नृषह्ये ॥

9.097.20

अरश्मानो ये ऽरथा अयुक्ता अत्यासो न ससृजानास आजौ ।
एते शुक्रासो धन्वन्ति सोमा देवासस् ताँ उप याता पिबध्यै ॥

9.097.21

एवा न इन्दो अभि देववीतिम् परि स्रव नभो अर्णश् चमूषु ।
सोमो अस्मभ्यं काम्यम् बृहन्तं रयिं ददातु वीरवन्तम् उग्रम् ॥

9.097.22

तक्षद् यदी मनसो वेनतो वाग् ज्येष्ठस्य वा धर्मणि क्षोर् अनीके ।
आद् ईम् आयन् वरम् आ वावशाना जुष्टम् पतिं कलशे गाव इन्दुम् ॥

9.097.23

प्र दानुदो दिव्यो दानुपिन्व ऋतम् ऋताय पवते सुमेधाः ।
धर्मा भुवद् वृजन्यस्य राजा प्र रश्मिभिर् दशभिर् भारि भूम ॥

9.097.24

पवित्रेभिः पवमानो नृचक्षा राजा देवानाम् उत मर्त्यानाम् ।
द्विता भुवद् रयिपती रयीणाम् ऋतम् भरत् सुभृतं चार्व् इन्दुः ॥

9.097.25

अर्वाँ इव श्रवसे सातिम् अच्छेन्द्रस्य वायोर् अभि वीतिम् अर्ष ।
स नः सहस्रा बृहतीर् इषो दा भवा सोम द्रविणोवित् पुनानः ॥

9.097.26

देवाव्यो नः परिषिच्यमानाः क्षयं सुवीरं धन्वन्तु सोमाः ।
आयज्यवः सुमतिं विश्ववारा होतारो न दिवियजो मन्द्रतमाः ॥

9.097.27

एवा देव देवताते पवस्व महे सोम प्सरसे देवपानः ।
महश् चिद् धि ष्मसि हिताः समर्ये कृधि सुष्ठाने रोदसी पुनानः ॥

9.097.28

अश्वो न क्रदो वृषभिर् युजानः सिंहो न भीमो मनसो जवीयान् ।
अर्वाचीनैः पथिभिर् ये रजिष्ठा आ पवस्व सौमनसं न इन्दो ॥

9.097.29

शतं धारा देवजाता असृग्रन् सहस्रम् एनाः कवयो मृजन्ति ।
इन्दो सनित्रं दिव आ पवस्व पुरएतासि महतो धनस्य ॥

9.097.30

दिवो न सर्गा अससृग्रम् अह्नां राजा न मित्रम् प्र मिनाति धीरः ।
पितुर् न पुत्रः क्रतुभिर् यतान आ पवस्व विशे अस्या अजीतिम् ॥

9.097.31

प्र ते धारा मधुमतीर् असृग्रन् वारान् यत् पूतो अत्येष्य् अव्यान् ।
पवमान पवसे धाम गोनां जज्ञानः सूर्यम् अपिन्वो अर्कैः ॥

9.097.32

कनिक्रदद् अनु पन्थाम् ऋतस्य शुक्रो वि भास्य् अमृतस्य धाम ।
स इन्द्राय पवसे मत्सरवान् हिन्वानो वाचम् मतिभिः कवीनाम् ॥

9.097.33

दिव्यः सुपर्णो ऽव चक्षि सोम पिन्वन् धाराः कर्मणा देववीतौ ।
एन्दो विश कलशं सोमधानं क्रन्दन्न् इहि सूर्यस्योप रश्मिम् ॥

9.097.34

तिस्रो वाच ईरयति प्र वह्निर् ऋतस्य धीतिम् ब्रह्मणो मनीषाम् ।
गावो यन्ति गोपतिम् पृच्छमानाः सोमं यन्ति मतयो वावशानाः ॥

9.097.35

सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः ।
सोमः सुतः पूयते अज्यमानः सोमे अर्कास् त्रिष्टुभः सं नवन्ते ॥

9.097.36

एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति ।
इन्द्रम् आ विश बृहता रवेण वर्धया वाचं जनया पुरंधिम् ॥

9.097.37

आ जागृविर् विप्र ऋता मतीनां सोमः पुनानो असदच् चमूषु ।
सपन्ति यम् मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः ॥

9.097.38

स पुनान उप सूरे न धातोभे अप्रा रोदसी वि ष आवः ।
प्रिया चिद् यस्य प्रियसास ऊती स तू धनं कारिणे न प्र यंसत् ॥

9.097.39

स वर्धिता वर्धनः पूयमानः सोमो मीढ्वाँ अभि नो ज्योतिषावीत् ।
येना नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिम् उष्णन् ॥

9.097.40

अक्रान् समुद्रः प्रथमे विधर्मञ् जनयन् प्रजा भुवनस्य राजा ।
वृषा पवित्रे अधि सानो अव्ये बृहत् सोमो वावृधे सुवान इन्दुः ॥

9.097.41

महत् तत् सोमो महिषश् चकारापां यद् गर्भो ऽवृणीत देवान् ।
अदधाद् इन्द्रे पवमान ओजो ऽजनयत् सूर्ये ज्योतिर् इन्दुः ॥

9.097.42

मत्सि वायुम् इष्टये राधसे च मत्सि मित्रावरुणा पूयमानः ।
मत्सि शर्धो मारुतम् मत्सि देवान् मत्सि द्यावापृथिवी देव सोम ॥

9.097.43

ऋजुः पवस्व वृजिनस्य हन्तापामीवाम् बाधमानो मृधश् च ।
अभिश्रीणन् पयः पयसाभि गोनाम् इन्द्रस्य त्वं तव वयं सखायः ॥

9.097.44

मध्वः सूदम् पवस्व वस्व उत्सं वीरं च न आ पवस्वा भगं च ।
स्वदस्वेन्द्राय पवमान इन्दो रयिं च न आ पवस्वा समुद्रात् ॥

9.097.45

सोमः सुतो धारयात्यो न हित्वा सिन्धुर् न निम्नम् अभि वाज्य् अक्षाः ।
आ योनिं वन्यम् असदत् पुनानः सम् इन्दुर् गोभिर् असरत् सम् अद्भिः ॥

9.097.46

एष स्य ते पवत इन्द्र सोमश् चमूषु धीर उशते तवस्वान् ।
स्वर्चक्षा रथिरः सत्यशुष्मः कामो न यो देवयताम् असर्जि ॥

9.097.47

एष प्रत्नेन वयसा पुनानस् तिरो वर्पांसि दुहितुर् दधानः ।
वसानः शर्म त्रिवरूथम् अप्सु होतेव याति समनेषु रेभन् ॥

9.097.48

नू नस् त्वं रथिरो देव सोम परि स्रव चम्वोः पूयमानः ।
अप्सु स्वादिष्ठो मधुमाँ ऋतावा देवो न यः सविता सत्यमन्मा ॥

9.097.49

अभि वायुं वीत्य् अर्षा गृणानो3 ऽभि मित्रावरुणा पूयमानः ।
अभी नरं धीजवनं रथेष्ठाम् अभीन्द्रं वृषणं वज्रबाहुम् ॥

9.097.50

अभि वस्त्रा सुवसनान्य् अर्षाभि धेनूः सुदुघाः पूयमानः ।
अभि चन्द्रा भर्तवे नो हिरण्याभ्य् अश्वान् रथिनो देव सोम ॥

9.097.51

अभी नो अर्ष दिव्या वसून्य् अभि विश्वा पार्थिवा पूयमानः ।
अभि येन द्रविणम् अश्नवामाभ्य् आर्षेयं जमदग्निवन् नः ॥

9.097.52

अया पवा पवस्वैना वसूनि माँश्चत्व इन्दो सरसि प्र धन्व ।
ब्रध्नश् चिद् अत्र वातो न जूतः पुरुमेधश् चित् तकवे नरं दात् ॥

9.097.53

उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे ।
षष्टिं सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद् रणाय ॥

9.097.54

महीमे अस्य वृषनाम शूषे माँश्चत्वे वा पृशने वा वधत्रे ।
अस्वापयन् निगुतः स्नेहयच् चापामित्राँ अपाचितो अचेतः ॥

9.097.55

सं त्री पवित्रा विततान्य् एष्य् अन्व् एकं धावसि पूयमानः ।
असि भगो असि दात्रस्य दातासि मघवा मघवद्भ्य इन्दो ॥

9.097.56

एष विश्ववित् पवते मनीषी सोमो विश्वस्य भुवनस्य राजा ।
द्रप्साँ ईरयन् विदथेष्व् इन्दुर् वि वारम् अव्यं समयाति याति ॥

9.097.57

इन्दुं रिहन्ति महिषा अदब्धाः पदे रेभन्ति कवयो न गृध्राः ।
हिन्वन्ति धीरा दशभिः क्षिपाभिः सम् अञ्जते रूपम् अपां रसेन ॥

9.097.58

त्वया वयम् पवमानेन सोम भरे कृतं वि चिनुयाम शश्वत् ।
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc