ऋग्वेद · अध्याय 9.096
प्र सेनानीः शूरो अग्रे रथानां गव्यन्न् एति हर्षते अस्य सेना ।
भद्रान् कृण्वन्न् इन्द्रहवान् सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते ॥
सम् अस्य हरिं हरयो मृजन्त्य् अश्वहयैर् अनिशितं नमोभिः ।
आ तिष्ठति रथम् इन्द्रस्य सखा विद्वाँ एना सुमतिं यात्य् अच्छ ॥
स नो देव देवताते पवस्व महे सोम प्सरस इन्द्रपानः ।
कृण्वन्न् अपो वर्षयन् द्याम् उतेमाम् उरोर् आ नो वरिवस्या पुनानः ॥
अजीतये ऽहतये पवस्व स्वस्तये सर्वतातये बृहते ।
तद् उशन्ति विश्व इमे सखायस् तद् अहं वश्मि पवमान सोम ॥
सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः ।
जनिताग्नेर् जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ॥
ब्रह्मा देवानाम् पदवीः कवीनाम् ऋषिर् विप्राणाम् महिषो मृगाणाम् ।
श्येनो गृध्राणां स्वधितिर् वनानां सोमः पवित्रम् अत्य् एति रेभन् ॥
प्रावीविपद् वाच ऊर्मिं न सिन्धुर् गिरः सोमः पवमानो मनीषाः ।
अन्तः पश्यन् वृजनेमावराण्य् आ तिष्ठति वृषभो गोषु जानन् ॥
स मत्सरः पृत्सु वन्वन्न् अवातः सहस्ररेता अभि वाजम् अर्ष ।
इन्द्रायेन्दो पवमानो मनीष्य् अ1ंशोर् ऊर्मिम् ईरय गा इषण्यन् ॥
परि प्रियः कलशे देववात इन्द्राय सोमो रण्यो मदाय ।
सहस्रधारः शतवाज इन्दुर् वाजी न सप्तिः समना जिगाति ॥
स पूर्व्यो वसुविज् जायमानो मृजानो अप्सु दुदुहानो अद्रौ ।
अभिशस्तिपा भुवनस्य राजा विदद् गातुम् ब्रह्मणे पूयमानः ॥
त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः ।
वन्वन्न् अवातः परिधीँर् अपोर्णु वीरेभिर् अश्वैर् मघवा भवा नः ॥
यथापवथा मनवे वयोधा अमित्रहा वरिवोविद् धविष्मान् ।
एवा पवस्व द्रविणं दधान इन्द्रे सं तिष्ठ जनयायुधानि ॥
पवस्व सोम मधुमाँ ऋतावापो वसानो अधि सानो अव्ये ।
अव द्रोणानि घृतवान्ति सीद मदिन्तमो मत्सर इन्द्रपानः ॥
वृष्टिं दिवः शतधारः पवस्व सहस्रसा वाजयुर् देववीतौ ।
सं सिन्धुभिः कलशे वावशानः सम् उस्रियाभिः प्रतिरन् न आयुः ॥
एष स्य सोमो मतिभिः पुनानो ऽत्यो न वाजी तरतीद् अरातीः ।
पयो न दुग्धम् अदितेर् इषिरम् उर्व् इव गातुः सुयमो न वोळ्हा ॥
स्वायुधः सोतृभिः पूयमानो ऽभ्य् अर्ष गुह्यं चारु नाम ।
अभि वाजं सप्तिर् इव श्रवस्याभि वायुम् अभि गा देव सोम ॥
शिशुं जज्ञानं हर्यतम् मृजन्ति शुम्भन्ति वह्निम् मरुतो गणेन ।
कविर् गीर्भिः काव्येना कविः सन् सोमः पवित्रम् अत्य् एति रेभन् ॥
ऋषिमना य ऋषिकृत् स्वर्षाः सहस्रणीथः पदवीः कवीनाम् ।
तृतीयं धाम महिषः सिषासन् सोमो विराजम् अनु राजति ष्टुप् ॥
चमूषच् छ्येनः शकुनो विभृत्वा गोविन्दुर् द्रप्स आयुधानि बिभ्रत् ।
अपाम् ऊर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति ॥
मर्यो न शुभ्रस् तन्वम् मृजानो ऽत्यो न सृत्वा सनये धनानाम् ।
वृषेव यूथा परि कोशम् अर्षन् कनिक्रदच् चम्वो3र् आ विवेश ॥
पवस्वेन्दो पवमानो महोभिः कनिक्रदत् परि वाराण्य् अर्ष ।
क्रीळञ् चम्वो3र् आ विश पूयमान इन्द्रं ते रसो मदिरो ममत्तु ॥
प्रास्य धारा बृहतीर् असृग्रन्न् अक्तो गोभिः कलशाँ आ विवेश ।
साम कृण्वन् सामन्यो विपश्चित् क्रन्दन्न् एत्य् अभि सख्युर् न जामिम् ॥
अपघ्नन्न् एषि पवमान शत्रून् प्रियां न जारो अभिगीत इन्दुः ।
सीदन् वनेषु शकुनो न पत्वा सोमः पुनानः कलशेषु सत्ता ॥
आ ते रुचः पवमानस्य सोम योषेव यन्ति सुदुघाः सुधाराः ।
हरिर् आनीतः पुरुवारो अप्स्व् अचिक्रदत् कलशे देवयूनाम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0